Sloka
stringlengths 17
276
| Class
stringclasses 3
values |
---|---|
यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ | Vidur Niti Slokas |
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ | Vidur Niti Slokas |
यावत्स्वस्थो ह्यय देहः तावन्मृत्युश्च दूरतः। तावदात्महितं कुर्यात् प्रणान्ते किं करिष्यति॥ | Chanakya Slokas |
ईश्वरस्य स्मरणं प्रभाते उत्थाय अवश्यं कर्तंव्यम् ॥ | sanskrit-slogan |
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता। पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संगतिम् ॥ | Chanakya Slokas |
सा भार्या या सुचिदक्षा सा भार्या या पतिव्रता। सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ | Chanakya Slokas |
सहायबन्धना ह्यर्थाः सहायाश्चर्थबन्धनाः। अन्योऽन्यबन्धनावेतौ विनान्योऽन्यं न सिध्यतः॥ | Vidur Niti Slokas |
एकेनापि सुवर्ण पुष्पितेन सुगन्धिता। वसितं तद्वनं सर्वं सुपुत्रेण कुलं यथा॥ | Chanakya Slokas |
उपदेशो हि मूर्खणां प्रकोपाय न शान्तये ॥ | sanskrit-slogan |
मित्रं भुड्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥ | Vidur Niti Slokas |
आत्मायत्तौ वृद्धिविनाशौ ॥ | sanskrit-slogan |
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः। भाण्डारी च प्रतिहारी सप्तसुप्तान् प्रबोधयेत॥ | Chanakya Slokas |
सर्वो हि मन्यते लोक आत्मानं निरूपद्रवम् ॥ | sanskrit-slogan |
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये। भावे हि विद्यते देवस्तस्माद् भावो हि कारणम्॥ | Chanakya Slokas |
अति रूपेण वै सीता चातिगर्वेण रावणः। अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्॥ | Chanakya Slokas |
यदभावि न तदभावी भावि चेन्न तदन्यथा ॥ | sanskrit-slogan |
ज्ञात्वापि दोषमेव करोति लोकः ॥ | sanskrit-slogan |
हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते। शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः॥ | Chanakya Slokas |
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम्। न तृष्णया परो व्याधिर्न च धर्मो दयापरः॥ | Chanakya Slokas |
अनुसूयुः कृतप्रज्ञः शोभनान्याचरन् सदा। नकृच्छं महदाप्नोति सर्वत्र च विरोचते ॥ | Vidur Niti Slokas |
उद्यमे नावसीदति ॥ | sanskrit-slogan |
संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ | Vidur Niti Slokas |
हस्तस्य भूषणं दानम् ॥ | sanskrit-slogan |
मौनं सर्वार्थसाधनम् ॥ | sanskrit-slogan |
त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः॥ | Chanakya Slokas |
मृदुर्हि परिभूयते ॥ | sanskrit-slogan |
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ | Vidur Niti Slokas |
जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्। नरकेषु पतत्येकः एको याति परां गतिम्॥ | Chanakya Slokas |
यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ | Chanakya Slokas |
अर्थेषणा न व्यसनेषु गण्यते ॥ | sanskrit-slogan |
विनयाद् याति पात्रताम् ॥ | sanskrit-slogan |
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्वेतानि सणि। दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥ | Vidur Niti Slokas |
भाग्यं फ़लति सर्वत्र न विद्या न च पौरुषम् ॥ | sanskrit-slogan |
वरयेत्कुलजां प्राज्ञो निरूपामपि कन्यकाम्। रूपवतीं न नीचस्य विवाहः सदृशे कुले ॥ | Chanakya Slokas |
अनुशासनेन एव मनुष्यः महान् भवति ॥ | sanskrit-slogan |
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीवर्यति ॥ | Vidur Niti Slokas |
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ | sanskrit-slogan |
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः। मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः॥ | Chanakya Slokas |
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्रयरोग दुःखानि बन्धनव्यसनानि च॥ | Chanakya Slokas |
प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु। स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्॥ | Chanakya Slokas |
बुद्धयो भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॥ | Vidur Niti Slokas |
महते योऽपकाराय नरस्य प्रभवेत्ररः। तेन वैरं समासज्य दूरस्थोऽमीति नाश्चसेत् ॥ | Vidur Niti Slokas |
समवेक्ष्येह धर्माथौं सम्भारान् योऽधिगच्छति। स वै सम्भृतसम्भारः सततं सुखमेधते ॥ | Vidur Niti Slokas |
गुणो भूषयते रूपं शीलं भूषयते कुलम्। सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ | Chanakya Slokas |
वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ॥ | sanskrit-slogan |
को हि भारः समर्थानां किं दूर व्यवसायिनाम्। को विदेश सुविद्यानां को परः प्रियवादिनम्॥ | Chanakya Slokas |
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः। चतुर्भिगमन क्षेत्रं पञ्चभिर्बहुभि रणम्॥ | Chanakya Slokas |
ईर्ष्यी घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ | Vidur Niti Slokas |
सत्यभाषणं पुण्यं वर्तते ॥ | sanskrit-slogan |
दुरनुबध्नं कार्य साधयेत् ॥ | sanskrit-slogan |
पंच त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ | Vidur Niti Slokas |
दरिद्रता धीरयता विराजते कुवस्त्रता स्वच्छतया विराजते। कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते॥ | Chanakya Slokas |
उद्योगसम्पन्नं समुपैति लक्ष्मीः ॥ | sanskrit-slogan |
यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिसेवते। ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव तत् ॥ | Chanakya Slokas |
आक्रु श्मानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ | Vidur Niti Slokas |
निषेवते प्रशस्तानी निन्दितानी न सेवते । अनास्तिकः श्रद्धान एतत् पण्डितलक्षणम् ॥ | Vidur Niti Slokas |
जरा रुपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। क्रोधः श्रियं शिलमनार्यसेवा हृियं कामः सर्वमेवाभिमानः॥ | Vidur Niti Slokas |
स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे। दानप्रसङ्गो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च॥ | Chanakya Slokas |
बहूनां चैव सत्तवानां रिपुञ्जयः । वर्षान्धाराधरो मेधस्तृणैरपि निवार्यते॥ | Chanakya Slokas |
कष्टं च खलु मूर्खत्वं कष्ट च खलु यौवनम्। कष्टात्कष्टतरं चैव परगृहेनिवासनम् ॥ | Chanakya Slokas |
एकमेवाद्वितीयम तद् यद् राजन्नावबुध्यसे। सत्यम स्वर्गस्य सोपानम् पारवारस्य नैरिव ॥ | Vidur Niti Slokas |
सहायः समसुखदुःखः ॥ | sanskrit-slogan |
विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्। विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते॥ | Chanakya Slokas |
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। स हेतु सर्वविद्यानां धर्मस्य च धनस्य च॥ | Chanakya Slokas |
उपसर्गेऽन्यच्रके च दुर्भिक्षे च भयावहे। असाधुजनसम्पर्के पलायति स जीवति॥ | Chanakya Slokas |
नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति। मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति॥ | Chanakya Slokas |
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः। न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत् ॥ | Chanakya Slokas |
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ | Vidur Niti Slokas |
दाने तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा॥ | Chanakya Slokas |
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥ | Chanakya Slokas |
मित्रसंग्रहेण बलं सम्पद्यते ॥ | sanskrit-slogan |
न सुखाल्लभ्यते सुखम् ॥ | sanskrit-slogan |
एतदर्थ कुलीनानां नृपाः कुर्वन्ति संग्रहम्। आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥ | Chanakya Slokas |
वृध्दा न ते ये न वदन्ति धर्मम् ॥ | sanskrit-slogan |
यदतप्तं प्रणमति न तत् सन्तापयन्त्यपि। यश्च स्वयं नतं दारुं न तत् सत्रमयन्त्यपि ॥ | Vidur Niti Slokas |
यः कार्यं न पश्यति सोऽन्धः ॥ | sanskrit-slogan |
चत्वारि राज्ञा तु महाबलेना वर्ज्यान्याहु: पण्डितस्तानि विद्यात् । अल्पप्रज्ञै: सह मन्त्रं न कुर्यात दीर्घसुत्रै रभसैश्चारणैश्च ॥ | Vidur Niti Slokas |
सुखस्य मूलं धर्मः ॥ | sanskrit-slogan |
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ | Vidur Niti Slokas |
आलस्योपहता विद्या परहस्तं गतं धनम्। अल्पबीजहतं क्षेत्रं हतं सैन्यमनायकम्॥ | Chanakya Slokas |
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ | Vidur Niti Slokas |
ते पुत्रा ये पितुर्भक्ताः ॥ | sanskrit-slogan |
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः॥ | Chanakya Slokas |
षडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ | Vidur Niti Slokas |
बलवान हीनेन विग्रहणीयात् ॥ | sanskrit-slogan |
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रुपं कुलं वृत्तेन रक्ष्यते ॥ | Vidur Niti Slokas |
अजीर्णे भेषजं वारि जीर्णे तद् बलप्रदम्। भोजने चामृतं वारि भोजनान्तें विषप्रदम्॥ | Chanakya Slokas |
सदाचारः सर्वेषां धर्माणां श्रेष्ठः अस्ति ॥ | sanskrit-slogan |
विद्वान सर्वत्र पूज्यते ॥ | sanskrit-slogan |
दुःखादुद्विजते जन्तुः सुखं सर्वाय रुच्यते ॥ | sanskrit-slogan |
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छनित षण्ढं पतिमिव स्त्रियः ॥ | Vidur Niti Slokas |
समाने शोभते प्रीती राज्ञि सेवा च शोभते। वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ | Chanakya Slokas |
हेतुरत्र भविष्यति ॥ | sanskrit-slogan |
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ | Vidur Niti Slokas |
यस्मै देवाः प्रयच्छन्ति पुरुषाय प्रराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ | Vidur Niti Slokas |
दानं होमं दैवतं मङ्गलानि प्रायश्चित्तान् विविधान् लोकवादान् । एतानि यः कुरुत नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ | Vidur Niti Slokas |
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्। कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ | Chanakya Slokas |
दुःखेनासाद्यते पात्रम् ॥ | sanskrit-slogan |
अलब्धलाभो नालसस्य ॥ | sanskrit-slogan |
अस्माभिः सदा चरित्रं रक्षणीयम् ॥ | sanskrit-slogan |
End of preview. Expand
in Dataset Viewer.
README.md exists but content is empty.
Use the Edit dataset card button to edit it.
- Downloads last month
- 52