id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
1581
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A1%E0%A4%A8%E0%A5%8D-%E0%A4%A8%E0%A4%A6%E0%A5%80
जार्डन्-नदी
जार्दन नदी पश्‍चिम एशिया महाद्वीपे एका नदी अस्‍ति. विदेशीयाः नद्यः भूगोलसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1582
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B5%E0%A4%B2%E0%A5%80%20%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A4%83%20%E0%A4%9A
नद्यावली विस्तारः च
६,७६२ km - एमजान नदी, ब्रसिल् - दक्षिण अमेरिका ६,६९० km - नील नदी, अफ्रीका ६,३८० km - चांग जियांग, चीन ६,२७० km - मिसिसिपी नदी-मिसूरी नदी, संयुक्त राज्य अमेरिका ५,५५० km - येनिसे नदी-अंगारा नदी, मंगोलिया / रूस, (५,८७० km) ५,४१० km - ओब नदी-इर्तिश नदी, उत्तर एशिया ४,४१० km - अमूर, पूर्व एशिया ४,३८० km - कौंगो नदी, अफ्रीका, (or ४,६७० km, the source of the river is disputed.) ४,३५० km - Huang He (Yellow), चीन, (or ५,४६३ km) ४,४२५ km - Mekong, दक्षिण पूर्व एशिया ४,२६० km - Lena, रशिया (उत्तर Asia) ४,२४० km - Mackenzie, Canada ४,१८४ km - Niger, अफ्रीका, ४,१६७ km (४,०३० km) (४,२०० km) ३,९९८ km - परणा, ब्रसिल् - दक्षिण अमेरिका, (४,५०० km) (३,३०० km) (३,७०० km) ३,७१७ km - Murray-Darling, Australia, (३,७५० km) (२,५७४ km) ३,६८५ km - Volga, रशिया (Europe) (३,५३० km without the delta) ३,५९६ km - Shatt al-Arab-Euphrates, Southwest Asia ३,३७९ km - Purus, Brazil, (२,९४८ km) (३,२१० km) ३,२३९ km - Madeira, ब्रसिल् - दक्षिण अमेरिका ३,१९९ km - São Francisco, ब्रसिल् - दक्षिण अमेरिका, (२,९०० km) (३,१६१ km) ३,१८४ km - Yukon River, Canada / संयुक्त राज्य् अमेरिका ३,१८० km - Indus, भारत ३,०५८ km - Saint Lawrence, [[संयुक्त राज्य] अमेरिका]] / Canada ३,०५७ km - Rio Grande, [[संयुक्त राज्य] अमेरिका]] / Mexico, (२ ८७० km) (२ ८९६ km) २,८९६ km - Brahmaputra, भारत २,८५८ km - Danube, यूरोप २,६५० km - Zambezi, Southern Africa २,५१० km - Ganges River, भारत / Bangladesh २,१२९ km - Xi Jiang, People's Republic of China ३,०७८ km - Syr Darya, Central Asia, (२ २१२ km) ३,०६० km - Salween River, South-East Asia, (२ ६०० km) २,९८९ km - Lower Tunguska, रशिया (North Asia) २,७५० km - Tocantins, Brazil, (२,४१६ km) (२,६४० km) २,६५० km - Vilyuy, रशिया (उत्तर Asia) २,६२० km - Amu Darya, Central Asia २,५४९ km - Paraguay, दक्षिण अमेरिका २,५७० km - Nelson-Saskatchewan, Canada २,५३४ km - Ural, रशिया / Kazakhstan, (२,४२८ km) २,५१३ km - Kolyma, रशिया (उत्तर Asia), (२,२१९ km) २,५०० km - Orinoco, Venezuela / Colombia, (२ १४० km) (३ ००० km) २,४९० km - Upper Ob, रशिया (उत्तर Asia) २,४९० km - Shabele, Ethiopia / Somalia २,४५० km - Ishim, Kazakhstan / रशिया २,३४८ km - Arkansas, संयुक्त राज्यs अमेरिका २,३३३ km - Colorado, [[संयुक्त राज्य] अमेरिका]] / Mexico, (२,२५० km) २,३०० km - Ubangi, अफ्रीका २,२९२ km - Olenyok, रशिया (उत्तर Asia) २,२८५ km - Dnieper, यूरोप २,२७३ km - Aldan, रशिया (उत्तर Asia) २,२५० km - Columbia, Canada / संयुक्त राज्यs अमेरिका, (१,९५३ km) २,२५० km - Rio Negro, दक्षिण अमेरिका २,१८८ km - Red, संयुक्त राज्यs अमेरिका २,१५३ km - Kasai, Angola / अफ्रीका २,१५० km - Irrawaddy, Myanmar, (१,८८० km) २,१०० km - Tarim, चीन १,९७८ km - Vitim, रशिया (उत्तर Asia) १,९५० km - Tigris, Turkey / Iraq १,९२७ km - Songhua, चीन १,८७० km - Don, रशिया (यूरोप) १,८६५ km - Stony Tunguska, रशिया (उत्तर Asia) १,८६० km - Orange, Southern Africa १,८०९ km - Pechora, रशिया (यूरोप) १,८०५ km - Kama, रशिया (यूरोप) १,८०० km - Limpopo, अफ्रीका १,७२६ km - Indigirka, रशिया (उत्तर Asia) १,६७० km - Snake, संयुक्त राज्य अमेरिका १,६४१ km - Senegal, West अफ्रीका १,६०० km - Blue Nile, Ethiopia / Sudan १,६०० km - Churchill, Canada १,६०० km - Khatanga, रशिया (North Asia) १,६०० km - Volta, West अफ्रीका १,६०० km - Okavango, Southern Africa १,५९४ km - Platte, संयुक्त राज्यA अमेरिका १,५९१ km - Tobol, Kazakhstan / रशिया १,५६९ km - Ohio, संयुक्त राज्य् अमेरिका १,५५० km - Magdalena, Colombia १,५३२ km - Han, चीन १,५०० km - Lomami, Democratic Republic of the Congo १,५०० km - Oka, रशिया (यूरोप) १,४९० km - Pecos, संयुक्त राज्यC अमेरिका १,४८० km - Upper Yenisei, Mongolia / रशिया १,४६५ km - Godavari, भारत १,४३८ km - Colorado, संयुक्त राज्य अमेरिका १,४२० km - Belaya, रशिया (यूरोप) १,४११ km - Dniestr, Ukraine / Moldova, (१,३५२ km) १,४०० km - Benue, Cameroon / Nigeria १,४०० km - Ili, People's Republic of China / Kazakhstan १,३७६ km - Yamuna, भारत १,३७० km - Sutlej, भारत / Pakistan १,३७० km - Vyatka, रशिया (यूरोप) १,३६८ km - Fraser, Canada १,३५२ km - Brazos, संयुक्त राज्यू अमेरिका १,३४५ km - Liao, चीन १,३२३ km - Yalong, चीन १,३२० km - Olekma, रशिया (उत्तर Asia) १,३२० km - Rhine, यूरोप १,३१० km - Northern Dvina, रशिया (यूरोप) १,३०० km - Krishna, भारत १,२८९ km - Narmada, भारत १,२७१ km - Ottawa, Canada १,२४२ km - Zeya, रशिया (East Asia) १,२३६ km - Upper Mississippi, संयुक्त राज्यt अमेरिका १,२३१ km - Athabasca, Canada १,२२३ km - Canadian, संयुक्त राज्यं अमेरिका १,२२० km - North Saskatchewan, Canada १,२१० km - Vaal, South Africa १,१९० km - Nen, चीन १,१७५ km - Green, संयुक्त राज्यn अमेरिका १,१५९ km - Elbe, Czech Republic / Germany, (१ १६५ km) १,१५८ km - Chindwin, Myanmar १,१३० km - Helmand, Afghanistan / Iran १,१३० km - Vychegda, रशिया (यूरोप) १,१२० km - Anadyr, रशिया (उत्तर Asia) १,११५ km - Liard, Canada १,१०२ km - White, संयुक्त राज्य अमेरिका १,०९४ km - Gambia, West अफ्रीका १,०८६ km - Chenab, भारत / Pakistan १,०८० km - Yellowstone, संयुक्त राज्य अमेरिका १,०७८ km - Donets, Ukraine / रशिया, (१ ०५३ km) १,०५० km - Kuskokwim, संयुक्त राज्या अमेरिका १,०४९ km - Tennessee, [[संयुक्त राज्य[ अमेरिका]] १,०२० km - Daugava, यूरोप १,०१५ km - Gila, संयुक्त राज्य् अमेरिका १,०१४ km - Vistula, Poland १,०१२ km - Loire, France १,०१० km - Khoper, रशिया (यूरोप) १,००६ km - Tagus, Spain / Portugal नद्यः चित्रं योजनीयम् सारमञ्जूषा योजनीया he:נהר#הנהרות הארוכים בעולם
1598
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AE%20%E0%A4%A8%E0%A4%BE%E0%A4%A5%20%E0%A4%95%E0%A4%BE%E0%A4%95
राम नाथ काक
राम नाथ काक (१९१७-१९९३) एक: विख्‍यात लेखक: आसीत्‌. जम्मू-काश्मीरराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः लेखकाः चित्रं योजनीयम्
1599
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%B6%20%E0%A4%95%E0%A4%BE%E0%A4%95
अविनाश काक
अविनाशकाक:''' (१९४४ - ) एक: विख्‍यातः सङ्गणक-शास्‍त्रस्य विज्ञानी अस्‍ति | Bibliography Avi Kak's articles on Google Scholar Avi Kak's Personal HomepageDigital Picture Processing (1982)Principles of Computerized Tomographic Imaging (1988)Programming With Objects: A Comparative Presentation of Object Oriented Programming with C++ and Java'' (2003) विज्ञानसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः अन्यभाषायां सारमञ्जूषा जम्मूकाश्मीरराज्यस्य जनाः वैज्ञानिकाः
1911
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%B2%E0%A4%BF%E0%A4%AA%E0%A4%BF%E0%A4%83
ब्राह्मीलिपिः
ब्राह्मीलिपिः(Brāhmī Script) भारतदेशस्य एका पुरातनी लिपि: अस्ति। इदं प्राचीन सरस्वतीलिपे: परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च लिपिनां माता अस्ति। सम्राट अशोक: एतत् लिपौ प्राकृतभाषाम् अलिखत्। प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च – नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् । तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०) विवरणम् रेखात्मिका इयं लिपिः तदनन्तरकालीनलिपीनां उत्पादिका आसीत् । प्रायः लेखकानां, लेखनसामग्रीनां च विभिन्नतायाः हेतोः, ब्राह्मीलिपितः अनेकाः लिपयः सम्भूताः । एवं यदा विभिन्नाः लिपयः समभूवन् तदा क्रमेण ब्राह्मीलिपिः विस्मृता । क्रिस्तोः अनन्तरं चतुर्दशे शतमाने फिरोज् षा तुगलख्, विशिष्टम् अशोककालीनं शासनस्तम्भद्वयं देहलीनगरं प्रति आनयितवान् । भारतीयान् पण्डितान् अन्यांश्च विदुषः तच्छासनं पठितुमसूचयत् । किन्तु न कोऽप्यपारयत् ब्राह्मीलिप्या निबध्दं शासनं पठितुम् । तदनन्तरकाले क्रिस्तोः अनन्तरं षोडशे शतमाने तच्छासनं पाठितुम् अक्बरोऽपि प्रयत्नमकरोत् । किन्तु सोऽपि निष्फलो जातः । क्रिस्तोः अनन्तरं १७८४ तमे वर्षे सर् विलियं जोन्स् महाशयः भारतीयसंस्कृतेः अध्ययनार्थं रायल् एषियाटिक् सोसैटि इत्याखां संस्थां प्रतिष्ठाप्य संस्थाद्वारा भारतीयलिपीनां, शासनानां, नाणकानां विविधभारतीयग्रन्थानां च अध्ययने प्रावर्तत । एतत्कारणात् अनेके विद्वांसः भारतीयेतिहासाध्ययने आसक्ताः अभूवन् । जेम्स् प्रिन्सेप् इत्याख्यः प्रथमवारं क्रिस्तोः अनन्तरं १८३६ तमे वर्षे बहुशोधनं कृत्वा ब्राह्मीलिप्याः सर्वानपि वर्णान् अपठत् । तदनन्तरं भारतीयलिपिशास्त्राध्ययने बहवः विद्वांसः आसक्ताः शोधनम् आरेभिरे । भारतीयलिपीनां मूलस्रोतः अक्षराणां विन्यासादिकं सूक्ष्मतया अवलोक्य इदानीन्तनभारतीयलिपीनां मूलस्रोतः ब्राह्मीलिपिः एव इति विद्वांसः निश्चितवन्तः । दक्षिणभारते विद्यमानाः लिपयः कन्नड, तेलगु, नन्दिनागरी, मलयालम्, तिगळारी, ग्रन्थलिपिः सिंहली इत्याद्याः लिपयः गुप्तकालीनब्राह्मीलिप्या सम्बन्धं वहन्ति । उत्तरभारते उपलभ्यमानाः शारदा, नेवारी, भोटिलिपिः, टाकरी, मैथिली, देवनागरी इत्याद्याः अपि शुङ्गकालीनब्राह्म्या, कुशानकालीनब्राह्म्या सह सम्बन्धं वहन्ति । एतासु लिपिषु काश्चन इदानीमपि उपयुज्यन्ते, काश्चन लिपयः इदानीं नैव उपयुज्यन्ते । किन्तु एताः सर्वाः अपि पूर्वम् उपज्यन्ते स्म इति पाण्डुपत्राणां (Manuscript) अवलोकनेन ज्ञायते । एवं भारतस्य प्राचीनब्राह्मीलिपेः अर्वाचीनाः लिपयः उत्पन्नाः इति सुस्पष्टम् । व्यञ्जनवर्णाः स्वराः संख्याः ब्राह्मीलिपेः यूनिकोड सङ्केतः बाह्यानुवन्धः ISCII — the coding scheme specifically designed to represent Indic scripts. सरस्वती लिपेः परिचयः दक्षिण जम्बूद्वीपस्य लिपयः सिद्धम लिपिः लिपयः
1988
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8C%E0%A4%A1%E0%A4%97%E0%A4%A2
चित्तौडगढ
चित्तौडगढ (, ) राजस्थानराज्ये स्थितस्य चित्तौडगढमण्डलस्य केन्द्रम् अस्ति । इदं नगरं प्राक् महाराणा प्रतापसिंहस्य मेवाडराज्यस्य राजधानी आसीत्‌ इत्यतः अद्यापि अस्य नगरस्य प्रसिद्धिः वर्तते । नगरमिदं राणा कुम्भः, महाराणा प्रतापसिंहः, राणा सङ्ग्रामसिंहः, कुम्भस्य पत्नी तथा भगवतः कृष्णस्य परमभक्ता मीराबाई इत्यादीनां महतां वासस्थानम् आसीत् इति कश्चन विशेषः । इतिहासः भारतीय-इतिहासम् अवलोकयामश्चेत् ज्ञायते यत् अनेकवारम् अत्र युद्धम् अभवत् इति । अनेकानां 'राजपूत'वीराणां स्थानमेतत् । अत्यन्तं बलिष्ठदुर्गः पर्वतप्रदेशे अस्ति । भारतस्य इतिहासे चित्तौडगढदुर्गस्य किञ्चन वैशिष्ट्यं, महत्वं च अस्ति । १७२८ तमे वर्षे प्रसिद्धः 'रजपूत'वीरः बप्परावलनामकः राजा एतं दुर्गं निर्मापितवान् । 'रजपूत'राजानः शौर्येण, पराक्रमेण, प्रगतिपरैः कार्यैः, संस्कृतिपरत्वेन च ख्याताः आसन् । बप्परावलनामकेन राज्ञा निर्मितम् एतत् नगरं मुघलराज्ञैः ध्व्स्तीकृतम् । विश्वविख्यातायाः सुन्दर्याः पद्मिन्याः पतिः राजा भीमसिंहः अत्रत्यः एव । कृष्णभक्त्यै समग्रे देशे ख्यातया मीरया निर्मितः कृष्णालयः अत्रैव अस्ति । तस्याः पतिना महाराणाकुम्भेन निर्मापितम् एकं मन्दिरम् अपि अत्र अस्ति । अत्रत्येषु स्थलेषु अतिविशिष्टं स्थलम् अस्ति विजयस्तम्भः । मालवराजा मोहम्मदखिलजी चित्तौडगढप्रान्तस्य वशीकरणाय गत्वा पराज्यं पाप्य प्रतिगतः । तस्यैव विजयस्य स्मरणार्थम् एषः विजयस्तम्भः निर्मितः । १४४० तमे क्रिस्ताब्दे राणा कुम्भः एतं स्तम्भं निर्मापितवान् । एषः १२२ पादोन्नतः अस्ति । स्थलविशेषाः राणा कुम्भः मोहम्मदखिलजीनामकं यवनराजानं पराजित्य नवस्तरीयं विजयस्तम्भं निर्मापितवान् । एषः स्तम्भः प्रवासिनाम् अत्याकर्षकः स्थलविशेषः अस्ति । चित्तौडगढदुर्गः मुख्यं वीक्षणीयस्थलम् अस्ति । चित्तौडगढदुर्गं गन्तुं विशालः मार्गः अस्ति । १२ शतके निर्मितः द्वितीयः दुर्गः अस्ति । त्रिकूटपर्वते स्थितः अयं दुर्गः २५० पादोन्नतः अस्ति । अत्र ९९ वीक्षकस्थानानि ३० पादोन्नते स्थिते अट्टे सन्ति । 'रङ्गमहल्', 'गजमहल्' इत्यादयः प्रासादाः अत्र सन्ति । अत्र शिलासु सुन्दराणि चित्राणि निर्मितानि सन्ति । अस्मिन् दुर्गे जैनमुनीनां देवालयाः अपि सन्ति । महाराणाकुम्भराजगृहं, 'पद्मिनीमहल्', 'मीराबाई महल्', कीर्तिस्तम्भः, जटाशङ्करदेवालयः, गिरिधरमन्दिरम् अत्र द्रष्टव्यानि स्थलानि सन्ति । १४५८ तः १४६८ वर्षावधौ निर्मितः विजयस्तम्भः ३७ मीटर् उन्नतः (१२१ पादमितः) अस्ति । स्तम्भस्य बाह्यभागे रमणीयः हिन्दूशिल्पालङ्कारः अस्ति । द्वादशशतके निर्मितः कीर्तिस्तम्भः २२ मीटर् उन्नतः अस्ति । केनचित् जैनवणिजा अयं स्तम्भः जैनतीर्थङ्कराय आदिनाथाय अर्पितोऽस्ति । अत्र समीपे मृगोद्यानं, भीमलतासरोवरः, नीलकण्ठमहादेवजैनदेवालयः, कालीमातादेवालयः इत्यादयः सन्ति । नगरेऽस्मिन् विद्यमानं चेतकस्मारकं दर्शनीयम्‌ अस्ति । गडसीसरोवरः क्रिस्ताब्दे १३४० तमे वर्षे निर्मितः अस्ति । कृतकसरोवरस्यास्य मध्ये निर्मितः जलमण्डपः सरोवरस्य सौन्दर्यं वर्धयति । पार्श्वे एकः वस्तुसङ्ग्रहालयः अस्ति । सरोवरे नौकाविहारः राजस्थानप्रवासविभागेन कल्पितः अस्ति । अत्र अनेकानि सुन्दरभवनानि सन्ति । तेषु १८०० तमे वर्षे निर्मितं पटवरभवनं, १८२५ तमे वर्षे निर्मितं सालीं सिंहभवनं च उत्कृष्टशिल्पकलायाः उदाहरणम् अस्ति । अत्र वालुकापर्वतेषु उष्ट्रारोहणं कृत्वा आनन्दमनुभवितुम् उत्तमः अवसरः अस्ति । व्यवस्थाः 'सहाराटूरिस्ट', 'थारसफारी' इत्यादयः प्रवासव्यवस्थापकसंस्थाः सन्ति । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति । धूमशकटयानमार्गः चित्तौडनामकं धूमशकटयाननिस्थानं नगरस्य मध्यभागात् द्वादश कि.मी दूरेऽस्ति । वाहनमार्गः उदयपुर-तः ८० कि.मी, अजमेरतः ५०० कि.मी, जयपुर-तः ६१८ कि.मी, उदयपुर-तः ६६३ कि.मी, बीकानेर-तः ३२८ कि.मी, देहली-तः ८९७ कि.मी, जोधपुर-तः २९० कि.मी दूरे अस्ति इदं नगरम् । एतेभ्यः नगरेभ्यः 'बस्'यानानि सन्ति । राजस्थानस्य प्रमुखनगराणि
2009
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%83
चन्द्रगुप्तः
चन्द्रगुप्त: (३१०-३३५) भारतस्य गुप्तसाम्राज्यस्य सम्राट् आसीत्‌। सः घटोत्कचस्य सुतः आसीत्। सः अयोध्याप्रयागमगधादीनां नगराणाम् अधिपतिः आसीत्‌। सः महाराजाधिराजः इति अभिधानम् अलभत। तेन वर्धिता श्रीः तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्। गुप्तसम्राट् सन् सः गङ्गाप्रदेशे निवसद्भिः बहुभिः प्रमुखैः कुटुम्बैः सह सन्धिकरणेन प्रसिद्धः जातः। जीवनम् चन्द्रगुप्तः घटोत्कचस्य पुत्रः । तस्य पूर्वजैः 'महाराज'पदवी प्राप्ता आसीत् । प्रथमचन्द्रगुप्तः शिलाशासनेषु 'महाराजाधिराजः' इति निर्दिष्टः इत्येतत् तस्मात् कुटुम्बे दृष्टं भाग्यं सूच्यते । दिग्विजयद्वारा विवाहप्रस्तावानां द्वारा च तेन बहवः प्रदेशाः जिताः । तेन लिच्छवीराजकुमारी कुमारदेवी परिणीता। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यं समुद्रगुप्तस्य विजयेषु उपाकरोत्। प्रयाग(अलहाबाद्)-साकेत(औध्)-मगध(दक्षिणबिहार्)जनपदानि गुप्तैः शास्यते इति उल्लेखः दृश्यते । गुप्त वंश चन्द्रगुप्तः भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
2010
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%83
समुद्रगुप्तः
समुद्रगुप्त: (३३५-३८०) भारतस्य सम्राट् आसीत्‌। सः चन्द्रगुप्तस्य पुत्रः आसीत्। तस्य अन्ये अग्रजाः अपि आसन् । परन्तु स एव पित्रा राज्यस्य रक्षणार्थं नियुक्त:। साम्राज्यम् सः महान् राजा आसीत्। सः प्रथमम् अहिच्छत्रस्य राजानम् अच्युतम् अजयत्। ततः सः दक्षिणभारतस्य नृपान् जितवान्। ते नृपा: गुप्तनृपाणाम् अधिपत्यम् अङ्गीकृत्य उपायनानि समर्पितवन्त: । तस्य सेना काञ्चीपुरीपर्यन्तं सञ्चलनम् अकरोत्। पश्चिमायाम् दिशि शककुशानादयः तस्य अधिपत्यम् अङ्गीकृतवन्तः। तस्य विजयानाम् उल्लेख: प्रयागे एकस्मिन् हरिशेनलिखितशिलाक्षरे वर्णित: अस्ति। योगदानम् सः अष्टविधाः सुवर्णनिष्काः विदधाति स्म। सः सीकाकरणे कुशलता कुशानराज्ञः गृहीतवान्। सः कलाम् विद्याम् च अरक्षत्। सः सङ्गीतविद्वान् आसीत्। सः वीणां वादयति स्म। तस्य सभायाम् अनेके विद्वांसः कवयः च आसन्। सः सनातनधार्मिकः आसीत् परन्तु सः गयायाम् बौधमठस्य निर्माणं कर्तुम् अनुमतवान् आसीत् । अस्मिन् कर्मणि अन्यधर्मान् प्रति तस्य सहिष्णुता दृश्यते। रामगुप्त चन्द्रगुप्तःII विक्रमादित्यः गुप्त-साम्राज्यम् समुद्रगुप्तः समुद्रगुप्तः चित्रं योजनीयम्‎ बाह्यानुबन्धः योजनीयः‎ विषयः वर्धनीयः सारमञ्जूषा योजनीया‎ संस्कृतकवयः चतुर्थशताब्द्याः कवयः
2036
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%A8%20%E0%A4%AA%E0%A4%A8%E0%A5%8D%E0%A4%A4
सुमित्रानन्दन पन्त
सुमित्रा नन्दन पन्त(Sumitra Nandan Pantha) हिन्दी भाषाया: महान लेखक: आसीत्‌. पन्त, सुमित्रा नन्दन चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १९०० जननम्
2037
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%88%E0%A4%A5%E0%A4%BF%E0%A4%B2%E0%A5%80%E0%A4%B6%E0%A4%B0%E0%A4%A3%E0%A4%83%20%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%83
मैथिलीशरणः गुप्तः
मैथिलि शरण गुप्त(Maithili Sharana Gupta) हिन्दी भाषाया: महान लेखक: आसीत्‌. पश्‍य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १८८६ जननम्
2038
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80%20%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE
महादेवी वर्मा
महादेवी वर्मा ( ) (, ) हिन्दीभाषायाः प्रतिभावातीषु कवयित्रीषु अन्यतमा । हिन्दीसाहित्यस्य छायावादियुगस्य प्रमुखेषु चतुर्षु स्तम्भेषु प्रमुखस्तम्भत्वेन तस्याः गणना भवति । आधुनिकहिन्दीभाषायाः सर्वाधिकरचनात्मकशक्यत्याः उत्तमा कवयित्री सा आधुनिकमीरात्वेन प्रसिद्धा अस्ति । सूर्यकान्त-इत्याख्येन एकेन कविना तस्यै “हिन्दीभाषायाः विशालमन्दिरस्य सरस्वत्याः” उपाधिः प्रदत्तः । महादेव्या स्वतन्त्रतायाः पूर्वतनस्य भारतस्यापि दर्शनं कृतम् आसीत्, तथा च स्वातन्त्र्योत्तरस्य भारतस्यापि सा साक्षिणी आसीत् । सा तासु कवियित्रीषु अन्यतमा आसीत्, याभिः व्यापकक्षेत्रे कार्यं कृत्वा भारतस्य आन्तरिकः हाहाकारः, जनानां रुदनं च अनुभूतम् । अतः व्यापकक्षेत्रे कार्यं कुर्वती सा अन्धकारं दूरीकर्तुं प्रयत्नम् अकरोत् । न केवलं तस्याः काव्यानि, अपि तु तस्याः सामाजोन्नत्याः कार्याणि, महिलाजागृत्याः कार्याणि च जनान् प्रभावयन्ति । सा स्वमनसः पीडां सलीलं, शृङ्गारेण च उपास्थापयत् । अतः दीपशिखा-इत्याख्ये पुस्तके पाठकाः, समीक्षकाः च अतिप्रभाविताः अभूवन् । सा 'खडी बोली'-इत्याख्यायां हिन्दीकवितायां कोमलशब्दावल्याः विकासम् अकरोत् । सा भाषा तावता केवलं ब्रजभाषात्वेन एव प्रसिद्धा आसीत् । कोमलशब्दानां चयनार्थं तया समयानुकूलाः संस्कृतशब्दाः, वङ्गभाषायाः च अध्ययनं कृतम् । ततः चिताः शब्दाः हिन्द्यानुकूलरीत्या उपयुक्ताः । सा सङ्गीतज्ञा आसीत्, अतः तस्याः गीतेषु नादस्य, सौन्दर्यस्य, व्यञ्जनाशैल्याः च दुर्लभाः प्रयोगाः प्राप्यन्ते । यतो हि तया अध्यापनमाध्यमेन स्वकार्यजीविकायाः आरम्भः कृतः, अतः अन्तिमसमयं यावत् सा प्रयागमहिलाविद्यापीठस्य प्रधानाचार्यात्वेन सेवाम् अकरोत् । यद्यपि तस्याः बालविवाहः अभवत्, तथापि सा अविवाहितावत् जीवनम् अयापयत् । प्रतिभावती कवयित्री, गद्यलेखिका महादेवी वर्मा साहित्यस्य, सङ्गीतस्य उत्कृष्टा विदुषी आसीत् । तेन सह सा कुशलिनी चित्रकर्त्री, सर्जनात्मकानुवादकर्त्री चासीत् । सा हिन्दीसाहित्यस्य महत्त्वपूर्णपुरस्कारं प्राप्तवती । भारतस्य साहित्यफलके महादेव्याः नाम ध्रुवतारकवत् देदीप्यमानम् अस्ति । विगतस्य अब्दस्य सर्वाधिकलोकप्रिया महिलासाहित्यकारत्वेन तस्याः बहुमानम् अभवत् । २००७ तमं वर्षं तस्याः जन्मशताब्दीवर्षत्वेन जनैः आचरितम् । जन्म, परिवारश्च १९०७ तमस्य वर्षस्य मार्च-मासस्य षड्विंशतितमे (२६/३/१९०७) दिनाङ्के प्रातः ८ वादने भारतस्य उत्तरप्रदेशराज्ये फरुखाबादमण्डले अभवत् । तस्याः परिवारे प्रायः २०० वर्षानन्तरम् प्रप्रथमवारं पुत्र्याः जन्म अभवत् । अतः गृहजनाः हर्षेण मुग्धाः अभूवन् । सा गृहस्य महादेवी अस्ति इति सर्वैः मन्यते स्म । अतः पुत्र्याः नामकरणं महादेवी कृतम् । तस्याः पितुः नाम गोविन्द प्रसाद वर्मा आसीत् । सः भागलपुरस्य महाविद्यालये प्राध्यापकः आसीत् । तस्याः मातुः नाम हेमरानी देवी आसीत् । हेमरानी देवी अतिधर्मपरायणा, कर्मनिष्ठा, भावसम्पन्ना, शाकाहारी महिला आसीत् । सा स्वविवाहस्य समये पितृगृहात् सिंहासनासीनस्य भगवतः मूर्तिम् आनयत् । सा प्रतिदिनम् अनेकाः होराः यावत् पूजनकार्ये निरता भवति स्म । सा रामायणस्य, गीतायाः, विनयपत्रिकायाः च नित्यं पारायणं करोति स्म । सा सङ्गीतक्षेत्रे अपि अत्यधिकरुचिं धरते स्म । तस्याः पत्युः गोविन्दस्य कानिच क्रियाकलापानि हेमरानीदेव्याः विपरीतानि आसन् । सः नास्तिकः, आखेटने अनुरक्तः, भ्रमणेच्छुकः, मांसाहारी च आसीत् । महादेव्याः मानसबन्धुषु सुमित्रानन्दन पन्त-महोदयस्य, सूर्यकान्त त्रिपाठी-महोदयस्य च गणना भवितुं शक्नोति । सा आजीवनं रक्षाबन्धनपर्वणि तौ रक्षासूत्रं बध्नाति स्म । सूर्यकान्तस्य अपर नाम निराला इति आसीत् । सः तस्याः अत्यधिकः निकटवर्ती आसीत् । शिक्षणम् महादेव्याः शिक्षणम् इन्दौर-नगरस्य 'मिशन'-विद्यालये आरभत । सा संस्कृतस्य, आङ्ग्लभाषायाः, सङ्गीतस्य, चित्रकलायाः च शिक्षणं गृहे एव प्राप्तवती । यतः तस्याः गृहे अध्यापकाः पाठयितुं गच्छन्ति स्म । महादेवी स्वविवाहे व्यस्ता अभवत्, अतः मध्ये सा किमपि अध्ययनं कर्तुं न शक्तवती । परन्तु विवाहोत्तरं १९१९ तमे वर्षे महादेवी इलाहाबाद-नगरस्य 'क्रास्थवेट'-महाविद्यालयं प्रविष्टा । महाविद्यालयस्य छात्रावासे एव सा निवसति स्म । १९२१ तमे वर्षे महादेवी अष्टमकक्षायां आप्रान्तं प्रप्रथमं स्थानं प्राप्तवती । तस्मिन्नेव काले तया स्वकाव्यरचनयाः आरम्भः कृतः । यदा सा सप्त वर्षीया आसीत्, तदारभ्य एव सा कविताः लिखतिस्म । १९२५ वर्षपर्यन्तं यदा सा 'मैट्रिक'कक्षायाम् उत्तीर्णा अभवत्, तदा सफलकवयित्रीत्वेन सा प्रसिद्धा जाता आसीत् (हो चुकी थी) । विभिन्नासु पत्रिकासु तस्याः कविताः प्रकाशिताः भवन्ति स्म । महाविद्यालये सुभद्रा कुमारी चौहान इत्यनया सह तस्याः घनिष्ठसख्यम् आसीत् । सुभद्रा कुमारी चौहान एकदा महादेव्याः हस्तं गृहीत्वा सखिषु कर्षयित्वा अनयत्, तत्र च अवदत्, “शृण्वन्तु, एषा कविताम् अपि लिखति” इति । १९३२ तमे वर्षे यावत् सा इलाहाबादविश्वविद्यालयात् संस्कृतविषयं स्वीकृत्य एम.ए-कक्षायाम् उत्तर्णा अभवत्, तावत् तस्याः द्वौ कवितासङ्ग्रहौ नीहार, रश्मि च प्रकाशितौ जातौ आस्ताम् (हो चुके थे) । वैवाहिकजीवनम् १९१६ तमे वर्षे तस्याः विवाहः बरेलीमण्डलस्य समीपं 'नबाव गंज'-नामकस्य स्थलस्य निवासिना स्वरूप-नामकेन युवकेन सह अभवत् । तस्य सम्पूर्णं नाम स्वरूप नारायण वर्मा आसीत् । विवाहकाले सा दशम्यां कक्षायाम् अभ्यासं कुर्वती आसीत् । विवाहोत्तरं स्वरूपः 'इण्टर'-कक्षायै लखनऊ-वैद्यकीयमहाविद्यालयस्य छात्रावासे निवसति स्म । महादेवी इलाहाबाद-नगरस्य 'क्रास्थवेट'-महाविद्यालयस्य छात्रावासे निवसति स्म । महादेवी विवाहितजीवनात् विरक्ता आसीत् । विरक्ततायाः कारणं तु स्पष्टं नास्ति, परन्तु यत् किमपि कारणं स्यात् स्वरूप नारायण वर्मा इत्यनेन सह वैमनस्यं तु नासीत् इति स्पष्टम् अस्ति । तयोः सम्बन्धे माधुर्यम् आसीत् । उभौ कदाचित् पत्राचारेणापि वार्तालापं कुरुतः स्म । यदा कदा स्वरूपः इलाहाबाद-नगरं गच्छति स्म, तदा महादेवीं निश्चयेन प्राप्यते स्म । यद्यपि महादेवी स्वरूपम् पौनःपुन्येन कथयति स्म यत्, "भवान् द्वितीयविवाहं करोतु" इति, तथापि स्वरूपः कदापि द्वितीयविवाहं नाकरोत् । महादेव्याः जीवनं संन्यासिनीवत् आसीत् । सा आजीवनं श्वेतवस्त्राणि अधरत् । भूमौ शयनम् अकरोत्, कदापि दर्पणं नापश्यच्च । १९६६ तमे वर्षे पत्युः मृत्योः अनन्तरम् अपि सा इलाहाबाद-नगरे एव स्थायिनिवासम् अकरोत् । वृत्तिः महादेव्याः कार्यक्षेत्रं लेखनं, सम्पादनम्, अध्यापनं च आसीत् । इलाहाबाद-नगरस्य प्रयागमहिलाविद्यापीठस्य विकासकार्ये तस्याः महत्त्वपूर्णं योगदानम् अस्ति । तत् कार्यं महिलाशिक्षणक्षेत्रस्य उत्कृष्टं कार्यम् आसीत् । ततः सा प्रधानाचार्यात्वेन, कुलपतित्वेन च दायित्वम् अवहत् । १९३२ तमे वर्षे सा महिलानां स्थित्योल्लेखाय ‘चाँद’-नामिकायाः पत्रिकायाः सम्पादनं करोति स्म । १९३०, १९३२, १९३४, १९३६ वर्षेषु क्रमेण नीहार-कवितासङ्ग्रहः, रश्मि-कवितासङ्ग्रहः, नीरजा-कवितासङ्ग्रहः, सान्ध्यगीत-कवितासङ्ग्रहः च प्रकाशिताः अभूवन् । १९३९ तमे वर्षे तेषां चतुर्णां काव्यसङ्ग्रहाणां सङ्कलनं कृत्वा बृहदाकारकः 'यामा'-इत्याख्यः ग्रन्थः प्रकाशितः अभवत् । सा गद्य-काव्य-शिक्षण-चित्रकलाक्षेत्रेषु रचनात्मकानि कार्याणि अकरोत् । तस्याः अष्टादशसु (१८) रचनासु 'मेरा परिवार', 'स्मृति की रेखाएं', 'पथ के साथी', 'शृंखला की कड़ियाँ', 'अतीत के चलचित्र' प्रमुखाः रचनाः सन्ति । १९५५ तमे वर्षे महादेवी इलाहाबाद-नगरे 'साहित्यकार संसद-संस्थायाः स्थापनाम् अकरोत् । इलाचन्द्र जोशी-महोदयस्य सहयोगेन साहित्यकार-इत्याख्यस्य पत्रस्य सम्पादनस्य दायित्वम् ऊढम् । 'साहित्यकार' इति संस्थायाः मुखपत्रम् आसीत् । सा भारतीयमहिलानां कविसम्मेलनानि आरब्धवती । तस्याः प्रयासैः भारतगणराज्यस्य प्रप्रथमम् अखिलभारतवर्षीयकविसम्मेलनं १९३३ तमस्य वर्षस्य अप्रैल-मासस्य पञ्चदशे (१५) दिनाङ्के अभवत् । तस्य सम्मेलनस्य अध्यक्षपदं सुभद्रा कुमारी चौहान अवहत् । तस्य सम्मेलनस्य आयोजनं प्रयागमहिलाविद्यापीठे जातम् आसीत् । महादेवी वर्मा हिन्दीसाहित्ये रहस्यवादस्य प्रवर्तिका अस्ति इति साहित्यक्षेत्रे मन्यते । महादेवी बौद्धधर्मेण अतिप्रभाविता आसीत् । महात्मा गान्धी-महाभागस्य प्रभावेण सा जनसेवायाः कार्यं प्रारब्धवती । तया झूसी-पत्तने जनसेवायाः कार्यं प्रारब्धम् । तया भारतीयस्वतन्त्रतासङ्ग्रामेऽपि सक्रियतया भागः ऊढः । १९३६ तमे वर्षे नैनीताल-पत्तनात् पञ्चविंशति (२५) कि.मी. दूरे रामगढ-नामकस्य लघुविभागस्य उमागढ-नामके ग्रामे महादेव्या गृहस्य निर्माणं कारितम् आसीत् । तस्य गृहस्य नाम 'मीरामन्दिरम्' आसीत् । यावत् सा तस्मिन् ग्रामे न्यवसत्, तावत् सा ग्रामे शिक्षणकार्यं, ग्रामविकासकार्यं चाकरोत् । तस्याः विशेषध्यानं महिलाशिक्षणे, महिलाऽऽर्थिकस्वनिर्भरतायां च आसीत् । अद्य तत् गृहं महादेवीसाहित्यसङ्ग्रहालयत्वेन प्रसिद्धम् अस्ति । विकासस्य शृङ्खलायाः मुख्यभागः स्त्रीमुक्तिः अस्ति इति तस्याः दृढविश्वासः आसीत् । अतः तया साहसेन, दृढतया च स्त्रीविरुद्धानां सामाजिकप्रथानां निन्दाः कृताः । तस्याः तत् कार्यं महिलामुक्तिवादत्वेन प्रसिद्धम् अभवत् । महिलानां शिक्षणस्य, विकासस्य च कार्याणि, जनसेवायाः कार्याणि च तया कृतानि, अतः जनाः तां "समाजनिवर्तिका" इति कथयन्ति स्म । तस्याः गद्यसाहित्ये पद्यसाहित्ये वा कुत्रापि पीडायाः, वेदनायाः दर्शनं न भवति, अपि तु गहनरोषस्य, परिवर्तनस्य अदम्याकाङ्क्षायाः, विकासं प्रति सहजाकर्षणस्य च गूढदर्शनं भवति । मृत्युः महादेवी वर्मा स्वजीवनस्य अधिकांशं समयम् उत्तरप्रदेशराज्यस्य इलाहाबाद-नगरे अयापयत् । १९८७ तमस्य वर्षस्य सितम्बर-मासस्य एकादशे (११) दिनाङ्के रात्रौ ९:३० वादने इलाहाबाद-नगरे तस्याः देहान्तः अभवत् । प्रमुखाः रचनाः महादेवी कवयित्री तु आसीदेव, परन्तु तेन सह उत्कृष्टा गद्यलेखिका अपि आसीत् । अधः तस्याः रचनाः उल्लिखिताः सन्ति । कवितासङ्ग्रहः महादेव्याः अन्यानि अनेकानि काव्यसङ्कलानि अपि प्रकाशितानि सन्ति, येषु उपर्युक्ताभ्यः रचनाभ्यः चितानि गीतानि सन्ति । यथा - आत्मिका, परिक्रमा, सन्धिनी (१९६५), यामा (१९३६), गीतपर्व, दीपगीत, स्मारिका, नीलाम्बरा, आधुनिक कवि महादेवी आदीनि । महादेव्याः गद्यसाहित्यम् रेखाचित्रम् अतीत के चलचित्र (१९४१), स्मृति की रेखाएं (१९४३) च संस्मरणम् पथ के साथी (१९५६), मेरा परिवार (१९७२, (१९८३)) चितानां भाषणानां सङ्कलनम् सम्भाषण (१९७४) निबन्धः शृंखला की कड़ियाँ (१९४२), विवेचनात्मक गद्य (१९४२), साहित्यकार की आस्था तथा अन्य निबंध (१९६२), संकल्पिता (१९६९) ललितनिबन्धः क्षणदा (१९५६) कथाः गिल्लू संस्मरणानां, रेखाचित्रां, निबन्धानां च सङ्ग्रहः हिमालय-इत्याख्यं पुस्तकम् (१९६३), अन्येषु निबन्धेषु सङ्कलिताः स्मारिकाः, स्मृतिचित्राणि, सम्भाषणानि, दृष्टिबोधाः अपि सन्ति । हिन्दीभाषायाः प्रचाराय तया प्रयागे ‘साहित्यकारसंसदः’, रङ्गवाणीनाट्यसंस्थायाः च आरम्भः कृतः । महादेव्याः बालसाहित्यम् महादेवी वर्मा अनेकाः बालकविताः अलिखत्, तासां सङ्कलनानि अपि प्रकाशितानि अभूवन् । ठाकुरजी भोले हैं आज खरीदेंगे हम ज्वाला समालोचना 'आधुनिक गीत'काव्ये महादेव्याः स्थानं सर्वोपरि वर्तते । तस्याः कवितासु प्रेम्णः, पीडायाः, भावानां च तीव्रता आसीत् । अतः भाव-भाषा-सङ्गीतरूपिणी त्रिवेणी तस्याः गीतेषु प्रवाहिता भवति । महादेव्याः गीतेषु विद्यमानाः वेदनाः, प्रणयानुभूतयः, करुणाः, रहस्यवादाः च काव्यानुरागिणः आकर्षयन्ति । परन्तु रचनानाम् आलोचकानां मतानि सामान्यपाठकेषु दिग्भ्रान्तिं जनयन्ति । यतो हि केषाञ्चन आलोचकानां मतम् अस्ति यत्, महादेव्याः काव्यानि वैयक्तिकपीडायाः बोधं कारयति इति । तस्याः पीडा, वेदना, करुणा कृत्रिमा अस्ति इति । आचार्य रामचन्द्र शुक्ल सदृशैः मूर्धन्यालोचकैः तस्याः वेदनायाः, अनुभूतीनां च सत्यतायाः विषये प्रश्नाः उत्पादिताः — । अपरत्र आचार्य हजारी प्रसाद द्विवेदी सदृशैः समीक्षकैः तस्याः काव्येषु समष्टिपरकत्वं मन्यते । ‘दीप’ (नीहार), मधुर मधुर मेरे दीपक जल (नीरजा), मोम सा तन गल चुका है इत्यादिषु कवितासु महादेव्याः ‘आत्मभक्षी दीप’-अभिप्रायः एव साक्षात् भवति इति शोमेर-नामकः आलोचकः कथयति । सत्यप्रकाश मिश्र छायावादेन सह सन्बन्धितानां शास्त्रमीमांसायाः विषये कथयति यत्, ― “महादेव्याः वैदुष्ययुक्ताः तार्किकताः, तस्याः उदाहरणानि च छायावादस्य, रहस्यवादस्य च रचनाः पूर्ववर्तिकाव्यरचनाभ्यः विशिष्टाः सन्ति । तथा च ताः रचनाः अनेकेषु आयामेषु मानवीयसंवेदनाम् उपस्थापयन्ति । सत्यप्रकाशस्य स्पष्टमतम् अस्ति यत्, "महादेव्याः न कस्यापि उपरि भावसाम्यं, भावोपहरणम् इत्यादिविषये आरोपाः कृताः, अपि तु तया केवलं छायावादस्य स्वभावः, चरित्रं, स्वरूपं, विशिष्टता च वर्णिता अस्ति" इति । प्रभाकर श्रोत्रिय सदृशाः मनीषिणः कथयन्ति यत्, ये तस्याः गणनां पीडायाः, निराशायाः कवयित्रीषु कुर्वन्ति, ते न जानन्ति यत्, सा पीडानुभवे समान्यजेनेभ्यः कियती संवेदनशीला अस्ति, यया जीवनस्य सत्यतायाः बोधः भवति । अत्र सत्यता अस्ति यत्, महादेव्याः काव्यसंसारः छायावादस्य परिधौ निहितः आसीत् । परन्तु तस्याः काव्यानि असम्पृक्तरीत्या दृश्यन्ते चेत्, महादेव्या सह अन्याय एव मन्यते । वङ्गप्रदेशस्य अकालस्य समये १९४३ तमे वर्षे तया एकं काव्यसङ्कलनं प्रकाशितम् । वङ्गसम्बद्धा “बंग भू शत वंदना”-नामिका कविता अपि रचिता । तथैव चीन-देशस्य आक्रमणस्य विराधाय तया 'हिमालय'-नामकः काव्यसङ्ग्रहः अरि सम्पादितः । सः सङ्ग्रहः तस्याः युगबोधस्य प्रमाणम् अस्ति । गद्यसाहित्यक्षेत्रे अपि तया अनेकानि कार्याणि कृतानि । तस्याः आलोचनात्मकं साहित्यं काव्यवदेव महत्त्वपूर्णम् अस्ति । तस्याः संस्मरणानि भारतीयजीवनस्य संस्मरणानां चित्राणि सन्ति । चित्रकलाक्षेत्रे तस्याः योगदानं न दृश्यते, परन्तु जलरङ्गानाम् उपयोगेन ‘वॉश’-शैल्या निर्मतानि तस्याः चित्राणि अस्पष्टरङ्गाः, लयपूर्णरेखाः च कलायाः सुन्दरोदाहरणत्वेन परिगण्यन्ते । सा रेखाचित्राणि अपि अरचयत् । पुरस्काराणि सा प्रशासनिक-अर्धप्रशासनिक-व्यक्तिगतसंस्थाभ्यः पुरस्काराणि प्रापत् । १९४३ तमे वर्षे सा ‘मङ्गलाप्रसादपारितोषिकम्’ एवं ‘भारतभारती’-पुरस्कारं प्रापत् । स्वाधीनताप्राप्त्यनन्तरं १९५२ तमे वर्षे सा उत्तरप्रदेशविधानपरिषदः सदस्या अभवत् । १९५६ तमे वर्षे भारतसरकारः तस्याः साहित्यिकसेवानिमित्तं तस्यै ‘पद्मभूषण’-उपाधिम् अयच्छत् । १९७९ तमे वर्षे साहित्य अकादमी-संस्थायाः सदस्यतां प्राप्तवती सा प्रप्रथममहिला आसीत् । १९८८ तमे वर्षे मरणोत्तरं पद्मविभूषण-उपाधिना भारतसरकारेण सा सम्मानिता अभवत् । १९६९ तमे वर्षे विक्रमविश्वविद्यालयः, १९७७ तमे वर्षे कुमाऊंविश्वविद्यालयः - नैनीताल, १९८० तमे वर्षे देहलीविश्वविद्यालयः, १९८४ तमे वर्षे बनारसहिन्दूविश्वविद्यालयः - वाराणसी च तस्यै डी.लिट-नामकेन उपाधिना सा सम्मानिता अभवत् । पुरा महादेवी वर्मा ‘नीरजा’-इत्याख्यायै रचनायै १९३४ तमे वर्षे ‘सक्सेरिया'-पुरस्कारं, १९४२ तमे वर्षे ‘स्मृति की रेखाएँ’-इत्याख्यायै रचनायै ‘द्विवेदी'-पदकं प्रापत् । ‘यामा’-नामकस्य काव्यस्य सङ्कलनाय अपि ज्ञानपीठपुरस्कारं प्रापत् । भारतस्य पञ्चाशति ५० यशस्विनीषु महिलासु सा अन्तर्भवति । १९६८ तमे वर्षे सुप्रसिद्धेन भारतीयचलच्चित्रनिदेशकेन मृणाल सेन इत्यनेन अपि तस्याः संस्मरणार्थं ‘वह चीनी भाई’ इत्याख्यायाः महादेव्याः रचनायाः आधारेण वङ्गभाषायाम् एकस्य चलच्चित्रस्य रचना कृता । तस्य चलच्चित्रस्य नाम 'नील आकाशेर नीचे' आसीत् । १९९१ तमस्य वर्षस्य सितम्बर-मासस्य षोडशे (१६) दिनाङ्के भारतस्य पत्राचारविभागः जयशङ्कर प्रसाद-महोदयेन सह तस्याः सम्माननं कुर्वन् २ रूप्यकाणां युगलचिटिकां प्राकाशयत् । महादेव्याः योगदानम् साहित्ये महादेव्याः आविर्भावः तदा अभवत्, यदा 'खडीबोली'-भाषायाः आकारः परिष्कृतः भवति स्म । सा हिन्दीकवितायै ब्रजभाषायानुकूलान् कोमलशब्दान् संस्कृतभाषायाः, वङ्गभाषायाः च अन्विष्टवती । छन्दोभिः तया गीतरचनाक्षेत्रे नावीन्यं सृष्टम् । भारतीयदर्शनस्य वेदनाः स्वीकृत्या सह जनानां सम्मुखम् उपस्थापिताः । एवं सा भाषा-साहित्य-दर्शनेषु अतिमहत्त्वपूर्णानि कार्याणि अकरोत् । तस्याः कार्याणि भविष्यत्कालस्य जनान् अपि प्रैरयत् । शचीरानी गुर्टू-नामिका कवयित्री अपि अङ्ग्यकरोत् यत्, महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति इति । तस्याः गीतरचनायाः शैली, भाषा अतिविशिष्टा आसीत् । तथा च तया याः रचनाः कृताः, ताः सर्वाः सरलाः आसन् । तेन सह प्रतीकानाम्, उदाहरणानां च तया सुन्दररीत्या, स्वाभाविकरीत्या च प्रयोगः कृतः, येन विषयवस्तु पाठकानां नेत्रयोः सम्मुखं चित्रवत् प्रत्यक्षं भवति । छायावादस्य काव्यानां समृद्धौ अपि तस्याः अमूल्यं योगदानं वर्तते । छायावादस्य काव्येषु प्रसादेन (गोविन्द प्रसाद) प्रकृतितत्त्वं स्थापितं, सूर्यकान्तेन (सूर्यकान्त त्रिपाठि निराला) तेषु काव्येष मुक्तछन्दः स्थापितं, सुमित्रानन्दनेन (सुमित्रनन्दन पन्त) च सुकोमलकलायै पोषकतत्वं स्थापितम् । छायावादस्य सम्पूर्णे कलेवरे (शरीरे) प्राणप्रतिष्ठायाः दायित्वं महादेव्या ऊढम् । भावात्मकतायाः एवम् अनुभूतेः च गहनता तस्याः काव्यानां प्रमुखविशेषता आसीत् । हृदयस्य सूक्ष्मातिसूक्ष्मभावानां तरङ्गान् सा मूर्त्तान् च कृत्वा तेषु अभिव्यञ्जनायाः छायावादिरसान् स्थापयति स्म । तस्याः सा कला एव तस्यै ‘महादेवी’त्वेन सम्मानं प्रयच्छति वे हिन्दी बोलने वालों में अपने भाषणों के लिए सम्मान के साथ याद की जाती हैं। उनके भाषण जन सामान्य के प्रति संवेदना और सच्चाई के प्रति दृढ़ता से परिपूर्ण होते थे। वे दिल्ली में १९८३ में आयोजित तीसरे विश्व हिन्दी सम्मेलन के समापन समारोह की मुख्य अतिथि थीं। इस अवसर पर दिये गये उनके भाषण में उनके इस गुण को देखा जा सकता है। यद्यपि महादेवी अनेकेषाम् उपन्यासानां, कथानां, नाटकानां च रचनाम् अकरोत्, तथापि तस्याः लेखाः, निबन्धाः, रेखाचित्राणि, संस्मरणाणि, भूमिकाः, ललितनिबन्धाः उत्कृष्टताः आसन् । यतो हि तेषु तया ये गद्याङ्काः लिखिताः, ते श्रेष्ठतमगद्याङ्काः मन्यन्ते । तेषु जीवनस्य सम्पूर्णवैविध्यं समाहितम् अस्ति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । तस्याः गद्येषु विद्यमानायाः वैचारिकपरिपक्वतायाः वर्तमानकाले अपि प्रासङ्गिकता अनुभूयते । समाजनिवर्तिका, नारस्वततन्त्रतायाः पक्षधरायाः तस्याः विचारेषु दृढतायाः, विकासस्य च अनुपमसामञ्जस्यं प्राप्यते । सामाजिकजीवनस्य गूढविषयान् बोधयन्ती तस्याः तीव्रदृष्टिः नारीजीवनस्य वैषम्यं, शोषणं च प्रप्रथमवारं समाजस्य सम्मुखम् अस्थापयत् । मौलिकरचनाकर्त्री सा सृजनात्मकम् अनुवादम् अपि करोति स्म । तस्याः प्रखरानुवादस्य दर्शनं ‘सप्तपर्णा’ (१९६०)-ग्रन्थे भवति । स्वस्याः सांस्कृतिकचेतनायाः आधारेण तया वेद-रामायण-थेरगाथा-अश्वघोष-कालिदास-भवभूति-जयदेवादीनां कृतीषु तादात्म्यं स्थापितम् । तथा च ३९ महत्त्वपूर्णान् अंशान् अवलम्ब्य हिन्दीभाषायाम् काव्यानुवादं कृत्वा प्रास्तौत् । ‘अपनी बात’-इत्याख्यां ६१ पृष्टात्मकं शोधपत्रं भारतीयमनीषा-संस्थायाम् उपस्थापितम् । तत् शोधपत्रं स्त्रीलेखनस्य, हिंदीभाषायाः समग्रचिन्तनस्य, ललितलेखनस्य च उपस्थापनं करोति । सम्बद्धाः लेखाः हिन्दीसाहित्यम् सुभद्रा कुमारी चौहान ज्ञानपीठपुरस्कारः भारतीयपत्रविभागः टिप्पणी    क.    छायावादस्य अन्ये त्रयः स्तम्भाः जयशङ्कर प्रसाद, सूर्यकान्त त्रिपाठी निराला, सुमित्रानन्दन पन्त च ।    ख.    हिन्दी के विशाल मंदिर की वीणापाणी, स्फूर्ति चेतना रचना की प्रतिमा कल्याणी ―निराला    ग.    सा ब्रजभाषामाध्यमेन हिन्दीभाषायै कोमलतायाः, मधुरतायाः च मार्गं प्रशस्तम् अकरोत् । तथा च व्यष्टिमूलकानां मानवतावादिकाव्यानां प्रतिस्थापनम् अकरोत् । तस्याः गीतानां नादः, सौन्दर्यं च व्यञ्जनाशैल्याः दुर्लभोदाहरणम् अस्ति । ―निशा सहगल    घ.    “वेदनायाः आधारेण तया हृदयस्य अनुभूतयः जनानां सम्मुखम् उपस्थापिताः । कुत्र वास्तविकानुभूतयः सन्ति ? कुत्र कल्पना अस्ति ? इति वक्तुं न शक्यते ।” ―आचार्य रामचन्द्र शुक्ल    ङ.    “महादेव्याः ‘मैं’ संदर्भः सर्वेभ्यः अस्ति ।” सत्यता इयम् अस्ति यत्, महादेव्याः रचनाः व्यष्टेः समष्टिं प्रति नयन्ति । तस्याः पीडाः, वेदनाः, करुणाः, दुखवादः च विश्वकल्याणस्य कामनायां निहितः अस्ति । ―हजारी प्रसाद द्विवेदी    च.    वस्तुतः महादेव्याः अनुभूतेः, सर्जनस्य केन्द्रम् अश्रूणि न, अपि तु अग्निः वर्तते । यत् दृश्यमत् अस्ति, तत् अन्तिमं सत्यं नास्ति, परन्तु यत् अदृश्यम् अस्ति, तत् मूलं प्रेरकं वा सत्यम् अस्ति । महादेवी अलिखत्, “आग हूँ जिससे ढुलकते बिन्दु हिमजल के” अनेन सर्वं स्पष्टं भवति । इतोऽपि अस्पष्टता अस्ति चेत्, "मेरे निश्वासों में बहती रहती झंझावात/आँसू में दिनरात प्रलय के घन करते उत्पात/कसक में विद्युत अंतर्धान। ये आँसू सहज सरल वेदना के आँसू नहीं हैं" इत्यस्मिन् तु निश्चयेन तस्याः भावाः सुस्पष्टाः प्रत्यक्षाः वा भवन्ति ―प्रभाकर श्रोत्रिय    छ.    महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति ―शचीरानी गुर्टू    ज.    महादेवी के प्रगीतों का रूप विन्यास, भाषा, प्रतीक-बिंब लय के स्तर पर अद्भुत उपलब्धि कहा जा सकता है। ―कृष्णदत्त पालीवाल    झ.    महादेव्या गद्येषु अपि कवितायाः मर्मस्य अनुभूतिः जनिता । ‘गद्यं कवीनां निकषं वदन्ति’ इत्येताम् उक्तिं सा चरितार्थितवती । विलक्षणता तु अस्ति यत् न तु सा उपन्यासम् अलिखत्, न तु कथां, नैव नाटकानि, तथापि श्रेष्ठगद्यकारत्वेन प्रसिद्धा अस्ति । तस्याः ग्रन्थलेखने रेखाचित्रस्य, संस्मरणस्य, यात्रावृत्तस्य च आभासः भवति । तथा च सम्पादकीयं, भूमिकाः, निबन्धाः, अभिभाषणानि इत्यादीनां माध्यमेन जीवनस्य वैविध्यस्य ज्ञानं भवति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । ―रामजी पांडेय    ञ.    महादेव्याः गद्यानि जीवनस्य गहनानि गद्यानि सन्ति । 1956 तमे वर्षे लिखानि तस्याः गद्यानि अद्य 50 वर्षानन्तरम् अपि प्रासङ्गिकानि सन्ति । तत्र किमपि जीर्णत्वं नास्ति । ―राजेन्द्र उपाध्याय उद्धरणम् ग्रन्थसूची । । । । । । । बाह्यसम्पर्कतन्तुः जीवनी, निबन्धश्च संस्मरणम् विविधम् </div> ज्ञानपीठप्रशस्तिभाजः महिला-लेखाभियानम् २०१५ बालसाहित्यकाराः
2040
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%20%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%80%20%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%B2%E0%A4%BE
सूर्यकान्त त्रिपाठी निराला
सूर्यकान्त त्रिपाठी निराला(Suryakanth Tripati Nirala) हिन्दी भाषाया: महान लेखक: आसीत्‌. पश्‍य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १८९७ जननम्
2041
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%AF%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6
जयशङ्कर प्रसाद
जयशंकर प्रसादः (Jayshankar Prasad) (1889-1937) हिन्दी भाषाया: महान् लेखक: । उदाहरणकविता बीती विभावरी जाग री! बीती विभावरी जाग री! अम्बर पनघट में डुबो रही तारा घट ऊषा नागरी। खग कुल-कुल-कुल सा बोल रहा, किस लय का अंचल डोल रहा, लो यह लतिका भी भर लाई मधु मुकुल नवल रस गागरी। अधरों में राग अमंद पिये, अलकों में मलयज बंद किये तू अब तक सोई है आली आँखों में भरे विहाग री। - जयशंकर प्रसाद पश्‍य हिन्दी साहित्यं बाह्यसम्पर्कतन्तुः जयशंकर प्रसाद की श्रेष्ठ रचनायें जयशंकर प्रसाद (कविता कोश) जयशंकर प्रसाद (अनुभूति) जयशंकर प्रसाद (अभिव्यक्ति में) Kamayani of Jai Shankar Prasad – As I saw It and Understood It by Dr.Girish Bihari 1st Edition 2006, Published by Film Institute, Lucknow (U.P.) – INDIA http://cities.expressindia.com/fullstory.php?newsid=205657 हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १८८९ जननम् १९३७ मरणम्
2043
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B2%E0%A4%BE
कला
पीठिका कला इति शब्दः अतिव्यापः अस्ति । विद्वांसः अपि अस्य परिभाषां केवलं कस्मिंश्चित् एकस्मिन् दृष्टिकोणेन एव कुर्वन्ति । कलयति इति काला । कल् धातुः सङ्ख्याने+टाप् । इति अस्य पदस्य व्याकरणस्य परिभाषा । मनुष्यशरीरस्य सप्तकलाः, चन्द्रस्य षोडशकलाः, सूर्यस्य द्वादशकलाः, अग्निमण्डलस्य दश कलाः, चतुष्षष्ठिः (६४) कुशलकलाः इति कलाभेदाः अस्य परिभाषाम् एव परिवर्तयन्ति । यद्यपि अस्य सहस्राधिकाः परिभाषाः भवन्ति । तथापि भारतीयपरम्परानुगुणं यस्यां क्रियायं कौशलम् अपेक्षितं भवति तस्य सर्वस्य कला इति अभिधानं युज्यते । यूरोपीयाः शस्त्रिणः अपि कलायां कौशलं महत्वपूर्णम् अस्ति इति मन्यन्ते । विस्तारः मनुष्यस्य वैविध्यमयप्रक्रियाः कल्पनाविलासः भावाः इत्यादीनाम् अभिव्यक्तिः येन माध्यमेन भवति सा कला इति वक्तुं शक्यते । कलायाः अर्थः तत्त्वज्ञानस्य शाखायां सौन्दर्यमीमासां (एस्तेटिक्स्) परिभाषितः । विंशतिशकानन्तरं कलायाः निर्वचनम् अथवा अस्याः सामर्थ्यस्य निर्धारः कष्टसाध्यः अस्ति । रिचर्ड वोहिम् इति कश्चित् एतदर्थं मार्गत्रयं सूचयति । यथार्थवादः इति प्रथमस्य अनुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः मनुष्यस्य दृष्टिकोणम् अतिरिच्य स्वतन्त्रः भवति । चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । द्वितीयः वास्तविकवादः अस्य वादानुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । तृतीयः सापेक्षतावादः अस्य वादानुगुणं गुणः नायं स्वतन्त्रः अयं मनुष्यस्य अनुभवम् अवलम्ब्य तिष्ठति । अपि च अन्यान्येषु विभिन्नः भवति । काचित् कलासृष्टिः सृष्टुः उद्देशं दर्शयेत् इति अग्रहः नास्ति । किन्तु कदाचित् तस्याः कलायाः उद्देशः बाह्यगोचरः भवेत् । कदाचित् सामान्यः चायकंसकः अपि सकलः इति परिगणीतः भवति । यदा चित्रलेखनं वर्णचित्ररचनम् इत्यादयः अधिकप्रमाणेन क्रियते तर्हि उद्योगः इति कथ्यते । भारतीयसाम्प्रदाये कला इति शब्दः कस्यचिदपि कौशल्यस्य अथवा नैपुण्यस्य विषये उपयोजयन्ति । अयं भावः रम्यपरिकल्पनायाः (रोम्याण्टिक्) अन्दोलनस्य कालखण्डे परिवर्तितः । तदा कला तु मनुष्यस्य बौद्धिकसामर्थ्यस्य विशेषः इति परिगणय्य धर्मविज्ञानाभ्यां पृथक् वर्गीकृता । सामान्यकला चिन्तनस्य भावनायाः च उत्तेजनार्थं कृता अस्ति । कलायाः लक्षणं रिचर्ड् वोलेहिम् एवमुक्तवान् मनुष्यसंस्कृतेः अत्यन्तं प्राचीनं भेदनदुस्साध्यं रहस्यम् इति वर्णितवान् ।<ref>रिचर्ड् वोलेहिम् रिचर्ड् वोलिहिम् एण्ड् इट्स् आब्जेक्ट्स् p.1, 2nd edn, 1980, केम्ब्रिज् युनिवर्सिटि प्रेस् ISBN 0-521-29706-0</ref> कला भावनायाः अभिव्यक्तेः वाहिनी अथवा भावस्य संवहनस्य माध्यमः इति वर्णितम् । लियो टाल् स्टाय् इत्येतस्य चिन्तनानुगुणं कला नाम मानवः अन्येन मनुष्येन सह संवहनर्थम् उपयुज्यमानः परोक्षः माध्यमः एव इति । किन्तु एतादृशी तु भाषा भवति कलोद्दिष्टाः कला नाम आधुनिके काले सर्जनात्मककला (क्रियेटिव् आर्ट्) अथवा ललितकला (फैन् आर्ट्) इत्येतयोः संक्षिप्तरूपम् अस्ति इति । विक्षकानां सौन्दर्यप्रज्ञायाः आकर्षणम् अथवा प्रेक्षकानां लक्ष्यं सूक्ष्मविषयस्य दिशायाम् अकर्षणम् । यदि कौशलं सामान्यतया अथवा व्यावहारिकरूपेण उपयोजयति तां कलां कौशलम् इति वदन्ति । एतत् कौशलं व्यापारार्थम् अथवा उद्योगार्थं वा उपयोजयति तदा तां ललितकलाम् एव वाणिज्यकला इति व्यवहरन्ति । हस्तकलां विन्यासकलां च कदाचित् अन्वयिककला इति व्यवहरन्ति । कलारसिकाः ललितकला अन्वयिककला एतयो मध्ये व्यत्यासं परिकल्पयन्ति । किन्तु अयं व्यत्यासः केवलं व्याख्यानदृष्ट्या भवति वास्तवरूपेण एतयोः मध्ये मूलभूतः भेदः नास्ति । किन्तु ललितकला अपि क्रियात्मकोद्देशयुक्ता स्वाभिव्यक्त्योद्देशयुता च भवति । कलायाः उद्देशः चिन्तनस्य संवहनं स्यात् । कित्नु राजकीयः तात्त्विकः उद्देशानां पूरणस्य कला सौन्दर्यप्रज्ञां जागर्ति । ग्रहणं (पर्सेप्शन्) गुणानां प्रदर्शनार्थं मनोरञ्जनार्थम् अथवा कदाचित् तीव्रभवनां प्रचोदनर्थं वा स्यात् । कदाचित् सामन्यावलोकनेन कश्चिदपि उद्देशः नास्ति इति भाति । किन्तु कला अनेकान् अंशान् स्वान्तरङ्गे सङ्गोपयति । कदाचित् कलानैपुण्यस्य अध्ययनां भवेत् कदाचित् कलानौपुण्ये प्रदर्शितं तन्त्रं भवतु, कलासृष्टिः स्यात्, अथवा वीक्षकानुभवः भवेत् । सर्जनात्मका कला अनेकपद्धतीनां समवायः भवति । अनियतपरिकल्पनाः अथवा चिन्तनानि क्रियात्मकरूपेण अभिव्यक्तिः अथवा स्वकल्पनाम् अन्येषां ज्ञापनम् एव कलासृष्टिः इति वक्तुं शक्यते । कलाकृतिः कदाचित् उद्देशं स्पष्टयेत् अथवा उपयुक्तरुपैः वस्तुभिः वा अवगन्तुं शक्येत । कला कस्यचित् जनस्य चिन्तनं भावं विश्वासम् अथवा कल्पनां संवेदनाशक्त्या (सेन्स्) उत्तेजयति । कला कस्याश्चित् कल्पनायाः अभिव्यक्तिः अपि भवितुमर्हति । अतः इयं रूपवैविध्यं प्राप्तुं शक्नोति । अपि च अनेकान् उद्देशान् पूरयति । इतिहासः वात्सायनस्य कामसूत्रस्य जयमङ्गलस्य व्याख्यायां कलायाः द्वैविध्यम् अस्ति इति उक्तवान् । एका कामसूत्र सम्बद्धा कला अपरा तन्त्रसम्बद्धा कला इति । द्वयोः प्रत्येकताया सङ्ख्या६४भवति । कामसम्बद्धाः कलाः २४ यस्य सम्मन्धः सम्भोगस्य आसनेन भवति । द्यूतसम्बद्धाः २०, कामसुखसम्बद्धाः कलाः१६ अपि च ४उच्चतरकलाः । सर्वान् योजयित्वा ६४ कलाः भवन्ति । एतदतिरिच्य अन्याः काश्चन सामान्यकलाः उक्ताः सन्ति । गुहासु शिलासु रचितानि शिल्पकलाः सामान्यतः ४०००० वर्षेभ्यः पुरातनानि इति अपर् पालियोलिथिक् कालस्य पेट्रोग्लिप् साक्ष्यानि प्राप्तानि । किन्तु अस्याः कलायाः विषये निखरव्याख्यानं कर्तुं न शक्यते । यतः अस्याः कलायाः रचनस्य कालस्य संस्कृतेः च विषये विशेषज्ञानं न प्राप्तम् । प्रपञ्चे एतावता कलेन प्राप्ता प्राचीनतमा कलाकृतिः(आर्ट् आब्जिक्ट्) इत्युक्ते ७५०००वर्षेभ्यः प्राचीना दक्षिणाफ्रिकागुहासु प्राप्ता उत्कीर्णा शम्बूकस्य शुक्तिः । . कला स्वस्य अनेकानि साम्प्रदायिकमूलानि प्राचीनसंस्कृतौ सन्ति । मेसोपोटमिया पर्शिया भारतम् चीना प्राचीन् ग्रीक् रोम् इङ्का माया ओलेमेक् इत्यादयः प्राचीनसंस्कृतिषु कलामूलानि सन्ति । प्रत्येकं प्राचीनसंस्कारे अपि स्वस्य काञ्चित् कलाशैलीं पोषितवती । प्राचीना इस्लामिक् (मुसल्मानानाम्) कला मूर्तिचित्रणं तिरस्कृतवती अतः जियोमेट्रिकल् विन्यासः क्यालिग्राफी वास्तुशिल्पः इत्यादीनां विषये अदरः प्रदर्शितः । पूर्वस्यां दिशि कलासु मतस्य प्रभावः अधिकः आसीत् । भारतम् टिबेट् च देशभ्यां शिल्पेषु नृत्यकलायै प्राधान्यं दत्तम् । धार्मिकवर्णचित्राणि शिल्पकलाकृतिभिः प्रभावितानि आसन्त् । चीनादेशे अपि अनेकाः कलाप्रकारः प्रवर्धमानाः अभवन् । जेड् कार्विङ्ग् कांस्यशिल्पाः मृत्कलाकृतयः पद्यानि क्यालिगृफि सङ्गीतं च अनेकै राजवंशीयैः पोषितानि आसन् । जपानदेशः अपि स्वस्याः कलशैल्याः राजवंशस्य नाम एव अङ्कितवान् । अत्र क्यलिग्रफिवर्णचित्रयोः मिश्रणं दृष्टुं शक्यते । अस्मिन् देशे १७शतकस्य अनन्तरकाले वुड् ब्लाङ्क् प्रिण्टिङ्ग् प्रसिद्धम् अभवत् । गुणलक्षणानि कला सामान्यतः बाह्यचक्षुषाम् अवलोकनापेक्षया अन्तरङ्गग्राहणम् इच्छति । कलायाः सृष्टिः निर्दुष्टेन निर्दिष्टेन उद्देशेन च भवति । ललितकला किमपि अन्यं लक्ष्यं साधयति । एतादृशचिन्तनस्य परिणमेन कलासृष्टिः ऊहातीतम् । विभागनिश्चयः दुस्साध्यः अभवत् । कलासृष्टिं अनेकैः विधैः आस्वादयितुं शक्यते । अनेन कारणेन एव अस्याः नानाविधानि विवरणानि प्रस्तूयन्ते । कलायाः महोपलब्धिः नाम कस्मिंश्चित् एकस्मिन् कौशले नैपुणप्राप्तिः । अतवा कस्यचित् एकस्य माध्यमे नियन्त्रणप्राप्तिः । बहुशः आधुनिकाः कलाविदः केवलं कलाकृतेः दर्शनेन सर्वं ज्ञतं भवति तादृशकलाकृतीः न रचयन्ति । कलायाः परिवर्तनस्य गुणः भवति । वैविध्यम् सर्जनात्मककालानं विभागः तस्याः उपयुत्कतन्त्राणाम् आधारेण क्रियते । अलङ्कारस्य कला (डेकोरेटिव्) रूपशिल्पकला (प्ल्यास्टिक् आर्ट्) प्रदर्शनकला (पर्फार्मिङ्ग् आर्ट्) इति विभगः क्रियते । अथवा साहित्यक्षेत्रं विज्ञानक्षेत्रम् इव न भूत्वा तन्त्रानुसारं शैक्षणिकरीत्या विभक्तेषु विषयेषु कला अपि काचित् भवति । कला माध्यमः नाम कलकृतिः केन वस्तुना रचिता भवति सः । उदाहरणार्थं वर्णचित्रकलायाः माध्यमः कागदं वर्णा च । कलारुपम् नाम कलाप्रकारः इत्युक्ते काचित् कलात्मका अभिव्यक्तिः । उपयुक्तः माध्यमः प्रकारस्य उपरि प्रभावं करोति एव । शिल्पकृतेः आकारः त्रिमुखयुक्तं भवेत् यतः गुरुत्वस्य कारणेन सा आकृतिः न पतेत् । यस्य कस्यापि निर्दिष्टस्य माध्यमस्य किञ्चित् वैशिष्ट्यं निर्बन्धः नियति च भवन्ति एव । अस्य सम्प्रदायबद्धलक्षणम् इति व्यवहारः (फार्मल क्वालिटी) अस्य कश्चित् दृष्टन्तः एव भवति । वर्णचित्रकलायाः सम्प्रादायबद्धलक्षणानि नाम स्थूलपटः, वर्णानि, कूर्चः इत्यादयः । यस्याः कस्याः अपि कलकृतेः रूपं सम्प्रदायबद्धः माध्यमः कलाविदः उद्देशः च निर्धारयन्ति । कलाकृतेः शैली नाम कलाविदः कलाकृतेः विशिष्टं रूपं विशिष्टा पद्धति च । नैपुण्यम् कला इति पदम् एवम् उपयोजयन्ति यत् प्रशिक्षया प्राप्तं सामर्थ्यम् अथवा माध्यमे प्राप्तं नियन्त्रणम् इति । भाषां योग्यरीत्या प्रयोजयति चेत् सापि कला इत्युच्यते । भवः चिन्तनं ग्रहणं च या अभिव्यञ्जयति सा कला इति सरलतया वक्तुं शक्यते । कश्चित् सामान्यः जनः कालावित् भवितुं तस्य विशेषः परिश्रमः परिणतिः च आवश्यकी इति जनसामान्यः अभिप्रायः । साम्प्रदायिकं नैपुण्यं कलातः पृथक्कर्तुम् अश्कयं गुणलक्षणं इति परिगणीतम् आसीत् । अतः कलायाः साफल्यं नैपुण्याधीनं भवति । किन्तु लियनार्डो डा विङ्कि इत्यस्यानुगुणं नैपुण्यस्य अभिव्यक्तिः तस्य प्रयत्नात् अधिकं न भवति इति । विंशतशतकस्य आरम्भे जान् सिंगर् सार्जेण्ट् करचतुर्यिन कृतप्रदर्शनानि जनप्रशंसाम् अवप्नोत् । किन्तु केचन शङ्कया पश्यन्ति स्म । तस्मिन् एव काले सुप्रसिद्धः कलाकारः पाब्लो पिकासो इत्येषः स्वस्य साम्प्रदायिकशैक्षिकप्रणालीं समाप्यमाणः आसीत् । आधुनिककलायाः विषये सर्वसामान्यः आक्षेपः इत्युक्ते सर्जनात्मककलाकृतिं सृष्टुम् आवश्यकस्य कौशलस्य अभावः सर्वदा अस्ति । कल्पनात्मकासु कलासु (कन्सेप्ट्युवल् आर्ट्स्) मार्सेल् डुचाम्प् इत्य्स्य फौण्टेन् इति नामान्वितः कलाकारः सिद्धवस्तूनि (फौण्ड् आब्जेक्ट्) उपयुज्य साम्प्रदायिककलाकौशलानि उत्सृज्य कलाकृतिं सृष्टवान् । हिर्स्टन् इति कश्चित् किमर्थं जनप्रियः कलाकारः अभवत् इत्युक्ते तस्य अगाधा कल्पनाशक्तिः जनान् मन्त्रमुग्धान् करोति स्म । कल्पनात्मकां समकालीनां च कलाकृतीनां रचनं सिद्धवस्तूनां संयोजनम् एव अस्ति । इदानीमपि अधुनिककलाकारः समकालीनाः च चित्ररचने वर्णविन्यासे च कुशलाः सन्ति । अपि च कलाकृतिनिर्माणे सिद्धहस्ताः सन्ति । मौल्यनिर्णयः कला इति पदं कदाचित् योग्यतायाः निर्णयर्थमपि उपयोजयन्ति । अतः तद्भक्ष्यम् अपि काचित् कलासृष्टिः पाचकः कलाकारः इति वक्तुं शक्यते । वञ्चनमपि कला भवति । तस्य कूटस्य चातुर्यं कला इति परिगण्यते । मौल्यं निर्णेतुं विमर्शात्मकः मनोभावः आवश्यकः भवति । प्राथमिके स्तरे कस्याश्चिदपि कलाकृतेः श्रेष्ठतायाः परिगणनावसरे तस्यां तिरस्कारयोग्यः अथवा पुरस्कारयोगः गुणः अस्तिवा नेति परिक्षा सामर्थ्यम् आवश्यकं भवति । तस्य ग्रहणं सदापि अनुभवानाम् आधारेण एव भवति । तद्ग्रहणं व्यक्तेः व्यक्तिः भिन्नं भवति । या मनसः उल्लासं न जनयति तां कला इति न परिगणयेत् इति सामान्यः अभिप्रायः । किन्तु काचित् उत्तमा कला कदाचित् प्रेक्षकाणां श्रोतॄणां मोदं न जनयेत् अथवा सुन्दरा इति अभिप्रायं न कारयेत् । कस्यचित् कलाकारस्य प्रधानः उद्देशः न केवलं सौन्दर्यप्रज्ञायाः जागर्या प्रत्युत सामाजिकप्रज्ञायाः, नैतिकप्रज्ञायाः, अथवा सच्चिन्तनस्य जागर्या भवति । एतावदेव स्थापितस्य सुन्दरं सर्वं श्रेष्ठम् इति भावं विरुद्ध्य अभिप्रायभेदः आरब्धः एव । सदभिरुचियुक्ताम् आकर्षिकां सम्पूर्णतया त्यजेत् इति भावः अपि न । वास्तवेन अस्याः विरुद्धा अपि कदाचित् प्रकृता भवति । नैकाः कलाशालाः कलायाः श्रेष्ठतां विमर्शयितुं स्वमानदण्डं प्राप्नुवन् । कलायाः मौल्याङ्कनं कालधर्मानुगुणं भवति इति निश्चयः । उद्देशः विश्वस्य दीर्घेतिहासस्य पुटेषु कलायाः वैविध्यमयोद्देशाः दृश्यन्ते । अतः कलां निर्दिष्टस्य कस्यचिदपि उद्देशस्य नियतं कर्तुं न शक्यते । इत्युक्ते कलायाः उद्देशः अस्पष्टः इत्यपि न । कलासृष्टौ अनन्यानि विविधानि कारणानि भवन्ति । कलायाः उद्देशः चित्ताकर्षणं मनुष्यस्य मानवसहजभावानां स्पन्दनम् च । कला नैतिकां प्रज्ञा अथवा सौन्दर्याभिलाषां च जागरयति । अथावा तादृशभावानां संवहनार्थमपि उपयुक्ता भवेत् । कलावित् स्वभावं प्रकटयति । अतः प्रेक्षकाः श्रोतारः वा स्वभावान् अपि जगरयेयुः । परिणामकारिणी कला मनुष्यस्य स्थिते विषये नवज्ञानं व्यक्तेः अथवा समुदायस्य विषये ददाति । एतत् चिन्तनं सर्वदा सकारात्मकम् एव भवेत् इति आशयः नास्ति । कलालारस्य कौशलं तेन उप्ताद्यमानस्य परिणामे प्रभावं करोति । अनेन नूतना काचित् अन्तर्दृष्टिः उन्मीलिता भवति । एकवक्येन वदमः चेत् कलायाः उद्देशः कलाकारस्य भावाभिव्यञ्जनं लोकस्य मनोरञ्जनम् च । कलाभेदाः विज्ञानकला ललितकला कुशलकला वाणिज्यकला विनोदकला सङ्कीर्णकला सामान्याः चित्रकला शिल्पकला नाट्यकला गानकला नृत्यकला जानपदकला पुस्तककला भाषणकला काव्यकला वास्तुकला ७ शरीरकलाः मांसधरा रक्तधरा मेदोधरा श्लेष्मधरा मलधरा पित्तधरा रेतोधरा १६ चन्द्रकलाः अमृता मानदा पूषा तुष्टिः पुष्टिः रतिः धृतिः शशिनी चन्द्रिका कान्ति ज्योत्स्ना श्रीः प्रीतिः अङ्गदा पूर्णा पूर्णामृता १२सूर्यकलाः तपिनी तापिनी धूम्रा मरीचिः ज्वालिनी रुचिः सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा १०अग्निमण्डलकलाः धूम्राचिः ऊष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपा कपिला हव्यम् कव्याम् ६४कुशलकलाः गीतम् - गानस्य कौशलम् । वाद्यम् - वेणुः वीणा मृदङ्गादीनां वादनकौशलम् । नृत्यम् - भरतनृत्यादिनाट्यकौशलम् । आलेख्यम् - चित्ररचनकौशलम् । विशेषकच्छेद्यम् - ललाटतिलकस्य रचनकौशलम् । तण्डुलकुसुमबलिविकाराः - बहुवर्णिततण्डुलैः देवस्य पुरतः पद्मादिरङ्गवल्लिरचनकौशलम् । पुष्पास्तरणम् - पुष्पाणि विकीर्य अलङ्करणकौशलम् । दशनवसनाङ्गरागः - देहस्य दन्दानां वस्त्राणां च वर्णसंयोजनकौशलम् । मणीभूमिकाकर्म - रत्नालङ्कारकौशलम् । शयनरचनम् - शय्यायाः अलङ्कारकौशलम् । उदकवादम्- जलतरङ्गवादनकौशलम् । उदकाघातः - नालिकया जलसेचनम् । चित्राश्च योगाः - अनेककष्टदानेन इन्द्रियनिस्तेजकरणम् । माल्यग्रथनविकल्पाः -विविधहाराणां निर्माणम् । शेखरकापीडयोजनम् - केशग्रन्थिं विरचय्य अलङ्करणम् । नेपथ्यप्रयोगः - नाट्यादीनां वेषभूषादिप्रसाधनम्। कर्णपत्रभङ्गाः - रत्नखचितपत्राकारस्य आभरणैः कर्णयोः अलङ्करणम् । गन्धयुक्तिः - सुगन्धद्रव्यानां निर्माणम् । भूषणयोजनम् - देहावयवानुगुणम् आभूषणयोजनम् । ऐन्दजालाः कौचुमाराश्च योगाः - यक्षविद्या अपिच शरीरसम्बद्धलोपान् दुरीकृत्य सौभाग्ययोगनिर्माणम् । हस्तलाघवम् - हस्तचालनकौशलम् । विचित्रशकयूषभक्ष्यविकारक्रिया - विविधैः शकैः भक्ष्यभोज्यनिर्माणम् । पानकरसरागासवयोजनम् - पनकेत्यादीनां पानीयनिर्माणम् । सूचीवानकर्माणि - सूचीतन्तुभिः वस्त्रचित्रविन्यासः । सूत्रक्रीडा - सूत्रेण विविधेन्द्रजालप्रदर्शनम्। वीनाडमरुकवाद्यानि - वीणाडमरुगेत्यादिवादानां वादनकौशलम् । प्रहेलिका - गूढार्थयुक्तचातुश्लोकानां निर्माणम् । प्रतिमाला - अन्त्याक्षरीपठनकौशलम् । दुर्वाचकयोगः - वादार्थं वा विनोदार्थं वा दुरुच्चारयुक्तशब्दनिर्माणम् । पुस्तकवाचनम् - अधिकपुस्तकानां पठनकौशलम् । नाटकाख्यायिकादर्शनम् - रूपकाणाम् आभिनयकौशलम् । कव्यसमस्यापूर्णम् - पद्यरूपसमस्यानां पूरणस्य कौशलम् । पट्टिकावेत्रवानविकल्पाः - वेत्रदण्डैः करण्डिका स्थाली इत्यादीनां ग्रथनम् । तक्षककर्माणि - दारुकर्म । तक्षणम् - काष्ठशिल्परचनम् । वास्तुविद्या - गृहनिर्माणकौशलम् । रूप्यरत्नपरीक्षा - रजतसुवर्णेत्यादीनां सुलोहानां परीक्षणम् । धातुवादः - सिला मृत्तिका लोहः रत्नम् इत्यादीनां धातूनां शोधनं परिशीलनम् च। मणिरागकारज्ञानम् - रत्नानां वर्णाकारादीनां ज्ञानम् । वृक्षायुर्वेदयोगाः - वृक्षकानाम् अरोपेन वाटिकानिर्माणम् । मेषकुक्कुटलषकयुद्धविधिः - मेषकुक्कुटेत्यादीनाम् कदनसंयोजनम् । शुकशारिकाप्रलापनम् - कीरेत्यादिपक्षीणां वगभ्यासकरणम् । उत्सादने संवहने केशमर्दने च कौशलम् - पादाघातने अङ्गमर्धने केशतैलाभ्यङ्गे नैपुण्यसम्पादनम् । अक्षरमुष्टिकाकथनम् - अङ्गुलिमुद्राभिः विविधविषयानां निरूपणकौशलम् । म्लेच्छितविकल्पाः - रहस्यविषयानां ज्ञापने युक्तियुक्तपदानां प्रयोगकौशलम् । देशभाषाविज्ञानम् - विविधदेशभाषाकौशलम् । निमित्तज्ञानम् - शकुनविज्ञानम् । पुष्पशकटिका - जलयुद्धारथं सजीवनिर्जीवयन्त्राणां संयोजनम् । धारणमातृका - अधीतशास्त्राणां दृढीकरणशास्त्राभ्यासः । सम्पाठ्यम् - सम्यक पठनम् । मानसी - दृश्यानाम् अदृश्यानां वस्तूनां भेदविषयचिन्तनम् । काव्यक्रिया - काव्यादीनां रचनम् । अभिधानकोशः - निघण्टुनिर्माणम् । छन्दोविज्ञानम् - वृत्तादीनां ज्ञानम् । क्रियाकल्पः - कार्यविधानस्य कौशलम् । छलितकयोगः - द्यूतेत्यादिभिः जनसम्मोहनम् । वस्त्रगोपनानि - विविधवस्त्राणां संरक्षणम् । द्यूतविशेषाः - विविधद्यूतक्रीडाः । आकर्षक्रीडा - चतुरङ्गक्रीडकौशलम् । बालक्रीडनकानि - बाललीलार्थं विविधाः खेलनज्ञानम् । वैनयिकीनाम् - विनयबोधनविद्या । वैजयिकीनाम् - विजयप्राप्तेः विधानबोधनज्ञानम् । व्यायामिकीनां च विद्या - व्यायमस्य विदिबोधनस्य विद्याज्ञानम् । वीथिका टीकाः आधारग्रन्थाः ಆರ್ಥರ್ ಡಾನ್ಟೊ, ದಿ ಅಬ್ಯುಸ್ ಆಫ್ ಬ್ಯೂಟಿ: ಎಸ್ತೆಟಿಕ್ಸ್ ಅಂಡ್ ದಿ ಕಾನ್ಸೆಪ್ಟ್ ಆಫ್ ಆರ್ಟ್. 2003 ಡಾನ ಅರ್ನಾಲ್ಡ್ ಮತ್ತು ಮಾರ್ಗರೇಟ್ ಇವೆರ್ಸನ್ (eds.) ಆರ್ಟ್ ಅಂಡ್ ಥಾಟ್ . ಆಕ್ಸ್‌ಫರ್ಡ್: ಬೇಸಿಲ್ ಬ್ಲ್ಯಾಕ್‌ವೆಲ್, 2003. ಮೈಕಲ್ ಆನ್ ಹೋಲಿ ಮತ್ತು ಕೀತ್ ಮೋಕ್ಸಿ(eds.) ಆರ್ಟ್ ಹಿಸ್ಟರಿ ಅಂಡ್ ವಿಷ್ಯುಯಲ್ ಸ್ಟಡಿಸ್ . ಯೇಲ್ ಯುನಿವರ್ಸಿಟಿ ಪ್ರೆಸ್, 2002. ಜಾನ್ ವೈಟ್‌ಹೆಡ್. ಗ್ರಾಸ್ಪಿಂಗ್‌ ಫಾರ್‌ ದಿ ವಿಂಡ್. 2001 ನೋಯಲ್ ಕಾರೊಲ್, ಥಿಯರಿಸ್ ಆಫ್ ಆರ್ಟ್ ಟುಡೆ. 2000 ಎವೆಲಿನ್ ಹಾಚರ್, ed. ಆರ್ಟ್ ಆಸ್ ಕಲ್ಚರ್: ಆನ್ ಇನ್ಟ್ರಡಕ್ಷನ್ ಟು ದಿ ಅಂತ್ರೊಪಾಲಜಿ ಆಫ್ ಆರ್ಟ್. 1999 ಕಾಥರೀನ್ ಡಿ ಸೆಗೆರ್(ed.). ಇನ್‌ಸೈಡ್‌ ದಿ ವಿಸಿಬಲ್ . MIT ಪ್ರೆಸ್, 1996. ನೀನಾ, ಫೆಲ್ಶಿನ್, ed. ಬಟ್ ಇಸ್ ಇಟ್ ಆರ್ಟ್? 1995). ಸ್ಟೀಪನ್ ಡೇವಿಸ್, ಡೆಫನಿಷನ್ಸ್ ಆಫ್ ಆರ್ಟ್. 1991 ಆಸ್ಕರ್ ವೈಲ್ಡ್, "ಇನ್‌ಟೆನ್ಷನ್ಸ್". ಜಿಯಾನ್ ರಾಬರ್ಟ್‌ಸನ್ ಮತ್ತು ಕ್ರೇಗ್ ಮಾಕ್‌ಡೇನಿಯಲ್, "ಥೀಮ್ಸ್ ಆಫ್‌ ಕಾಂಟೆಂಪರರರಿ ಆರ್ಟ್, ವಿಷ್ಯುಯಲ್ ಆರ್ಟ್ ಆಫ್ಟರ್ 1980." 2005 विशेषावलोकनम् ಆಗ್ರಾಸ್, ರಾಬರ್ಟ್ ಎಂ. ಸ್ಟಾನ್‌ಸಿಯು, ಜಾರ್ಜ್ ಎನ್., ದಿ ನ್ಯೂ ಸ್ಟೋರಿ ಆಫ್ ಸೈಯಿನ್ಸ್: ಮೈಂಡ್ ಅಂಡ್ ದಿ ಯುನಿವರ್ಸ್, ಲೇಕ್ ಭ್ಲಫ್, Ill.: ರೆಗ್ನೆರಿ ಗೇಟ್‌ವೇ, c1984. ISBN 0-89526-833-7 (ಈ ಪುಸ್ತದಲ್ಲಿ ಕಲೆ ಮತ್ತು ವಿಜ್ಞಾನಕ್ಕೆ ಸಂಬಂಧಿಸಿದ ಹಾಗೆ ವ್ಯಾಪಕ ವಿಷಯ/ಮಾಹಿತಿಯಿದೆ) ರಿಚರ್ಡ್ ವೊಲೆಹಿಮ್, ಆರ್ಟ್ ಅಂಡ್ ಇಟ್ಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್ ಕಾರ್ಲ್ ಜಂಗ್, ಮ್ಯಾನ್ ಅಂಡ್ ಹಿಸ್ ಸಿಂಬಲ್ಸ್ ಬೆನೆಡೆಟ್ಟೊ ಕ್ರೊಸೆ, ಎಸ್ತೆಟಿಕ್ ಅಸ್ ಸೈನ್ಸ್ ಆಫ್ ಎಕ್ಸ್‌ಪ್ರೆಷನ್ ಅಂಡ್ ಜನರಲ್‌ ಲಿಂಗ್ವಿಸ್ಟಿಕ್, 1902 ವ್ಲಾಡಿಸ್ಲಾವ್, ತಾತರ್ಕಿವಿಕ್ಸ್‌, ಎ ಹಿಸ್ಟರಿ ಆಫ್ ಸಿಕ್ಸ್ ಐಡಿಯಾಸ್ : ಆನ್ ಎಸ್ಸೇ ಇನ್ ಎಸ್ತೆಟಿಕ್ಸ್, ಪೋಲಿಶ್ ಭಾಷೆಯಿಂದ ಅನುವಾದಿಸಲಾಗಿದೆ ಕ್ರಿಸ್ಟೊಫರ್ ಕಾಸ್‌ಪಾರೆಕ್, ದಿ ಹಾಗ್, ಮಾರ್ಟಿನುಸ್ ನಿಜ್ಹಾಫ್, 1980. ಲಿಯೋ ಟಾಲ್‌ಸ್ಟಾಯ್, ವಾಟ್ ಇಸ್ ಆರ್ಟ್?, 1897 ಕ್ರಿಸ್ಟೀನ್ ಸ್ಟಿಲೆಸ್ ಮತ್ತು ಪೀಟರ್ ಸೆಲ್ಸ್, eds., ಥಿಯರಿಸ್ ಅಂಡ್ ಡಾಕುಮೆಂಟ್ಸ್ ಆಫ್ ಕಾಂಟೆಂಪರರಿ ಆರ್ಟ್. ಬರ್ಕೆಲಿ: ಯ‌ೂನಿವರ್ಸಿಟಿ ಆಫ್ ಕ್ಯಾಲಿಫೋರ್ನಿಯಾ ಪ್ರೆಸ್, 1979. बाह्यानुबन्धाः Art and Play from the Dictionary of the History of ideas In-depth directory of art Art and Artist Files in the Smithsonian Libraries Collection'' (2005) ಸ್ಮಿತೋಸೊನಿಯನ್‌ ಡಿಜಿಟಲ್‌ ಲೈಬ್ರರಿಸ್‌ Visual Arts Data Service (VADS) - UKಯ ಸಂಗ್ರಹಾಲಯ, ಗ್ಯಾಲರಿ, ಯುನಿವರ್ಸಿಟಿ ಗಳ ಆನ್‌ಲೈನ್ ಸಂಗ್ರಹಗಳು (ಕಲೆಕ್ಷನ್). RevolutionArt - Art magazines with worldwide exhibitions, callings and competitions Artforum magazine - online art reviews - also previews of upcoming exhibitions Article on the meaning of Art in Ancient India, ಫ್ರಂಟ್‌ಲೈನ್‌ ನ ವೆಬ್‌ಸೈಟ್ ನಲ್ಲಿರುವ ಲೇಖನ‌. कलाः अन्यभाषालेखाः सारमञ्जूषा योजनीया‎
2044
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%B9%E0%A4%B0%E0%A5%82-%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80-%E0%A4%B5%E0%A4%82%E0%A4%B6%E0%A4%83
नेहरू-गान्धी-वंशः
नेहरू-गान्धी परिवार भारतस्‍य राजनीतिये अति शक्तिशाली अस्ति. मोतीलाल नेहरू जवाहरलाल नेहरू इन्दिरा गान्धी राजीव गान्धी सोनिया गान्धी विजयलक्ष्मी पण्डित भारतीयराजनेतारः भारतीयराजनेतृसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2046
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%82%E0%A4%A1%E0%A4%B2%E0%A5%80
कूडली
कूडली (Koodli) कर्णाटकराज्ये शिवमोग्गमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र तुङ्गानद्याः भद्रानद्याः च सङ्गमः भविष्यति । ततः तुङ्गभद्रानद्याः उगमः । महत्त्वम् प्राचीनकालस्य सङ्गमेश्वरदेवालयः, सङ्गमः, परिसरस्य नयनमनोहरं दृश्यं च अस्य प्रदेशस्य शोभाम् अवर्धयन् । अत्रत्यः रङ्गनाथस्वामिदेवालयः अपि जनप्रियः । सङ्गमस्थाने लघुः नन्दीदेवालयः विद्यते । अयं लघुः देवालयः सङ्गमस्थानं सूचयति । सङ्गमेश्वरदेवालयस्य महान् इतिहासः विद्यते । अयं देवालयः होय्सळकालीनः इति श्रूयते । प्राचीनैः शिल्पकलाभिः विराजमानः अयं देवालयः कूडलीक्षेत्रस्य प्रमुखेषु आकर्षणेषु अन्यतमः । १२ शतके निर्मितः रामेश्वरदेवालयः क्षेत्रस्य सांस्कृतिकसौन्दर्यं वर्धयति । सङ्गमेश्वरदेवालयस्य समीपे नरसिंहदेवालयः विद्यते । अयं देवालयः प्रह्लादेन प्रतिष्ठापितं पूजितञ्च इति विश्वस्यते । मठौ कूडलीक्षेत्रे मठद्वयं विद्यते । अद्वैततत्त्वोपासकः शङ्करमठः, द्वैततत्त्वोपासकः अक्षोभ्यतीर्थमठः । शङ्करमठः शङ्करतत्त्वानाम् अध्ययनाय प्राचीनभारतीयपरम्परानुगुणं विद्यते कूडलीमठः । अस्य प्राचीनः इतिहासः एवमस्ति - १५ / १६ शतके कदाचित् शृङ्गगिर्याः ज्येष्ठः मठाधिपतिः तीर्थयात्रां प्रति गतः आसीत् । दीर्घकालं यावत् तेन न प्रत्यागतम् इत्यतः कनीयान् स्वामी पीठारोहणम् अकरोत् । किन्तु ज्येष्ठः मठाधिपतिः ततः केषाञ्चन दिनानाम् अनन्तरं शृङ्गगिरिं प्रत्यागतवान् । किन्तु स्वस्य शिष्यः एव यत्र पीठारोहणं कृतवान् आसीत् तत्र प्रवेशः अनुचितः इत्यतः सः शृङ्गेरीतः आगत्य तुङ्गभद्रयोः सङ्गमस्थाने कूडलीक्षेत्रे स्वीयं मठं संस्थापितवान् । अयं कूडलीमठः इति प्रसिद्धः जातः । १९०० तमे वर्षे नूतनः यतिवरः पीठाधिपतिः जातः । सः पूर्वं मैसूरुमहाराजस्य कृष्णराज ओडेयरस्य गुरुः आसीत् इत्यतः मठस्य भूयान् प्रगतिः जाता । तदनन्तरम् आगताः सर्वेपि यतिवराः स्वीयया प्रतिभया परिश्रमेण च मठस्य उन्नतिम् असाधयन् । आर्य अक्षोभ्यतीर्थमठः अयं मठः १३ / १४ शतके अक्षोभ्यतीर्थेन (मध्वाचार्यस्य प्रमुखः शिष्यः) संस्थापितम् । अयं मठः संस्कृतस्य मध्वतत्त्वस्य शिक्षणे प्रसिद्धः वर्तते । समृद्धः सम्प्रदायः विद्यते अत्र । एतावता त्रयः पीठाधिपतयः आसन् । श्री रघुविजयतीर्थः इदानीन्तनः पीठाधिपतिः । मार्गसूची कूडलीक्षेत्रं शिवमोग्गनगरतः १५ कि मी मिते दूरे विद्यते । समीपस्थं नगरं होळेहोन्नूरु यच्च २ कि मी दूरे विद्यते । शिवमोग्गतः लोकयानानि उपलभ्यन्ते । वीथिका बाह्यानुबन्धाः कूडलीनगरस्य वर्णनम् कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि
2047
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A4%AF%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A5%80%20%E0%A4%AA%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%BF%E0%A4%A4
विजयलक्ष्मी पण्डित
विजयलक्ष्मी पण्डित ( ) (,) भारतस्य प्रथमा राजदूती आसीत् । सा संयुक्तराष्ट्रसङ्घस्य अपि प्रथमा महिलाध्यक्षा आसीत् । पुनश्च सा भारतमन्त्रालयस्य प्रथममन्त्रिणीत्वेन अपि कार्यं कृतवती आसीत् । भारतस्य स्वातन्त्र्यान्दोलने विजयलक्ष्म्याः महद्योगदानं वर्तते । जन्म, परिवारश्च विजयलक्ष्म्याः जन्म ई. स. १९०० तमस्य वर्षस्य अगस्त-मासस्य १८ दिनाङ्के उत्तरप्रदेश-राज्यस्य इलाहाबाद-महानगरे अभवत् । मोतीलाल नेहरू इत्याख्यः तस्याः पिता, स्वरूपरानी इत्याख्या तस्याः माता च आसीत् । तस्याः बाल्यनाम “स्वरूप कुमारी” इति आसीत् । तस्याः पिता काश्मीर-प्रान्तीयः पण्डितः अस्ति, माता अपि काश्मीरब्राह्मणी आसीत् । तस्याः माता ‘स्वरूपरानी’ इत्याख्या मोतीलालस्य द्वितीया पत्नी आसीत् । प्रसवसमये मोतीलालस्य प्रथमायाः पत्न्याः मृत्युः अभवत् । अतः मोतीलालः द्वितीयवारं विवाहम् अकरोत् । विजयलक्ष्म्याः एकः भ्राता, एका भगिनी च आसीत् । तौ – जवाहरलाल नेहरू, कृष्णा हठिसिंह च । तस्याः भ्राता जवाहरलालः भारतस्य प्रथमः प्रधानमन्त्री आसीत् । तस्याः भगिनी लेखिका आसीत् । जवाहरलालः विजयलक्ष्म्याः एकादशवर्षभ्यः ज्येष्ठः आसीत् । शिक्षणम् विजयलक्ष्म्याः सम्पूर्णं शिक्षणं स्वस्य गृहे वैयक्तिकत्वेन एव अभवत् । एका स्त्री तां पाठितुं गृहं गच्छति स्म । विवाहानन्तरं तया जीवविज्ञाने एम्. बी. बी. एस्. (M.B.B.S.) अपि कृतम् आसीत् । तस्याः शिक्षणं पाश्चात्यपद्धत्यानुगुणम् एव अभवत् । विवाहः १९२१ तमस्य वर्षस्य मई-मासे “सीताराम पण्डित” इत्याख्येन सह विजयलक्ष्म्याः विवाहः अभवत् । सीतारामः महात्मागान्धी इत्याख्यस्य परममित्रम् आसीत् । सीतारामपण्डितः काठियावाड-प्रदेशस्य प्रसिद्धः वाक्कीलः आसीत् । सीतारामपण्डितः एकः श्रेष्ठः लेखकः, अनुवादकश्चासीत् । सीतारामपण्डितेन ‘कल्हन’ इत्याख्यस्य कवेः “राजतरङ्गिणी” नामकस्य संस्कृतभाषायाः महाकाव्यस्य आङ्ग्लभाषायाम् अनुवादः कृतः आसीत् । विवाहपूर्वं तस्याः नाम स्वरूपकुमारी इति आसीत् । किन्तु विवाहानन्तरं कुलरीत्यनुगुणं तस्याः नूतनं नामकरणम् अभवत् । विवाहानन्तरम् एव सा “विजयलक्ष्मी पण्डित” इति नाम्ना ख्याता आसीत् । तस्याः परिवारस्य राजनैतिकपृष्ठभूमिः आसीत् । अतः सा अपि प्रारम्भादेव परिवारेण सह राजनीतिक्षेत्रे संलग्ना आसीत् । विजयलक्ष्म्याः तिस्रः पुत्र्यः आसन् । ताः – चन्द्रलेखा, नयनतारा, रीटा च । नयनतारा लेखिका आसीत् । नयनतारायाः अपि एका पुत्री आसीत् । तस्याः नाम “गीता सहगल” इति अस्ति । सा अपि लेखिका, पत्रकारः, चलच्चित्रनिर्देशिका च अस्ति । ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के तस्याः पत्युः मृत्युः अभवत् । तस्मिन् समये हिन्दु-विधवाभ्यः उत्तराधिकारिणां नियमः नासीत् । यतः तस्याः पुत्रः एव नासीत् । अतः सा पत्युः सम्पत्तेः किमपि न प्राप्तवती । तस्याः पत्युः भ्राता सीतारामपण्डितस्य सम्पूर्णसम्पत्तिः स्वायत्तीकृतवान् । व्यक्तित्वम् विजयलक्ष्म्याः व्यक्तित्वं गौरवमयम्, ओजोमयं चासीत् । तया सम्पूर्णे जीवने भारतदेशाय एव कार्याणि कृतानि सन्ति । सा कर्मनिष्ठा, जाग्रता च आसीत् । अतः साम्प्रतम् अपि विश्वस्य विशिष्टमहिलासु “विजयलक्ष्मी पण्डित” इत्यस्याः नामोल्लेखः क्रियते । अभिरूचिः विजयलक्ष्म्याः कुटुम्बे बहवः जनाः लेखकाः वा उपन्यासकाराः आसन् । तस्याः अपि रुचिः लेखने आसीत् । तया नैकानि पुस्तकानि रचितानि सन्ति । तेषु सा ई. स. १९७९ तमे वषे “The Scope of Happiness: A Personal Memoir” नामकस्य पुस्तकस्य रचनां कृतवती । अनन्तरं ई. स. १९५८ तमे वर्षे तया “The Evolution of India” नामकं पुस्तकं रचितम् । इतः परम् अपि बहूनि पुस्तकानि रचितानि सन्ति । Prison Days From Ministry to Prison Significant social and economic factors in the Far East Speech by Madame Vijaya Lakshmi Pandit, President of the UN General Assembly, to the Foreign Policy Association, at the Waldorf-Astoria Hotel, New York, 21 october 1953. Sunlight surround you : a birthday bouquet from Chandralekha Mehta, Nayantara Sahgal and Rita Dar Elites and Urban Politics : A Case Study of Delhi Struggle for Independence The Women who Swayed America राजनैतिक अभियान भारतीय सन्दर्भ Vijaya Lakshmi Pandit Letter to Rajni Patel India After Gandhi : An NBC Radio Discussion So I Became a Minister : Vijaya Lakshmi Pandit An Colinial Empires a Threat to World Peace? India’s Foreign Policy. – (New York) 1956 Jeleke ve dina मुश्किलें इतनी परें : जवाहरलाल नेहरू की छोटी बहन विजयलक्ष्म्या स्वस्याः आत्मकथा “The Scope of Happiness” इत्यस्मिन् पुस्तके लिखिता अस्ति । तया स्वबाल्यं तस्मिन् पुस्तके वर्णितम् अस्ति । बाल्ये सा वैरोधिके वातावरणे पालिता आसीत् । राजनीतौ अपि तस्याः रुचिः आसीत् । षोडशे वर्षे प्राप्ते सति एव सा राजनीतिक्षेत्रं प्रविष्टवती । राजनैतिकजीवनम् विजयलक्ष्मीः प्रारम्भादेव राजनीतिक्षेत्रे संलग्ना आसीत् । सा षोडशे वर्षे प्रथमां राजनैतिकगोष्ठ्याम् उपातिष्ठत् । तदनन्तरं सा ‘एनी बेसन्ट्’ इत्यस्याः होमरुल-आन्दोलनाय कार्यं कर्तुम् ऐच्छत् । किन्तु सा तदा युवती आसीत् । अतः केवलं स्वयंसेविकात्वेन प्रवेशं प्रापत् सा । ई. स. १९१९ तमे वर्षे महात्मागान्धी आनन्दभवनं गतवान् आसीत् । तदा महात्मना सह विजयलक्ष्म्याः मेलनम् अभवत् । महात्मानं मिलित्वा विजयलक्ष्मी प्रभाविता जाता । ततः परं सा सर्वदा महात्मना सह आन्दोलनेषु कार्यरता आसीत् । महात्मना सा सुतरां प्रभाविता आसीत् । अनन्तरं सा असहयोग आन्दोलने अपि भागं गृहीतवती । तेन कारणेन आन्दोलने विरोधकारणात् सा बन्धिता । सा महात्मनः प्रभावेण प्रत्येकेस्मिन् आन्दोलने अग्रे भवति स्म, कारागारं गच्छति स्म च । किन्तु कारागारात् आगत्य पुनः आन्दोलने सम्मिलिता भवति स्म । सा १९४१ तः १९४३ पर्यन्तं वर्षद्वयं यावत् “अखिल भारतीय महिला सम्मेलन” इत्यस्य अध्यक्षा आसीत् । विधानसभायाः सदस्या भारतसर्वकारस्य “१९३५ अधिनियमानुसारं यदा १९३७ तमे वर्षे कॉङ्ग्रेस्-सर्वकारस्य निर्माणं जातम्, तदा तस्यै उत्तरप्रदेश-राज्यस्य विधानसभायाः मन्त्रिपदं प्रदत्तम् आसीत् । अतः सा भारतस्य मन्त्रालयस्य प्रथमा महिला मन्त्रिणी, विश्वस्य द्वितीया महिला मन्त्रिणी च आसीत् । सर्वकारेण विजयलक्ष्म्यै स्वास्थ्य-मन्त्रालयः, स्वायत्त-मन्त्रालयः च प्रदत्तः आसीत् । विजयलक्ष्म्या पञ्चायतराजविधेयकस्य निर्देशनं कृतम् । तया स्वपत्या सह स्वातन्त्र्यान्दोलने राष्ट्रियकार्याणि कृतानि । तेन कारणेन सा बहुवारं कारागारम् अपि गतवती आसीत् । विश्वयुद्धे प्रारब्धे सति विजयलक्ष्म्या मन्त्रिपदं त्यक्तम् । मन्त्रिपदे त्यक्ते सति आरक्षकैः पुनः विजयलक्ष्मी अवष्टब्धा (Arrested) । कारागारात् आगत्य सा पुनः “भारत-छोडो-आन्दोलने” संयुक्ता जाता । किन्तु तेन आन्दोलनेन सा पुनः अवष्टब्धा । कारागारे तस्याः स्वास्थ्यं शिथिलं जातम् आसीत् । अतः नवमासानन्तरं तस्यै मुक्तिः प्रदत्ता । भारतस्य राजदूतः ई. स. १९४५ तमे वर्षे विजयलक्ष्मीः अमेरिका-देशं गतवती । तत्र गत्वा स्वभाषणैः भारतस्य स्वतन्त्रतायै प्रचारः कृतः । १९४६ तमे वर्षे सा पुनः उत्तरप्रदेशस्य विधानसभायाः सदस्यपदं, राज्यसर्वकारे मन्त्रिपदं च प्राप्तवती आसीत् । स्वतन्त्रतायाः अनन्तरं विजयलक्ष्म्या संयुक्तराष्ट्रसङ्घे भारतस्य प्रतिनिधित्वेन नेतृत्वं कृतम् आसीत् । संयुक्तराष्ट्रसङ्घे सा महासभायाः प्रथममहिलाध्यक्षत्वेन चिता । रूस्-देशे, मैक्सिको-देशे, आयरलैण्ड्-देशे, स्पेन्-देशे च भारतस्य राजदूतीत्वेन अपि सा कार्यं कृतवती आसीत् । अनन्तरं तया इङ्ग्लैण्ड्-देशे उच्चाधिकारिणित्वेन अपि कार्यं कृतम् आसीत् । हिन्दुस्त्रीभ्यः संघर्षः यदा विजयलक्ष्म्याः पत्युः मृत्युः अभवत्, तदा पत्युः सम्पतौ तस्याः अधिकारः नासीत् । यतः सा पुत्रहीना आसीत् । अतः यदि पुत्रः स्यात्, तदैव सम्पत्तौ अधिकारः भवति इति तत्कालस्य नियमाः आसन् । अनेन नियमेन सा किमपि कर्तुं न अशक्नोत् । तेन प्रसङ्गेन दुःखितया विजयलक्ष्म्या स्त्रीभ्यः अधिकारं प्रदातुं सङ्घर्षाः कृताः । ई. स. १९५५ तमवर्षपर्यन्तं हिन्दुसमाजे बह्व्यः कुरीतयः आसन् । तेन कारणेन स्त्रीषु अत्याचाराः, अन्यायाः च भवन्ति स्म । किन्तु विजयलक्ष्म्या बहवः प्रयासाः कृताः । अन्ते भारतस्य स्वतन्त्रतायाः अनन्तरं सर्वकारसाहाय्येन स्त्रीभ्यः पितुः, पत्युः च सम्पत्तेः उत्तराधिकारः प्राप्तः । विभिन्नपदेषु कार्यम् ई. स. १९५२ तमे वर्षे तया भारतस्य प्रथमस्य सद्भावनान्दोलनस्य कुशलं नेतृत्वं कृतम् । ई. स. १९६२ तः १९६४ पर्यन्तं सा लोकसभायाः सदस्यत्वेन चिता । सा किञ्चित् कालं यावत् महाराष्ट्र-राज्यस्य राज्यपालपदे अपि कार्यं कृतवती आसीत् । यदा ई. स. १९६४ तमस्य वर्षस्य मई-मासस्य २७ तमे दिनाङ्के जवाहरलाल इत्याख्यस्य मृत्युः जातः, तदा विजयलक्ष्म्याः हृदये आघातः अभवत् । तदनन्तरं ई. स. १९६४ तः १९६८ तमवर्षपर्यन्तं सा फूलपुर-प्रदेशस्य लोकसभायाः निर्वाचनक्षेत्रे संसद्-सदस्यतां प्राप्तवती । ई. स. १९६८ तमे वर्षे पारिवारिककारणेभ्यः तया तत्पदं त्यक्तम् आसीत् । तत्क्षेत्रं जवाहरलाल इत्याख्यस्य निर्वाचनक्षेत्रम् आसीत् । जवाहरलाल इत्याख्यः फूलपुर-प्रदेशे १७ वर्षाणि यावत् कार्यं कृतवान् । यदा ‘इन्दिरा गान्धी’ इत्याख्या प्रधानमन्त्रिणीपदम् आरूढवती, तदा तया १९७५ तः १९७७ पर्यन्तं लोकतान्त्रिकप्रक्रियायां प्रतिबन्धं कृत्वा आपत्कालस्य नियमः प्रस्थापितः । आपत्काले साक्षात् सर्वकारः निर्णयं कर्तुम् अर्हति स्म । अतः विजयलक्ष्मीः तस्यै अक्रुध्यत् । विजयलक्ष्म्या स्वस्याः भ्रातृजायाः (इन्दिरा गान्धी) विरोधः कृतः । ई. स. १९७९ तमे वर्षे सा संयुक्तराष्ट्रमानवाधिकारायोगाय भारतस्य प्रतिनिधित्वेन चिता । मृत्युः यदा इन्दिरा गान्धी प्रधानमन्त्रिणीपदम् आरूढवती, तदा विजयलक्ष्म्या राजनीतेः स्वैच्छिकनिवृत्तिः स्वीकृता आसीत् । तदनन्तरं सा देहरादून-नगरं गतवती । सा सार्वजनिकजीवनात् दूरे स्थातुम् ऐच्छत् । अतः देहरादून-नगरं गत्वा सा सन्यासं स्वीकृतवती । ई. स. १९९० तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के भारतस्य उत्तरप्रदेश-राज्यस्य देहरादून-नगरे विजयलक्ष्मी पण्डितः इत्याख्यायाः मृत्युः अभवत् । तस्मिन् काले तस्याः आयुः नवतिवर्षम् (९०) आसीत् । मृत्योः केभ्यश्चित् वर्षेभ्यः पूर्वम् एव सा राजनीतिं त्यक्तवती आसीत् । तस्याः मृत्योः समये बहवः महानुभावाः तत्र उपस्थिताः आसन् । तेषु भारतदेशस्य तत्कालीनः राष्ट्रपतिः “रामास्वामी वैङ्कटरमण” अपि आसीत् । तेन मृत्योः अवसरे विजयलक्ष्म्यै “भारतस्य स्वतन्त्रतायाः चित्रपटस्य उज्ज्वलप्रतीकम्” इति सम्माने वर्णनं कृतम् आसीत् । सम्बद्धाः लेखाः जवाहरलाल नेहरू असहकारान्दोलनम् इन्दिरा गान्धी महात्मा गान्धी भारतीयराष्ट्रियकाङ्ग्रेस् अधिकवाचनाय Vijaya Lakshmi Pandit बाह्यसम्पर्कतन्तुः विजयलक्ष्म्याः साक्षात्कारः विजयलक्ष्मी पण्डित जीवनी जीवनी विजयलक्ष्मी पण्डित सन्दर्भाः महिला-लेखाभियानम् २०१५ उत्तरप्रदेशराज्यस्य व्यक्तयः
2048
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%AF%E0%A4%83
सूक्तयः
सूक्तय: अ अङ्गुलिप्रवेशात्‌ बाहुप्रवेश:। अजा सिंहप्रसादेन वने चरति निर्भयम्‌। अति तृष्णा विनाशाय। अतिपरिचयादवज्ञा। अतिभक्ति चोरलक्षणम्‌। अति सर्वत्र वर्जयेत्। अधिकस्याधिकं फलम्। अनतिक्रमणीया हि नियतिः। अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः। अर्थो हि लोके पुरुषस्य बन्धुः। अल्पविद्या भयङ्करी। अल्पश्च कालो बहवश्च विघ्नाः। अव्यापारेषु व्यापारः। अहिंसा परमो धर्मः। अग्ननिन्दाभयान्नॅव त्याज्यं श्रीकृष्णसेवनम् । अत्के चेन्मधू विन्देत् किमर्थं पर्वतं व्रजेत् । क कण्टकेनैव कण्टकमुद्धरेत्। कर्तव्यो महदाश्रयः। कवयः किं न पश्यन्ति? कालाय तस्मै नमः। काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। किमिव हि दुष्करमकरुणानाम्। किमिव हि मधुराणां मण्डनं नाकृतीनाम्। किं मिष्टमन्नं खरसूकराणाम्। कुपुत्रेण कुलं नष्टम्‌। क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे। त तमसो मा ज्योतिर्गमय। त्यागो हि पुरुषव्याघ्र। ज जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। जीवो जीवस्य जीवनम्। प परोपकारार्थमिदं शरीरम्। परोपदेशे पाण्डित्यम्। पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते। पिण्डे पिण्डे मतिर्भिन्ना। प्रज्वालितो ज्ञानमयः प्रदीपः। प्रथमग्रासे मक्षिकापातः। प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत्‌। प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्‌। म मधुरेण समापयेत्‌। मरणं प्रकृतिः शरीरिणाम्। महाजनो येन गतः स पन्थः। मातृदेवो भव। मार्गारब्धाः सर्वयत्नाः फलन्ति। मौनं सर्वार्थसाधनम्। मौनं सम्मतिलक्षणम्। य यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। यथा राजा तथा प्रजा। यथेच्छसि तथा कुरु। यः क्रियावान्स पण्डितः। याचको याचकं दृष्ट्वा श्वानवत् गुर्गुरायते। यादृशं वपते बीजं तादृशं लभते फलम्। युद्धस्य कथा रम्या। येन केन प्रकारेण प्रसिद्धो पुरुषो भवेत्। योजकस्तत्र दुर्लभः। यौवने मर्कटी सुन्दरी। र रत्नं समागच्छतु काञ्चनेन। राजा कालस्य कारणम्। व वसुधैव कुटुम्बकम्। वादे वादे जायते तत्वबोधः। वयं पञ्चाधिकं शतम्। वाग्भूषणं भूषणम्। विद्याविहीनः पशुः। विद्याधनं सर्वधनप्रधानम्। विद्वान् सर्वत्र पूज्यते। विनाशकाले विपरीतबुद्धिः। स सत्सङ्गतिः कथय किं न करोति पुंसाम्। सत्यं कण्ठस्य भूषणम्। सत्यमेव जयते। सत्यं शिवं सुन्दरम्‌। सा विद्या या विमुक्तये। सुखमुपदिश्यते परस्य। संहतिः कार्यसाधिका। स्थितोऽस्मि गतसन्देहः। स्वभावो दूरतिक्रमः। स्वपरद्रोहजननं सत्यं भास्यं न कर्हिचित् । श्रमं विना न किमपि साध्यम् । संस्कृतकाव्यानि न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे न प्राप्ताः भाषानुबन्धाः संचित्रसारमञ्जूषे योजनीये ह हन्त हन्त महतामुदारता। ज्ञ ज्ञानेन हीना: पशुभि: समाना:। सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
2049
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
मुख्यपृष्ठम्
{| id="mp-bottom" style="width:100%"
2051
https://sa.wikipedia.org/wiki/%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BF%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%83
धातुविमर्शः
धातुः नाम पदानां मूलम्‌ । धातु: पदानाम्‌ उत्पत्ते: कारणम्‌ । पाणिनीय-धातुपाठे २११५ धातव: परिगणिता: सन्ति । धातुभि: सह उपसर्गाणां प्रत्ययानां च योगेन पदनिर्माणं भवति । व्याकरणशास्त्रे पञ्चानामङ्गानां परम्परा दृश्यते। अत एव पञ्चाङ्गं व्याकरणम्‌ इत्यपि प्रथितम्‌। पञ्च अङ्गानि इमानि सन्ति - सूत्रपाठ: धातुपाठ: गणपाठ: उणादिपाठ: लिङ्गानुशासनञ्चेति। एतेषु पञ्चसु अङ्गेषु धातुपाठ: अतिमहत्वपूर्णं स्थानं भजते। प्रायेण संस्कृतशब्दा: व्युत्पन्ना: इति प्रसिद्धा परम्परा । प्रायेण सर्वेषां शब्दानां व्युत्पत्ति: धातुभि: एव प्रदर्श्यते। उच्यते च - सर्वं च नाम धातुजमाह । अत एव संस्कृतव्याकरणे धातूनां महत्त्वं सर्वथा अतिशेते। बहव: वैयाकरणा: धातूनां प्रवचनम्‌ अकार्षु:। श्रीमता युधिष्ठिरमीमांसकेन व्याकरणशास्त्रेतिहासग्रन्थे षड्विंशते: वैयाकरणानाम् उल्लेख: कृत:। तेषां व्याकरणानि सम्प्रति नोपलभ्यन्ते अत: तेषु केन केन धातुप्रवचनं कृतमिति निश्चप्रचं वक्तुमशक्यम्‌। किञ्च प्रकृतिप्रत्ययविभागकल्पनां विना व्याकरणप्रवृत्ति: न सम्भवति इति धिया प्रायेण तै: सर्वैरपि धातुप्रवचनं कृतं स्यादिति ऊहितुं शक्यते। युधिष्ठिरमीमांसकवर्यै: पाणिनिपूर्ववर्तिनां धातुपाठप्रवक्तॄणां येषां धातुपाठविषये काचित्‌ सूचना कुतश्चित्‌ लब्धा तेषां संक्षेपेण विवरणं प्रादायि। एतेषु इन्द्र: वायु: भागुरि: काशकृत्स्न: शाकटायन: आपिशलि: इत्येते प्रमुखा: विद्यन्ते। संस्कृतवाङ्‌मये पाणिने: शब्दानुशासनं पञ्चभि: अवयवै: परिपूर्णं समुपलभ्यते। पाणिनीयव्याकरणसम्प्रदाये य: धातुपाठ: पठनपाठनयो: समुपयुज्यते स: पाणिनिप्रोक्त: इति बहुभि: वैयाकरणै: मन्यते। यद्यपि न्यासकार: जिनेन्द्रबुद्धि: पाणिनीयसम्प्रदाये प्रचलितधातुपाठस्य पाणिनिप्रोक्तत्वं नैव स्वीकरोति। किञ्च व्याकरणशास्त्रेतिहासकारा: अन्ये च विद्वांस: जिनेन्द्रबुद्धे: मतमेतन्नाद्रियन्ते । सम्प्रति पाणिनीयधातुपाठनाम्ना प्रसिद्ध: धातुपाठ: पाणिनिना प्रोक्त: इत्येव सिद्धान्त: मन्यते। पाणिनीय धातुपाठेन वर्गाः इति:- 1. भ्वादि (भू + आदि) 2. अदादि (अद् + आदि) 3. जुहोत्यादि 4. दिवादि 5. स्वादि 6. तुदादि 7. रुधादि 8. तनादि 9. क्र्यादि (क्री + आदि , न तु कृ + आदि ) 10.चुरादि एतानि अपि पश्यतु उपसर्गाः प्रत्यय: वाह्य सूत्राणि पाणिनीय धातुपाठः धातुपाठा: तेषां प्रवक्तारश्च (संक्षिप्त: उल्लेख:) धातुविमर्श: श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
2053
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%83
प्रत्ययः
धातो: प्रातिपदिकात्‌ च परं य: युज्यते स: प्रत्यय: कथ्यते. प्रत्यय: पञ्चविध: - विभक्ति:, कृत्‌, तद्धित:, स्त्रीप्रत्यय:, धात्ववयव:. व्याकरण श्टब्स् संस्कृतसम्बद्धाः न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
2054
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A4%AE%E0%A4%BF%E0%A4%B9%E0%A4%BF%E0%A4%B0%E0%A4%83
वराहमिहिरः
वराहमिहिरः कश्चित् भारतीय: ज्योतिषी गणितशास्त्रज्ञ: च आसीत्। एषः उज्जयिनीनगरे राज्ञ: विक्रमादित्यस्य अस्थाने आसीत् । सिद्धान्तः संहिता होरा चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थान् विलिख्य ख्यातः अस्ति । एषः क्रि.श. ६ शतके आसीत् इति परिगण्यते । विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । होराशास्त्रे जातकशास्त्रे वा बृहज्जातकं ग्रन्थं सुप्रसिद्धं अस्ति । बृहज्जातके जातकस्य जन्मकालिकस्थ ग्रहवशात् तस्य जीवनस्य शुभाशुभं फलं वक्तुं सक्यते । बराहमिहिर पश्चात् य: विद्वांस: होराशास्त्रं रचितवान्, तेन प्रायेण वराहमिहिर ग्रन्थं दृष्ट्वा अहं ग्रन्थं रचयामिति उल्लेखं प्राप्यते, इत्यनेन होराशास्त्रे बृहज्जातकस्य वैशिष्ट्यं सिद्धयति । संहिताग्रन्थे बृहत्संहिता सुप्रसिद्धम् । बृहत्संहितायां ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति । पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेऽस्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च अस्ति । जर्मनपण्डितः डा. थीबोमहोदयः ऐदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (सप्तपञ्चाशदधिक- अष्टादशशततमे) वर्षे प्राकटयत् । वराहमिहिरस्य असाधारणं बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा स्मर्यते । एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहूपकारकाः संशोधनयोग्याश्च सन्ति । भारतीयविज्ञानिनः बाह्यानुबन्धः योजनीयः श्टब्स् संस्कृतसम्बद्धाः संचित्रसारमञ्जूषे योजनीये सर्वे अपूर्णलेखाः ज्योतिर्विदाः संस्कृतकवयः षष्ठमशताब्द्याः कवयः
2057
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%97%E0%A4%A7%E0%A4%83
लगधः
लगधः वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः वेदाङ्गज्योतिषम् अरचयत्‌ । अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति | तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् | गणितम् गणितज्ञाः बाह्यानुबन्धः योजनीयः चित्रं योजनीयम् सारमञ्जूषा योजनीया विषयः वर्धनीयः ज्योतिर्विदाः
2101
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%B6%E0%A4%AA%E0%A4%BE%E0%A4%B2
यशपाल
यशपाल: (Yashpal)(1903-1976) एक: प्रमुख: हिन्दी कथाकार: आसीत्‌. पश्‍य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १९०३ जननम्
2102
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%9A%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%83
सच्चिदानन्दवात्स्यायनः
सच्चिदानन्द हीरानन्द वात्स्यायन (अज्ञेय) (१९११-१९८७) एक: प्रमुख: हिन्दी कथाकार: कवि: च आसीत्‌. पश्‍य हिन्दी साहित्यं अनेन बहवः गद्यात्मकाः पद्यात्मकाः हिन्दी ग्रन्थाः सम्पादिताः|केषांचित ग्रंथानां नामानि निम्नलिखितानि वर्तन्ते| भग्नदूत / अज्ञेय (कविता संग्रह, 1935) चिन्ता / अज्ञेय (कविता संग्रह, 1942) इत्यलम् / अज्ञेय (कविता संग्रह, 1946) शरणार्थी / अज्ञेय (कविता संग्रह, 1948) हरी घास पर क्षण भर / अज्ञेय (कविता संग्रह, 1949) बावरा अहेरी / अज्ञेय (कविता संग्रह, 1954) इन्द्र-धनु रौंदे हुए थे / अज्ञेय (कविता संग्रह, 1957) अरी ओ करुणा प्रभामय / अज्ञेय (कविता संग्रह, 1959) आंगन के पार द्वार / अज्ञेय (कविता संग्रह, 1961) कितनी नावों में कितनी बार / अज्ञेय (कविता संग्रह, 1967) क्योंकि मैं उसे जानता हूँ / अज्ञेय (कविता संग्रह, 1969) सागर-मुद्रा / अज्ञेय (कविता संग्रह, 1969) पहले मैं सन्नाटा बुनता हूँ / अज्ञेय (कविता संग्रह, 1973) महावृक्ष के नीचे / अज्ञेय (कविता संग्रह, 1977) नदी की बाँक पर छाया / अज्ञेय (कविता संग्रह, 1981) ऐसा कोई घर आपने देखा है / अज्ञेय (कविता संग्रह, 1986) अनेन "कितनी नावों में कितनी बार" ग्रन्थस्य कृते ज्ञानपीठ पुरस्कारः अपि लब्धः| ज्ञानपीठप्रशस्तिभाजः समाजसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2103
https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A4%A3%E0%A5%80%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%20%E0%A4%A8%E0%A4%BE%E0%A4%A5%20%E0%A4%B0%E0%A5%87%E0%A4%A3%E0%A5%81
फणीश्वर नाथ रेणु
फणीश्वर नाथ रेणु(Phanishwar Nath Renu) (१९२१-१९७७) एक: प्रमुख: हिन्दी कथाकार: आसीत्‌। पश्‍य हिन्दी साहित्यं ग्रन्था: मैला आञ्चल बाह्यसम्पर्कतन्तुः Phanishwar Nath 'Renu' at Gadya Kosh (Online Encyclopedia of Hindi Literature) Extract from Atma-Sakhsi, and Phanisvarnath Renu: Dialogue with Lothar Lutze; हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १९२१ जननम् १९७७ मरणम्
2104
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%8B%E0%A4%B9%E0%A4%A8%20%E0%A4%B0%E0%A4%BE%E0%A4%95%E0%A5%87%E0%A4%B6
मोहन राकेश
मोहन राकेश(Mohan Rakesh) (१९२५-१९७२) एक: प्रमुख: हिन्दी कथाकार: नाटककार: च आसीत्‌. बाह्यसम्पर्कतन्तुः Mohan Rakesh in Abhivyakti पश्‍य हिन्दी साहित्यं हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् चित्रं योजनीयम् सर्वे अपूर्णलेखाः १९२५ जननम् १९७२ मरणम्
2109
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%A7%E0%A4%B5%E0%A4%83%20%28%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%29
माधवः (ज्योतिर्विद्)
माधव: (१३४०-१४२५) केरले कोचिन नगरे जात:। स: महान् ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌। स: करण-पद्घतिम् अरचयत्‌। गणितम् बाह्य माधव-समीक्षा केरले इरिङ्ङालकुटायाम (संगमग्रामे) एषः जात: गणितज्ञाः संचित्रसारमञ्जूषे योजनीये श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः
2110
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%20%E0%A4%AA%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%BF%E0%A4%A4
नारायण पण्डित
नारायणपण्डितः (१३४०-१४००) केरले जात:। स: प्रमुख: ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌। स: गणित-कौमुदीम् अरचयत्‌। गणितं केरलराज्यस्य जनाः केरलराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2111
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%80%E0%A4%B2%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A0%20%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A4%BF
नीलकण्ठ सोमयाजि
नीलकण्ठ सोमयाजि (१४४४-१५४४) केरले जात:. स: महान ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌. तस्‍य गुरु: परमेश्‍वर: आसीत्‌. स: तन्त्र-संग्रह अरचयत्‌. गणितं केरलराज्यस्य जनाः केरलराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2112
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0
परमेश्वर
परमेश्वर: (१३७०-१४६०) केरले जात:. स: नारायण पण्डितस्‍य शिष्य आसीत्‌. गणितं केरलराज्यस्य जनाः न प्राप्तः भाषानुबन्धः सर्वे न प्राप्ताः भाषानुबन्धाः केरलराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
2114
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%83
याज्ञवल्क्यः
याज्ञवल्क्यः मिथिलावासी ह्यासीत्। मिथिलादेशाधीश्वरस्य महाराज्ञो जनकस्य राजसभायामस्य विशेषसमादरः अासीत्। अनेन याज्ञवल्क्येन व्यासदेवस्य चतुर्भ्यः शिष्येभ्यः वेदचतुष्टयस्य अध्ययनं कृतम्। निजमातुलाद् वैशम्पायनादयं यजुर्वेदस्य अध्ययनं कृतवान्। शतपथब्राह्मणस्य प्रामाण्यस्य उपरि अनेनोद्दालक-आरुणिनामकेन प्रौढदार्शनिकेन वेदान्तस्य परिशीलनं कृतम्। वेदान्तस्य प्रशंसायाम् एकदाऽरुणिरमुमवोचत् -- वेदान्तशक्त्या अभिमन्त्रितजलेन यदि स्थाणुरपि सिञ्चेत्, तर्हि तस्मादपि पत्रपुष्पाणि च निःसरेयुः इति। ततः सुयोग्यशिष्येण याज्ञवल्क्येन गुरोः कथनमिदमक्षरशः सत्यं प्रमाणीकृतम्। प्रगाढपाण्डित्येन अपूर्वयोगबलेन, गाढ-दर्शनिकत्वेन योगी याज्ञवल्क्योऽयं कर्मयोगिनो नृपजनकस्य विशेषाभ्यर्थनायाः सत्कारस्य च भाजनमासीत् (बृहदा० उ० अ० ३/४ )  याज्ञवल्क्यं महाप्राज्ञम् आदित्यात् प्राप्तविद्यकम्। यजुर्वेदस्य द्रष्टारं वन्देहं गुरुपुङ्गवम् ॥ अतीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम् यः पश्यति स्वयं वाक्यं स ऋषिः - इति वचनानुसारं तपसा ईश्वरस्य अनुग्रहेण वेदमन्त्राणां द्रष्टा अस्ति ब्रह्मर्षिः याज्ञवल्क्यः। यागनिर्वर्तने सिद्धहस्तः एषः विशेषतया अग्नेः आराधकः आसीत्। परिवारः, बाल्यञ्च याज्ञवल्क्यस्य पितुर्नाम देवराज इति। याज्ञवल्क्यस्य माता साध्वी सुनन्दादेवी। दम्पती अनन्यश्रद्धया यज्ञेश्वरस्य आराधनेन याज्ञवल्क्यं पुत्ररूपेण प्राप्तवन्तौ। अयं हि देवराजः सर्वदा दरिद्रेभ्यः वस्त्रदानाय तत्परः अासीत्। तेनैव कारणेन ‘वाजसनि' इत्यपरनाम्ना विख्यातः आसीत्। देवराजः धर्मगुरुः इति प्रसिद्धः आसीत्। कार्तिकमासस्य शुक्लसप्तम्याम् याज्ञवल्क्यस्य जन्म अभवत्। गर्भपञ्चमे वयसि याज्ञवल्क्यस्य उपनयनसंस्कारः जातः। याज्ञवल्क्यस्य द्वे पत्न्यौ स्तः - मैत्रेयी कात्यायनी च। मैत्रेयी विदुषी ब्रह्मवादिनी आसीत्। परिव्रजनकाले तामेव ब्रह्मविद्यायाः शिक्षां दत्त्वाऽयं गृहं तत्याज। विद्याभ्यासः याज्ञवल्क्यस्य गुरुः महर्षिः वैशम्पायनः। वैशम्पायनः भगवतः व्यासस्य शिष्यः। भगवान् व्यासः वेदान् ऋक्-यजुस्-साम-अथर्व इति चतुर्धा विभक्तवान्। तेषां प्रचाराय चतुरः शिष्यान् नियुक्तवान्। ऋग्वेदपाठकत्वेन पैलः, यजुर्वेदपाठकत्वेन वैशम्पायनः, सामवेदपाठकत्वेन जैमिनिः, अथर्ववेदपाठकत्वेन सुमन्तुः च तेन योजिताः। यज्ञविधिः आदौ यजुर्वेदः इति एकः एव आसीत्। (एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत्। चातुर्होत्रमभूत्तस्मिन् तेन यज्ञमथाकरोत् ॥ - विष्णुपुराणम्)। व्यासः तत् चतुर्धा विभज्य चतुर्भिः याजकैः युक्तां चातुर्होत्रपद्धतिम् आनीतवन्तः। यजुर्वेदमन्त्रैः अध्वर्युः, ऋग्भिः होता, सामभिः उद्गाता, अथर्वमन्त्रैः ब्रह्म च यज्ञे भागं यथा वहेयुः तथा अकरोत्। महर्षिः याज्ञवल्क्यः यजुर्वेदवृक्षं सप्तविंशतिशाखाभिः विभज्य एकैकां शाखाम् एकस्मै शिष्याय अबोधयत्। याज्ञवल्क्यः नितरां बुद्धिमान् आसीत्। विनयशीलः सः अचिरादेव गुरुकुले सर्वेषां प्रीतिपात्रं जातः। अत्यल्पावधौ यजुर्वेदं सम्पूर्णतया अधीत्य तेजोयुक्तः जातः। गुरुः वैशम्पायनः कदाचित् अस्वस्थः जातः। तस्य स्वास्थ्यर्थं चरक-अध्वर्युः इत्यादयः ज्येष्ठशिष्याः तपः कर्तुं निश्चितवन्तः। याज्ञवल्क्यः गुरोः समीपं गत्वा अवदत् - 'तैः क्रियमाणं तपः प्रभावयुक्तं न स्यात्। अतः अहम् एकाकी तपः आचरामि' इति। वैश्म्पायनः - 'ज्येष्ठशिष्यानां विषये एवं कथनं न उचितम्। भवता तपः आचरणीयं नास्ति' इति स्वस्य असन्तोषं प्राकटयत्। अन्यदा राज्ञः स्वास्थ्याय आश्रमे आचरितस्य होमस्य प्रसादं स्वीकृत्य तस्य दानाय प्रासादम् अगच्छत् याज्ञवल्क्यः। तीर्थप्रसादयोः विषये राज्ञा दर्शिताम् उपेक्षाम् असहमानः याज्ञवल्क्यः पुनः गुरुणा सूचितोऽपि तत्र गमनं न अङ्ग्यकरोत्। एतैः कारणैः शिष्यविषये क्रुद्धः वैशम्पायनः 'गुरुकुलात् प्रतिगम्यताम्। अत्र अधीतं सर्वं परित्यज्य गम्यताम्' इति आदिष्टवान्। याज्ञवल्क्यः अधीतं समग्रं यजुर्वेदम् अवमत्। एतेन तदीयं तेजः अदृश्यतां गतम्। अग्रे पैलमुनेः शिष्यस्य भास्कलस्य समीपं गत्वा ऋग्वेदं, कोसलदेशस्य ऋषेः हिरण्यनाभस्य गुरुकुले सामवेदम्, आचार्यस्य आरुणेः समीपं गत्वा अथर्ववेदं च अधीतवान्। ततः सः महर्षेः उद्दालकस्य आश्रमम् अगच्छत्। शास्त्रोक्तधार्मिककर्मणां विषये अत्र गभीराध्ययनम् अकरोत् याज्ञवल्क्यः। शिष्यस्य बुद्धिशक्तिं सामर्थ्यं च दृष्ट्वा परमसन्तुष्टः उद्दालकः तेन ज्ञातां समग्रां विद्याम् अबोधयत्। यजुर्वेदज्ञानं यद् आत्मना परित्यक्तं तस्मिन् विषये याज्ञवल्क्यस्य मनसि बहु खेदः आसीत्। यजुर्वेदस्य अध्ययनं विना विद्याभ्यासः पूर्णः न भवति इति कारणतः सः वेदमातुः गायत्र्याः अनुग्रहप्राप्त्यै तपः आरब्धवान्। एतस्य कठिनतपसा सन्तुष्टा सा प्रत्यक्षीभूय 'वत्स ! सूर्यः आराध्यताम्। तस्य अनुग्रहेण भवदिष्टं सिद्ध्यति।' इति अवदत्। ततः याज्ञवल्क्यः तीव्रतपसा सूर्यस्य आराधनाम् आरब्धवान्। तपसः प्रभावेण अद्भुतशक्तयः तस्मिन् गोचरतां गताः। गुरुः याज्ञवल्क्यस्य पितरौ आहूय अस्य विद्याभ्यासः सम्पन्नः इति असूचयत्। गृहस्थाश्रमप्रवेशः ज्येष्ठानाम् अपेक्षानुगुणं याज्ञवल्क्येन ऋषेः कदिरस्य पुत्री कात्यायनी परिणीता। विवाहावसरे गुरुः वैशम्पायनः सपत्नीकः उपस्थाय 'अधुना भवान् अस्ति सर्वज्ञः। लोकः इदम् अङ्गीक्रियात्' इति प्रीत्या अनुगृहीतवान्। कात्यायनी वयसा यद्यपि अवरा तथापि स्वस्य वचन-व्यवहारैः याज्ञवल्क्यस्य योग्या पत्नी आसीत्। सूर्योपासनं सिद्धिश्च सरस्वत्याः आदेशानुगुणं यजुर्वेदज्ञानस्य प्राप्त्यै याज्ञवल्क्यः तीव्रं सूर्योपासनम् आरब्धवान्। प्रतिदिनं ब्राह्मीमुहूर्ते उत्थाय नित्यकर्माणि समाप्य सूर्यमन्त्रस्य जपे मग्नः भवति स्म आमध्याह्नम्। सूर्याय अर्पितं पायसान्नमात्रं दम्पत्योः दिनस्य आहारः आसीत्। दिने दिने तस्य तपः तीव्रतां गतम्। कदाचित् सूर्यजपे मग्नेन तेन विलक्षणः आनन्दः अनुभूतः। सूर्यः अश्वाकारेण प्रत्यक्षः जातः। ततः मनुष्यदेहं प्राप्य सूर्यः अवदत् - 'आदौ सरस्वतीदेवी भवन्तं प्रविश्य वेदज्ञानस्य प्राप्त्यर्थम् आवश्यकीं शक्तिं दास्यति। ततः शरीरं मनः च पवित्रं भवति। ततः वेदज्ञानं प्राप्तुम् अर्हति।' इति। सरस्वत्याः अनुग्रहेण शक्तिं प्राप्तवान् याज्ञवल्क्यः प्रकाशे विद्यमानस्य वेदस्य ज्ञानं प्राप्तवान्। तदीयं शरीरं मनः आत्मा च आनन्दानुभवेन पूर्णतां गताः। तेन साक्षात्कृताः मन्त्राः एव शुक्लयजुर्वेदः इति प्रसिद्धिं गतः। शुक्लयजुर्वेदे कर्मयोग-ज्ञानयोगसम्बद्धाः विषयाः विस्तृतरूपेण विवृताः सन्ति। तस्मात् शतपथब्राह्मणनामकं शतैः अध्यायैः युक्तं ब्राह्मणं रचितं जातम्। ईशावास्योपनिषत्, बृहदारण्यकोपनिषत् - एतदुभयमपि आत्मनः दैवविषये च उपदिशति। याज्ञवल्क्येन स्मृतिः रचिता। सा याज्ञवल्क्यस्मृतिः इति प्रसिद्धा। कुलपतित्वम्, ब्रह्मर्षित्वप्राप्तिश्च महर्षिः उद्दालकः याज्ञवल्क्यम् उद्दिश्य 'वार्धक्यकारणतः गुरुकुलचालनं मम कष्टाय जातम्। इतःपरं भवान् अस्य गुरुकुलस्य कुलपतिः भवतु' इत्यवदत्। गुरोः आदेशम् शिरसा पालयता तेन कुलपतिपदम् अङ्गीकृतम्। तस्य कारणतः आश्रमस्य कीर्तिः सर्वत्र प्रसृता जाता। विदेहस्य राजा जनकः याज्ञवल्क्यस्य आश्रमम् आगत्य तस्य अनुग्रहपात्रं जातः। शुक्लयजुर्वेदस्य प्रचाराय तेन सभा आयोजिता। तत्र समुपस्थिताः सर्वे विद्वद्वरेण्याः वेदद्रष्टारः याज्ञवल्क्यद्वारा शुक्लयजुर्वेदं श्रुत्वा परमसन्तुष्टाः जाताः। अयं वेदः वाजिरूपेण आदित्येन उपदिष्टम् इत्यतः वाजसनेयी संहिता इति, ईशावास्योपनिषत् वाजसनेयसंहितोपनिषत् इति च भवतु इति याज्ञवल्क्येन सूचितम्। सभायाम् उपस्थिताः दार्शनिकाः सर्वे याज्ञवल्क्यं ब्रह्मर्षिः'' इति सम्मानितवन्तः। तस्यां सभायाम् उपस्थिता मैत्रेयी याज्ञवल्क्यस्य शिष्या सती आध्यात्मसाधनं कर्तुम् इष्टवती। सा कात्यायन्याः अनुमतिं प्राप्य याज्ञवल्क्यस्य पुरतः स्वस्य आशयम् अवदत्। तां सः आध्यात्मसहधर्मिणीरूपेण परिणीतवान्। ज्ञानसत्रम् जनकमहाराजः किञ्चन महद् ज्ञानसत्रम् आयोजितवान् आसीत्। तत्र उद्देशद्वयम् आसीत्। विभिन्नदिग्भ्यः आगताः विद्वांसः ऋषयः परस्परविचारविनिमयेन वैदिकविचाराणां प्रचारं कुर्युः इति। आगतेषु अत्युत्तमज्ञानी योग्यरीत्या सत्कृतः स्यात् इति च। तद्दिने बहवः ज्ञानिनः सम्मिलिताः। तत्र जनकेन घोषितं - 'अत्र यः अस्ति ब्रह्मज्ञानी सः अत्र आगत्य सर्वज्ञकिरीटधारणेन सम्माननं प्राप्य गोष्ठे बद्धाः सुवर्णनाणकहारैः अलङ्कृतशृङ्गाः सहस्र धेनवः स्वायत्तीकुर्यात्' इति। तदा विद्वत्सभातः सिंहगाम्भीर्येण उत्थाय आगतः याज्ञवल्क्यः शिष्यम् अवदत् - 'सामश्रव ! गोसमूहः आश्रमं प्रति नीयताम्' इति। तस्य ध्वनिः आत्वविश्वासपूर्णः आसीत्। भीतिः अहङ्कारः वा लेशमात्रेण अपि नासीत्। ततः बहुभिः पृष्टानां विविधप्रश्नानां कृते समुचितम् उत्तरं तेन दत्तम्। तस्मात् सर्वे समाहिताः जाताः। सः सर्वज्ञकिरीटधारणेन सम्मनितः जातः। संन्यासस्वीकारः ज्ञानसत्रस्य अनन्तरं याज्ञवल्क्यः स्वस्य शिष्ययोः कण्व-मध्यन्दिनयोः कृते गुरुकुलदायित्वं प्रदत्तवान्। जीवने वैराग्यं प्राप्तवान् सः पत्न्यौ आहूय संन्यासस्वीकाराय अनुमतिम् अपृच्छत्। ब्रह्मवादिनी मैत्रेयी आत्मसाक्षात्कारमार्गम् उपदिश्यताम् इति प्रार्थितवती। सन्तुष्टः सः ताम् उपादिशत्। ततः संन्यासाश्रमस्वीकरणम् अकरोत्। नमोऽस्तु याज्ञवल्क्याय नमोऽस्त्वमिततेजसे।नमो ज्ञानस्वरूपाय परब्रह्मविदे नमः ॥''' पौराणिकधार्मिकव्यक्तयः प्राचीनगुरवः स्मृतिकाराः
2115
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%A6%E0%A5%87%E0%A4%B5
ज्येष्ठदेव
ज्येष्ठदेव: (१५००-१५७५) केरले जात:. स: प्रमुख: ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌. स: युक्ति-भास्‌ अरचयत्‌. गणितं केरलराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2116
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AA%E0%A4%A4%E0%A4%BF%E0%A4%83
श्रीपतिः
श्रीपति: (१०१९-१०६६) प्रमुख: ज्योतिर्विद्‌ गणितज्ञ: च आसीत्‌. स: सिद्घान्त-शेखर: अरचयत्‌. गणितं भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया ज्योतिर्विदाः
2118
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%81%E0%A4%B2%E0%A4%B8%E0%A5%80%E0%A4%A6%E0%A4%BE%E0%A4%B8%E0%A4%83
तुलसीदासः
गोस्वामी तुलसीदासः (१५११ – १६२३ ई.) हिन्दीसाहित्यस्य महान् कविः आसीत् । अस्य जन्म सीरी शूकरक्षेत्रे वर्तमानस्य उत्तरप्रदेशान्तर्गतस्य एटाजनपदस्य कासगञ्ज इत्याख्ये ग्रामे अभवत् । केचन विद्वांसः वर्तमाने चित्रकूटजनपदे राजापुरनामके ग्रामे अस्य जन्म  मन्वते । अन्ये केचन गोनर्दजनपदे (गोण्डा) विद्यमाने शूकरखेत इत्याख्ये ग्रामे अस्य जन्म मन्वते । जनाः इमं रामायणरचयितुः आदिकवेः वाल्मीकेः अवतारं वदन्ति । अनेन अवधीभाषायां (हिन्दीभाषायाः उपभाषा) रामचरितमानस इत्याख्यं काव्यं रामस्य जीवनचरित्रस्य उपरि आधारितं वर्तते । तस्य कथानकं मूलतः बाल्मीकेः रामायणात् स्वीकृतं वर्तते । सः रामचरितमानसे स्वयम् उद्धरति – नानापुराणनिगमागमसम्मतं यद् रामायणे निगदितं क्वचिदन्यतोऽपि । स्वान्तःसुखाय तुलसी रघुनाथगाथा- भाषानिबद्धमतिमञ्जुलमातनोति ।। - (रामचरितमानस/बालकाण्ड/श्लोकसङ्ख्या-७) रामचरितमानस इत्याख्यः ग्रन्थः उत्तरभारते महत्या श्रद्धया गीयते । जनाः अस्य अष्टयामेषु अखण्डपारायणं कुर्वन्ति । तथैव नवाह्नपरायणविधिः मासपरायणविधिः अपि प्रचलति । जन्म अधिकांशाः विद्वांसः तुलसीदासस्य जन्मस्थानं राजापुरं मन्यन्ते । केचन तु शूकरक्षेत्रम् अपि कथयन्ति । राजापुरम् इति उत्तरप्रदेशस्य चित्रकूटजनपदान्तर्गतः एकः ग्रामः वर्तते । तत्रैव सनाढ्यब्राह्मणस्य आत्मारामद्विवेदिनः तथा हुलसीदेवी इत्यनयोः पुत्रः तुलसीदासः १५११ वि.सं. श्रावणमासे शुक्लपक्षे सप्तम्यां तिथौ अभुक्तमूलनक्षत्रे जन्म अलभत् । जनश्रुतिः वर्तते यत् अयं शिशुः द्वादशमासं यावत् गर्भे एवासीत् इत्यतः अस्य शरीरम् अतीव हृष्ट-पुष्टम् आसीत् । अयं सदन्तः एव जातः तथा च जन्मसमनन्तरम् एव स्वेष्टस्य भगवतः रामस्य नामोच्चारणं चकार । अतः एव अस्य नाम स्थानीयभाषानुसारं रामबोला (रामम् अवदत् इत्यर्थवाची) जातम् । अस्य जन्मनः द्वितीये दिवसे एव अस्य जननी हुबलीदेवी दिवंगतवती । तदा कुले मूलनक्षत्रजन्यम् अन्यदनिष्टं न स्यादिति विचिन्त्य पिता इमं बालकं चुनिया इत्याख्यायै भृत्यायै दत्तवान् । स्वयं च पत्नी-पुत्रवियोगकारणात् विरक्तः जातः । बाल्यावस्था यदा रामबोला पञ्चवर्षीयः जातः तदा तस्य पालिका चुनिया अपि परलोकं गता । अधुना अयं बालकः अनाथः सन् इतस्ततः भ्रमति स्म । तदा भगवतः शिवस्य अनुकम्पया रामशैले तपश्चर्यमाणस्य श्रीमत्-अनन्तानन्दस्य प्रियशिष्यः नरहरिदासः अमुं रामबोलायाः विषये बहुचर्चां श्रुत्वा तम् अन्विष्टवान् । अपि च अनाथम् अमुं बालकं सनाथीकृत्य तस्य विधिपूर्वकं तुलसीरामः इति नामकरणं कृतवान् । एवं रामबोला तुलसीरामः जातः । तदनन्तरं नरहरिदासः अमुं बालकम् अयोध्यां नीतवान् । तत्र विक्रमसंवति १५६१, माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ (सरस्वतीपूजोत्सवदिने अथवा वसन्तपञ्चमीदिवसे) अस्य यज्ञोपवीतसंस्कारम् अकारयत् । तदा यज्ञोपवीतसंस्कारावसरे अपि अयं बालकः अपाठितः सन्नपि गायत्रीमन्त्रस्य स्पष्टोच्चारणम् अकरोत् । तद् दृष्ट्वा सर्वे आश्चर्यचकिताः समभवन् । अनन्तरं नरहरिदासः वैष्णवोचितान् पञ्चसंस्कारान् कृत्वा राममन्त्रस्य दीक्षाम् अददत् तथा च अयोध्यायामेव उशित्वा अस्य बालकस्य विद्याध्ययनम् अकारयत् । बालकः तुलसीरामः तीक्ष्णबुद्धिः आसीत् । सः गुरुमुखात् एकवारम् एव श्रुत्वा कण्ठस्थीकरोति स्म । किञ्चिद्दिनानन्तरं नरहरिदासः तुलसीरामः च शूकरक्षेत्रं (सोरो) गतवन्तः । तत्र नरहरिदासः अमुं बालकं रामकथाम् अश्रावयत्, परन्तु सः बालकः सम्यग्रूपेण नाधिगतवान् ।   यदा बालकः तुलसीरामः उनविंशद्वयस्कः (२९) आसीत्, तदा तस्य विवाहः १५६३ विक्रमसंवत्सरस्य ज्येष्ठशुक्लत्रयोदश्यां यमुनापारे स्थिते ग्रामे अतिसुन्दर्या भरद्वाजगोत्रोत्पन्नया रत्नावल्या सह सञ्जातः । परन्तु तस्य वध्वागमनं न जातम् अतः सः कस्मैचित् दिनाय काशीं गतः । तत्र महात्मनः शेषसनातनस्य समीपम् उशित्वा वेद-वेदाङ्गानाम् अध्ययने निरतः । एकदा सः स्वपत्न्या सह मेलनार्थं व्याकुलः जातः । असह्यवियोगे सति गुरोः अनुमतिं प्राप्य स्वजन्मस्थानं राजापुरं प्रत्यागतः ।  पत्नी रत्नावली तु मातृगृहे आसीत् अतः तया सह मेलितुं रात्रिकाले एव यमुनानदीं तीर्त्वा तत्र गतवान् तस्याः शयनकक्षं च प्रविष्टवान् । पत्नी रत्नावली तु अकस्मात् तं दृष्ट्वा आश्चर्यचकिता जाता । सा लोकलज्जाभयात् तं स्वगृहं प्रतिगन्तुम् उक्तवती, तदा तुलसीरामः ताम् अपि सहगन्तुम् आग्रहीतवान् । तस्य एवम् अप्रत्याशितं अकालिकं दुराग्रहं दृष्ट्वा एकेन दोहाकाव्येन तं बोधितवती । तेन ज्ञानेन बुद्धः तुलसीरामः प्रसिद्धः तुलसीदासः सञ्जातः । तद् दोहाकाव्यम् एवम् आसीत् –अस्थि चर्ममय देह यह, ता सों ऐसी प्रीति ।नेकूं जो होती राम से, तो काहे भव भीत ?अस्यार्थः संस्कृते एवं भवेत् – अस्थिचर्ममयो देहस्तत्र प्रीतिर्यथा तथा ।रामे स्याच्चेन्न भीतिः स्याद्भवलोके कदाचन ।।  अनेन प्रेरितः  तुलसीदासः पत्नीं विहाय स्वग्रामं राजापुरं प्रत्यागतः । ततः स्वग्रामे एव ग्रामवासिनः रामकथां श्रावितुम् आरब्धवान् । भगवतः श्रीरामस्य दर्शनम् कञ्चित् कालं यावत् राजापुरे भूत्वा ततः काशीं गतः तत्रापि जनान् रामकथां श्रावितवान् । कथाक्रमे एव एखस्मिन् दिने मानववेषधारी प्रेतः मिलितः, सः तुलसीदासं हनुमतः निवासविषये निर्दिष्टवान् । तुलसीदासः हनुमता सह मिलित्वा तं रघुनाथस्य भगवतः रामस्य दर्शनं कारयितुं प्रार्थिवान् । हनुमान् निर्दिष्टवान् यत् चित्रकुटनगरे भगवतः रामस्य दर्शनं भविष्यति इति । एवं श्रुत्वा तुलसीदासः चित्रकुटाय प्रस्थितवान् । चित्रकूटं प्राप्य मन्दाकिन्याः तटे रामघट्टे स्वकीयम् आसनं कृतवान् । एकदा यदा सः प्रदक्षिणां कर्तुं प्रस्थितवान्, तदैव अकस्मात् श्रीरामस्य दर्शनम् अभवत् । सःदृष्टवान् यत् अतीव सुशोभनौ अश्वारूढौ शर-चापहस्तौ द्वौ राजकुमारौ गच्छतः इति । तुलसीदासः तौ दृष्ट्वा आकृष्टः जातः, परन्तु न तौ अभिज्ञातवान् यदेतौ रामलक्ष्मणौ इति । अनन्तरं यदा हनुमान् आगत्य उक्तवान्, तदा सः स्वमूढतायै खिन्नः जातः । हनुमान् पुनः सान्त्वयन् उक्तवान् यत् श्वः पुनः दर्शनं भवेत् इति । अपरेद्युः संवति १६०७ मौनी-अमावश्यायाम् बुधवासरे पुनः भगवान् श्रीरामः प्रकटीभूतः, सः बालरूपधारी भगवान् श्रीरामः आगत्य तुलसीदासम् उक्तवान् यत् मह्यं चन्दनं देहि इति । गुप्तरूपेण विराजमानः हनुमान्, अचिन्तयत् यत् पुनरपि तुलसीदासः वञ्चितः न भवेत् । अतः सः काव्यरूपेण निर्दिष्टवान् – चित्रकूट के घाट पर भई सन्तन की भीर । तुलसीदास चन्दन घिसे तिलक देत रघुवीर ।। अस्य अर्थः संस्कृते – चित्रकूटस्य घट्टे सन्तजनानां सम्मर्दः अस्ति । अस्मिन् एव जन समूहे तुलसीदासः चन्दनं घर्षयति, तथा च तत् चन्दनं स्वीकृत्य भगवान् श्रीरामः तिलकं करोति इति । एवं गूढवचनं श्रुत्वा तुलसीदासः ज्ञातवान् यदये बालकरूपधारी भगवान् रामः एवेति । अन्ततः भगवान् श्रीरामः चन्दनं नीत्वा स्वमस्तके ततः प्रसादरूपेण तुलसीदासस्य मस्तके अपि लेपितवान् । पुनः अन्तर्ध्यानः जातः । तुलसीदासस्य संस्कृतपद्यरचना संवति १६२८वि. तुलससीदासः हनुमतः आज्ञया अयोध्यानगर्यै प्रस्थितः । तदा प्रयागे माघमासिकः सङ्गमस्नानकालः आसीत् । अतः तत्रैव कानिचित् दिनानि स्थितवान् । पर्वणः समाप्तेः षड्दिनानन्तरं वटवृक्षस्य अधः भरद्वाजमुनेः ऋषियाज्ञवल्क्यस्य च दर्शनम् अभवत् । तस्मिन् समये तत्र सा एव रामकथा प्रचलति स्म, यां कथा सः शूकरक्षेत्रे स्वगुरुणा श्रुतवान् आसीत् । माघपर्वसमाप्तेः अनन्तरं सः प्रयागात् पुनः काशीम् आगतः, तत्र सः प्रह्लादघट्टे स्थिते एकसस्मिन् ब्राह्मणगृहे निवासं कृतवान् । तत्रैव सः कवित्वशक्तिं प्राप्तवान् । अथ च संस्कृते पद्यरचनाम् आरब्धवान् । परन्तु सः आदिनं यावत् पद्यरचनां करोति स्म, तत् सर्वमपि रात्रौ लुप्तं भवति स्म । एवं प्रतिदिनं भवति स्म इत्यतः सः बहुखिन्नः जातः । अष्टमे दिवसे सः स्वप्नं दृष्टवान् यत् भगवान् शिवः स्वलोकभाषया काव्यं कर्तुम् आदिशति इति । तुलसीदासः स्वप्नं दृष्ट्वा जागृतः । तत्क्षणं भगवान् शिवः पार्वतीसहितः प्रकटीभूतः । तुलसीदासः साष्टाङ्गप्रणामम् अकरोत् । प्रसन्नश्च शिवः उक्तवान् यत् त्वम् अयोध्यायाम् उशित्वा लोकभाषया काव्यरचनां कुरु । मम आशीर्वचनेन तव काव्यं सामवेदसमं फलीभविष्यति इति । तुलसीदासः भगवतः शिवस्य आज्ञां शिरोधार्य अयोध्यं गतः । तत्र च तत्रत्यां लोकभाषायाम् (अवधीभाषायाम्) रामचरितमानसकाव्यस्य रचनाम् अकरोत् । रामचरितमानसस्य रचना विक्रसंवति १६३१ प्रारम्भे, चैत्रशुक्लनवम्यां रामनवमिदिवसे तादृशः एव योगः आसीत् यथा त्रेतायुगे रामजन्मदिवसे आसीत् इति । तस्मिन् दिने प्रातःकाले तुलसीदासः रामचरितमानसकाव्यस्य रचनाम् आरब्धवान् । वर्षद्वये सप्तमासेषु षड्विंशेषु दिनेषु (२वर्षम्, ७ मासाः, २६ दिनानि) अयं ग्रन्थः रचितः । एवं विक्रमसंवति १६३३ मार्गशीर्षमासस्य शुक्लपक्षे रामविवाहदिवसे अस्य सप्तकाण्डानि पूर्णानि जातानि । ततः भगवतः आज्ञया तुलसीदासः काशीं प्रतिगतः । तत्र भगवन्तं विश्वनाथं तथैव मातरम् अन्नपूर्णादेवीं रामचरितमानसं श्रावितवान् । रात्रिकाले ग्रन्थमिमं विश्वनाथमन्दिरे एव स्थापितवान् । प्रातःकाले यदा मन्दिरकपाटः उदद्घाटितः, तदा सर्वे दृष्टवन्तः यत् ग्रन्थस्य उपरि सत्यं शिवं सुन्दरम् इति लिखितं वर्तते, तत्रैव अधः भगवतः शिवस्य पुष्टिप्रदायकं हस्ताक्षरम् अपि अस्ति इति । तत्रोपस्थिताः जनाः सत्यं शिवं सुन्दरम् इत्यस्य ध्वनिम् अपि श्रुतवन्तः । यदा काशीपण्डिताः इदं वृत्तान्तं श्रुतवन्तः, तदा तेषां मनसि ईर्ष्या सञ्जाता । ते सर्वे मिलित्वा तुलसीदासस्य निन्दाम् आरब्धवन्तः, तथैव पुस्तकस्य विनाशार्थं यत्नम् आरब्धवन्तः । ते पुस्तकं चोरयितुम् चोरद्वयं प्रेषितवन्तः । तौ गत्वा दृष्टवन्तौ यत् तुलसीदासस्य कुटीसमीपे द्वौ धनुर्धरौ रक्षां कुरुतः । द्वावपि युवकौ अतीव सुन्दरौ क्रमशः श्यामगौरवर्णीयौ स्तः । तयोः दर्शनमात्रेण चोरयोः बुद्धिः विशुद्धा जाता । तौ तदारभ्य चौरकार्यम् एव त्यक्त्वा भजनकर्मणि निरतौ जातौ । तुलसीदासः यदा ज्ञातवान् यत् अत्र मम रक्षायै भगवान् श्रीरामः स्वयं कष्टम् अनुभवति तदा सः दुःखितः जातः । अतः सः कुटीरे विद्यमानानि वस्तूनि सर्वाणि अन्येभ्यः दत्तवान्, पुस्तकं च टोडरमलस्य समीपे सुरक्षादृष्ट्या स्थापितवान् (टोडरमलः तात्कालीनस्य साम्राजः अकबरस्य नवरत्नेषु एकः आसीत्) । ततः सः स्वकीयया विलक्षणस्मरणशक्त्या स्मृत्वा तस्य द्वितीयां प्रतिं पुनः लिखितवान् । तथैव अश्य अन्याः अपि प्रतिलिपयः निर्मिताः । अधुना अस्य ग्रन्थस्य प्रसारः निरन्तरं वर्धितः । काशीपण्डिताः अधुना अवरोधस्य अन्यः उपायः नास्ति इति विचिन्त्य, मधुसूदनसरस्वती इत्याख्यं महापण्डितं प्रार्थितवन्तः यत्, तद् पुस्तकं परिशील्य स्वस्य अनुमतिं यच्छेत् इति । मधुसूदनसरस्वती तद् पुस्तकं दृष्ट्वा अतिप्रसन्नः जातः । सः पुस्तकस्य विषये टिप्पणीं दत्तवान् –आनन्दकानने ह्यस्मिञ्जङ्गस्तुलसीतरुः ।कविता मञ्जरी भाति रामभ्रमरभूषिता ।।''' काशीपण्डिताः अधुना अपि असन्तुष्टाः आसन् । ते पुस्तकस्य योग्यतापरीक्षायै अन्यम् उपायं कल्पितवन्तः । विश्वनाथमन्दिरे सर्वोपरि वेदान् ततः अधः शास्त्राणि ततश्च पुराणानि तथा सर्वततोऽधः रामचरितमानसं स्थापितवन्तः । प्रातः पुनः यदा दृष्टवन्तः रामचरितमानसग्रन्थः सर्वतोपरि विद्यते, तदा सर्वे पण्डिताः लज्जिताः जाताः । ते तुलसीदासं क्षमां प्रार्थितवन्तः, भक्तिभावेन तस्य चरणोदकम् पीतवन्तः इति । मृत्युः तुलसीदासः यदा काश्याः प्रसिद्धे असीघट्टे वासम् आरब्धवान् । तदा एकस्यां निशि कलियुगः मूर्तरूपं धृत्वा तत्समीपम् आगत्य पीडनम् आरब्धवान् । पीडितः तुलसीदासः हनुमतः स्मरणं कृतवान् । हनुमांश्च प्रकटीभूय प्रार्थनापदानि रचितुं निर्दिष्टवान् । तदा तुलसीदासः स्वकीयाम् अन्तिमां कृतिं विनयपत्रिकां लिखित्वा भगवतः श्रीचरणयोः अर्पितवान् । भगवान् श्रीरामः तस्सिन् स्वहस्ताक्षरं कृत्वा तुलसीदासं भयमुक्तम् कृतवान् । अत्रैव असीघट्टे विक्रमसंवति १६८०, श्रावणमासस्य कृष्णपक्षे तृतीयां शनिवासरे रामनामस्मरणं कुर्वन् तुलसीदासः स्वशरीरं परित्यक्तवान् । तुलसीदासस्य रचनाः काशीस्थेन नागरीप्रचारिणीसभा इत्याख्येन सङ्घटनेन प्रकाशिताः तुलसीकृतग्रन्थाः एवं विद्यन्ते – रामचरितमानसम्, रामललानहछू, वैराग्यसन्दीपनी, बरवै रामायणम्, पार्वतीमङ्गलम्, जानकीमङ्गलम्, रामाज्ञाप्रश्नः, दोहावली, कवितावली, गीतावली, श्रीकृष्णगीतावली, विनयपत्रिका, सतसई, छन्दावली रामायणम्, कुण्डलियारामायणम्, रामशलाका, सङ्कटमोचनम्, करखारामायणम्, रोलारामायणम्, झूलना, छप्पयरामायणम्, कवित्तरामायणम्, कलिधर्माधर्मनिरूपणम्, हनुमानचालीसा । उल्लेखाः बाह्यसम्पर्कतन्तुः Tulsi-Eulogy Works of Tulsidas in Hindi on Wikisource The Ramcharitmanas of Tulasidas, published by Gita Press हिन्दीकवयः
2119
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%98%E0%A5%81%E0%A4%B5%E0%A5%80%E0%A4%B0%20%E0%A4%B8%E0%A4%B9%E0%A4%BE%E0%A4%AF
रघुवीर सहाय
रघुवीर सहाय(Raghuveer Sahaaya) (१९२९-१९९०) एक: प्रमुख: कवि कथाकार च आसीत्‌. पश्‍य हिन्दी साहित्यं बाह्यसम्पर्कतन्तुः Raghuvir Sahay at Kavita Kosh Raghuvir Sahay's poetry at Anubhuti Raghuvir Sahay (English translations) हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १९२९ जननम् १९९० मरणम्
2120
https://sa.wikipedia.org/wiki/%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A5%80%E0%A4%B0%20%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80
धर्मवीर भारती
धर्मवीर भारती (१९२६ - ) एक: प्रमुख: कवि: कथाकार: च अस्‍ति. पश्‍य हिन्दी साहित्यं उत्तरप्रदेशराज्यस्य व्यक्तयः सर्वे अपूर्णलेखाः उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स् चित्रं योजनीयम् सारमञ्जूषा योजनीया
2121
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B2%E0%A4%BE%E0%A4%B2%20%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2
श्रीलाल शुक्ल
श्रीलाल शुक्ल:(Shreelal Shukla) (१९२५ - ) एक: प्रमुख: व्यंगकार: अस्‍ति. पश्‍य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् विषयः वर्धनीयः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् बाह्यानुबन्धः योजनीयः ज्ञानपीठप्रशस्तिभाजः सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया १९२५ जननम्
2122
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD%E0%A4%BE%E0%A4%95%E0%A4%B0
विष्णु प्रभाकर
विष्णु प्रभाकर: (१९१२ - ) एक: प्रमुख: कथाकार: उपन्यासकार: च अस्‍ति. पश्‍य हिन्दी साहित्यं " भारतीयलेखकाः चित्रं योजनीयम्‎ बाह्यानुबन्धः योजनीयः उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
2123
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A5%81%E0%A4%A8%E0%A4%83
नागार्जुनः
नागार्जुनः नागार्जुन (लगभग १५० – २५० ई.) एक भारतीय महायान बौद्ध विचारक, विद्वान-सन्त एवं दार्शनिक थे। सः बहुधा महत्त्वपूर्णेषु बौद्धदार्शनिकेषु अन्यतमः इति मन्यते । जन वेस्टर्होफ् तं " एशिया-दर्शनस्य इतिहासे महान् विचारकेषु अन्यतमः " इति मन्यते । नागार्जुनं बौद्ध दर्शनस्य मध्यक (केन्द्रवाद, मध्यमार्ग) विद्यालयस्य संस्थापकः एवं महायान आन्दोलनस्य रक्षकः इत्यपि मन्यन्ते। तस्य मूलाध्यामककारिका (मध्यमकस्य मूलश्लोकः, अथवा MMK) शून्यतायाः मध्यकदर्शनस्य महत्त्वपूर्णः ग्रन्थः अस्ति . एम.एम.के संस्कृत-चीनी-तिब्बती-कोरिया-जापानी-भाषायां बहूनां भाष्याणां प्रेरणाम् अकरोत्, अद्यत्वे च अध्ययनं निरन्तरं भवति । पश्‍य हिन्दी साहित्यं टिप्पणी बाह्यसम्पर्कतन्तुः Nagarjun at Gadya Kosh (his prose work in Devanagari script ) Nagarjun at Kavita Kosh (Hindi) Nagarjun at Anubhuti Work online Nagarjun's poems: Badal ko ghirate dekha hai संस्कृतकवयः संस्कृतलेखकसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः विंशतिशताब्द्याः कवयः बौद्धधर्मः
2124
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A5%80
बिहारी
बिहारी (१५९५-१६६४) ग्वालियर नगरे जात:. तस्‍य कविता सङ्‌ग्रह सतसई (सप्तशती) तत्‌कालीन श्रेष्‍ठ: रचना. पश्‍य हिन्दी साहित्यं सर्वे अपूर्णलेखाः बिहारराज्यसम्बद्धाः स्टब्स् चित्रं योजनीयम् सारमञ्जूषा योजनीया
2126
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
हिन्दीसाहित्यम्
कबीर (१५ शतके) तेन रचितानां दोहानां(पद्यानाम् ) सङ्ग्रहः ग्रन्थावली: नाम्ना आम्नात:। तुलसीदासः (1532-1623) बिहारी (1595-1664) प्रेमचन्दः (1880-1936) मैथिलिशरणगुप्तः (1886-1964) जयशंकरप्रसादः (1889-1937) सूर्यकान्तत्रिपाठी निराला (1899-1961) सुमित्रानन्दनपन्तः (1900-1977) यशपालः (1903-76) हजारीप्रसादद्विवेदी (1907-1979) महादेवी वर्मा (1907-1987) रामधारी सिंहः दिनकरः (1908-1974) नागार्जुनः (b. 1911) सच्चिदानन्दः वात्स्यायनः (1911-1987) विष्णुप्रभाकरः (b. 1912) फणीश्वरनाथः रेणुः (1921-1977) श्रीलालः शुक्लः (b. 1925) मोहनराकेशः (1925-1972) धर्मवीरः भारती (b. 1926) रघुवीरः सहायः (1929-1990) निर्मल वर्मा (b. 1929) हिन्दीसाहित्यम् चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः
2132
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A6%20%E0%A4%87%E0%A4%95%E0%A4%AC%E0%A4%BE%E0%A4%B2
मुहम्मद इकबाल
मुहम्मद-इकबालः (1877-1938) उर्दू भाषाया: महत्वपूर्ण: कवि: लेखक: च। उर्दुलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2133
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%80
अष्टाध्यायी
अष्टाध्यायी पाणिनेः रचना वर्तते। व्याकरणसूत्रैः ग्रथितस्यास्य ग्रन्थस्य अष्टौ अध्यायाः सन्ति, अतः ग्रन्थस्यास्य अष्टाध्यायी इति नाम। निर्वचनम् अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्‍टाध्‍यायी',इति जगत्प्रसिद्धः संस्‍कृतव्‍याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारं वादयाञ्चकार । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव "महेश्वरादागतानि माहेश्वराणि" माहेश्वरसूत्राणि इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः अष्टाध्यायी इति व्याकरणग्रन्थं लिलेख । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । प्रत्येकमध्याये चत्वारः पादाः भवन्ति । आहत्य अष्टाध्याय्यां ३२ पादाः सन्ति । अष्टाध्याय्यां व्याकरणस्य उपचतुस्सहस्रं(प्रायः३९६५) सूत्राणि सन्ति । अष्टाध्यायीस्थसूत्राणां सङ्ख्या कथ्यते हि पाणिनीयसंहितायां ३९९६ सूत्राणि सन्तीति यथोक्तम् - त्रीणि सूत्रसहस्राणि तथा नवशतानि च । पष्णवतिश्च सूत्राणां पाणिनिः कृतवान् स्वयम् ।। इति । किन्तु सम्प्रति समुपलब्धे ग्रन्ये तु ३९८३ मितानि एव सूत्राणि सन्तीति कथ्यते । अत्र हि गुरुप्रसादशास्त्रिसम्पादिताष्टाध्यायीसूत्रपाठानुसारेण पाणिनीयशब्दानुशासनसूत्रसङ्ख्या प्रस्तूयते अध्यायाः पादाः सूत्राणि । सूत्रासङ्ख्यायां हीदमन्तरं योगविभागे व्याख्यातॄणां मतभेदेन सम्भवति । सूत्रेष्वपि बृद्धपाठे लघुपाठे च किञ्चिदतरमपि विद्यते । तच्च केचित्काशिका। कारेण सूत्रे वातकांशप्रक्षेपेण सञ्जातमिति मन्यन्तेऽपरे तु तदाचार्यंप्रवचनेनैव समुद्भुतमिति कथयन्ति ।। पाणिनीयाष्टाध्याय्याः संक्षिप्तर्विषयसूचिः अष्टाध्याय्यां शब्दानुशासनसम्बद्धा ये ये विषयाः प्रतिपादितास्तेषामत्र सूचिः प्रस्तूयते । सामान्यतोऽष्टाध्याय्यां सह सम्बद्धा विषया मुख्यतस्त्रिषु भागेषु विभक्तों दृश्यन्ते । १. वाक्येभ्यः पदानां सङ्कलन–प्रथमद्वितीयाध्याययोः । २. पदानां प्रकृतिप्रत्यविभागः–नृतीयचतुर्थपञ्चमीध्यायेषु, ३. प्रकृतिप्रत्ययैः सह आगमादेशादीनां संयोजनेन परिनिष्ठितपदानां निर्माणञ्च-षष्ठसप्तमाष्टमाध्यायेषु । तत्र हि प्रथममुपोद्धातस्ततश्वाष्टावध्यायाः सन्ति । उपोद्धा हिं 'अथ शब्दानुशासनम्' इति मङ्गलाचरणं, ग्रन्थाधिकारो ग्रन्थारम्भश्चे, प्रतिज्ञा ग्रन्थप्रयोजननिदिशो ग्रन्थनार्मानर्देशश्च । ततश्च चतुर्दशप्रत्याहारसूत्राणि । अथेति मङ्गलाचरणम्, अथेति संस्कारानन्तरमिति : ग्रन्थाधिकारिनिर्देशः ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्वाधीयते इति महाभाष्यात् प्राप्तसंस्कारो हि व्याकरणाधिकारी भवति इत्याशयेन अथेति ग्रन्थाधिकारः अथ योगानुशासनं' इत्यादाविव । शब्दानुशासनं ग्रन्थस्यास्य प्रयोजनम् नाम चास्य ग्रन्थस्य तदेव विषयानुसार, प्रतिज्ञा च । अथ शब्दानामनुशासनाय शब्दानुशासनं नाम ग्रन्थः प्रस्तूयते मयेत्याशयः । यथाऽऽह सृण्टिधरो भाषावृत्यर्थविवृतौव्याकरणशास्त्रमारभमाणो भगवान् पाणिनिमुनिः प्रयोजननामीव्याचिंख्यासुः प्रतिजानीते-‘अथ शब्दानुशास। नम्' इति । यथाऽऽह महाभाष्यकारश्च–अथेतिशब्दोधिकारार्थः प्रयुज्यते । शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्' इति । यथा च न्यासकारो । जिनेन्द्रबुद्धिः-( अथ शब्दानुशासनम्' , इत्यत्र शब्दानुशासनप्रस्तावादेव ।। हि शब्दस्येति सिद्धे ( स्वं रूपं शब्दस्याशब्दसंज्ञा इत्यत्र शब्दग्रहणं ! यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्यते नार्थपरनिर्देश इति । ज्ञापनार्थम्' इति । महाप्राज्ञो दयानन्दश्च ‘अथ शब्दानुशासनम्' इति सूत्रं प्रतिज्ञासूत्रं मन्यते । यथोक्तम् - इदं सूत्रं पाणिनीयमेव । प्राचीनलिखितपुस्तकेषु आदाविदमेवास्ति ।। दृश्यन्ते च सर्वेष्वार्षेषु ग्रन्थेष्वादौ प्रतिज्ञासूत्राणीदृशानि' इति । केवलं मेधातिथिरेव सूत्रमिदं. केवलं सूत्रसन्दर्भ मन्यते । मनुस्मृतिभाष्ये तच्चिन्त्यमेव । स हि कथयति - पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । लथा हि भगवान् पाणिनिरनुक्त्वैव प्रयोजनम् ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते' इति । मैंधातिथेरेषः, प्रमादः स्वव्याचिख्यासितमनुस्मृतिग्रन्थप्रयोजनाकथनदोषाच्छादनायैव न त्वज्ञानतः । तत्र शब्दानुशासनमेव प्रयोजनं ग्रन्थाभिधानञ्च स्पष्टमेव । उक्तमेवं सूत्रलक्षणे - अल्पाक्षरमसान्दीग्धं साखद्विश्वतो मुखम् । अदुष्टमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। इति । तेन सूत्रस्य सारवत्ता तेनाज्ञातेति नैव युज्यते । स हि जाननेव. स्वाभीष्टः सिद्धये तथा व्याख्याति चेन्नीचपथेन गच्छज्जलं केन निरुध्यते। ततश्च प्रत्याहारसूत्राणि । तानि अइउण प्रभृतीनि चतुर्दश । तानि हि " माहेश्वराक्षरसमान्नायमधारीकृत्य भगवता पाणिनिना प्रणीतानि नै तु साक्षान्माहेश्वराणि । शम्भुप्रोक्त पस्त्रिषष्टिवर्णेभ्यः प्रत्याहारोपयोगिद्विचत्वारिंशद्वणनादाय भगवता पाणिनिनो प्रत्याहारसिद्धये निर्मितान्येतानि सूत्राणि । तथ्यमेतदुपेक्ष्यैव यदि कश्चित्तानि माहेश्वराणीति मन्यते यथा नन्दिकेश्वर-भट्ठौ जिदीक्षितादयः सानुयायिनस्तदपि दुर्भाग्यमेवास्माकम् । थथा च स्वयमेव भगवता महाभाष्यकारेण ‘‘एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयोस्तुल्यजातीयेष्वेवोपदिशति-अचोऽक्षु हलो हल्धुं ‘इति कथनेन स्वीकृतेऽपि प्रेत्या हारसूत्राणां पाणिनीयत्वे तदप्युपेक्ष्य कश्चित्स्वप्रज्ञौत्कर्षं दर्शयति चेत् तदापि ।। वयं तदेव स्मरामः-त्वं चेन्नीचपथेन गच्छासि पयः कस्त्वां निरोद्ध क्षेमः' । इति । तदस्मिन् द्विचत्वारिंशद्ववर्णात्मकचतुर्दशसूत्रौधे भगवान् हि पाणिनिद्विचत्वारिंशदेव प्रत्यात्याहारान् निर्दिशति । तच्च यथा - “एकस्माद् अणवटाः द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुभ्य रः पञ्चभ्यः शलौ षड्भ्यः ।।” इति। तेषाञ्च गणना यथा—ङजणवटा अनुबन्धा एकैकमकारादिवणत्परों धारिता एकैकं प्रत्याहारं जनयन्ति । यथा-एङ् य, अणु, छेव्, अ, इतिपच्च झ, भष् इति द्वौ, अक्, इक्, उक्, इतिशयः, अणु, इण, यण, इतित्रयः, अम्, यम्, ऊम्, इतित्रय इति नव, अच्, इच्, एचू, ऐच् इति चत्वारः, ययु, • मय्, झय्, खय् इति चत्वार इति अष्टौ, यर्, झर्, शर्, चर्, संर् इति पञ्च, अश्, हश्, जश, वश, झश, इति पञ्च, अल्, हल्, व, र, शल्, हल्, इति पञ्च इंति एकचत्वारिंशत्, अम्' इत्यपि च कृत्वा प्रत्याहारी द्वचत्वारिंशदेव । तंत्र, एङ-एङ: प्राचां देशे, य-अतो दीर्घा यनि, अणु-ठूलोपेपूर्वस्य दीघोऽणः । छन्-नश्छव्यप्रशान् । अट्-शश्छोऽटि, झड्-एकाचो वश भष् झषन्तस्यस्ध्वोः , भष्-एकाचो वशो भय् झषन्तस्य स्ध्वोः, अक्-अकः सवर्णे दीर्धः, इक्-, इकोऽसंवर्गे शाकलस्य ह्रस्वश्च, उक्-श्रुयुकः किति, अणु-अणुदित्सवर्णस्य चाप्रत्ययः, इण-इण्कोः, यण-इको यणचि, अम्-पुमः खय्यम्परे, यम्-हलो यमा यमि लोपः, ऊम्-ङमो ह्रस्वादचि ङमुट् नित्यम्, अच्-नाज्झली, इंच्नादिचि, एच्-एचोऽयंवायावः, ऐच्-आदेच उपदेशेऽशिति, यय्-अनुस्वारस्य ययि परसवर्णः, मय्-मय उबो वो वा, झय्-झयो होऽन्यतरस्याम्, खय्शपूर्वाः खय्, दर्-यरोऽनुनासिकेऽनुनासिको वा, झर्-झरो झरि सवर्णे, खर्खरि च, चर्-अभ्याशे चर्च, शर्-शर्पूर्वाः खय्, अश्-भोभगो-अघो अपूर्वस्य योऽशि, हश्-हशिच, बर्-एकाचो वशो भष् झषन्तस्य स्ध्वोः, जश्-झलां .: जश् झशि, झश्–झलां जश् झशि, अल्-अपृक्त एकाल्प्रत्ययः, हल्-हलन्त्यम्, वेल-लोपो व्योर्वलि, रल्-रलो व्युपधाद्धलादेः सेच, शल्-शल इगुपधादनिटक्सः, झल्-हुंझल्भ्यो हेधि । अय्-जयन्ताड्डः। वर्णानामुपदेशः प्रत्याहारार्थः । प्रत्याहारश्च लाघवेन शास्त्रप्रवृत्यर्थः । यथा शषस इति कथने शर् इत्येव, अ इ उ ऋ ल ए ओ ऐ औ हयवर इति * कॅथने अट् इत्येव । 'ततश्व प्रथमाध्यायः प्रारभ्यते यत्र हि शास्त्रव्यवहार्यसंज्ञापरिभाषादीनां व्यवस्था कृताऽस्तिः। तत्र चत्वारःपादाः । प्रथमे पादे पञ्चसप्ततिः सूत्राणि । बृद्धिरादैजित्यारम्य ‘ए प्राचां देशे प्रभृतीनि । पादोऽयं संज्ञापरकः । अत्र हि वृद्धि-गुण-संयोग-अनुनासिक-सवर्ण - प्रगृह्य-घु-घ-सङ्ख्या -षट्-निष्ठा-सर्वनामअव्यय-सर्वनामस्थान - विभाषा-सम्प्रसारण-लोप-टि-उपधा-प्रत्याहारं-वृद्ध-संज्ञाः क्रियन्ते यासु घु-घ-वृद्धसंज्ञाः पाणिनिकल्पिताः शेषाश्च परम्परागताः । संज्ञाभिः सह परिभाषाणामपि सादृश्यसम्बन्धने विषयोपयोगितया परिभाषासूत्राण्यपि पठितानि । तत्र आद्यन्तौ टकितौ (१।१।४६) इत्यारभ्य द्विवंचनेऽचि (११॥५९) पर्यन्तं पुनश्च प्रत्ययलोपे प्रत्ययलक्षणं (१॥१॥६२) ततश्च तस्मिन्नितिनिर्दिष्टे पूर्वस्य (१।१ ६६) इत्यारभ्य येन विधिस्तदन्तस्य (११।७२) इतिः पर्यन्तञ्च परिभाषाव्यवस्था। तत्रापि प्रथमसूत्रादारभ्य दशमसूत्रपर्यन्तं वर्णसम्बन्धिसंज्ञा, एकादशतमसूत्रादारभ्य त्रयश्चत्वारिंशत्तमसूत्रपर्यन्तं : शब्दसंज्ञा, चतुश्चत्वारिंशत्पञ्चचत्वारिंशतमसूत्रयोरार्थीसंज्ञा सम्प्रसारणसंज्ञी च षष्टितमे आर्थीसंज्ञा, चतुषष्टिपञ्चषष्टितमसूत्रयोरर्थसंज्ञा, पादान्ते बृद्धसंज्ञा ... च कृतास्ति । पादेऽस्मिन् पूर्णतः शास्त्रव्यवहार्यसंज्ञानां व्यवस्था कृताऽस्ति । प्रकरणमात्रव्यवहार्योपपदप्रभृतिसंज्ञानां तु तत्तत्प्रकरणे एव व्यवस्था कृताऽस्ति । प्रत्ययसम्बद्धसंज्ञाविधानादारभ्यतेऽस्य त्रिसप्ततिसूत्रात्मकोद्वितीयः पादः । तादृशं संज्ञाविधानं गाङ्कुटादिभ्योञ्णिन् ङित् इतिप्रथमसूत्रादारभ्य रलो व्युपधाद्धलादेःसँश्च इति षड्वितितमसूत्रपर्यन्तं चलति । किञ्चैतत् संज्ञया सहातिदेशोऽपि । अतोऽस्य पृथग्रूपेण विन्यासः । सप्तविंशतितमसूत्रादारभ्य ह्रस्वादिसंज्ञा प्रवर्तते ताऽपि एकोनत्रिशत्तमसूत्रादारभ्य चत्वारिशत्तमसूत्रपः । यन्तं वैदिकमुदात्तादिविवरणम् । ह्रस्वादयो हि वर्णसम्बद्धसं ज्ञास्तेनज्ञकचत्वाः रिंशत्तये वर्षविषयिंका अपृक्तसंज्ञा कृता । द्वाचत्वारिशत्तमसूत्रादारभ्य चतुश्चत्वारिंशत्सूत्रपर्यन्तं समाससम्बद्धे कर्मर्धारय-उपसर्जनसंज्ञे कृते पञ्चचत्वाः रिशत्तम षटचत्वारिंशत्तमसूक्तयोः प्रातिपदिकसंज्ञाविधानं ततश्च सप्तचत्वारिश त्तम सूत्रादारभ्य त्रिषष्टितमसुत्रपर्यन्तं प्रातिपदिकसम्बद्ध ह्रस्वादिविधानं, शेषेषु एकशेषविधानञ्च । अत्रौव ५९-६३ तमसूत्रेषु वचनव्यवस्था, कृताऽस्ति । 'धातुसंज्ञया सह प्रारभ्यते त्रिनुवतिमितसूत्रात्मकस्मृतीयपादः । धातून नामाधीनत्वान्नामान-तरं धातुनिर्देशो - युक्त एव । ततश्च द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तमित्संज्ञाविधानं कृतम् । धातूनामनुबन्धबाहुल्यात्तत्रेत्संज्ञाविधानं .. युक्तमपि । नवमसूत्रे इत्संज्ञकस्य लोपविधिः, ततश्च दशमैकादशतमसूत्रयोरिद्विधौ नियमाः, ततश्च द्वादशतमसूत्रादारभ्य आपादसमाप्त र्धातुसम्बद्धा आत्मनेपदपरस्मैपदनियमाः यत्र विप्रतिषेधनियममनुसृत्य प्रथमं द्वादशतमासूत्रादारभ्य सप्तसप्ततितमसूत्रपर्यंन्तमात्मनेपदनियमाः शेषेषु परस्मैपदनियमाः । अवशिष्टसंज्ञाविधानादारभ्यते दशोत्तरैकशत सूत्रात्मकचतुर्थपादः । तत्र प्रथम नियमसूत्रं द्वितीयं परिभाषासूत्रम् । तृतीयसूज़ादारभ्य षष्ठसूळपर्यन्तं नदीसंज्ञा, । तदवशिष्टरूपेण सप्तमाष्टनवमसूत्रैः घिसंज्ञाविधानं, ततश्च दशमसूत्रे ह्रस्वसंज्ञा, एकादशद्वादशेयोदीर्घसंज्ञा, त्रयोदशे अङ्गसंज्ञा, चर्तुदशतमादारभ्य सप्तदशतम पर्यन्तं पदसंज्ञा, ततश्च द्वयोःसूत्रयोर्भसंज्ञा, एकविंशतितम द्वाविंशतितमयोः बहुवचन-द्विवचनैकवचन संज्ञाः योविंशतितमसूत्रादारम्य पञ्चयञ्चाशत्तमसूत्रपर्यन्तं कारकंविचारः स च विप्रतिषेधनियममनूसत्यैव अपादान-सम्प्रदान-करणअधिकरण-कर्मकर्तृक मेण निर्दिष्टः । तत्रापि २४-३१ सूत्रेषु अपादानविचारः ३२-४१ सूत्रेषु सम्प्रदानविचारः, ४२-४४ सूत्रेषु करणविचारः ४५-४८, सूत्रेषु अधिकरणविचारः, ४९-५३ सूत्रेषु कर्माधिकारः, ५४-५५ सूत्रयोः कर्तृ विचारः, ५६-५८ सूत्रेषु. निपातविचारः, ५९ तमसूत्रे उपसर्गसंज्ञा, ६०-७९ सूत्रेषु गेतिसंज्ञाविचारः, ८०-८२ सूत्रेषु उपसर्गगतिसंज्ञकशब्दप्रयोगविचार, ८३-९८ सूत्रेषु कर्मप्रवचनीयविचारः, ९९ तमसूत्रे परस्मैपदसंज्ञा, १०० तमसूत्रे आत्मनेपदसंज्ञा, एकाधिकशततमसूत्रे प्रथममध्यमोत्तमपुरुषसंज्ञा, १०२-१०३, सूत्रयोः एकद्विवचनसंज्ञा, चतुरधिकशततमसूत्रे विभक्तिसंज्ञा, १०५-१०६ सूत्रयोर्मध्यमपुरुषविचारः, १०७ सूत्रे उत्तमपुरुषविचारः, १०८ सूत्रे प्रथमपुरुष:. नवाधिकशततमंसूत्रे संहिताविचारः दशाधिकशततमसूत्रे अवसानसंज्ञा विचारश्च । विशेषपदसङ्कलनात्मको द्वितीयोऽध्यायः । तत्र हि चत्वारः पादाः । तत्र प्रथमः पादो द्विसप्ततिसूत्रात्मकः पदसामान्यविषयपरः । तत्र हि प्रथमद्विती सूत्रयोः समासरूपविशिष्टपदानां विवेचनं, तृतीयचतुर्थयोः समासाधिकारविषयनिरूपणं, ततश्च शेषसूत्रेषु समासविचारो यत्र ५-२१ सूत्रेषु अव्ययीभावसमास विवेचनं, शेषेषु तत्पुरुषविवेचनं कुंतमस्ति । द्वितीयपादे १-२२ सूत्रेषु शेषत: परुषविवेचनं, २३-२८ सूत्रेषु बहुव्रीहिविवेकः, २९ सूत्र द्वन्द्व समासविचारः, शेषेषु सर्वविधसमासोपयोग्युपसर्जनादिविवेचनम् । तत्र हि पूर्वपदार्थप्रधानत्वात्वात्प्रथममव्ययीभावस्ततश्चोत्तरपदार्थप्रधानस्तत्पुरुषस्तस्यैव शेषत्वेन ततोऽत्यपधानबहव्रीहिविवेकः, ततश्च सर्वसमासप्रधानद्वन्द्व समासविवेक इति समास विवेचनक्रमस्याधारः । तृतीये हि पादे त्रिसप्ततिसूत्राणि । तेषु हि सुब्विभक्तिविवेकः । तत्र हि अनभिहिते इत्यधिकृत्य द्वितीयाचतुर्थीतृतीयापञ्चमीसप्तमीप्रथमाषष्ठी विचार अमेग, २-१२ सूत्रेषु द्वितीयाविचारः, १३-१७ सूत्रे चतुर्थीविवेकः १८-२७, सूत्रेषु, तृतीयाविवेकः, २८-३५ सूत्रेषु पञ्चमी विवेकः, ३६-४५ सूत्रेषु सप्तमीविचारः ४६-४९ सूत्रेषु प्रथमाविचारः, ५०-७३ सुत्रेषु षष्ठीविचार इति विभक्तिविवेकः ।। । चतुर्थे हि पादे पञ्चाशितिसूत्राणि येषु १-३१ सूत्रषु लिङ्गवचनविधान, ३२-४३ सूत्रेषु अन्वादेशविधानं,५३-५७ सूत्रेषु आर्धधातुके इत्यधिकृत्य धात्वादेशविधानं, ५८-८४ सूत्रेषु नुग्विधानं, अन्ते च ‘लुटः प्रथमस्य डारौरसः' इति । तृतीयोऽध्याये प्रत्ययविचारः पदानां प्रकृतिप्रत्ययविभागेन । तत्रापि चत्वारः पादाः । तत्र प्रथमे पादे पञ्चाशदधिकशतसूत्राणि । तत्र १-४ सूत्रेषु प्रत्यय सामान्यविवेकः ५-२२ सूत्रेषु प्रत्ययान्तधातुविचार', ३३-८६ सूत्रेषु विकरणः । विवेकः, ८७-९० सूत्रेषु सम्बद्धविषयचर्चा, ९१-१३२ सूत्रेषु नामविशेषेणीत्पादककृत्यप्रत्ययविचारः १३३-१५० सूत्रेषु विशेषणोत्पादककृत्प्रत्ययानां विधानं कृतमस्ति । कृत्यप्रत्ययेषु तव्यत्तव्य-अनीयर-यत्-क्यप्–ण्यत् प्रत्ययाः कृत्प्रत्ययेषु ण्वुल्तृच्-ल्यु-णिनि-अच्-क-श-ण ण्वुन-स्थक-युट्-वुनप्रत्यया 'अत्र निरूपिताः ।। द्वितीयपादे अष्टाशीत्यधिकशतसूत्राणि सन्ति । तेषु हि अवशिष्टकृत्प्रत्ययानामेव निरूपणं कृतमस्ति । तत्र हि अणू-क टक्-अच्-ट-इन-खशु-खेचूड-णिनि-ख्युन्-खिष्णुच् - खुक-क्विन्-कन् - क्विप् - ण्वि-युट् - विट् -ण्विन् क्वनिप्-अतृन्-कानच्-क्वसु-शतृ-शान-शानन्-चानश्-तृन्-इष्णुच्-ग्स्नु-क्नु-धिनु.', वुञ्-युच्-उकञ्षाकन्-इनि-आलुच् - रुक्मरच्-घुरच्-कुरच्-क्वरप्-र-उ-कि-किने: ननिङ्-आरु-कुक्-लुकन्-वरच्-डे-ढटन्-इत्र-क्तप्रत्यया निरूपिताः । । तृतीयपादे षट्सप्तत्युत्तरशतसूत्राणि सन्ति । तत्र १-३ सूत्रेषु उणादिप्रत्यय विधानं, अष्टादशतमसूत्रतो भावे इत्यधिकृत्यप्रत्ययव्यवस्थापन यत्र घबू-कणच्इनुण-अच्-अप्-ण-क-घ-क्त्रि-अथुच्-नङ- नन्-कि-क्तिन्-क्यपु-श-अ-अङ्-युच्ण्वु लूवुच्-अनि-क्तल्युट्-घ-खल्-प्रत्यया प्राधान्येन प्रदर्शिताः । १३१-१७६ सुत्रेषु वर्तमाने लट् इत्योरभ्य ‘उणादयो बहुलम्' इत्यन्तेसूत्रोक्तप्रत्ययानां कालानुसरिप्रंयोगनिरूपणम् । चतुर्थंपादो हि सप्तदशाधिकशतसूत्रात्मको यत्र १-७६ सुत्रेषु, प्राधान्येन अव्ययरूपकृत्प्रत्ययांनां निरूपणं, ७७-११७ सूत्रेषु ‘लस्य' इत्यारभ्य आदेशनिरूपणं कृतम् । चतुर्थेऽध्याये प्राधान्येन नामतो नामोत्पत्तिर्मुख्यविवेच्यविषयः तत्रापि चत्वारः पादाः । तत्र प्रथमो पादः १७८ सूत्रयोः सूत्रात्मको यत्र प्रथमद्वितीय सुविभक्तिविधानं, ३-८१ सूत्रेषु स्त्रीप्रत्ययनिरूपणं तत्रापि ३-१३ सूत्रेषु साधारणस्त्रीप्रत्ययविवेकः १४-८१ सूत्रेषु ‘अनुपसर्जनात्' इत्यारभ्य अनुपसजैनस्त्रीप्रत्ययविधानं कृतम् । ८२-१७-९ सूत्रेषु तद्धितप्रत्ययविधानं यत्र प्रथम अस्वार्थकतद्धितप्रत्यया निरूपिताः सन्ति । द्वितीये हि पादे १४५ सत्राणि । तत्रापि तद्धितप्रत्ययविचारः कृतस्तेन रक्त' रागात् इत्यारम्य पादसमाप्तिपर्यन्तमेव । तृतीये हि पादे १६८ सूत्राणि तद्धितप्रत्ययानामेव विवेकः कृतः ।। चतुर्थे च पादे १४४ सूत्राणि-तेष्वपि प्राग्वत् । अध्यायेऽस्मिन् प्राधान्येन अणूठेक्-यत्प्रत्ययावां महाधिकारः । । 'पञ्चमेऽप्यध्याये ताद्धितप्रत्ययानामेव विचारः । तत्रापि चत्वार, पादाः । तत्र प्रथमे हि पादे १३६ सूत्राणि यत्र तद्धितप्रत्ययानामेव विचारः प्रसरति ।। द्वितीये च पादे १४० सूत्राणि तेष्वपि प्राग्वत् । तृतीये हि पादे ११९ सूत्राणि यत्र प्राग्दिशो. विभक्तिः' इत्यारभ्य स्वाथिकप्रत्ययानां विधानं कृतमस्ति । तत्रापि १.३६ सूत्रेषु विभक्तिसंज्ञकस्वाथिकतद्धितप्रत्ययनिरूपणं ततश्च केवलस्वार्थकतद्धितप्रत्ययविधानम् । चतुर्थे हि पादे १६० सूत्राणि । तत्रापि १-६७ सूत्रेषु स्वाथिकतद्धितप्रत्ययानामेव क्रमः । ६८-१६० सूत्रेषु समासान्तप्रत्यय विधानम् । ततः समाप्नोति तद्धिताधिकारः। समासान्तप्रत्यया अपि प्रक्रियादृष्ट्या तद्धितप्रत्यया एव । षष्ठेऽध्याये प्रधान्येन धातुकार्यनिर्देशः । तत्रापि चत्वार एव : पादाः ।। प्रथमें हिं पादे २२३ सूत्राणि । १-१२ सूत्र षु द्वित्वविधिः, १३-४४ सूवेषु मप्रसारणादिविधिः, ४५-७१ सूत्रेषु आत्वविधिश्च । ७२-१५७ सूत्रेषु संहिताधिकारः । ५८-२२३ सूत्रेषु स्वरविधिः । द्वितीये पादे १९९ सूत्राणि यत्र हि स्वरविवेक एव चलति । तृतीये पादें १३९ सूत्राणि । तत्र हि १-२४ अलुगाधिकारः, २५-३३ आनङ्ङधिकारः; ३४-४२ सूत्रेषु पुंवद्भावाधिकारः, ४३-४५ सूत्रेषु ह्रस्वाधिकार-, ततश्च. आत्वाद्यागमविचारः १११-१३९ सूत्रेषु दीर्घाधिकार इति । चतुर्थे हि पादेः १७५ सूत्राणि तेषु अङ्गसम्बन्धिकार्य निर्दिष्टमस्ति । तत्र १-१८ सूत्रेषु दीर्घविचारः, ततश्च १९-२२ शुडागमादिकार्याणि, २३-३३ ।। न:लोपप्रकरणं, ततश्च इयादिविविधाङ्गकार्याणि, सप्तमाध्यायः प्रत्ययकार्यसम्बद्धः । तत्रापि चत्वारः पादाः । प्रथमे पादे हि १०३ सूत्राणि यत्र १-४९ सूत्रेषु प्रत्ययसम्बद्धकार्याणि, ततश्च ५०-५१ सूत्रयोरसुगागमः, ततश्च सुनुट् नुम्-असुड्-अनङ्-आम्-अम्-इत्-उदागमाः ।। द्वितीये पादे ११८ सूत्राणि । तत्र १-७ सूत्र षु वृद्धिविचारः, ८-११८ इड्भावादिविचार इतरकार्याणि च । तृतीये पादे १२० सूत्राणि । तेष्वपि प्राग्वदेव । चतुर्थे पादे ९७ सूत्राणि । तत्रापि प्राग्वदेवः। अष्टमेऽध्याये हिं पदसम्बद्धकार्य निदश्यते । तत्रापि चत्वारः पादाः । प्रथमे पादे ७४ सूत्राणि सन्ति । तत्र १-१५ सूत्रेषु पदद्वित्वविधिः । ततश्च । ‘पदस्य’ ‘पदात्' इति प्रारभ्यः पदादेशाः । द्वितीये हि पादे १०८ सूत्राणि । । तत्र ‘पूर्वत्रासिद्धम्' इत्यारभ्यअसिद्धकाण्डविवेकः । तृतीये पादे ११९ सूत्राणि । तेष्वपि प्राग्वत् । तत्रापि ५५-११९ सूत्रेषु सत्वविधानम् ।। । चतुर्थ पादे हि ६८ सूत्राणि । तत्र १-३९ सूत्रेषु णत्वविधानं, ततश्च । चुत्व-ष्टुत्व-द्वित्व-जश्त्व-चर्व-छत्व-लोपादिविचार इति संक्षेपतः पाणिनोयशब्दानुशासनस्य विषयसूचिः । अष्टाध्याय्याश्चत्वारो भागाः । तत्र प्रथमद्वितीयतृतीयाध्यायाः, चतुर्थपञ्चमाध्यायौ, षष्ठोऽध्यायः, सप्तमाष्टमाध्यौ च । सामान्यतः संज्ञापंरिभाषादिकार्याणि, धातुकार्याणि, पदकार्याणि, विविधकार्याणि चेति चत्वारः प्रतिपाद्यविषयाः। • पाणिनिंना हि स्वग्रन्थलाघवाय प्रत्याहारंगणपाठः संज्ञाविधानञ्चेति त्रिविधमुपकरणमवलम्बितमिति प्रागेवोक्तम् । तत्र हि प्रत्याहोराः पाणिनिपूर्वमपि प्रचलिता एवासन् कामं पाणिनिना ते परिवद्धताः सम्भवन्ति । ऋकतन्त्र ऽप्युक्तम्-‘अथ वर्णाः संज्ञाप्रत्याहारसमाः' इति । गणपाठश्च आपिशल्यादिकृतोऽपि विद्यत एव । संज्ञाविधानमपि पूर्वव्याकरेषु विद्यमानमेव ।। तत्र - कतिचित्संज्ञास्तु पाणिनिना पूर्वव्याकरणतो यथा स्वरूपं वा स्वल्पं वा पूर्णतः 'संशोध्य गृहीताः कतिचित्तु स्वयमेवोद्भाविताश्वत्यनुमीयते । संज्ञाश्च . द्विविधा लघ्वी महती च । एकवर्णात्मिका लघुसंज्ञा यथा घ-घि-धु-भ-टिप्रभृतयः ।। 'एकाधिकवर्णयुक्ता महासंज्ञा गुणतद्धिप्रभूतयः । तासु महासंज्ञास्तु आचार्येण पूर्वग्रन्थेभ्य एवं स्वीकृताः किन्तु समस्ती एव लघुलंज्ञाः, कतिचिन्महासंज्ञा अपि तेन स्वयमेवोद्भाविता अपि । यथोक्त वैदिकाभरणभाष्ये - अन्वर्थत्वं महासंज्ञा व्यञ्जन्त्यर्थान्तराणि च । पूर्वाचार्यैरतस्तास्तु सूत्रकारेण चाश्रिताः ॥ इति । वृद्ध-इ-गोत्र-युव-तद्राज-कृत्यसंज्ञाश्च महासंज्ञा आचार्यकृता इत्युच्यन्ते ।। तर वृद्धिर्यस्याचामादिस्तद्वृद्धं, त्यादादीनि च' इति कृता वृद्धसंज्ञा, उपदेशेऽ. जनुनासिक इत् प्रभृतिसूत्रकृता इत्संज्ञा, अपत्यं पौत्रप्रभृति गोतं इति गोत्रसंत्रा ( पूर्वीचार्यास्तु गोत्रस्य वृद्धमिति संज्ञा' कुर्वन्ति स्म ) 'जीवति तु वंश्ये ।। • युवा' इति युवासंज्ञा, ते तद्राजाऽइति, तद्राज़संज्ञा, 'यू स्त्र्याख्यौ नदी' इति । नदीसंज्ञा च । नदीसंज्ञाविषये केचचिद्धि पाणिनिरुपहस्यते कथनेनानेन- पाणिनेनं नदीगङ्गा यमुना वा नदी स्थली। प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ।। ‘यू स्त्र्याख्यौ नदी' इति ईकारान्तमूकारान्तञ्च नित्यस्त्रीलिङ्ग नदीसंज्ञक भवति न तु आकारान्तमंपि । तेन हि स्थली नदी भवति न तु गङ्गा वा यमुनेति । । अधिकारस्यानुवृतिहि पाणिनीयाष्टाध्याय्या जीवनम् । स चाधिकारस्त्रिप्रकारः कश्चिदेकदेशस्थः सर्वंशास्त्रमभिज्वलयति, यथा प्रदीपः सुज्वलितः |, संर्ववेश्माभिज्वलयति । अपरोऽधिकारो यथा रज्ज्वायसा वा बद्धं काण्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण । अपरऽधिकारप्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । प्रथमप्रकारोऽधिकारो यथा “षष्ठीस्थाने योगाः इति । द्वितीयप्रकारोऽधिकारो.यथा ‘अभिनिवशश्च' इति सूत्रे 'आधारोऽधिकरणम्' इति सूत्रादाधारग्रहणम् । एतत्प्रकारकोऽधिकारः शास्त्रे यत्र तत्र व्यवस्थितः । तृतीयप्रकारोऽधिकारोऽनिर्धारितसम्बन्धविशेषं निरूपयति । यथा ‘पूर्वत्राऽसिद्धम् इत्यत्र । स चाधिकारस्त्रिप्रकारेण प्रवर्तते-सिंहावलोकनन्यायेन, मण्डूकप्लुतिः न्यायेन गङ्गाप्रवाहिन्यायेन च । तत्र सूत्रस्याधिकारस्य अग्रतः पृष्ठतश्च प्रवर्तनं सिंहावलोकनम् । यथा ‘उपपदमतिङ’ ( २।२।१९ ) इत्यस्य 'कुगतिप्रादयः' ( २।२।१८) इत्यनानुवृत्तिः । एकत्रोक्तरूपक्रमं विहायापि अन्य ग्रहणं मण्डूकप्लुतिः । यथा--इको । यणचि ( ६।०१७७ ) इत्यत्र प्रोक्तस्य 'अचि' इत्येतस्य ‘अवङ स्फोटानस्य । ( ६१।१२३ ) इत्यत्र ग्रहणम् । गङ्गाप्रवाहन्यायंश्च क्र मेणानुवर्तनमुः। यथा ‘अत इन्’ (४१।९५.) इत्यत्र पठितस्य इञ् इत्येतस्य ‘वाह्लादिभ्यश्च ॥४॥ १॥९६ ) इति सुत्रे ग्रहणमिति । तदित्थं सम्पद्यतेऽकालकं पाणिनीयं शब्दानुशासनं पाणिनिप्रोक्तम् । पाणिनेर्ग्रन्थाः पाणिनिह भगवान् शब्दानुशासनांतिरिक्त तत्पूर्तये अन्यानपि ग्रन्थान्प्रावोचत् । ते हि धातुपाठ-गणपाठ-लिङ्गोनुशासन-फिट्सूत्र-परिभाषापाठसंज्ञकाः सन्ति । केचिद्धि उणादिसूत्राण्यपि पाणिनिप्रोक्तानि मन्यन्ते । एतदतिरिक्त शिक्षाग्रन्थोऽपि पाणिनिप्रोक्तत्वेन सम्मतः। तदतिरिक्त जाम्चवतीविजयं नाम महाकाव्यमपि पाणिनिप्रणीतत्वेन प्रसिद्धमस्ति । प्रसङ्ग ऽस्मिन्निदमवधेयं यत्साहित्यं हि पञ्चविधं दृष्टं प्रोक्त उपज्ञातं कृतं व्याख्यातञ्च । तत्र हि दृष्टं नाम प्रतिभाशक्तरा ज्ञानविषयीकृतं विद्यमानवाङ्मयम् । यथा । वेदमन्त्रा ऋषिभिदृष्टा न तु प्रणीताः । पाणिनिरपि दृष्टं साम इति परिभाषते । अत्र योगौ विभज्यते । तत्रं दृष्टमित्यर्थे यथाविहितप्रत्यय भवन्ति । साम इति सम्बन्धे दृष्टमित्यर्थेऽण् भवतीति । यथा वसिष्ठेन दुष्ट साम वसिष्ठम् । मधुच्छन्दसा दृष्टं माधुन्छन्दसम् । अत्र हि मण्डूकप्लूतिन्यायेंन अणोऽनुवृत्तिः । द्वितीयं हि शास्त्र प्रोक्तम् । प्रोक्तमित्युपदिष्टम् । पाणिनिः इदं तेन प्रोक्तम्' सूत्रेण जनयति । विद्यमानस्य शास्त्रस्य स्वभाषया प्रवचनमेव प्रोक्तमिति । प्रोक्त हि प्रवक्तुःस्ववैशिष्ट्यमपि समन्वितं भवति । तृतीयान्तेन प्रोक्तमित्यर्थे यथायथं प्रत्यया भवन्ति इति सूत्राशयः । यथा पाणिनिना प्रोक्त पाणिनीयम्, इत्युदाहणम् । . उपज्ञातमिति ग्रन्थप्रवक्त्रा स्वमनीषिकया विज्ञातम् । तच्च विद्यमानं वा प्रकल्पितमपि, पुराणोऽप्यर्थः प्रतिभावशान्नवीनत्वेन प्रकल्पितश्च । पाणिनिरेतद् उपज्ञाते (४।३।११५) सूत्रे प्रथयति । तृतीयान्तादुपज्ञात इत्यर्थे यथाविहितप्रत्यया भवन्ति इति सूत्रार्थः । यथा पाणिनिना उपज्ञातं पाणिनीयं तच्चाकालक व्याकरणमिति । एवमेव काशकृत्स्नं गुरुलाघवं आपिशलं पुष्करणम् । । कृतमिति प्रणीतं स्वप्रतिभाबाहुल्योपयोगेन । तच्च पाणिनिना ‘अधिकृत्य कृते ग्रन्थे' (४।३।८७) इति सूत्रेण निर्दिष्टम् । द्वितीयान्तादधिकृत्य कृते इत्यर्थे यथाविहितप्रत्यया भवन्ति यत्कृतं तच्चेद् ग्रन्थः स्यादिति सूत्रार्थः । शारीरक नामब्रह्मसूत्रं तदधिकृत्यकृतो ग्रन्थः शारीरकीयः, पाणिनिमधिकृत्य कृतो ग्रन्थः पाणिनीयः । व्याख्यातमिति मूलग्रन्थमधिकृत्य कृतं भाष्यादिकम् । तच्च पाणिनिः तस्य | व्याख्यान इति च व्याख्यातव्यन्तनाम्नः' (४।३।६६) इति व्याख्यातवान् । षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकात् व्याख्यानेऽभिधेये यथाविहितप्रत्ययो भवति तत्र भवे चार्थे । । तत्र हि पाणिनीयं शब्दानुशासनमुपज्ञातमित्युच्यते। जाम्बवतीविजयञ्च • कृतमन्ये धातुपाठादयः प्रोक्ता इति । ते हि भगवता पाणिनिना शब्दानुशासनसूत्रव्याख्यानावसरे प्रोक्ताः धातुपाठःगंणपाठः लिङ्गानुशासनं परिभाषापाठश्वः । यदि नाम फिट्सूत्राणि उणादिसूत्राणि च पाणिनीयान्येव तदा तानि तु उपज्ञातानि सम्भवन्ति तेषां शब्दानुशासनव्याख्यानावसरे प्रत्यक्षतः सम्बन्धाभावात्। शिक्षाग्रन्थश्चोपज्ञात एव तथैव । यथा च भगवती, पणिनिना स्वपूर्ववर्तीनि सर्वाण्यपि व्याकरणानिं स्वप्रतिभाविषयीकृत्य स्वयञ्च तानि निर्मथ्यं स्वीकीयवैशिष्टययुतमकालकं व्याकरणमुपज्ञातं तथैव 'प्रतिशाखे पृथग्वणतान् शिक्षा-ग्रन्थांश्च स्वमनीषाविषयीकृत्य सर्ववेदोपस्कारकः शिक्षाग्रन्थस्तेनप्रणीत इति । तस्याप्युपज्ञातत्वं सिद्धयति । एवञ्च भगवतः पाणिनेः - उपज्ञातानि-अष्टाध्यायी, शिक्षा च उपज्ञातग्रन्थौ, कृतम्-जाम्बवतीविजयमहाकाव्यं तु कृतग्रन्थः, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्च फिटसूत्रोणादी च प्रोक्तग्रन्था इति कथ्यन्ते । अत्र वयं स्वानुभूतं किञ्चिद्रूमः पाणिनिह भगवान् स्वोपज्ञातकालक शब्दानुशासनं शिष्येभ्यो ब्याख्यातवाननिति तु पूर्वमेवोक्त प्रतिपादितञ्च प्रमाणसाहाय्येन । व्याख्यानावसरे यदा भूवादयो धातवः, अदिप्रभृतिभ्यःशपः, जुहोत्यादिभ्यः श्लुः, दिवादिभ्यः श्यन्, रुधादिन्यः श्नम्, क्रयादिभ्यः, इनो, तनादिकृभ्यः उः, तुदादिभ्यः शः, चुरादिभ्यो णिच्, स्वादिभ्यः श्नुः इति सूत्राणि व्याख्यातानि तदा शिष्यैरवश्यमेव पृष्टं भवेत्के च ते अदिप्रभृतयो दिवादयो धातव इति । तदा शिष्यप्रबोधनायाचार्येणावश्यमेव धातुपाठो निदष्टः स्याद्यश्च शिप्यैः संगृहीतः । तेन धातुपाठोऽयमाचार्यप्रोक्त एव । तथैव यदा जिंदगौरादिभ्यश्च, वह्वादिभ्यश्च, क्रौड्यादिभ्यश्च अश्वपत्यादिभ्यश्च, उत्सादिभ्योऽन् बाह्यादिभ्यश्च, नडादिभ्यः फक् इति प्रभृतिसूत्राणि व्याख्यातानि तदाऽपिःशिष्यैरवश्यमेव पृष्टं स्यात् के च ते वाह्लादयो वा शुभ्रादय इति । तदाऽऽचार्येणावश्यमेव गणपाठो ऽपि प्रोक्तः स्यात् । एवमेव यदा ‘स्थानेऽन्तरतमः इति सूत्रं व्याख्यातं तदाऽपि शिष्यैः पृष्टं भवेद्यदा अनेकविधमान्तर्यमुत्पद्यते तदा किङ्कर्तव्यमिति । तदाऽऽचार्येणोक्त स्याद्-यत्रानेकविधमान्तर्यं तदा स्थानत आन्तर्यं बलीय इति । तदेष आचार्योपदिष्टः परिभाषांपाठः शिष्यैः संगृहीतः स्यात् । तेन परिभाषापाठस्याऽपि आचार्य प्रोक्तत्वं सिध्यति । 'एवमेव 'पुंसि संज्ञायां घः प्रायेण आङोनाऽस्त्रियाम् ‘युस्त्र्याख्यौ नदी, | ‘ह्रस्वो नपुंसके प्रातिपदिकस्य', 'स्वमोर्नपुंसकात्' इत्यादिसूत्रव्याख्यानावसरे - शिष्यैः शब्दानां पुंस्त्रीनपुंसकत्वविषये पृष्ट आचार्योऽवश्यमेव लिङ्गानुशासनमपि उपदिष्टवानिति लिङ्गानुशासनस्य पाणिनिप्रोक्तत्वं सिंध्यति । तेन शब्दानु - शासनं,, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्चेति ग्रन्थपञ्चक पञ्चरत्नत्वेन प्रसिद्धमेव । तदाप्रभृत्येव व्याकरणं पञ्चाङ्गमिति प्रसिद्धिः । सम्प्रति प्रश्नोऽवशिष्यते उणादिसूत्रविषये फिट्सूत्रविषये च । केचिद्धि । उणादिसूत्राणि पणिन्युपज्ञातानि मन्यन्ते केचित्तु तानि शाकटायनप्रोक्तानि, अपुरे तु आपिशलीयान्यपि सम्प्रति पञ्चपादी दशपादी' चेति उणादिसूत्राणां द्विविधः पाठो लभ्यते तयोर्मूलत्वेन त्रिपाद्यपि स्मृतोऽस्ति । क्षीरस्वामिप्रभृतय उणादि सूत्राणां दशपादीमाद्रियन्ते अपरे तु पञ्चपादीमपि । वस्तुतस्तु उभावेव पाठौ पण्डितसमाजे कृतास्पदौ स्तः । तत्र केचन पञ्चपादीमापिशलिप्रोक्त दशपदीञ्च पाणिनिप्रोक्त वा शाकटायनप्रोक्त मन्यन्ते । युधिष्ठिरमहाभागस्तु उभंयोंरेव पाठयोः प्रवक्तारमनिर्जातं मन्यते । (सं० व्या० २१५ पृष्ठे)। संस्कृतव्याकरणपरम्परायामापिशलं शाकटायनं पाणिनीयञ्च : व्याकरण सर्वाङ्गपूर्णं मन्यते । सर्वाङ्गपूर्णत्वं हि सूत्रैः सह सम्बद्धानां धातु-गण-परिभाषाअंशादिसूत्र-फिट्सूत्र-लिङ्गानुशासनादिपाठानां प्रबन्धनमेव । अन्यानि तु व्याकरणानि एकदेशीयान्येवं . मन्यन्ते । उणादिहि । अन्यत्रानुपलब्धव्युत्पक्तीनां शब्दानां व्युत्पादनप्रयोजनः । वैयाकरणेषु शाकटायन एवैतादृश आचार्यों यः सर्वानपि शब्दान् धातुजन् मन्यते । यथोक्त निरुक्त ऽपि यास्काचार्येण-- तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च'। तथैव च महाभाष्येऽप्युक्तम् - वैयाकरणांनां च शाकटायन आह. धातुजं नामेत तंञ्च तथाकथंने । दुर्गाचार्यः ‘अतिपाण्डित्याभिमानात् इति समालोचयत्यपि निरुक्तवृत्तौ । तद्विपरीतं पाणिनिस्तु द्विप्रकारं शब्दं मन्यते व्युत्पन्नमव्युत्पन्नञ्च । तत्र अव्युत्पन्नशब्दस्य तु 'अर्थवदधातुरप्रत्ययः प्रातिपादिकम्' इति सूत्रेण प्राति-:-. पदिकसंज्ञा भवति व्युत्पन्नशब्दस्य तु ‘कृत्तद्धितसमासाश्च इत्यनेन नियमसूत्रेण । तदनुसारेण तु उणादीनां प्रवक्तृत्वेन शाकटायन एकोपतिष्ठते । किन्तु युधिष्ठिरश्रीमाँसकस्य उणादयो बहुलम्' इति सूत्रस्य व्याख्यावसरे आचार्येण उणादिसूत्रानि प्रोक्तानीति मतमपि विवेचनीयमेव दृश्यते। कैयटस्य च उणादय इत्येव सूत्रमुणादीनां शास्त्रान्तरपठितानां. साधुत्वज्ञापनार्थमस्त्विति भावः इति कथनमपि आर्चार्यस्य उणादिसूत्रप्रवक्तत्वं नैव निरुपाद्धि।. सूत्रप्रणयनकाले आचार्यः ‘उणादयो बहुलम् ।' इत्येव उक्तवान् स्यात्किन्तु . तद्वयाख्याकाले कथं ते ज्ञेयाः इति शिष्यैः पृष्ट उणादिसूत्राण्यपि प्रोवाचेति कथमनाद्रियते। उणादिसूत्रैरपि. नितान्तमव्युत्पादिता अपि शब्दाः सन्त्येव । तानेवाचार्योऽव्युत्पन्नान्मन्यते स्मेति नाश्चर्यम् । यच्च श्वेतवनवासिना येयं शाकटायनादिभिः पञ्चपादी रचिता इति समुक्त तस्यायमप्याशयः सम्भवति यत्पूर्वशाकटायनेनाऽपि उणादि पञ्चपादी रचितों आसीत् । सम्प्रति पाणिनिनाऽपीति । अन्यथा तत्र आदिपदस्य कि प्रयोजनम्? तथैव ‘एवञ्च कुवापेति उणादिसूत्राणि शाकटायनस्येति सूचितम्' इति उद्योते यदुक्त तत्रापि उत्पद्यन्तेऽनेका विप्रतिपत्तयः । तथैव बालमनोरमा कारकथनेऽपि यदा स कथयति-- 'तानि चेमानि सूत्राणि शाकटायनमुनिप्रणीतानि, न तु पाणिनिना प्रणीतानि । इति । अत्र वयं ब्रूमः। यदि हि कृवापेति उणादिसूत्राणि नैव पाणिनीयानि मन्यन्ते तदा तेषां सिद्धिः कथं क्रियते ? करोतीति कारुरित्यत्र णिति वृद्धिः वायुरित्यत्र युगागमः, द्वितीयसूत्रे, कुण' इत्यत्र त्रलोपः, जानुरित्यत्र जनिवध्योश्चेति न निषेधः अनुबन्धद्वयसामर्थ्यात्, भरुरित्यत्र गुणः कषुरित्यत्र गुणश्चे. त्यादिव्यवस्था पाणिनीया एव दृश्यते । सम्भवति शाकटायनशास्त्रेऽपि ‘आतो युक् चिण्कृतोः' जनिवध्योश्च, अचोञ्णिति, सार्वधातुकार्धधातुकयोः, पुगन्तलघुपदस्य च इत्यादिसूत्रेषु कृता युगागमबृद्धिनिषेध-वृद्धि-गुणादिव्यवस्था विहिता : स्यात्, किन्तु 'जनिवध्योश्च इति सूत्रस्य 'झुण्' इत्यत्र अनुबन्धद्वयसामर्थ्यादप्रवृत्तिर्यदुक्त तत्तु पाणिनीयमेव । तेन वृत्तिकारस्तु उणादिसूत्राणि पाणिनीयसूत्रप्रकाशेनैव : व्याख्याति । पाणिनीयसूत्रानुसारेण हि धितिण्यति. एव चजोः कुत्वं भवति तेन ‘कृके क्चः कश्वः॥६॥ इति सूत्रे । एव उप्रत्यये कविधानमस्ति यत्तस्य पाणिनीयत्वं सूचयति । तथैव नीथ इत्यत्र कुष्ठ इत्यत्र च गुणनिषेधायैव ‘क्थनू' प्रत्ययः कृतोऽस्ति किङति चेति सूत्रप्रवर्तनाय। एवञ्च पीथमित्यत्र , ‘घुमास्थागापाजहातिसां हलि, इति सूत्रप्रवर्तनायैव थक् प्रत्ययः कृतोऽस्ति । तथैव उक्थमित्यत्र थक्प्रत्ययः वचिस्वपियजादीनां किति इति सम्प्रसारणनिमित्तं प्रवर्तनायैव । एवञ्च शिरीष इत्यत्र ‘कृतृभ्यामीषन्’ इति ईषन् प्रत्यये शृपृभ्यां किञ्च इति कित्वे गुणनिषेधेनं ऋत इद्धातोरित्यस्य प्रवृत्तिः एवञ्च पुरीष इत्यत्र उदोष्ठ्यपूर्वस्येत्यस्य। एवञ्च वशे कित्, कशेर्मुट् च इत्यादिप्रबन्धश्च सर्वे एव पाणिनीयो दृश्यते । तेन वयन्तु समग्रमेव उणादिप्रबन्धं पाणिनीयमेव मन्यामहे यंत्र देशपादी वृद्धपाठसम्बद्धा पञ्चपादी लघुपाठसम्बद्धा च । ये खलु औदीच्याः प्राच्याश्च ते हि दशपादीमाद्रियन्ते ये च दाक्षिणात्यास्ते हि पञ्चपादीम् । यथाहि विठ्ठलाचार्यो दशपादों क्षीरस्वामी च पञ्चपादीमेव भट्टोजिदीक्षितः समुल्लिखति । उभे अपि पाणिनीये एव तेनैव ते पाणिनीयैः समादृते स्तः । समानमेव । इदन्तुक्तमेव यदाचार्यों हि प्रथमं तु संहितायां ‘उणादयो बहुलम् । इत्येवोक्तवान्, पश्चाच्च व्याख्यावसरे शिष्यैः पृष्टो दशपदीमेव प्रोक्तवान्ः यस्याः । लघुरूपं पञ्चपादीति स्पष्टमेव । समग्रेषु उणादिसूत्रेषु पाणिनीयसंहितैव व्याप्य । स्थिताऽस्ति इति कथं तेषामपाणिनीयत्वं न सिध्यति । तेनोणादिराचार्यप्रोक्त ने तुपज्ञातम् । फिट्सूत्रविषये च हरदत्तस्तानि शान्तनुप्रोक्तानि मन्यते,एवमेव श्रीनिवांसश्च । अद्रोज़िदीक्षितस्तु तानि शान्तनवाचार्यप्रणीतानि मन्यते । नागेशस्तु शन्तनुमेव तत्कर्तृत्वेन समर्थयति भैरवमिश्रश्च । रामचन्द्रपण्डितस्तु फिट्सूशाण्यपि पाणिनि प्रोक्तानि मन्यते । स हि कथयति - "वस्तुतस्तु 'फिट्सूत्राणां पाणिनीयत्वमेव पूर्वोदाहृतभाष्यस्वरसाद, पूर्वलत्वञ्च । शान्तनवाचार्यस्तु वृत्तिकारो न तु सूत्रकारः इतिं न काप्यनुपपत्तिः। इति। यद्यपि रामचन्द्रमतं तृतीयपथत्वेन युधिष्ठिरमहाभांगेनाप्युक्षेपितं तथापि यिनपतज़लिप्रमृतिभिरेतद्गतविषयस्मरणात्तन्मतं वयं तु न' तथोपेक्षणी मन्यन्ते। सम्भवति फिट् सूत्राण्यपि पाणिनिप्रोक्तानि कामं नोपज्ञातानि आचार्य उणादिविषये व्याख्यार्थी शिष्यैः पृष्टस्तदा से देशपादीं प्रोक्तवानन्ते च शब्दशस्तस्य पाराभावात्तथापि केचन शब्दो अव्युत्पन्ना एवं शिष्यन्ते इत्यपि प्रोक्तवा्। ततश्च तादृशानामव्युत्पन्नाना शब्दानां कथं स्वरपरिज्ञानमिति पृष्टः स फिट् सूत्राण्यप्युपदिष्टवान् । विदुषां किमशोभनम् । अस्मद्विचारेऽपि वृत्तिकारान्तराभावाच्छान्तनवाचार्यो हि फिट् सूत्राणां वृत्तिकार एव सम्भवति । व्युत्पन्नशब्दानां तु स्वरज्ञानं प्रकृतिप्रत्ययविभागानुसारेण भवति किन्त्वव्युत्पन्नानां तु फिट् सूत्राद्वारेणैव । एतदतिरिक्तमपि धातुपाठ-गणपाठ-परिभाषापाठ-लिङ्गानुशासन-उणादिसूत्र-फिट्सूत्रातिरिक्तमपि । भगवता पाणिनिना अष्टाध्यायीसूत्रव्याख्यौनकालें शब्दानुशासनस्य वृत्तेरपि प्रोक्तेत्यनुमीयते । प्रवचनकाले हि सूत्रार्थपरिज्ञानाय वृत्तेरपि निर्देश आवश्यक एव भवति सामान्यतः । तत्रापि पाणिनीये हि अकृतव्यूहेऽनुवृत्तिसञ्चालिते शास्त्रे तु वृत्तेरावश्यकताऽपरिहार्दैव। यथा “इको गुणवृद्धी इति सूत्रे पठित ‘इक् ‘सिचिवृद्धिःपरस्मैपदेषु इति सूत्रे अनुवर्तते । तथैव ‘नेड् वशि कृति' इति सूत्रे पठित 'नेट' श्रुयुकः किति' इति सूत्रेऽनुवर्तते। नैतावन्मात्रमपितु ‘उपपदमति इति सूत्रं 'कुगतिप्रादयः' इति सूत्रं नियच्छति । तेन यत्र हि सिंहावलोकनन्यायेन मण्डूकप्लुतिन्यायेन च पदानामनुवृत्तिर्भवति तादृशे शास्त्रे 'वृत्तेरावश्यकता सर्वैरनुभूतैव । पाणिनिह भगवान् स्वीपज्ञातं, शब्दानुशासनमनेकवार शिष्येभ्यो व्याख्यातवानिति तु महाभाष्यकाशिकादि ' ' ग्रन्थेभ्यो ज्ञायत एव । तादृशे प्रवचने तेन सूत्राणां 'स्वोपज्ञा वृत्तिरपि प्रोक्ता या च शिष्यैः सङ्ग्रहीता कालेन विलुप्ता वा रूपान्तरिता वा यत्र कुत्र तुं तथैव स्थिताऽपि सम्भवति । एवमेव भगवतः पाणिनेह शिक्षाग्रन्थः द्विरूपकोशः, पूर्वपाणिनीयं, जम्बः । वतीविजयमहाकाव्यञ्च कृतित्वेन मन्यन्ते । . शब्दोच्चारणंपरिज्ञापकं साहित्यं हि शिक्षेत्युच्यते। भगवत्पाणिनिप्रोक्तत्वेन । ग्रन्थान्तरवच्छिक्षाग्रन्थोऽपि ख्यातोऽस्ति। 'कथ्यते हि तस्यं द्विविधं स्वरूपैमस्ति . प्राचीनमर्वाचीनञ्च । प्राचीनं हि स्वरूपं सूत्रात्मकमस्ति अर्वाचीनं तु श्लोकात्मकम् । प्राचीनस्य हि स्वरूपस्य (सूत्रात्मकस्य) वृद्धपाठो लघुपाठ इति दौ भेदौ स्तः । सूत्रात्मको हि पाणिनीयशिक्षाग्रन्थो दयानन्दमहाभांगेज़ मेहता ‘प्रयासेन सङ्गृह्य प्रकाशित इति ज्ञायते । श्लोकात्मकस्यापि तथैव यत्र, चन्द्रपाले आर्चः षष्टिश्लोकात्मको लधुपाठश्च यजुषः पर्चीत्रशच्छुलोकात्मकः। सूत्रात्मके हि ग्रन्थे स्थान-करण-अन्तः प्रयत्न-वाह्य प्रयत्न-स्थान-पीडन|वृत्तिकार-प्रक्तम-नाभितलाख्यान्यष्टौ प्रकरणानि सन्ति । वृद्धपाठे सूत्राणां सूत्रां| शानाञ्चाधिक्यं वर्तते लघुपाठे हि प्रथमे २२,द्वितीये ७, तृतीये १०, चतुर्थे १०; पञ्चमे ४, षष्ठे १०, सप्तमे ९, अष्टमे १, उपोद्धाते ४ इति ७६ सूत्राणि लभ्यन्ते । सूत्रात्मकशिक्षायाः पाणिनिप्रणेतृत्वं च प्रमाणेतरातिरिक्तं तैत्तिरीयप्रातिशाख्यस्य भाष्यकारेण सोमयायिना स्वीये त्रिरत्नभाष्ये ‘सन्ध्यक्षराणां ह्रस्वाः न सन्ति' इति पाणिनीयेऽपि' इत्युक्तत्वादपि सिध्यति ।। अस्य हि श्लोकात्मकपाठस्तु तच्छिष्यप्रणीत इति 'अथ शिक्षा प्रवक्ष्याभि .. पाणिनीयं मतं यथा' इति वाक्येनैव ज्ञायते । केचित्तं ( यथा शिक्षाप्रकाशटीकाकारः ) पिङ्गलाचार्यगुम्फितं मन्यन्ते । यथोक्तं शिक्षाप्रकाशटीकायां. ज्येष्ठभ्रातृर्भािवहिते व्याकरणेऽनुजस्तत्र भगवान् पिङ्गलाचार्यस्तन्मतमनुभाव्य शिक्षा वक्तुं प्रतिजानीते” इति ।। | शब्दानुशासनवत्पाणिनेः शिक्षाग्रन्थोऽपि आपिशलेन सह नितान्तं साम्यमाधत्ते । उमयोरेवाष्टौ प्रकरणानि तावत्येव सूत्रसङ्ख्या विषयश्च नितान्तसंवादी । शिक्षाग्रन्थस्य लघुपाठे एव शिक्षाप्रकाश-शिक्षापञ्जिकाद्याष्टीकाः समुपलभ्यन्ते । जाम्बवतीविजयं नाम महाकाव्यमपि पातालविजयापराभिधानं हि पाणिनेः कृतित्वेन मतम् । तस्य हि समग्रकलेवरं तु सम्प्रति नैवोपलभ्यते किन्तु यत्र तत्र विहितेम्य उद्धरणेभ्यस्तस्यावस्थित यत्किञ्चित्स्वरूपञ्च विज्ञायते । तत्रत्यं। उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुक तथा पुरोऽपिरागाङ्गलितंन लक्षितम् ।। इति पद्यं ध्वनिकारेण समुद्धृतमस्ति । राजशेखरो वदति- नमः पाणिनये तस्मै यस्मादाविरभूदिह । आदौ व्याकरणं काव्यमनु जाम्बवतींजयम् ।। इति । एवमेव श्रीधरदासश्च सदुक्तिकर्णामृते - “सुबन्धौ भक्तिनँः क इह रघुकारे न रमते । धृतिदक्षीपुत्रे हरति हरिश्चन्द्रोऽपि हृदयम् । विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिरस्तथाऽप्यन्तर्मोद कमपिं भवभूतिवंतनुते ।” क्षेमेन्द्रश्च सुवृत्ततिलके स्मरति- स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कार कसाराभिरुद्यानस्येव जातिभिः ।। इति । इदं हि न्यूनपि अष्टादशसर्गात्मकमासीदिति दुर्घटवृत्तिकारेण शरण देवेन कृतात् - त्वया सहाजितं यच्च यच्च सख्यं पुरातनम् । चिराय चेतसि पुनस्तरुणीकृतमद्य मे ।। इत्यष्टादशे'। इति उद्धरणाज्ज्ञायते । इत्थं हि युधिष्ठिरमहाभागकथनानुसारेण, अद्या• वधि एकोनत्रिंशद्ग्रन्थेषु पाणिनेर्जाम्बवतीविजयस्य समुद्धरणानि सन्ति । एवमेव पाणिनिप्रणेतृत्बेन स्मृतो द्विरूपकोशोस्तीति युधिष्ठिरमहाभागः । संस्कृतव्याकरणशास्त्रेतिहासे स्मरति । तदनुसारेण तस्यान्ते इति पाणिनिमुनिना कृतं द्विरूपकोशं सम्पूर्णम्' । इति लिखितमस्ति । कोशोऽयं पाणिनिकृतो वा न वेति सम्प्रत्यपि नैव निश्चितम् । एवञ्च ‘पूर्वपाणिनीयम्' इति कश्चिद्ग्रन्थः चतुर्विंशतिसूत्रात्मको र्जीवरामकालिदासराजवैद्येन सङ्गृहीतः सम्पादितः प्रकाशितश्च वर्तते । तत्रत्यानि सूत्राणि इत्थं युधिष्ठिरमहाभागेन समुधृतानि-- ओम् नमः सिद्धम् । अय शब्दानुशासनम् (१) शब्दो धर्मः (२) धर्मादर्थकामायवर्गाः ।३। शब्दार्थयोः ।४। सिद्धः ५। सम्बन्धः ।६। ज्ञानं छन्दसि १७॥ ततोऽन्यत्र ।८। सर्वभार्षम् ।९। छन्दोविरुद्धमन्यत् ॥१०॥ अदृष्टं वा ।११॥ ज्ञानाधारः ॥१२॥ सर्वःशब्दः ।१३। सर्वार्थः ।१४। नित्यः ॥१५॥ तन्त्रः ॥१६॥ आषास्वेकादशी ।१७। अनित्यः ।१८। लौकिकोऽत्र विशेषेण ।१९। व्याकरणात् ।२०। तज्ज्ञाने धर्मः ।२१। अक्षराणि वर्णाः ।२२। पदानि वर्णेभ्यः ॥२३॥ ते प्राक् ।२४। पूर्वसूत्रविषये महाभाष्यकाशिकाप्रभृतिग्रन्थेषु यत्र तत्र स्मृतं दृश्यते । महाभाष्ये यथा - अथवा पूर्वसूत्रे वर्णस्याक्षरमिति संज्ञा क्रियते पूर्वसूत्रे गौत्रस्य वृद्धिमिति संज्ञा क्रियते - ‘पूर्वसूत्रनिर्देशो वापिशलमधोत इति । पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः । सूत्रेप्रधानस्योपसर्जनमिति संज्ञा क्रियते पूर्वसूत्रनिर्देशश्च । चित्त्वान् चित इति। अथवा पूर्वसूत्रनिर्देशोऽयं पूर्वसूत्रेषु च येऽनुबन्धा। न तैरहेत्कार्याणि क्रियन्ते''। निर्देशोऽयं पूर्वसूत्रेण । वा स्यात् । पूर्वसूत्रनिर्देशश्च । काशिकायां उक्तम्‘पूर्वपाणिनीयं शास्त्रम् । युधिष्ठिरमहाभागस्तु तान् पाणिनिकृतान्नैव मन्यते । स हि पूर्वपाणिनीयशब्दस्य पाणिनीयस्य पूर्व एकदेशः पूर्वपाणिनीयमिति कृत्वा ग्रन्थञ्च पाणिनीयशास्त्रस्य पूर्बभागममुमाति । किन्तु काशिकायां व्यवहृते पूर्वपाणिनीया अपरपाणिनीया इति’ पदे एतद्विपरीतमेवं सूचयन्ति । पूर्वपाणिनीया हि पूर्वपाणिनीयशास्त्राध्येतारः। तेन हि पाणिनेरेव पूर्वमपरञ्चेति द्वे शास्त्रे इति ज्ञायते । सम्भवति पाणिनिना हि भगवता प्रथमं पूवैशास्त्रत्वेन संक्षिप्तं व्याकरणमुपज्ञातं स्यात्प्रायोगिकरूपेण । विषयेऽस्मिन्नधिकमनुसन्धानमावश्यकम् ।' विषयः अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । सर्वाः शब्दव्युत्पत्तिप्रक्रियाः प्रकृतिप्रत्ययविवेकः च समीचीनतया सूत्ररूपेण निरूपिताः । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' । अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा कृतिः अस्ति । वैदेशिकाः विद्वांसः अपि एतं ग्रन्थम् मुक्तकण्ठं प्रशंसन्ति । व्याख्यानानि पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । "अथ शब्दानुशासनम्" इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति शब्दानुशासनम्। पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् । सम्बगद्धाः लेखाः गणपाठः पतञ्जलिः व्याकरणम् संस्कृतम् सन्दर्भाः 2अष्टाध्यायी पाणिनीया 1शिक्षा संचित्रसारमञ्जूषे 6योजनीये
2135
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A5%81%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B9%E0%A4%A8
वायु परिवहन
वायु परिवहन राइट बन्धु, ओर्विल राइट (August 19, 1871 - January 30, 1948) विल्बर राइट (April 16, 1867 - May 30, 1912) च विमानस्य आविष्कारका:. समाजसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2136
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%A1%E0%A4%BE
चतुरङ्गक्रीडा
चतुरङ्गक्रीडा(Chess) एका बहुप्रसिद्धा पारम्परिकक्रीडा वर्तते । चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे (Chess board) क्रीडन्ति । अस्मिन् शारिपट्टे ६४ समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे १६ पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति, चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां चेक्मेट् (Checkmate) इत्युच्यते । चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति, विश्वचतुरङ्गविजेता विश्वमहिला्चतुरङ्गविजेत्री विश्वबालकानां चतुरङ्गविजेता विश्वज्येष्ठानां चतुरङ्गविजेता विश्वदूरस्थचतुरङ्गविजेता विश्वसङ्गणकचतुरङ्गविजेता चतुरङ्गक्रीडायाः मान्यता विश्वओलम्पिक् समितिः एवं विश्वचदुरङ्गसंस्थायाः वर्तते । चतुरङ्गक्रीडायां विभिन्नप्रकाराः वर्तन्ते । इतिहासः अस्याः क्रीडायाः प्रारम्भः गुप्तसाम्राज्यस्य काले अभवत् । तदानीमेव तस्य नाम चतुरङ्गम् इति आसीत् । तस्मिन् काले पदातीनां नामानि अश्वः,रथः,हस्तिः आसन् । कालान्तरे नैट्(knight),बिशप्(bishop),रूक्(rook) इति नामानि व्यवहारे आगतानि । ६०० तमे वर्षे पारस्यदेशे एषा क्रीडा आसीत् इत्यस्मिन् विषये साक्षाधाराः लभ्यन्ते । तस्मिन् काले चत्रङ्ग् इति चतुरङ्गक्रीडायाः नाम आसीत् । चत्रङ्ग् इति नामोल्लेखः पर्शिया अथवा इरान्-देशस्य त्रिषु प्रणयमाहाकाव्येषु श्रूयते । ६३३ तमात् वर्षादारभ्य ६४४ तमस्य वर्षस्य काले पारस्य देशः इस्लाम्-धर्मस्य शासनाधीने आसीत् । तस्मिन् काले चत्रङ्ग् इत्यस्य शत्रञ्ज् इति नामान्तरम् अभवत् । स्पेन्-देशे शत्रञ्ज् इत्यस्य अखेद्रेज़्(ajedrez) इति उच्चारणम् । पोर्चुगीस् भाषायां सद्रेज़्(xadrez) इति उच्चारणम् । ग्रीक् भाषायां ज़द्रिकियान्(zatrikion) इति उच्चारणम् । परन्तु इतरस्मिन् युरोप् प्रदेशे आङ्ग्लपदं चेक् इत्यस्मात् चेस् इति उच्चारणं व्यवहारे आगतम् । १३ शतके ताळपत्रे अस्याः क्रीडायाः विषये उल्लेखः लभ्यते । अस्य क्रीडायाः आरम्भः चीनादेशस्य ज़्याङ्कि क्रीडातः इत्यपि श्रूयते । प्रथमविश्वविजेता विल्हेम् स्टैनेट्स् १८८६ तमे वर्षे अभवत् । वर्तमानकाले चतुरङ्गविश्वविजेता म्याग्नस् कार्ल्सनः वर्तते । १९९७ तमे वर्षे प्रथमवारं विश्वचतुरङ्गविजेताक्रीडा डीप् ब्लू इति सङ्गणकस्य साहाय्येन सङ्गणकद्वारा क्रीडायाः स्पर्धा आरब्धा । चित्रमुद्रिका चित्रवीथिका क्रीडाः
2137
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8B%E0%A4%B3%E0%A4%83
राजेन्द्रचोळः
राजेन्द्रचोळः चोळवंशस्य महान् राजा आसीत्। सः राजराजचोळस्य पुत्रः आसीत्। सः वङ्गराजं महीपालं जित्वा गङ्गैकोण्डचोलपुरं नाम नगरम् अस्थापयत्। सः जम्बुद्वीपे अनेकेषु युद्धेषु अजयत्। सः लंका अपि अजयत्। राजेन्द्रचोळस्य राज्यम् c. 1030 C.E. पश्यतु चोळवंशः राजेन्द्रचोळः भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
2139
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%9C%20%E0%A4%9A%E0%A5%8B%E0%A4%B2
राजाराज चोल
राजाराज चोळ पश्यतु चोळ वंश भारतेतिहाससम्बद्धाः स्टब्स् भारतस्य प्राचीनराजाः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2140
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A4%A6%E0%A4%BE%E0%A4%B0%20%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A4%AD%E0%A4%AD%E0%A4%BE%E0%A4%88%20%E0%A4%AA%E0%A4%9F%E0%A5%87%E0%A4%B2
सरदार वल्लभभाई पटेल
सरदार वल्लभभाई पटेल ( ) (, , ) भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति । कुटुम्बेतिहासः किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः कृषियोग्यं 'पट्ट' इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां 'पट्ट' इति उच्यते । ते 'पट्ट' इत्यस्य क्रयणं कृतवन्तः । अतः 'पाटीदार' इति प्रसिद्धाः अभूवन् । अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः 'लेउआ', करड-नामकात् ग्रामात् आगताः 'कडवा' इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् । गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं समर्थः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे (२५) वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा १८५७ तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल । जन्म लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत् । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्, “शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः १८७५ तमस्य वर्षस्य 'अक्तूबर्'-मासस्य एकत्रिंशत् (३१) दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः । बाल्यम् लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, "मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्" इति । धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत् । तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म । पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम् । प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म । पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म शिक्षणम् करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો...(मांय-मांय भणो)” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म । शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति । अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत् । बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत् । द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत् । किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम् । तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः कस्याश्चित् आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत् । सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म । परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत् । तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता । पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत् । सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत् । प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः । कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः । पठनकाले आन्दोलनानि बालदण्डविरोधः षष्ठमकक्षायाम् कश्चित् पारसीशिक्षकः विद्यार्थिनः कठोरदण्डेन प्रताडयति स्म । एकदा सः कस्मैचित् विद्यार्थिने धनदण्डनं दत्तवान् । सः विद्यार्थी द्वितीये दिने धनं विना विद्यालयं गतः । तेन कुपितः शिक्षकः विद्यार्थिनं कक्षायाः बहिः प्रेषितवान् । एतादृशम् अन्यायं दृष्ट्वा बालवल्लभः तस्य विरोधमकरोत् । सः सर्वेभ्यः विद्यार्थिभ्यः "विद्यालयं मा गच्छन्तु" इति न्यवेदयत् । कोऽपि भयेन विद्यालयं न गच्छेदतः सः विद्यालयमार्गेषु लघुमण्डपानां स्थापनाञ्चकार । विद्यार्थिभ्यः जलादीनां व्यवस्थामप्यकरेत् । तत् विरोधप्रदर्शनं त्रीणि दिनानि यावत् अभूत् । चतुर्थे दिने प्राचार्यः बालवल्लभम् आहूय समाधानमकरोत् । शिक्षकस्य विलम्बः एकदा अगरवाला-नामकः कश्चन शिक्षकः बहु विलम्बे सत्यपि कक्षां न प्राप्तवान् । सः शिक्षकः कार्यालये अन्यैः शिक्षकैः सह जल्पने व्यस्तः आसीत् । तेन असन्तुष्टः बालवल्लभः निर्णयमकरोत् यत्, ये शिक्षकाः वर्गं विलम्बेन प्राप्नुवन्ति, डाह्याभाई-द्वारा लिखितस्य गीतस्य गायनं कृत्वा तेषां विराधं कुर्मः इति । तदनुसारं सः गीतगायनं प्रारभत । तेन सह सर्वे विद्यार्थिनः उच्चस्वरेण गीतं गीतवन्तः । कार्यालये जल्पने मग्नः शिक्षकः तं गीतध्वनिम् अशृणोत् । धावन्-धावन् सः कक्षां प्रविष्टवान् । कश्चित् विद्यार्थी गीतगायने कुशलः आसीत्, तेनैव गीतं प्रारब्धमिति विचिन्त्य शिक्षकः तस्मै विद्यार्थिने अकुप्यत् । मध्ये बालवल्लभः अवदत्, “भोः ! यद्यपि भवान् विलम्बेन कक्षां प्राप्तवान्, तथापि एतस्मै किमर्थं कुप्यति ? भवतां विलम्बेन वयं किमर्थं रुदिमः ? वयं तु गीतमेव गायामः खलु ? अहमेव गीतस्याम्भमकरवम्” इति । सः शिक्षकः बालवल्लभं वर्गात् बहिः निर्गमनाय आदिष्टवान् । बालवल्लभः वर्गात् बहिः निर्गमनाय सर्वान् विद्यार्थिनः अक्षिणा सङ्केतमकरोत् । अकस्मात् सर्वे विद्यार्थिनः “हूहूहूहू” नादेन सह वर्गात् बहिः निर्गतवन्तः । द्वितीये दिनेऽपि कोऽपि वर्गं न प्रविष्टवान् । सर्वे विद्यार्थिनः एकस्वरेण उक्तवन्तः यत्, वल्लभस्य वर्गप्रवेशे सत्येव वयं वर्गं प्रवेशयिष्यामः । शिक्षकः प्राचार्यम् आहूतवान् । प्राचार्यः उक्तवान्, “वल्लभ ! शिक्षकात् क्षमां याचस्व” इति । बालवल्लभः प्रत्यवदत्, “भोः आचार्य ! भवतां न्यायस्तु यथा चौरः आरक्षकं दण्डयेत् तथास्ति । अहं किमर्थं क्षमां याचे ? शिक्षकः कार्यालये स्थित्वा जल्पनमग्नो भवेत् तस्मिन् अस्माकं कः दोषः ?” बहु प्रश्न-प्रतिप्रश्नपश्चात् प्राचार्यः सर्वान् वर्गं प्रवेशाय आदिष्टवान् । वैश्यमानसः शिक्षकः विद्यालये कश्चित् शिक्षकः वैश्यमानसः आसीत् । सः विद्यार्थिनः बलेन कथयति स्म यत्, मत्सकाशात् पुस्तक-अङ्किनी-लेखन्यादीनां क्रयणं कुर्वन्तु इति । प्रप्रथमं तु बालवल्लभः नम्रतया शिक्षकाय एवं मा करोतु इति न्यवेदयत् । परन्तु शिक्षकस्य हठाग्रहेण बालवल्लभः विद्यालये विरोधप्रदर्शनमकरोत् । तत् प्रदर्शनं षड्दिनं यावत् आसीत् । पेटलाद-ग्रामे अभ्यासं समाप्य ‘मेट्रिक’-पठनं युववल्लभः वडोदरा-महानगरे अकरोत् । ‘मेट्रिक’-पश्चात् युववल्लभस्य इच्छा तु विदेशं गत्वा उच्चशिक्षणप्राप्तेः आसीत् । परन्तु आर्थिकरीत्या अक्षमता तत्र बाधाऽऽसीत् । अतः सः धनार्जनस्य निर्णयमकरोत् । वाक्कीलस्य कार्ये बहु धनमासीदतः युववल्लभः न्यायशास्त्राभ्यासं चितवान् । वाक्कीलो भूत्वा धनार्जनं कृत्वा विदेशं गमिष्यामीति निर्णयमकरोच्च । न्यायशास्त्रस्य अभ्यासः यदा चलन् आसीत्, तदा युववल्लभं नेत्रविद्रधिः (Boil on eye) अभूत् । नेत्रविद्रधेः एकैव उपचारः भवति स्म यत्, नापितः स्वस्य दग्धलोहदण्डेन तं विद्रधिं निष्कासयति स्म । युववल्लभशरीरे दग्धलोहदण्डस्पर्शकरणे यदा नापितः सङ्कोचम् अनुभूतवान्, तदा युववल्लभः स्वयमेव दग्धलोहदण्डं हस्ते नीत्वा नेत्रविद्रधिं निष्कासितवान् । सफलवाक्कीलः १९०० तमे वर्षे लोहपुरुषः 'डिस्ट्रिक्ट् प्लीडर'-परीक्षायाम् उत्तीर्णः अभूत् । तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । १९०२ तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत् । कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत् । समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान् । सः तत्रापि स्वतन्त्रेण कार्यमकरोत् । अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत् । परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म । स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत् । ज्येष्ठभ्रात्रे त्यागः बोरसद-ग्रामे त्रीणि वर्षाणि वाक्कीलस्य कार्येण युववल्लभः प्रतिष्ठया सह धनार्जनमपि कृतवानासीत् । परन्तु अमुकवारं तेन अन्य 'बेरिस्टर्' इत्येतैः सह कार्यं करणीयं भवति स्म । अतः युववल्लभस्य मनसि 'बेरिस्टर्' भवितुम् इप्साऽऽसीत् । 'बेरिस्टर्'–पदस्य मानं, धनार्जनञ्च अधिकमासीत् । अतः सः इङ्ग्लैण्ड-देशे 'बेरिस्टर्' पठनाय निर्णयमकरोत् । 'थोमस् कुक एण्ड सन्स्' संस्थया सह पत्रव्यवहारं प्रारभत युववल्लभः । सः तस्य लघुनाम वी.जे.पटेल इति लिखति स्म, तस्य भ्राता विठ्ठलोऽपि वी.जे.पटेल इति लिखति स्म । एवं पत्रव्यवहारस्य अन्तिमपत्रं विठ्ठलः प्राप्तवान् । सः युववल्लभम् उक्तवान्, अहं तु ज्येष्ठः अतः अहं प्रथमं विदेशं गच्छामीति । ज्येष्ठस्य आज्ञानुसारं सः विदेशगमनाय प्रतीक्षामकरोत् । विठ्ठलः यदा विदेशमगच्छत्, तदा तस्य परिवारस्य दायित्वमपि युववल्लभः अवहत् । पत्न्याः मृत्युः, मानसिकदृढता च १८९३ तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत् । तयोः एका पुत्री, एकः पुत्रश्चासीत् । पुत्र्याः जन्म १९०३ तमे वर्षस्य 'एप्रिल'-मासे अभूत् । पुत्रस्य जन्म १९०५ तमस्य वर्षस्य 'नवम्बर्'-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत् । पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत् । लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः (Tumor) आसीत् । ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत् । वैद्यः चिकित्सासमये उक्तावान् यत्, "अहं पञ्चदशदिनपश्चात् शल्यक्रियां (Operation) करिष्ये" इति । अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत् । परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत् । शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत् । परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत् । पत्न्याः मृत्युः अभूत् इति दूरलेखः (telegram) युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः । दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत् । अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च, “अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत्" । अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति । १९०९ तमस्य वर्षस्य 'जनवरी'-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत् । कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः । परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान् । इङ्ग्लेण्ड-देशेऽध्ययनम् १९१० तमस्य वर्षस्य 'अगस्त'-मासे युववल्लभः इङ्गलेण्ड-देशाय समुद्रमार्गेण यात्रां प्रारभत । प्रवासे एव सः सम्पूर्णं रोमन-न्यायशास्त्रम् (Roman Law) अपठत् । इङ्गलेण्ड-देशे यत्र युववल्लभस्य निवासः आसीत्, ततः मिडल-टैम्पल-ग्रन्थालयः विंशतिः (२०) कि.मी. दूरे आसीत् । धनाभावात् न्यायपुस्तकक्रयणेऽसमर्थः युववल्लभः प्रतिदिनं प्रातः नववादने ग्रन्थालयं गच्छति स्म, सायङ्काले षड्वादने गृहं प्रतिगच्छति स्म । अमुकवारं तु युववल्लभः दिने अष्टादशघण्टाः यावदध्ययनरतः भवति स्म । कुशलः 'बेरिस्टर्' महता परिश्रमेण १९१३ तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे दिनाङ्के युववल्लभः 'बेरिस्टर्' पदवीं प्राप्तवान् । इङ्ग्लेण्ड-देशात् मुम्बई-महानगरं प्राप्य ततः सः अहमदाबाद-महानगरं प्राप्तवान् । तदा स्वतन्त्रान्दोलनस्य कालः आसीत् । स्वतन्त्रान्दोलनस्य काले वाक्कीलाः सार्वजनिकक्षेत्रेषु परम्परानुगतं स्वयोगदानं यच्छन्ति स्म । अतः विठ्ठल-वल्लभौ देशसेवायाः यदा निर्णयमकुरुताम्, तदा झटिति विठ्ठलः वल्लभम् अवदत्, “अहं देशसेवां करिष्ये, त्वञ्च कुटुम्बसेवां कुरु” इति । एवं युवल्लभस्योपरि कुटुम्बस्य दायित्वम् आपतितम् । लोहपुरुषः कथयति, “ज्येष्ठस्य निर्णेयेन मया तु पापकर्म एव करणीयमभवत् । परन्तु भ्रातुः पुण्येऽपि मम योगदानमस्तीति चिन्तयन् अहं स्वमनसे सान्त्वनां यच्छामि स्म” इति । लोकसेवायै सार्वजनिकक्षेत्रे प्रवेशः १९१३ तमे वर्षे विठ्ठलः मुम्बई-विधानसभायाः सदस्यः अभूत् । १९१५ तमे वर्षे गुजरातसभाद्वारा सञ्चालितायां मुम्बई-प्रेसिडन्सी-राजनैतिकसभायां लोहपुरुषः भागम् अवहत् । १९१३ तमे वर्षे अफ्रीका-देशात् पुनरागत्य महात्मना कोचरब-आश्रमस्य स्थापना कृताऽऽसीत् । महात्मा 'गुजरातक्लब' गत्वा 'गुजरातक्लब'-सदस्यानां सम्मुखं स्वविचारान् प्रकटयितुम् उद्युक्तः आसीत् । लोहपुरुषस्य मित्रं ठाकोर स्वजीवन्यां (Autobiography) उल्लिखत्, लोहपुरुषः तस्मिन् समये गान्धिविचारैः सम्मतः नासीत् । अतः सः 'ब्रिज' इति क्रीडायां सल्लग्नः आसीत् । अहमपि तेन सह स्थितः आसम् । सभां महात्मा यदा प्रविष्टवान्, तदाहं तं दृष्टुं उद्यतः अभवम् । सरदार ममोपरि व्यङ्ग्यमकरोत्, “अत्रैव तिष्ठ । एवं शौचालये स्वच्छे कृते, वस्त्रत्यागेन च स्वतन्त्रतां न प्राप्स्यामः वयम्" । तस्मिन् समये स्वयं तस्य मनसि अपि चिन्तनं नासीत् यत् सः स्वयं भविष्ये महात्मनः विचाराणां परमपथिकः भविष्यतीति । तावत् पर्यन्तं लोहपुरुषस्य मनसि राजनीतिप्रवेशस्य विचारः नासीत् । ज्येष्ठस्य राजनैतिकसफलतया राजनैतिकक्षेत्रे लोहपुरुषः अपि आकर्षितः । अतः लोहपुरुषः स्थानीयजनसेवार्थं अहमदाबाद-महानगरस्य 'म्युनिसिपल्'-कार्यालयसदस्यत्वनिर्वाचने स्वनामाङ्कनम् अकरोत् । १९१७ तमे वर्षे लोहपुरुषः निर्विरोधम् (unopposed) अहमदाबाद-महानगरस्य दरियापुर-'म्युनिसिपल्-बोर्ड्' इत्यस्य सदस्यः अभूत् । १९१७ तमे वर्षे एव लोहपुरुषः गुजरातसभायाः अध्यक्षः अभूत् । १९२४ तमे वर्षे यदा पुनः 'म्युनिसिपल्-बोर्ड' इत्यस्य निर्वाचनम् अभूत्, तदा लोहपुरुषः 'म्युनिसिपल्-बोर्ड' इत्यस्य अध्यक्षत्वेन पुनः चितः । लोहपुरुषस्य अध्यक्षतायां गुजरातसभायाः प्रथमसम्मेलनं गोधरा-नगरे अभूत् । तस्यां सभायां महात्मा अपि उपस्थितः आसीत् । तत्र महात्मा-लोहपुरुषौ स्वविचाराणाम् आदान-प्रदानम् अकुरुताम् । सभायाः सम्मुखं द्वे समस्ये आस्ताम् । प्रथमा 'बेगार'-(Forced Labor without payment) प्रथायाः उन्मूलनं कथं भवेत् । द्वितीया तु खेडामण्डलस्य कृषकाणां पीडायाः निवारणं कथं भवेत् । तस्मिन् समये कोऽपि सर्वकारस्याधिकारी यदि कमपि ग्रामं गच्छति स्म, तर्हि 'बेगार'-इति धनं बलात् स्वीकरोति स्म । अतः गुजरातसभाध्यक्षः लोहपुरुषः तस्याः प्रथायाः विरोधमकरोत् । सः 'कमिश्नर् पैट्' इत्येनं पत्रत्रयेण न्यवेदयत् यत् “एषा प्रथा निरस्ता भवेदि”ति । परन्तु 'पैट्' तस्य निवेदनं नाङ्गीकृतवान् । चतुर्थे पत्रे लोहपुरुषः अलिखत्, "भवान् स्वयमेव एतां प्रथां निरस्तां न करिष्यति चेत् जनाः एव परिपत्रेण त्वं सूचयिष्यन्ति" । खेडा-सत्याग्रहः खेडामण्डलस्य कृषकाणां शोषणमासीत् । अतः सत्याग्रहस्य विचारः लोहपुरुषेण कृतः । दशवर्षाणि यावत् अतिवृष्टिकारणेन, आनावृष्टिकारणेन च यद्यपि सस्योत्पादनं न जातमसीत्, तथापि सर्वकारेण करः (Tax) बलात् स्वीक्रियते स्म । अस्य विरोधे सरदार आन्दोलनमकरोत् । १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य द्वादशे दिनाङ्के 'कमिश्नर् पैट्' कृषकेभ्यः प्रत्यादेशं (warning) अयच्छत्, “कोऽपि गान्धि-वल्लभयोः अनुसरणं करिष्यति चेत् तस्य जीवने महान्तः दुःखाः एव भविष्यन्ति” इति । एतस्योत्तरं दातुं सरदार १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे दिनाङ्के कृषकान् सम्बोद्ध्य भाषणं कृतवान् । लोहपुरुषः उक्तवान्, “अस्माकं विरोधस्य मुख्योद्देशः जनेषु व्याप्तस्य सर्वकारं प्रति भयस्य उन्मूलनमस्ति । अस्माकं विरोधे धर्मस्यांशाः अधिकाः सन्ति । खेडामण्डलस्य नाम भारतीयस्वतन्त्रतायाः इतिहासे प्रप्रथमक्रमाङ्के भविष्यति । आभारतं सद्यः अस्माकं चर्चां करोति । अस्माकम् आन्दोलनं भारतस्वतन्त्रतायाः शिलान्यासवदस्ती”ति । 'अप्रैल'-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वकारेण अधिकारिणः आदिष्टाः, “ये कृषकाः करं दातुम् असमर्थाः सन्ति, तेभ्यः करं मा स्वीकुर्वन्तु” इति । एतादृशसफलतायाः पश्चात् महात्मा-वल्लभौ गुर्जरसमाचारपत्रेषु स्वनिवेदनं दन्तवन्तौ । तौ उक्तवन्तौ, “खेडामण्डलस्य जनानां दृढमनोबलेन समग्रस्य भारतस्य ध्यानाकर्षणं कृतमस्ति । जनप्रयासेनैव आन्दोलनं सफलमभूत्" । लोहपुरुषस्य प्रशंसायां महात्मा अवदत्, “सरदार प्रप्रथमं मम सम्मुखं यदा आगतः, तदाऽहम् अचिन्तयं कीदृशः एषः व्यक्तिः इति । परन्तु तस्य नैकट्येन मम ज्ञानम् अभूत् यत्, अस्य तु महती आवश्यकता अस्ति देशाय इति । अहं चिन्तयन् आसं कः अस्माकम् उपसेनापतिः भवितुमर्हति इति । तदा मम मनसि लोहपुरुषस्यैव नाम स्फुरितम् । सरदार यदि मया सह नाभविष्यत्, तर्हि यानि कार्याणि साधितानि, तानि अशक्यानि एवाभविष्यन्” इति । 'रोलट'-नियमविरोधः, असहयोगान्दोलनञ्च सरदार 'रोलट'-नियमविषये अभाषत्, “एषः नियमः व्यक्तिस्वतन्त्रतायाः विरोधी अस्ति" । सरदार १९१९ तमस्य वर्षस्य 'अप्रैल'-मासस्य षष्ठे दिनाङ्के अहमदाबाद-महानगरे 'रोलट'-नियमविरोधियात्रां प्रारभत । ततः आङ्ग्लाः 'रोलट'-विरोधिसभायां पञ्जाबराज्ये नरसंहारम् अकुर्वन् (यत्, जलियावाला-बाग-हत्याकाण्ड इति कुख्यातः) । अतः १९२० तमस्य वर्षस्य ‘मई’-मासस्य पञ्चदशदिनाङ्के महात्मना निर्धारितं यत् असहयोगान्दोलनं भारतस्वतन्त्रायाः एक एव मार्गः अस्ति इति । असहयोगान्दोलनस्य निर्णयः जनाः एव कुर्वन्तु इति उद्देश्येन गुजरातराजनैतिकसभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तत्र सरदार अवदत्, “पञ्जाबराज्ये यः नरसंहारः अभूत्, तेन देशस्य स्थितिः गभीरा अस्ति । अतः असहयोगान्दोलनस्य विषये जनाः एव निर्णयं कुर्वन्तु । साम्प्रतं ये युवानः सन्ति, ते एव एतादृशम् अपमानं सोढुम् न इच्छन्ति चेत् भविष्यस्य युवानः तु एतादृशम् अपमानं कथं सोढुं शक्ष्यन्ति ? तेषामपि अस्मत्सु अधिकारोऽस्ति । वयं तेषां न्यासिनः (Trusties) स्मः । वयं तेभ्यः एतादृशस्य अपमानस्य जीवनमेव परम्परया दद्मः चेत् अस्माकं जीवनस्य को वा लाभः” ? एवं बहुषु स्थलेषु अनेकानि भाषणानि दत्तानि लोहपुरुषेण । १९२० तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे दिनाङ्के असहयोगान्दोलनस्य घोषणा कृता । १९२१ तमस्य वर्षस्य 'फरवरी'-मासस्य पञ्चमे दिनाङ्के 'चोराचौरी'-काण्डे जाते सति द्वादशे दिनाङ्के महात्मा आन्दोलनम् अस्थगयत् । ततः महात्मनः कारावासोऽपि अभूत् । आन्दोलनस्य स्थगनेन, महात्मनः कारावासेन च जनेषु महन्निराशायाः भावः उद्भूतः । जननिराशां दृष्ट्वा सरदार अवदत्, “भवन्तः महात्मनः अहिंसा-प्रेम-सत्यादीनां यदि समर्थनं कुर्वन्ति, तर्हि तस्य एतान् विचारान् हृदि निधाय अहिंसामार्गेण असहयोगान्दोलनाय निरन्तरं कार्यं कुर्वन्तु" । नागपुर-महानगरस्य ध्वजसत्याग्रहः १९२३ तमे वर्षे सरदार महात्मना उद्बोधितस्य असहयोगान्दोलनमहत्वस्य हार्दं ध्वजसत्याग्रहमाध्यमेन भारतीयजनानां सम्मुखम् अस्थापयत् । १९२३ तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे दिनाङ्के महात्मनः कारावासस्य एकवर्षं जातमासीत् । तस्मिन् दिने नागपुर-महानगरे सुन्दरलाल-महाभागस्य नेतृत्वे राष्ट्रियध्वजेन सह पदयात्रायाः आयोजनमासीत् । पदयात्राकाले एव सुन्दरलाल-महाभागं बन्दिमकरोत् सर्वकारः । तस्य षण्मासस्य कारावासः अभूत् । ‘मई’-मासस्य प्रथमे दिनाङ्के नागपुर-महानगरे आङ्ग्लाः १४४ नियमस्य घोषणां कृतवन्तः । इत एव प्रारम्भः जातः नागपुर-महानगरस्य ध्वजसत्याग्रहस्य । सरदार ध्वजसत्याग्रहस्य भागो भविष्यतीति निर्णयः कोङ्ग्रेसकार्यसमित्या कृतः । सरदार अपि नागपुरे पदयात्रादिकम् अकरोत् । सः जनान् उद्दिश्य अवदत्, “मित्राणि ! अस्माकम् एतत् आन्दोलनं भविष्ये गौरवपूर्णेतिहासरूपेण जनमनसि भविष्यति । शत्रुद्वारा ध्वजभावनाविषये मिथ्याः वार्ताः प्रसार्यन्ते । परन्तु तेषां मिथ्यावचनस्य विश्वासं मा कुर्वन्तु । महात्मनः कथनानुसारं सत्य-अहिंसा-पराक्रमादयः एव अस्माकं भारतीयसंस्कृतेः मूलाधाराः सन्ति । भारतस्वतन्त्रतायै एतेषाम् एवावश्यकतास्ति । एषः ध्वजः तेषां मूलाधाराणां प्रतीकः अस्ति” । सार्धत्रिवर्षं यावत् तत् आन्दोलनं अभूत् । ततः आन्दोलनस्य सफलतायाः घोषणा कृता कोङ्ग्रेस-पक्षेण । अस्मिन् आन्दोलने डा. राजेन्द्र प्रसाद अपि भागम् अवहत् । डा. राजेन्द्र प्रसादः एवं सरदार अनेन आन्दोलनमाध्यमेन परममित्रे अभवताम् । डा. राजेन्द्र प्रसादः स्वस्य जीवन्याम् (Autobiography) अलिखत्, “१९२३ तमे वर्षे नागपुर-महानगर-ध्वजसत्याग्रहे अहं लोहपुरुषस्य नैकट्यं प्राप्तवान् । एषः गौरवपूर्णः विषयोऽस्ति तथा मम विशेषाधिकारस्य परिचयः अस्ति । वल्लभस्योपरि ज्येष्ठभ्रातृत्वेन मम विशेषाधिकारः आसीत् । आजीवनम् अहं लघुभ्रातरं विहाय अन्यरूपेण तं न दृष्टवान्” । बोरसद-सत्याग्रहः परतन्त्रे भारते गुजरातराज्ये खेडामण्डलस्य दक्षिणे बोरसदमण्डलम् आसीत् । तस्मिन् मण्डले द्वौ लुण्ठकौ आस्ताम् । बाबर-अली-नामकौ लुण्ठकौ जनान् बहु पीडयन्तौ आस्ताम् । सूर्यास्ते जाते सति कोऽपि गृहात् बर्हिर्निगन्तुं साहसं न करोति स्म । तयोः रक्षणं भवतु इति आवेदनम् आरक्षककेन्द्राय अप्रेषयन् जनाः । परन्तु जनरक्षणाय ये आरक्षकाः नियुक्ताः आसन्, तेषां वेतनादीनां भारः स्थानिकजननामुपरि आपतितः । जनानाम् एतादृशीं स्थितिं दृष्ट्वा सरदार सर्वकारनीतेः विरोधमकरोत् । सः उक्तवान्, “लुण्ठकाः तु मार्गात् भवतां धनं लुण्ठयित्वा नयन्तः आसन् । परन्तु आरक्षकरूपिणः एते लुण्ठकाः भवतां गृहात् धनं लुण्ठयित्वा गच्छन्तः सन्ति । अतः भवन्तः एव निर्णयं कुर्वन्तु, लघुकष्टनिवारणाय महतः कष्टस्याह्वानं कियत् उचितमस्ति ? अहं तु कथयामि आरक्षकेभ्यः करं मा यच्छन्तु । अनेन न केवलं धनलाभः भविष्यति अपि तु स्वमानस्य लाभोऽपि भविष्यति” । बोरसद-सत्याग्रहः सार्धत्रिमासं यावत् अभूत् । लोहपुरुषस्य नेतृत्वे स्थानिकजनानां साहसेन आरक्षकनियुक्त्यर्थं स्वीक्रियमाणः दण्डात्मकः करः १९२४ तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तमे दिनाङ्के स्थगितः । लुण्ठकेभ्यः जनरक्षणाय अधिकाः आरक्षकाः प्रेषिताश्च । एवं बोरसद-सत्याग्रहस्य समाप्तिः अभूत् । बारडोली-सत्यग्रहः विनोबा भावे-महापुरुषस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहुनि कारणानि सन्ति । परन्तु तेषु मुख्ये द्वे कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । बारडोलीमण्डलस्य जनानां स्वभावं, चारित्र्यञ्च दृष्टवैव महात्मा १९२२ तमे वर्षे असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । परन्तु गोरखपुर-महानगरे 'चौरीचोरा'-काण्डे जाते सति महात्मा तस्यान्दोलनस्य स्थगनम् अघोषयत् । पूर्वं महात्मना या असहयोगान्दोलन-नामक-जनक्रान्तिः स्थगिता आसीत्, १९२८ तमे वर्षे लोहपुरुषेण सा पुनरारब्धा । पृष्ठभूमिः बारडोलीमण्डले १८६५ तमे वर्षे आङ्ग्लैः प्रप्रथमं करः निर्धारितः आसीत् । १८९५-९६ वर्षे तस्य करस्य राशिं वर्धयित्वा नवीनः करः १०.५ प्रतिशतं (१०.५ %) निर्धारितः । प्रति त्रिंशत् वर्षे करराश्यां वृद्धिः भवति स्म । १९२७-२८ वर्षे करवर्धनस्य योजना आसीत् । बारडोलीमण्डले १९२७ तमस्य वर्षस्य 'जुलाई'-मासस्य नवदशे दिनाङ्के १३.९७ प्रतिशतं करवृद्धिः अभूत् । १९२७ तमस्य वर्षस्य आयव्ययवृतं (Budget) यदा मुम्बई-धारासभायां प्रस्थापितं सर्वकारेण, तदा तस्य विरोधः कृतः सर्वैः । परन्तु न कोऽपि जनानुकूलः निर्णयः अभूत् । अतः बारडोली-सत्याग्रहस्य आरम्भोऽभूत् । आन्दोलनस्य प्रारम्भः आरम्भे तु मण्डलवासिनः आङ्ग्लेभ्यः न्यायसम्बद्धनिवेदनानि दत्तवन्तः । परन्तु आङ्ग्लैः सह वार्तालापे विफले सति सर्वे लोहपुरुषाय नेतृत्वं प्रदानाय आमन्त्रणं दत्तवन्तः । नेतृत्वग्रहणात् पूर्वं सरदार कोङ्ग्रेस-पक्षस्य विश्वस्तजनान् बारडोलीमण्डलम् अप्रेषयत् । ते आदिष्टाः यत्, “बारडोलीमण्डलं गत्वा पश्यन्तु यत् तत्रस्थाः कृषकाः सत्याग्रहस्य पीडां सोढुं समर्थाः सन्ति न वा” ? ततः सरदार सत्याग्रहनेतृत्वस्य दायित्वम् अवहत् । सत्याग्रहस्य सम्पूर्णदायित्वं लोहपुरुषस्यासीदतः सः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य चतुर्थे दिनाङ्के बारडोलीमण्डलस्य कृषकप्रतिनिधीनां सम्मेलनमकरोत् । सम्मेलने नवसप्ततिः प्रतिनिधयः भागम् अवहन् । लोहपुरुषः दृष्टवान् यत्, केचन कृषकाः किङ्कर्तव्यमूढाः आसन् । अतः स्पष्टवक्ता सरदार उक्तवान्, “भवन्तः यत् किमपि कर्तुम् इच्छन्ति, तदर्थं पूर्वं शान्तमनसा चिन्तयन्तु । अहं तादृशं कार्यं न करोमि, यत्र सारल्यं भवति । मम सर्वाणि कार्याणि सङ्कटैः परिपूर्णानि, सङ्कटसम्पन्नानि वा भवन्ति । अतः ये सङ्कटान् स्वगृहम् आह्वयितुं तत्पराः सन्ति, तैः सह एवाहं भविष्यामि” इति । सर्वेषां तत्परतायां सत्याम् आन्दोलनस्य कार्यं सरदार प्रारभत । सः प्रप्रथमं तु न्यायरीत्या समस्यायाः निवारणं कर्तुं दृष्टवान् । अतः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य षष्ठे दिनाङ्के सः मुम्बई-गवर्नर् जनरल् 'सर लेस्ली विल्सन' इत्येनं पत्रम् अलिखत् । पत्रे सः न्यायान्याययोः भेदं प्रास्थापयत् । सः लिखितवान्, “सर्वकारस्य करनिर्धारणस्य पद्धतिः एव दोषपूर्णाऽस्ति” । सर्वकारात् सन्तोषप्रदोत्तरस्याभावात् सर्वकाराय करं मा ददातु इति सरदार कृषकेभ्यः न्यवेदयत् । सः उक्तवान्, “स्मरन्तु सर्वे, कदाचित् अस्यान्दोलनस्य प्रारम्भानन्तरम् अस्माकं पराजयः जातश्चेत्, देशस्य महती मानहानिः भविष्यति । सर्वकारस्य पार्श्वे युद्धसाधनानि सन्ति । अस्माकं पार्श्वे सत्य-अहिंसा-साहसादयः सन्ति । मम विश्वासोऽस्ति यत्, धर्मपथेन अन्यायस्य विरोधं प्रजा कुर्यात् चेत् प्रजायाः विरोधस्य सम्मुखं महासत्ता अपि निश्चयेन नशिष्यति” । सरदार जानाति स्म यत्, सत्याग्रहस्य साफल्याय दृढसङ्घटनस्य आवश्यकता अस्ति । अतः सः मण्डलं पञ्चविभागेषु व्यभजत् । एकैकस्य विभागस्य एकैकः विभागपतिः आसीत् । मण्डले सत्याग्रहमण्डपाः स्थापिताः । सर्वेषां मण्डपानां द्वौ प्रमुखकार्यकर्तारौ आस्ताम् । बारडोली-मण्डले सत्याग्रहस्य घोषणासमनन्तरम् कस्यचित् प्रकाशनविभागस्य स्थापना कृता । सत्याग्रहसम्बद्धानां येषां वृत्तान्तानाम् आवश्यकता भवति स्म, तेषाम् अस्य प्रकाशनस्य 'सत्याग्रह खबर पत्र', 'सत्याग्रह पत्रिका' इत्यनयोः वर्तमानपत्रयोः उल्लेखः भवति स्म । तयोः वर्तमानपत्रयोः विनामूल्यं वितरणं भवति स्म । सरदार शनैः शनैः बारडोली-सत्याग्रहं राष्ट्रियस्तरीयम् अकरोत् । ‘मई’-मासस्य द्वाविंशतितमे दिनाङ्के मुम्बई-धारासभायां बारडोली-सत्याग्रहसमर्थने अष्ट सदस्याः त्यागपत्रम् अयच्छन् । ततः सर्वकारस्य लक्ष्यम् आसीत् यत्, बारडोली-सत्यग्रहसङ्घटनस्य विभाजनं भवेदिति । अतः सर्वकारेण साप्रदायिक-विभाजनस्य विचारः कृतः । सर्वकारेण निर्दिष्टं, सामूहिकानाम् आक्षेपाणां निर्मूलनमसम्भवमस्ति । अतः एकैकः कृषकः स्वाक्षेपं कुर्यात् । परन्तु सरदार तत् निरस्तमकरोत् । १९२८ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे दिनाङ्के समग्रे भारते “बारडोली-दिवस”स्य आचरणं भवतु इति घोषणा कृता । तस्मिन् दिने सर्वे स्वस्य आपण-वृत्ति-कार्याणि त्यक्त्वा विरोधप्रदर्शनम् अकुर्वन् । ‘दिसम्बर'-मासस्य 'टाइम्स् आफ इण्डिया’ इत्यस्य ऐयर-नामकः सम्पादकः बारडोलीमण्डले न्यवसत् । सः स्वकर्मचारिणं सन्देशम् अप्रेषयत्, “बारडोलीमण्डले 'बोलसेलिज़म्' इत्यस्य प्रयोगः प्रचलति । पटेल अत्रस्थः 'लेनिन' अस्ति । सत्याग्रहिणः सर्वकारं पूर्णतया पङ्गुं कृतवन्तः सन्ति । 'जुलाई'-मासस्य अन्तिमे सप्ताहे तु विस्फोटकस्थितिः आसीत्” । अनेन आन्दोलनस्य गाम्भीर्यं ज्ञायते । सर्वकारेण सह सुरत-महानगरे मन्त्रणा असफला अभूत् । 'जुलाई'-मासस्य त्रयोविंशतितमे वर्षे दिनाङ्के 'गवर्नर' उक्तवान्, “बारडोली-सत्याग्रहिणां पार्श्वे चतुर्दशदिनानाम् एव समयः अस्ति । मण्डलजनाः सर्वकारेण निर्धारितनियमैः सह यदि सम्मताः न भविष्यन्ति, तर्हि सर्वकारः बलप्रयोगं करिष्यति” । सरदार अवदत्, “'गवर्नर' इत्यस्य शब्दाडम्बरस्य विश्वासं मा कुर्वन्तु भवन्तः ! 'गवर्नर' अनुसारं करनियमः सामान्यः अस्ति । परन्तु जनानां, सत्याग्रहिणाञ्च दृष्ट्यां करनियमः न्याययुक्तः, अन्याययुक्तः वा ? इति प्रश्नोऽस्ति” । समाधानम् 'गवर्नर जनरल्' लेस्ली विल्सन इत्यस्य मिथ्याजल्पनेन न कोऽपि सत्याग्रही प्रभावितः । एवं सम्पूर्णदेशस्य समर्थनं सत्याग्रहिभिः सह आसीत् । सर्वकारस्य स्वमानं नष्टम् अभूत् । सरदार बारडोली-सत्याग्रहस्य करसम्बद्धनियमानां निरस्तीकरणे सफलः जातः । 'अगस्त'-मासस्य एकादशे दिनाङ्के बारडोली-सत्याग्रहस्य सफलतानन्तरं सरदार अवदत्, “ईश्वरकृपया अस्माकं प्रतिज्ञा सफला अभूत् । एषः विजयः बारडोलीमण्डलस्य जनानां, मम सहकर्तॄणाञ्चास्ति” । बारडोली-सत्याग्रहविजयानन्तरं 'यङ्ग इण्डिया' पत्रे महादेव देसाई अलिखत्, “बारडोली-सत्याग्रहः सत्याहिंसयोः विजयः अस्ति । एषः सत्याग्रहः लोहपुरुषस्य तृतीयः विरामः अस्ति । नागपुरस्य विजयः सैद्धान्तिकाधिकारस्य विजयः आसीत् । बोरसदमण्डलस्य विजयः स्थानिकविजयः आसीत् । बारडोली-सत्याग्रहः तु अद्वितीयः विजयः अस्ति, कारणं तेन सर्वकारस्यैव न अपि तु सम्पूर्णदेशस्य ध्यानाकर्षणं कृतमस्ति” । कारागारवर्षम् - १९३० एतस्मिन् वर्षे लोहपुरुषस्य बहुवारं कारावासयात्रा अभूत् । १९३० तमस्य वर्षस्य 'जुलाई'-मासस्य एकत्रिंशत्तमे दिनाङ्के बाळ गङ्गाधर टिळक-महाभागस्य जयन्त्यवसरे पदयात्रायाः आयोजनम् आसीत् । परन्तु सर्वकारेण पदयात्रायै अनुमतिः न दत्ता । अतः सर्वे बोरीबन्दर-रेलस्थानके स्थित्वा विरोधमकुर्वन् । ततः सर्वकारेण सरदार-मालवीय-दौलतरामादयः बन्दिनः कृताः । सर्वेषां मासत्रयस्य कारावासः अभूत् । 'नवम्बर'-मासस्य पञ्चमे दिनाङ्के सर्वकारेण सरदार मुक्तः कृतः । परन्तु पुनः सरदार सर्वकारविरोधिभाषणं कृत्वा 'दिसम्बर'-मासे कारावासं प्रत्यगच्छत् । तस्मिन् उत्तेजके भाषणे सरदार अवदत्, “मम वाण्याः उपरि कस्यापि शासनं नास्ति । अहं यद्यपि कारागारे बन्दी भवामि, तथापि मम सन्देशान् सर्वे देशवासिनः प्राप्स्यन्ति, अनुसरिष्यन्ति च” । आङ्ग्लशासकेषु अस्य भाषणस्य भयः एतादृशः आसीत् यत्, ते अन्यान् काल्पनिकारोपान् लोहपुरुषस्योपरि आरोपयन् । आहत्य नव-मासस्य कारावासः अभूत् । एवं बहुवारं लोहपुरुषस्य कारावासयात्रा अभवत् । कोङ्ग्रेस-पक्षाध्यक्षः १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य एकत्रिंशत्तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य अखिलभारतीयाधिवेशनमभूत् । तत्र सरदार वल्लभभाई पटेल कोङ्ग्रेस-पक्षस्य अध्यक्षत्वेन चितः । बारडोली-सत्याग्रहस्य सरदार भारतस्य सरदार अभूत् । प्रथमं 'गोमल'-सम्मेलनं १९३० तमस्य द्वादशे दिनाङ्के अभूत् । तत्र यद् समाधानं प्राप्तमासीत्, तत् गान्धि-इर्बिन्-समाधाननाम्ना प्रख्यातमस्ति । परन्तु द्वितीयं गोमल-सम्मेलनं लोहपुरुषस्य आध्यक्षे अभूत् । १९३१ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतितमे दिनाङ्के शिमला-नगरे सम्मेलनमभूत् । सम्मेलनपश्चात् महात्मा लण्डन-नगरं गतवान् । महात्मनः अनुपस्थितौ सर्वकारेण गान्धि-इर्बिन्-समाधानस्य उल्लङ्घनं प्रारब्धम् । तस्य विरोधेन सरदार-नेहरू इत्यादीनां नेतॄणां कारावासोऽभूत् । ततः महात्मा भारतं पुनरागतः । तस्यापि कारावासोऽभूत् । एवं भारतस्य प्रतिष्ठितनेतारः येरवडा-कारावासे बन्दिनः आसन् । येरवडा-कारावासे महात्मना सह सरदार सरदार षोडशमासं यावत् (१९३२ 'जनवरी'-तः १९३३ ‘मई’-पर्यन्तं) महात्मना सह येरवडा-कारावासे आसीत् । सः कालः मम जीवनस्य महत्वपूर्णः कालः इति लोहपुरुषः वदति स्म । पुरा साबरमती-कारावासे लोहपुरुषेण धुम्रपानं त्यक्तमासीत्, येरवडा-कारावासे चाय-पेयस्य त्यागः कृतः । १९३२ तमस्य वर्षस्य ‘मई’-मासे सर्वकारेण महात्मा मुक्तः कृतः । कारावासात् बहिः आगत्य सः सरदारसम्बद्धलेखम् अलिखत्, “कारावासे लोहपुरुषेण सह समययापनस्य यम् अवसरम् अहं प्राप्तवान्, सः मम सौभाग्यमेवास्ति । तस्य अद्वितीयशूरवीरतायाः, ज्वलन्तदेशभक्त्याः विषये तु मम ज्ञानमासीत् । परन्तु तस्य पार्श्वे यत् मातृहृदयमस्ति, तस्यानुभवम् अहं तस्योपवासेन ज्ञातवान् । सः मह्यं यत् मातृप्रेम अयच्छत्, तेन मम मातुः स्मरणम् अभूत् । बारडोली-खेडादिसत्याग्रहेषु यथा कृषकाणां सः चिन्तां कुर्वन् आसीत्, तथा ममापि अकरोत् । तं कालम् अहं न विस्मरिष्ये” । १९३४ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्दशे दिनाङ्के सरदार मुक्तोऽभूत् । सरदार कारावासे यदा आसीत्, तदा तस्य मातुः, ज्येष्ठभ्रतुः च देहान्तः अभूत् । १९३२ तमस्य वर्षस्य 'नवम्बर'-मासस्य प्रथमे दिनाङ्के मातुः, १९३३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य विंशतितमे दिनाङ्के ज्येष्ठभ्रातुः वीरविठ्ठलस्य देहान्तः अभूत् । देशीयराज्येभ्यः सङ्घर्षः प्रारम्भिके काले कोङ्ग्रेस-पक्षस्य नीतिः आसीत् यत्, “देशीयराज्यानां प्रजार्थं किमपि न कर्तव्यम् । कारणं देशीयराज्यजनेषु देशभावनायाः उदयः यदा भविष्यति, तदा वयं तेभ्यः कार्यं करिष्यामः” इति । परन्तु १९३४ तमस्य वर्षस्य भारतीयशासनाधिनियमेन परिस्थितिः परिवर्तिता । तस्मिन् अधिनियमे ब्रिटिश-प्रान्तेषु यानि राज्यानि आसन्, तानि एव स्वराज्यस्य अधिकारयोग्यानि उद्घोषितानि । अनेन देशीयराज्यानि वञ्चितानि अभुवन् । अतः देशीयराज्यजनैः कोङ्ग्रेस-पक्षः प्रेरितः । ब्रिटिशराज्यवत् देशीयराज्येभ्यः अपि स्वराज्यस्थापनायै चिन्तनीयम् इति । ततः कोङ्ग्रेस-पक्षेण स्वनियमेषु परिवर्तनं कृतं तथा स्वोद्देश्येषु देशीयराज्यानामपि स्वराज्यस्य आन्दोलनं प्रारब्धम् । तस्मिन् आन्दोलने मैसूरु-राजकोट-भावनगरादीनां समस्यानां निवारणमभूत् । भारतविभाजनस्थितिः १९४१ तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तमे दिनाङ्के विश्वयुद्धे जपानदेशोऽपि अयुद्धत् । युद्धसमये जपान-देशः एशियाखण्डस्य देशेषु आक्रमणमकरोत्। शनैः शनैः जपान-देशस्य सेना भारतस्य समीपस्थबर्मादेशस्योपरि आधिपत्यमकरोत् । एवं भारत-देशे अपि युद्धस्थितिः उद्भूता । १९४० तमे वर्षे युद्धसम्बद्धप्रस्तावस्य विरोधं कृत्वा महात्मा कोङ्ग्रेस-पक्षात् भिन्नः जातः आसीत् । परन्तु ततः सः उक्तावान्, “तत्र मम विरोधः मम महान् दोषः आसीत्” । बारडोली-सत्यग्रहस्यानुभवेन सरदार तु ज्ञातवान् आसीत् यत्, देशाय कृत्रिमशान्त्याः आवश्यकता नास्ति । अतः सः अवदत्, “हिंसाऽहिंसयोः कथनं तु सद्यः विस्मरणीयमेव । सद्यः भारतं युद्धस्थितेः समीपमस्ति । गतपञ्चाशत् वर्षेषु देशः काल्पनिकशान्त्यां स्वजीवनं यापयन् अस्ति । अतः देशजनैः अशान्त्याः भयः न कर्तव्यः । युद्धं न केवलं देशद्वयोः मध्ये अपि तु अन्येषां समीपस्थानां देशानामुपरि अपि आपतति" । ततः सरदार करमसद-ग्रामे अवदत्, “अहं जातिवादं विस्मृतवान् अस्मि । आभारतं मम ग्रामोऽस्ति । अष्टादशवर्णजनाः मम बन्धवाः सन्ति । निम्नकुलः-उच्चकुलः, निम्नजातिः-उच्चजातिः सर्वं विस्मरन्तु” । पूर्वं बहुवारं स्वराज्यस्य घोषणा कृता आसीत् । परन्तु आङ्ग्लाः भारतं त्यक्त्वा गच्छन्तु इति न कोऽपि उक्तवान् आसीत् । लोहपुरुषादयः कोङ्ग्रेस-पक्षस्य नेतारः भारतस्वतन्त्रतायाः स्वप्नं पश्यन्तः आसन् । युद्धपरिस्थित्यां महात्मनः विचराः अपि परिवर्तिताः । १९४२ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे दिनाङ्के 'हरिजन' पत्रिकायां महात्मा अलिखत्, “भारतवर्षे विद्यमानानां ब्रिटिशजनानां कारणात् जपान-देशः भारतस्योपरि अपि आक्रमणं कर्तुं उद्युक्तः अस्ति । अतः भारतस्य वास्तविकसुरक्षाम् उद्दिश्य आवश्यकता अस्ति यत्, आङ्ग्लाः तत्कालमेव भारतं त्यक्त्वा गच्छेयुः” । लोहपुरुषस्य मतम् आसीत्, “एतत् युद्धम् अधिककालं यावत् न भविष्यति । अस्य पूर्णाहुतिः शीघ्रातिशीघ्रं भविष्यति । अतः जपानसैनिकानां भारतप्राप्तिपूर्वमेव आङ्ग्लाः भारतं त्यक्त्वा गच्छेयुः तथा अस्माभिः चिन्तनीयम्” । ततः १९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य ७-८ दिनाङ्कयोः मुम्बई-महानगरे अखिलभारतीयकोङ्ग्रेसमहासमित्याः सम्मेलनमासीत् । तत्र 'भारत छोडो' प्रस्तावः अङ्गीकृतः । बहवः कोङ्ग्रेस-पक्षस्य विरोधमकुर्वन् । अतः १९४२ तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के सरदार अवदत्, “विदेशेषु सर्वकारेण प्रचारः कृतः अस्ति यत्, कोङ्ग्रेस-पक्षेण सह कोऽपि नास्ति । नवकोटिः यवनाः, सप्तकोटिः हरिजनाः, सप्तकोटिः राजशासिताः जनाः, 'रेडीकल-डेमोक्रेटिक-कम्युनिष्ट'-जनाः कोङ्ग्रेस-पक्षेण सह न सन्ति । सर्वे तस्य विरोधं कुर्वन्तः सन्ति । सर्वे यदि कोङ्ग्रेस-पक्षस्य विरोधं कुर्वन्ति, तर्हि सर्वकारः भयभीतः किमर्थं दृश्यते ? तेन तु शान्त्या कोङ्ग्रेसपक्षस्य विरोधः द्रष्टव्यः खलु ? सत्यता तु इदम् अस्ति यत्, यावत्पर्यन्तं कोङ्ग्रेस-पक्षः सर्वेषां भारतीयानां मनसि स्वतन्त्रताबीजस्य वपनं न करिष्यति, तावत्पर्यन्तं आङ्ग्लाः एवमेव मिथ्यां प्रसारयिष्यन्ति” । १९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य नवमे दिनाङ्के आङ्ग्लाः महात्मा-सरदार इत्यादीन् नायकान् कारावासं प्रेषितवन्तः । ततः देशे निर्वाचनस्य (Election) समयः आगतः । निर्वाचिने कोङ्ग्रेस-पक्षेण एसेम्बली-स्थानेषु सप्तपञ्चाशत् (५७) स्थानानि, प्रान्तस्थानेषु त्रयोविंशत्यधिकनवशतं (९२३) स्थानानि प्राप्तानि । परन्तु मुस्लिमलीग-पक्षस्य एसेम्बली-स्थानेषु त्रिंशत्, प्रान्तस्थानेषु पञ्चविंशत्यधिकचतुःशतम् (४२५) स्थानेषु विजये जाते सति भारतस्य एकतायाः उपरि प्रश्नार्थचिह्नः अभूत् । अनेन इदं स्पष्टमभवत् यत् भारतस्य विभजनं कृत्वा पृथग्तया पाकिस्थानदेशनिर्माणपक्षे बहवः यवनाः सन्ति इति । 'केबिनेट मिशन' आङ्ग्लाः देशत्यागं कुर्वन्ति एव । तस्मात् पूर्वं तेषां सर्वकारः अन्तिमवारं भवतु इति सरदार-मतमासीत् । तस्य योजना आसीत् यत्, भारतीयसंविधानस्य निर्माणेन सह अन्तिमराजनैतिकसर्वकारः अपि भवेत्, येन संविधाननिर्माणे सर्वेषां योगदानं भवितुमर्हति । अतः १९४६ तमस्य वर्षस्य 'जून'-मासस्य षोडशे दिनाङ्के अन्तिमसर्वकारस्य उद्घोषं 'गवर्नर' कृतवान् । अन्तिमसर्वकारस्य सूचना-प्रसारण-गृहविभाध्यक्षः सरदार आसीत् । यस्मिन् दिने एतेषां विभागानां मन्त्रित्वेन लोहपुरुषस्य घोषणा अभूत्, तस्मिन् दिने मुस्लिमलीग-पक्षेण शोकदिनम् आचरितमासीत् । सः पक्षः सरदार-विरोधी आसीत् । काले व्यतीतेऽपि तेषां विरोधः न स्थगितः । तस्य पक्षस्य नेतारः लोहपुरुषस्योपरि आरोपं कुर्वन्ति स्म यत्, आकाशवाण्याः ये कार्यक्रमाः भवन्ति, तेषु हिन्दीभाषायाः प्रयोगः अधिकः भवति इति । मुस्लिमलीग-पक्षसम्बद्धाः ये समाचाराः भवन्ति, तेषां प्रसारणम् अल्पकालाय एव भवति इति अपरं दोषारोपणमासीत् । अस्य खण्डनं कृत्वा सरदार अवदत्, “गुप्तरूपेण अवैध(illegal)रीत्या च चालितानाम् आकाशवाण्याः कार्यक्रमाणां प्रसारणम् अहम् अस्थगयं कारणं तेषां कार्यक्रमाणां प्रारम्भे, अन्ते च ‘पाकिस्थान जिन्दाबाद’ इत्यस्य घोषणा भवति स्म” । भारतविभाजनम् १९४७ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे दिनाङ्के ब्रिटिशसभाद्वारा ऐतिहासिकघोषणा कृता । भारतीयेभ्यः भारतशासनदानस्य, आङ्ग्लानां देशत्यागस्य च घोषणा कृता । १९४८ तमस्य वर्षस्य 'जून'-मासे शासनहस्तान्तरणं भविष्यति इति घोषणा कृता । तया सह अन्या घोषणा अभूत् यत्, वर्तमान-'वायसराय' लोर्ड वैवल-स्थाने लोर्ड माउण्टबैटन 'वायसराय'-पदारूढो भविष्यति । १९४७ तमस्य वर्षस्य 'मार्च'-मासस्य चतुर्वंशतितमे दिनाङ्के लोर्ड माउण्टबैटन वायसराय-पदारूढो अभूत् । भारतीयराजनेतॄणां विषये माउण्टबैटन इत्यस्य भिन्नानि मतानि आसन् । सरदार-विषये तस्य मतमासीत् यत्, “सरदार पटेल दृढः, धीरः, स्पष्टवादी, व्यावहारिकः, वास्तविकतावादी चास्ति” । विभाजनस्य विचारगोष्ठी यदा यदा भवति स्म, तदा तदा सरदार शीघ्रतया जिन्ना इत्यस्योपरि क्रोधं करोति स्म । तस्य मनसि शनैः शनैः आगतं यत्, विभाजनमेवोचितं भविष्यति । एतावत्पर्यन्तं विभाजनविरोधी सरदार आकस्मिकं विभाजनस्य पक्षधरः अभूत् । अनेन बहूनाम् आश्चर्यम् अभूत् । तेषु अन्यतमः आसीत् के.एस.मुन्शी । मुन्शी जनमान्यतया, किंवदन्त्या वा लोहपुरुषस्य मूल्याङ्कनं न कृतवान् । जिन्ना इत्यनेन सह सरदार कार्यं कर्तुं नेच्छति । अतः विभाजनाय तेन सम्मतिः दत्ता इति कारणं तु व्यर्थमेवास्ति इति मुन्शी जानाति स्म । मुन्शी-लोहपुरुषौ प्रतिवेशिनौ (neighbor) आस्ताम् । तौ प्रतिदिनं सायङ्काले भ्रमणाय यदा गच्छतः स्म, तदा सरदार स्वमनसः चर्चां करोति स्म । सरदार-कथनमासीत्, “भारतविभाजनसम्मत्यां मम पक्षद्वयमस्ति । प्रथमं तु वयम् अहिंसायाः पक्षधराः स्मः । अतः वयं हिंसया कार्यं कर्तुं न इच्छामः । वयम् अहिंसासम्बद्धान् अस्माकम् आदर्शान् विस्मरामश्चेदपि 'मुस्लिमलीग'-पक्षेण सह दीर्घकालस्य कलहो भविष्यति । ब्रिटिश-सर्वकारः यथा स्वारक्षकैः, सैनिकैश्च साहाय्येन शासनं कुर्वन्नस्ति, तथा वयं न करिष्यामः । द्वितीयमस्ति हिन्दु-मुस्लिम-हिंसा । विभाजनस्य प्रस्तावं यदि न स्वीकुर्मः, तर्हि नगर-ग्रामेषु हिन्दु-मुस्लिम-हिंसाः भविष्यन्ति । सैनिकाः, आरक्षकाः अपि हिन्दु-मुस्लिम-आधारेण विभक्ताः भूत्वा अन्तःकलहं करिष्यन्ति । सङ्घटनस्याभावात् हिन्दूनामेव अधिका क्षतिः भविष्यति । हिन्दवः स्वभावेनैव उदारवादिनः सन्ति । अतः हिन्दवः आक्रमकाः भवन्ति चेदपि तेषां निग्रहं सर्वकारः सरलतया करिष्यति । विभाजनप्रस्तावेन सह सम्मताः वयं देशद्वयस्य रचनां कुर्मः । अनेन हिन्दु-मुस्लिम-हिंसायाः विषये अस्माभिः अन्यदेशेन सहैव चर्चा कर्तव्या भवति, न तु ग्राम-नगरजनैः सह” । लोहपुरुषस्य अन्यदपि मतम् आसीत् यत्, “पाकिस्थानदेशः स्वतन्त्रततया अधिककालं यावत् न तिष्ठति । सः अराजकतायाः कारणेन पुनः भारते विलीनं भविष्यत्येव” । विश्लेषकाणां मतमस्ति यत्, “लोहपुरुषस्य एषः विचारः तु उचितः एव आसीत् । परन्तु पाकिस्थानस्य भारते विलीनता यथा न भवेत् तथा बहवः प्रयासाः कृताः अन्यदेशैः” । एतावत्पर्यन्तं महात्मा विभाजनाय सम्मतः नासीत् । परन्तु सरदार महात्मानम् अबोधयत्, “भ्रात्रोः कलहे जाते सति यथा तौ पृथक् गच्छतः, तथा इदानीं देशस्य भागः भवन्नस्ति” । ततः महात्मा अपि सम्मतः अभूत् । विभाजनप्रक्रियायां सरदार विभाजनप्रक्रियायै विभाजनसमित्याः रचना अभूत् । ततः तस्याः समित्याः विभाजनपरिषद् इति नामकरणम् अभूत् । माउण्टबैटन परिषदः अध्यक्षः आसीत् । परिषदः चत्वारः सदस्याः आसन् । द्वौ कोङ्ग्रेस-पक्षतः, द्वौ मुस्लिमलीग-पक्षतः । कोङ्ग्रेसपक्षतः सरदार वल्लभभाई पटेल, डा. राजेन्द्र प्रसाद च आसीत् । मुस्लिमलीग-पक्षतः जिन्ना, लियाकत च आसीत् । भारतसम्बद्धाः विषयाः लोहपुरुषेण उपस्थापनीयाः अभवन् । परिषदः अन्तिमे सत्रे सरदार उक्तवान्, “भारतस्य इच्छास्ति विभाजनानन्तरं पाकिस्थानं भारतस्य सखराष्ट्रं भवेत् । अहं विभाजनवार्तायामेव स्पष्टं कृतवान् अस्मि यत्, पाकिस्थानस्य विषये भारतस्य मतं सद्भावनायाः एव अस्ति, भविष्यति च” । नवभारतशिल्पी सरदार भारतेन स्वतन्त्रताप्राप्तिसमनन्तरं भारत-पाकिस्थानयोः विभाजनमभवत् । परन्तु माउण्टबैटन इत्यनेन स्वतन्त्रतायाः नियमेषु कश्चित् मुख्यनियमः लघुशासकेभ्यः उद्घोषितः आसीत् । तस्य नियमस्य भागत्रयमासीत् । प्रथमभागः – लघुशासकाः स्वराज्यं भारते विलीनं कर्तुं शक्नुवन्ति । द्वितीयभागः – लघुशासकाः स्वराज्यं पाकिस्थाने विलीनं कर्तुं शक्नुवन्ति । तृतीयभागः – लघुशासकाः स्वराज्यं स्वतन्त्रं स्थापयितुम् अर्हन्ति । अनेन नियमने अखण्डभारतस्य स्वप्नं कठिनं अभवत् । लघुशासकेषु अन्तःकलहस्य सम्भावना आसीत् । मुख्यतः भोपाल-ट्रावनकोर-हैदराबाद-आदिराज्यानि स्वतन्त्रताम् इच्छन्तः आसन् । तेषामनुकरणेन अन्ये शासकाः अपि स्वतन्त्रतायै विचारमकुर्वन् । तस्मिन् समये भारते पञ्चषष्ठ्युत्तरपञ्चशतं (५६५) लघुराज्यानि आसन् । ते सर्वे स्वतन्त्रतामिच्छन्तः आसन् । तस्य परिणामस्वरूपं भारतस्य मानचित्रं कदाचित् एतादृशं भवेत् - १९४७ तमस्य वर्षस्य 'जून'-मासस्य सप्तविंशतितमे दिनाङ्के भारत-पाकिस्थानयोः राज्यविभागयोः स्थापना कृता । भारतीयराज्यविभागस्य अध्यक्षः सरदार वल्लभभाई पटेल आसीत् । एवं भारतीयराज्यानां भारतविलयस्य दायित्वं लोहपुरुषस्योपरि आगतम् । १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चमे दिनाङ्के लोहपुरुषेण ऐतिहासिकं भाषणं कृतम् आसीत् । सरदार उक्तवान्, “वयं लघुराज्यैः सह स्मः । तेषां मनःस्थितिः सद्यः किदृशी अस्ति इति वयं जानीमः । परन्तु राज्यानि केवलं सुरक्षा-वैदेशिकसम्बन्ध-परिवहनेभ्यः केन्द्रसरकारान्तर्गतम् आगच्छन्तु । इतिहासः साक्षी अस्ति भारतस्य खण्डितावस्थायाः । अस्माकं अनेकतायाः च परिणामः आसीत् यत्, आक्रामकेभ्यः लघुसैन्येभ्यः अपि अस्माकं पराजयः भवति स्म । अस्माकं परस्परकलह-द्वेष-ईष्यादीनाम् कारणेनैव वयं वैदेशिकैः आक्रान्ताः । भौगोलिकसामीप्यदृष्ट्या, सांस्कृतिकदृष्ट्या, राजनैतिकदृष्ट्या च लघुराज्यानां दायित्वमस्ति यत्, तानि वर्तमानभारतस्य अखण्डतायै योगदानं दद्युः । भारतीयपरम्परयाः विषये येषाम् आदरः, प्रेमः, सद्भावना च अस्ति तादृशाः नागरिकाः अपि अत्र वसन्तः सन्ति । तेषामपि गौरवपूर्णा परम्परा अस्ति । एषः संयोगः एवास्ति यत्, केचन नागरिकाः ब्रिटिश-राज्येषु, लघुराज्येषु च वसन्तः सन्ति । परन्तु भारतीयोच्चपरम्परायाः, भारतीयसंस्कृतेः सिञ्चने सर्वेषां समदायित्वमस्ति । वयं तु रक्त-भावना-हितानां सम्बन्धेन बद्धाः स्मः । अस्मान् खण्डेषु विभक्तुं न कोऽपि शक्ष्यति । अस्मासु तादृशीनां समस्यानां स्थानं न भवेत्, यासां निवारणम् अशक्यं भवेत् । अतः मम परामर्शः अस्ति यत्, वयं मैत्रीभावेन सन्धिं कुर्मः इति । अराजकता, अव्यवस्था च बाल-वृद्धान्, धनिक-निर्धनान् सर्वान् समानरूपेण विनाशं प्रति नेष्यति । भविष्यस्य सन्तानाः अस्मभ्यः अभिशापं दद्युः तथा अस्माभिः न किमपि कार्यं करणीयम्” । षड्दिनस्य परिश्रमपश्चात् Instrument of Accession पत्रस्य निर्माणमभूत् । अस्मिन् सन्धिपत्रे राज्यैः सह सर्वकारस्य सन्धिनियमाः लिखिताः आसन् । तानि राज्यानि भारते विलीनानि सन्ति इत्यस्य प्रमाणमपि एतत् पत्रमासीत् । राज्यानां राजानः अस्योपरि स्वहस्ताक्षरं कृत्वा भारते विलयस्य घोषणां कुर्वन्ति स्म । एतत् पत्रं भारतीयसंविधानस्य भागः अस्ति । भारतीयसंविधानसभायां सर्वप्रथमं पटियाला-बीकानेर-राज्ययोः राजानौ प्रवेशपत्रस्योपरि (Instrument of Accession) हस्ताक्षरम् अकुरुताम् । ततः धौलीपुर-भरतपुर-विलासपुर-नाभा-ग्वालियरादीनि राज्यानि भारते विलीनानि अभूवन् । तथापि बहूनि राज्यानि भारतविलये सम्मतानि नासन् । तेषु ट्रावनकोर-जोधपुर-भोपाल—इन्दौरादीनि राज्यानि आसन् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे दिनाङ्के देहली-महानगरस्य रामलीला-क्षेत्रे सरदार भाषणं कृतवान्, “चत्वारि दिनानि अवशिष्टानि सन्ति । पश्चात् वैदेशिकाः गमिष्यन्ति । अतः लघुराज्यानां पार्श्वे 'अगस्त'-मासस्य पञ्चदशदिनाङ्कपर्यन्तं समयः अस्ति भारते विलयकरणाय । ततः लघुराज्यैः सह कठोरव्यवहारः भविष्यति । सद्यःपरिस्थित्याम् एकाकीभवनं क्लिष्टकरमस्ति । प्रचण्डवायोः आगमनेन एकाकीनां वृक्षाणां पतनं भवत्येव । परन्तु अन्यवृक्षाणां सङ्घटने ये भवन्ति, ते निश्चयेन रक्षिताः भवन्ति । भवन्तः तु श्रीरामचन्द्रस्य, अशोकस्य च वंशजाः सन्ति । परन्तु सद्यः भवन्तः आङ्ग्लानां निम्नाधिकारिणम् अपि प्रणमन्ति । भवताम् अधुनापर्यन्तं विश्वासः एव नास्ति यत्, 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के आङ्ग्लाः गमिष्यन्ति । ते यदा गमिष्यन्ति, तदैव भवतां ज्ञानं भविष्यति” । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशदिनाङ्के हैदराबाद-जुनागढ-काठियावाड-भोपाल-ट्रावनकोरादीनि राज्यानि भारते विलीनानि जातानि । काश्मीरराज्यं विहाय सर्वाणि राज्यानि भारते विलीनानि अभवन् । कालान्तरे काश्मीरराज्यमपि भारते विलीनमभूत् । भारते राज्यानां विलीनीकरणे वी.पी.मेनन कुशलतया लोहपुरुषस्य सहकारम् अकरोत् । सः स्वजीवन्याम् अलिखत्, “विलयनीत्याः सफलतायाः कारणं लोहपुरुषः अस्ति । राज्ञैः सह तस्य कुशलतापूर्णव्यवहारः विलयनीतिसाफल्यस्य मुख्यकारणमस्ति । शासकेभ्यः सः दृढशक्तिस्वरूपः, न्यायस्वरूपश्च आसीत् । शासकान् प्रति विश्वसनीयता-विनम्रता एव लोहपुरुषस्य शक्तिः आसीत् । इत एव तस्मिन् लोहपुरुषत्वम् दृष्टं सर्वैः । अर्थात् सर्वे तं लोहपुरुषत्वेन अङ्गीकृतवन्तः” । संविधानसभायै योगदानम् संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत् । ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः । अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत् । यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः ३७० प्रावधानः, भाषानीतिः । सरदार मुस्लिमविरोधी ? स्वस्य ‘इण्डिया विंस फ्रीडम’ पुस्तके मौलाना अबुल् कलाम् आजाद् लोहपुरुषः मुस्लिमविरोधी इति लिखितवान् आसीत् । अतः अद्यापि मुस्लिमसङ्घटनेषु सरदार मुस्लिमविरोधी, हिन्दुसम्प्रदायवादी चासीत् इति भावना प्रचलिता दृश्यते । परन्तु लोहपुरुषेण लिखितानां पत्राणां गहनाध्ययनेन सत्यज्ञानं भवति । लोहपुरुषः हिन्दुः आसीत् । अतः हिन्दुत्वे सः गर्वान्वितः आसीत् । हिन्दुत्वे प्रेमः, आदरः, विश्वासः कोऽपि राष्ट्रियापराधः नास्ति । हिन्दुत्वसमर्थनेन, आचरणेन च मुस्लिमविरोधः कदापि न भवति इति तस्य मतमासीत् । स्वभाषणेषु लोहपुरुषेण स्पष्टम् उक्तमस्ति, “राष्ट्रभक्तस्य मुस्लिमजनस्य भारतसङ्घे तत्पदमेवास्ति यत् राष्ट्रभक्तस्य हिन्दुजनस्यास्ति । तेभ्यः मुस्लिमजनेभ्यः अहं कठोरः अस्मि ये भारतविभाजनात् पूर्वं मुस्लिमलीग-पक्षस्य समर्थनम् अकुर्वन्, स्वतन्त्रतानन्तरमपि पाकिस्थानगमनस्य चिन्तनं कुर्वन्तः आसन्” । मुस्लिमजनैः सह यद्यपि स्वस्य मृदुता आसीत्, तथापि सः देशहितं ध्यात्वा उक्तवान्, “अहम् अद्यापि बहु विनम्रभावेन वदन् अस्मि यत्, अहं मुस्लिमजनानां मित्रमस्मि, मित्रस्य कर्तव्यमस्ति सत्यवचनं तथा अकृतघ्नता । अहं स्पष्टतया वक्तुमिच्छामि यत् अधुना हिन्दुस्थानाय पूर्णप्रेम येषां हृदि अस्ति, ते एव हिन्दुस्थाने वासाय अधिकारिणः सन्ति । ते सर्वदा स्मरेयुः यत्, यस्यां नावि ते स्थिताः सन्ति, तस्याः नावः हितमेव चिन्तयेरन् कारणं तया नावा एव तेषां जीवनमस्ति” । 'स्टेच्यू ओफ यूनिटि' स्टेच्यू ओफ यूनिटि अर्थात् एकतामूर्तिः गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः (project) अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । एकतामूर्तिप्रकल्पे लोहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणस्य योजना (planning) अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति । एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् । एकतामूर्तिप्रकल्पाय गुजरातसर्वकारेण सरदार वल्लभभाई पटेल राष्ट्रियैकता संस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET) स्थापना कृता अस्ति । मृत्युः लोहपुरुषस्य जीवनस्य अन्तिमानि दिनानि अतिकष्टकराणि आसन् । यतो हि एकत्र देशस्य चिन्ता आसीत्, अपरत्र अस्वस्थता पीडयति स्म । तथापि सः देशाय अविरतं कार्यं करोति स्म । १९४९ तमस्य वर्षस्य मार्च-मासस्य एकोनविंशतितमे (१९/०३/१९४९) दिनाङ्के लोहपुरुषः तस्य पुत्री मणिबेन च विमानयानेन यात्रां कुरुतः आस्ताम् । विमानस्य यन्त्रे समस्या समुद्भूता अतः विमानचालकेन राजस्थानस्य रणे आकस्मिकम् अवतरणं कृतम् । एवं लोहपुरुषस्य जीवनस्य रक्षणम् अभूत् । सः पद्भ्यां समीपस्थं ग्रामम् अगच्छत्, ततश्च देहली-महानगरं प्रापत् । यदा सः देहली-महानगरं प्रापत्, तदा सहस्राधिकाः जनाः तस्य स्वागतार्थं, तस्य कृते प्रार्थनां च कर्तुम् उपस्थिताः आसन् । ततः संसदि अपि यदा सः प्रविष्टः, तदा संसत्सभ्यैः करध्वनिना सः अभिवादितः । तस्य अभिवादनस्य कालः एतावान् लम्बमानः आसीत् यत्, संसदि लोकसभाध्यक्षेण अर्धघण्टां यावत् अवकाशस्य घोषणा कृता । १९५० तमे वर्षे ग्रीष्मकाले प्रप्रथमं लोहपुरुषस्य अस्वस्थतायाः चक्रम् आरब्धम् । ततः जीवनान्तं सः रुग्णः एव आसीत् । कासस्य आधिक्येन तस्य अस्वस्थतायाः आरम्भः अभवत् । ततः कासे रक्तस्रावः, मूर्छा इत्यादयः रोगाः समुद्भूताः । पश्चिमवङ्गप्रदेशस्य राज्यपालस्य उपस्थितौ यदा लोहपुरुषः वैद्येन (बिधान रोय) सह चर्चां कुर्वन् आसीत्, तदा सः अवदत्, "अहम् अधिकं न जीविष्यामि" इति । नवम्बर-मासादारभ्यः तु मूर्छायाः आघाताः अपि तस्य भवन्ति स्म । अतः लोहपुरुषस्य जीवनं पर्यङ्के सीमितम् अभवत् । दिसम्बर-मासस्य द्वादशे दिनाङ्के यदा लोहपुरुषः विमानयानेन स्वपुत्रस्य (डाह्याभाई) गृहम् अगच्छत्, तदा सः अस्वस्थः आसीत् । अतः पण्डित नेहरू, राज गोपोलाचारी च विमानस्थानके उपस्थितौ आस्ताम् । १९५० तमस्य वर्षस्य दिसम्बर-मासस्य पञ्चदशे (१५/१२/१९५०) दिनाङ्के हृदयाघातेन लोहपुरुषस्य मृत्युः अभवत् । सः द्वितीयः हृदयाघातः आसीत् । सः आघातः एतावान् तीव्रः आसीत् यत्, लोहपुरुषस्य मृत्युः अभवत् । भारतस्य महान् देशभक्तः, स्वतन्त्रतासेनानी, अखण्डभारतस्य सूत्रधारः लोहपुरुषः अमरः अभवत् । लोहपुरुषस्य अन्तिमसंस्कारः मुम्बई-महानगरस्य सोनपुरे अभवत् । तस्य अन्तिमयात्रायां लक्षशः जनाः सम्मिलाताः । नेहरू, राज गोपालाचारी, डॉ. राजेन्द्र प्रसाद इत्यादयः राष्ट्रियनेतारः अपि तत्र उपस्थिताः आसन् । मरणोत्तरं लोहपुरुषस्य सम्मानं जातम् ? मुस्लिमनेतॄभिः सर्वदा लोहपुरुषस्य विरोधः क्रियते स्म । यतो हि तेषां मतम् आसीत् यत्, लोहपुरुषः हिन्दुनेता अस्ति इति । जयप्रकाश नारायण, अशोक महेता सदृशाः नेतारः वदन्ति स्म यत्, लोहपुरुषः बिरला-कुटुम्बस्य, साराभाई-कुटुम्बस्य च समीपवर्ती जनः अस्ति । किञ्च यदा अखण्डभारतस्य कार्ये लोहपुरुषः यान् निर्णयान् स्व्यकरोत्, ते निर्णयाः अयोग्याः आसन् इत्यपि विरोधिनः वदन्ति स्म । सर्वेषां विरोधे सत्यपि लोहपुरुषस्य अखण्डभारतस्य एकसूत्रतायाः कार्यं सर्वैः अङ्गीकृतम् । अतः राष्ट्रियपर्वसु लोहपुरुषस्य स्मरणम् "अखण्डभारतस्य रचयिता" इति भवति । लोहपुरुषस्य विरोधिनः यथा आर्किबाल्ड् वॅवेल्, क्रिप्स्, पॅथीक् लॉरेन्स्, माउण्ड बेटन् इत्यादयः अपि देशभक्त्याः मूर्तित्वेन लोहपुरुषस्य प्रशंसाम् अकुर्वन् । तेषां सर्वेषां कथनम् आसीत् यत्, "लोहपुरुषः व्यावहारिकः, निष्पक्षः नेता आसीत्" इति । अद्यापि अनेके जनाः आमनन्ति यत्, लोहपुरुषस्य मरणोत्तरम् अनेकानि वर्षाणि भारतसर्वकारः लोहपुरुषाय सम्माननं दातुम् उदासीनः आसीत् । केषाञ्चन राष्ट्रवादिनां मनसि तस्मिन् काले अद्यापि च भवति यत्, नेहरू काश्मिरराज्यस्य विषये संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः चर्चां कृत्वा दोषम् आचरितवान् इति । तथा च गोवाराज्यस्य स्वतन्त्रतायै सैन्यबलस्य उपयोगसम्बद्धानि लोहपुरुषस्य निवेदनानि स्वीकरणे नेहरु इत्येषः अतिविलम्बं कृतवान् इत्यस्य कृते अपि नेहरू इत्यस्य बहुटीकाः भवन्ति । लोहपुरुषप्रशंसाकाव्यानि <poem> રાષ્ટ્ર સપૂત કરમસદનો કર્મવીર ને, બારડોલીનો તારણહાર; ગાંઘીસૈન્યનો અદનો સૈનિક, ભારતનો સ્વીકૃત સરદાર. માંધાતાના મદ છોડાવે, એવો તારો રણ ટંકાર; વાણીનો વિલાસ ગમે ના, શબ્દ કર્મમાં એકાકાર. શબ્દ-શસ્ત્ર ને નીતિ-અસ્ત્રનો, પરમ ઉપાસક નવ ચાણક્ય; શાસકને તેં સાધક કીધા, રાષ્ટ્ર-યજ્ઞના સહ યાચક. સંઘ-શક્તિનો અજોડ સાઘક કાર્ય સિદ્ધિનો આહ્વાહક; એક તિરંગાની છાયામાં, એખંડ ભારતનો સર્જક. બાપુને પગલે તું ચાલ્યો, બની ભક્ત, શૂર, દૃઢ પ્રતિજ્ઞ; અદ્ભુત ઐક્ય દઈ ભારતને, પૂર્ણ કર્યો જીવનનો યજ્ઞ. સ્વરાજ્યની ચાલીસી ટાણે, સુરાજ્ય ઝંખે સૌ નર-નાર; સ્મરે સ્નેહથી, સાદર વન્દે, જય જય રાષ્ટ્ર સપૂત સરદાર. - હરગોવિંદ ચન્દુલાલ નાયક (અમદાવાદ, 1986) ખેડૂતોનો તારણહાર કોની હાકે મડદાં ઊઠ્યાં ? કાયર કેસરી થઈ તડૂક્યા ? કોની પાડે કપટી જૂઠા, જાલીમોનાં ગાત્ર વછુટ્યાં ? ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદાર ખેડૂતોની મુક્તિ કાજે, સિંહ સમો ગુજરાતે ગાજે, તાજ વિનાનો રાજા રાજે, કોણ હવે જને વલ્લભ આજે ! ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદાર માટીમાંથી મર્દ બનાવી, સભળી સત્તાને થંભાવી, ગુર્જરી માને જેબ અપાવી, ભારતભર ઉષા પ્રગટાવી. ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદાર લીલા નંદનવન ભેલાડે, રાંકડી રૈયતને રંજાડે, એવા નંદી નાથ્યા કોણે ? પળમાં દીધા પૂરી ખૂણે. ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદાર - કલ્યાણજી મહેતા (બારડોલી, 1928) पटेल के प्रति यही प्रसिद्ध लोहपुरुष प्रबल, यही प्रसिद्ध शक्ति की शिला अटल, हिला इसे सका कभी न शत्रु दल, पटेल पर स्वदेश को गुमान है । सुबुद्धि उच्च श्रृंग पर किये जगह, हृदय गंभीर है समुद्र की तरह, कदम छुए हुए ज़मीन की सतह, पटेल देश का निगहबान है । हरेक पक्ष के पटेल तौलता, हरेक भेद को पटेल खोलता, दुराव या छिपाव से इसे गरज ? कठोर नग्न सत्य बोलता । पटेल हिंद की नीडर जबान है । - हरिवंशराय बच्चन (1950) His Works are actions Cross legend he sits with a stony stoop And dark deep furrowed face Eyes at once undaunted searching kind A head too cool a nook for fire anged words Have you ever heard him speak? It is not words he utters. He musters the strength of the shriveled soul Of a vast famishing people; And ever his steep stark personality Forges word winged weapons. It is his wont to fling Barbed words at feasting ill But of the from his soul sling Darts forth not words but will His words are actions. - Umashankar Joshi (Ahmedabad, 1948)</center> </poem> सम्बद्धाः लेखाः मणिबेन एकतामूर्तिः सत्याग्रहः उपप्रधानमन्त्रिणः टिप्पणी बाह्यानुबन्धाः http://www.sardarpateltrust.org/ http://timesofindia.indiatimes.com/topic/sardar-vallabhbhai-patel https://www.facebook.com/VALLABHBHAI http://www.ndtv.com/topic/sardar-vallabhbhai-patel भारतरत्नपुरस्कारभाजः भारतीयस्वातन्त्र्ययोधाः गुजरातराज्यस्य व्यक्तयः १८७५ जननम् १९५० मरणम् भारतस्य उपप्रधानमन्त्रिणः
2141
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A6%E0%A4%A8%E0%A4%AE%E0%A5%8B%E0%A4%B9%E0%A4%A8%20%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%B5%E0%A5%80%E0%A4%AF
मदनमोहन मालवीय
मदनमोहनमालवीयः ) (, ) इत्याख्यः महापुरुषः अस्मिन् देशे जातः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत् । उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् । १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः । आङ्ग्लभाषाभाषणम्, आङ्ग्लेयवस्त्रधारणं, तत्पद्धतीनाम् अनुसरणम् अत्यन्तं गौरवास्पदमिति भावयन्तः आसन् जनाः । किन्तु स्वीयपूर्वजानां सम्प्रदायानां, सिद्धान्तानां विषये मालवीयानाम् अत्यन्तगौरवभावना, विश्वासश्च आसीत् । देशे उच्चलतां पाश्चात्यसमुत्तुङ्गतरङ्गाणाम् अभिमुखं गच्छन्तः आसन् ते । मदनमोहनस्य पिता व्रजनाथः श्रीमद्भागवतं (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते यत्, ते कियता कष्टेन जीवनं यापयन्ति स्म इति । अश्रद्धम् आराधयतः जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् । मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः और्ध्वदैहिककर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः "किमपि प्रार्थयतां, भगवान् ददाति, वयमपि आशिषः दद्मः" इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङ्गमुखः पण्डितः व्रजनाथः प्रार्थितवान् "भगवान् ! मह्यम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च" इति । पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् २५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी । आसीत् सन्ध्यासमयः । सर्वगृहेषु दीपज्वालनसमयः । हठाद् घण्टानादः श्रुतः । पण्डितस्य व्रजनाथस्य पुत्रोदयः अभवत् इति जनैः ज्ञातम् । निष्कलङ्कजीवनेन, प्रज्ञापाटवेन, सत्प्रवर्तनेन च सः ग्रामजनानां गौरवपात्रतां गतः आसीत् । सर्वे तं साभिमानं पश्यन्ति स्म । पवित्रग्रन्थानां ज्ञानपरिमलेन पूर्णस्य व्रजनाथगृहस्य पुरतः जनानाम् आनन्दकोलाहलः आसीत् । मृत्कुड्यैः निर्मितं लघुगृहं तत् । आगतानां शुभेच्छुकानां कृते तत्र स्थातुं स्थलं न आसीत् । तेभ्यः सर्वेभ्यः मधुराणि वितरितुं शक्तिरपि नासीत् व्रजनाथस्य । मुकुलितकराभ्याम् एव सः आगतान् स्त्कृतवान् । ते सर्वे तम् अभिनन्द्य, आमन्त्र्य गतवन्तः । बालस्य नामकारणोत्सवः अभवत् । प्रथमाक्षरं मकारः भवेदिति, तेन सौभाग्यं भविष्यतीति उक्तवन्तः ज्येष्ठाः । मदनमोहन इति नाम निश्चितम् । मदनमोहनः सर्वदा हसन् उत्साही सन् अवर्धत । विद्याभ्यासः पञ्चमे वर्षे तस्य विद्याभ्यासः आरब्धः । आहियापुरे पाठशालाः नासन् । हरदेवः नाम पण्डितः 'धर्मज्ञानोपदेशपाठशाला’नाम्नीम् एकां पाठशालां चालयति स्म । मदनमोहनं पिता हरदेवसमीपं नीतवान्। 'बालकः श्लोकान् काँस्कान् जानाति वा ?’ इति पृष्टवान् हरदेवः । 'आम्, जानामि’ इत्युक्तवान् बालः । "उत्तमम्, एकं श्लोकं वदतु’ इति प्रृष्टवान् हरदेवः । बालकः अध्यापकस्य पादस्पर्शनं कृतवान् । पितरं दृष्टवान् । हस्तौ बद्धवा एकं श्लोकम् उत्तमशैल्या पठितवान् । सन्तृप्तः पण्डितः हरदेवः अन्यम् एकं श्लोकं पठ इत्युक्तवान् । मधुरेण स्वरेण अन्यत्पद्यं श्रावितवान् मदनमोहनः । उपाध्यायः अत्यन्तं सन्तुष्टः । बालस्य शिरसि हस्तं निधाय अत्यन्तानन्दपूर्णः हरदेवः व्रजनाथमुक्तवान् - "भवान् सत्यमेव भाग्यशाली । भवतः वंशस्य शाश्वतीं कीर्तिम् एतस्य कारणतः प्रतिष्ठापयिष्यति भवान्" इति । पण्डितहरदेवस्य अन्तिके मदनमोहनस्य विद्याभ्यासः आरब्धः । हरदेवः लधुकौमुदीं पाठितवान् । भगवद्गीतां, नीतिश्लोकान्, मनुस्मृतिम्, अनेकविधाः विद्याश्च गुरोः सकाशात् अधीतवान् मदनमोहनः । मदनमोहनस्य अष्टमे वर्षे उपनयनम् अभवत् । गायत्रीमन्त्रम् उपदिष्टवान् व्रजनाथः । (निष्ठया, नियमैश्च जीवनं यापयितुं, वेदविद्याम् अभ्यसितुञ्च गायत्रीमन्त्रम् उपदिशन्ति पितरः गुरवः ।) नित्यं प्रातः सायम् उभयसन्ध्ययोः अनुष्ठानं करोति स्म मेधावी मदनमोहनः । कुमारस्य अनुष्ठानादिकं दृष्ट्वा माता स्वपुत्रः संन्यासी भविष्यति इति आशङ्कते स्म । भीता माता पुत्रस्य दुर्दृष्टिनिवाराणाय उपचारान् कारयति स्म । मदनमोहनः अत्यन्तं चपलः आसीत् । क्रीडाः तस्य अतीव प्रियाः । काष्ठैः गोलिकाभिः क्रीडने क्षुत्-निद्रादिकमपि विस्मरति स्म सः । प्रतिदिनम् अवश्यं व्यायामं करोति स्म । प्रातः ६ वादने धर्मज्ञानोपदेशपाठशालायाः आरम्भः भवति स्म । ९.३० वादने पाठशालायाः घण्टानादानन्तरं छात्राः सर्वे मिलन्ति स्म । उन्न्तकक्ष्याच्छात्रद्वारा श्लोकान् उच्चैः रटयति स्म उपाध्यायः । निम्नकक्ष्याविद्यार्थिनः सर्वे उच्चैः अनुरटेयुः । मनुस्मृतिं,भगवाद्गीताञ्च एवमेव वाचयन्ति स्म शिक्षकाः । पुनः पुनः वाचनेन ते कण्ठस्थीकुर्वन्ति स्म श्लोकान् । स्वीयं भोजनम् अधिकृत्य मदनमोहनेन एवम् उक्तम् - "मया क्रियमाणं भोजनं प्रायः राजानः अपि न कुर्वन्ति । पाचकैः पक्वं भोज्यं स्वीकुर्वन्ति राजकुमाराः । पाचकाः तु प्रेम्णा पाकं न कुर्वन्ति । वेतनार्थम् एव ते पाकं कुर्वन्ति । एवम् भृत्यैः साधितं पाकम् अहं न कदापि भुक्तवान् । मम मात्रा कृतं प्रेमानुरागपुरस्कृतं सुपक्वम् आहारमेव स्वीकृतवान् अहम् । रोचकान् एव पदार्थान् पक्त्वा माता मह्यं यच्छति स्म । माम् एवमेव बाल्ये यौवनेऽपि वर्धितवती सा । अस्मिन् विषये अहम् अत्यन्तं भाग्यवान् च ।" इति । मदनमोहनेन सह पठन्तः केचन छात्राः आङ्ग्लपाठशालासु प्राविशन् । आङ्ग्लभाषां ज्ञातुमैच्छत् मदनमोहनः अपि । अधिकं शुल्कं स्वीकुर्वन्ति स्म आङ्ग्लशालापालकाः । एकः निर्धनः अधिकशुल्कवत्यां पाठशालायां स्वबालं प्रेषयितुं न शक्नोति । तथापि सङ्कल्पः अस्ति चेत् मार्गः लभ्यते एव । पुत्रस्य इच्छां ज्ञातवान् पिता । कटकानि गयाप्रसादनाम्नः कस्यचन निकटे न्यासीकृत्य धनमानीतवती माता । पुत्रम् आङ्ग्लपाठशालायां प्रवेशितवन्तौ पितरौ । गोर्धन-महोदयः आङ्ग्लपाठशालायाम् अध्यापकः । सः शिक्षक इव अत्यन्तं कठिनं व्यवहरति स्म सः । समये पाठशालायां भवेयुः छात्राः । अश्रद्धावतः भृशं दण्डयति स्म गोर्धनः । पर्युषितम् अन्नं खादित्वा पाठशालां प्रति धावति स्म मदनमोहनः । कुटुम्बं महत्यां दिनावस्थायाम् आसीत् । कदापि मदनमोहनः निराशतां न प्राप्तवान् । अल्पदिनेष्वेव लेखने उच्चारणे च कक्ष्यायां प्रथमं स्थानं प्राप्तवान् । उपाध्यायस्य अनुग्रहपात्रम् अभवत् एषः । सुखेन पठितुं किञ्चिदपि स्थानं गृहे नासीत् । दूरे गङगाप्रसादनाम्नः सहचरस्य गृहमासीत् । सूर्यास्तमनानन्तरं तैलदीपं स्वीकृत्य मित्रस्य गृहे पठति स्म सः । तेषु दिनेषु तस्य दिनचर्या एवं प्रचलति स्म । विवाहः पञ्चदशवर्षदेशीयः कदाचित् मदनमोहनः स्वस्य पितृव्येन सह मिरजापुरम् अगच्छत् । तत्र बहवः पण्डिताः अमिलन् । मेधाविनः स्वयं ज्ञातान् विषयान् अधिकृत्य तत्र भाषणं कृतवन्तः । तेषां भाषणानि श्रुतवतः तस्य बालकस्य विवक्षा उत्पन्ना । द्वित्रवारम् उत्थितश्च । अन्ते अवसरः लब्धः । सः मेधाविनां समूहम् एकवारं विलोक्य सविनयं स्वभाषणम् आरब्धवान् । मृदुमधुरस्वरेण हेतुबद्धेन तस्य संस्कृतभाषणेन, मेधाशक्त्या च ज्येष्ठाः चकिताः अभवन् प्रशंसाः अकुर्वन् । पण्डितनन्दरामः स्वयं मेधावी । सः एव समावेशं निरूढवान् । मदनमोहनस्य रूपं, मेधा, विनयः च तम् आकर्षन् । मुखतः स्वरः न निर्गतः । स्वस्य तृतीयां पुत्रीं कुन्दनादेवीं तस्मै नवयुवकाय दत्त्वा परिणयः करणीयः इति निर्णीतवान् सः । १५ वर्षीयस्य मदनमोहनस्य विवाहं कुन्दनादेव्या सह सवैभवं कारितवन्तः ज्येष्ठाः । तस्य योग्या पत्नी आसीत् कुन्दनादेवी । कुन्दनादेवी सम्पन्नकुटुम्बादागता युवतिः । श्वशुरगृहे दुर्भरदारिद्य्रम् आसीत् । तस्याः इच्छानुसारं भोजनं न भवति स्म । धर्तुम् उत्तमवस्त्राणि नासन् । दाक्षिण्यहृदया सा कदापि स्वभर्तारं, पितरौ वा एतं विषयम् अधिकृत्य न उक्तवती एव । पत्न्याः सहनशीलताम्, औदार्यं, दयां च दृष्ट्वा विचलितः मदनमोहनः तां पृष्टवान् - 'अस्माकं निर्धनत्वमधिकृत्य कदापि एकं वाक्यमपि नोक्तवती भवती, भवत्याः मातापितरौ प्रत्यपि कुतः न सूचितवती ?’ इति । "सूचयित्वा किं प्रयोजनम् ? मम मातापितरौ बाधाम् अनुभवतः । अश्रूणि स्रावयतः । तेन मम किं प्रयोजनम् ? एतदेव मम मातापित्रोः निवासप्रदेशः । भवानेव मे देवः । एतद् गृहमेव मम स्वर्गः । भवन्तः सर्वे मां सादरं पश्यन्ति । अस्मिन् विश्वे मम इतोऽपि आवश्यकं किम् अस्ति ?" इति समाहित्तवती कुन्दनादेवी । पितृपितामहैः अनुसृते एव पथि भागवतस्य व्याख्यानानि लिखित्वा कीर्तिप्रतिष्ठाः प्राप्तव्याः इति मदनमोहनस्य इच्छा आसीत् । एतमेव विषयं मातरं निवेदितवान् । पुत्रस्य इच्छां श्रुत्वा मूनादेवी 'अस्माकं स्थितिं भवान् जानात्येव । भवान् यद् योग्यम् इति भावयति तत् करोतु’ इत्युक्तवती । मातुः हृदयं ज्ञातवान् मदनमोहनः कस्याञ्चित् पाठशालायाम् उपाध्यायरूपेण प्रविष्टः । तत्र तस्य वेतनम् आसीत् चत्वारिंशद् रूप्यकाणि । पाठशालातः आगमनानुपदमेव व्यायामं करोति स्म सः । सङ्गीतसाधनेऽपि अङ्कितः जातः सः । मुरल्याः, सितारावाद्यस्य च वादनं ज्ञातवान् । प्रभातसमये, सायं च व्रजनाथः पुत्रं मीरायाः, सूरदासस्य च भक्तिगीतानि शिक्षयति स्म । अकिञ्चनत्वेऽपि दिनानि आनन्देन यापयति स्म सः । १८८१तमे संवत्सरे एफ् ए परीक्षाम् उत्तीर्णः अभवत् मदनमोहनः । मैर् सेंट्रल् कलाशालायां पठितवान् सः । ज्ञानसमुपार्जनापिपासया सः आगरायां बि ए कक्ष्यां प्रविष्टः । कार्यान्तरेषु व्यस्ततायाः कारणतः बि ए परीक्षाम् अनुत्तीर्णः । १८८४तमे वर्षे कलकत्ताकलाशालातः स्नातकः जातः सः स्नातकोत्तरपदवीं साधयितुमैच्छत् । तथापि कुटुम्बं क्लिष्टस्थितौ अस्तीति ज्ञात्वा मदनमोहनः उद्योगं प्राप्य मातापित्रोः साहाय्यं कर्तुं निश्चितवान् । बहुमुखप्रतिभावान् जन्मतः मदनमोहनः कविः । षोडशवर्षाणां वयस्येव सः कवितारचनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् । भारतराष्ट्रियमहासभायाः द्वितीयसमावेशः कलकत्तायाम् अभवत् । प्रख्यातः दादाभाई नवरोजी तस्य समावेशस्य अध्यक्षः आसीत् । तस्मिन् महति समावेशे एकः युवकः गुरुदेवस्य आदेशानुसारं वेदिकाम् आगतवान् । सः भाषणम् आरब्धवान् । देशभक्त्या पूर्णानि तस्य वचनानि गभीरगङ्गाप्रवाहवत् प्रसरन्ति स्म श्रोतृश्रवणकुहरेषु । श्रोतारः आनन्दसागरे मग्नाः इवासन् । भाषाणं सम्पूर्णं श्रुत्वा परवशाः जाताः ते । महासभायाः संस्थापकः ए ओ ह्यूम् महोदयः 'मदनमोहनमालवीयस्य अद्यतनं भाषणं कदापि न विस्मरणीयम्’ इति उक्तवान् । तस्मिन् समये श्रीरामपालसिंहः मालवीयं मिलितवान् । 'हिन्दुस्थान’पत्रिकायाः सम्पादकः सः । स्वपत्रिकायाः सम्पादकत्वदायित्वं स्वीकरोतु इति मालवीयम् अभ्यर्थितवान् । पत्रिकायाः सर्वमपि दायित्वं तस्मै एव दत्तवान् च । न्यायवादी सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः । भारतीयस्वातन्त्र्यसङ्ग्रामोद्यमे महात्मागान्धिः,सुभाषचन्द्रबोसः इत्यादयः इव मान्यः जातः मदन्मोहनमालवीयः । गान्धिमहोदयः यथा राष्ट्रपिता, तथा मालवीयः राष्ट्रस्य अध्यापकः इति गण्यते स्म । मालवीयः इति वंशनाम्नैव तं सम्मानयन्ति स्म जनाः । १८५७ तमे वर्षे भारतसर्वकारेण कोलकत्ता, मुम्बई, चेत्रै नगरेषु विश्वविद्यालयाः स्थापिताः । एते सर्वे आङ्ग्लविश्वविद्यालयसमाः एवेति घोषिताः । विश्वविद्यालयस्वप्नः आङ्ग्लभाषाभाषणं, तेषां सम्प्रदायानाम् अनुसरणं व्यवहरणं च अत्युन्नतमिति भावयन्ति स्म तदा केचन भारतीयाः । अत्यन्तमेधावी देशभक्तः मालवीयः भारतीयसंस्कृत्याः पूर्ववैभवं, गौरवं च पुनः साधनीयमिति दृढचिन्तनं कृतवान् । सुशिक्षिताः सर्वेऽपि एतस्याः संस्कृत्याः मौल्यम् अवगच्छेयुः इति आशां प्रकटितवान् । काश्यां हिन्दू विश्वविद्यालयः स्थापनीयः इति निश्चितवान् सः । विश्वविद्यालयस्य स्थापनं सुकरं वा ? एकस्य विद्यालयस्य चालनमेव कष्टकरम् । तथा सति विश्वविद्यालयचालनं कियत्कष्टकार्यम् ? तत्रापि एकेनैव एतत् साहसं करणीयमिति चिन्तितवान् सः । २१ तममहासभा वाराणस्यां समायोजिता । गौरवाध्यक्षस्थानमलङ्कर्तुं गोपालकृष्णगोखले महोदयम् आहूतवन्तः । मालवीयः एतस्मिन् अवसरे काङ्ग्रेस्-पक्षस्य ज्येष्ठैः नायकैः सह अमिलत् । हिन्दूविश्वविद्यालयस्य स्थापनविषये स्वीयां तीव्राम् इच्छां प्रकटितवान् । तस्य आशयं श्रुत्वा सर्वे तम् अभिनन्दितवन्तः । काङ्ग्रेस्-पक्षस्य प्रमुखः सुरेन्द्रनाथबेनर्जीमहोदयः उत्तमानाम् अध्यापकानां प्राप्तिपर्यन्तं विश्वविद्यालये आङ्ग्लप्राचार्यरूपेण विना वेतनं कार्यं करोमि इति वचनं दत्तवान् । काशीहिन्दुविश्वविद्यालयस्य कृते स्थानं प्राप्तुं मालवीयः महान्तं प्रयत्नं कृतवान् । यत् स्थलं विश्वविद्यालयस्य कृते उपयुक्तम्आसीत्, तत् स्थलं काशीमहाराजस्य आसीत् । काशीराजः मालवीयम् अवदत्, 'हे भूदेव ! यावत् धनम् आवश्यकं, तावद् दातुं शक्नोमि । किन्तु तत् स्थलं तु मा याच्यताम् । तेन स्थलेन सह मम अनुबन्धः अस्ति’ इति । ततः भगवतः दयया मकरसङ्क्रान्तेः पर्वदिने मालवीयः उपायनरूपेण तदेव स्थलं राज्ञः सकाशात् सम्पादितवान् । आर्थिकसमस्या उद्भूता । धनसंग्रहणाय समग्रे देशे पर्यटनं करणीयमिति चिन्तितवान् । प्रत्यहं कथञ्चित् कोशः पूर्णः भवति स्म । अस्मिन्नेव सन्दर्भे सः भाग्यनगरम् (हैदराबाद्) आगतवान् । तस्मिन् काले निजामपदवाच्यः शासकः तं प्रदेशं पालयति स्म । हिन्दुविश्वविद्यालयाय धनं दातुं तस्य महम्मदीयमनः नाङ्ग्यकरोत् । तं विषयमेव मालवीयं स्पष्टं सूचितवान् सः । रिक्तहस्तः सन् ततः निर्गन्तुं मालवीयः सुतरां नेच्छति स्म । तस्मिन्नेव दिने हिन्दुः कश्चन मृतः । तस्य शवयात्रायाम् अनुयायिनः नाणकानि विकिरन्तः चलन्ति स्म । मालवीयः भूमौ पतितानि तानि नाणकानि चित्वा स्यूते स्थापयन्नासीत् । तस्य कार्यं दृष्ट्वा केचन आश्चर्यमनुभूतवन्तः । ते अपि नाणकानि चित्वा तस्य स्यूते स्थापितवन्तः । स्यूतः नाणकैः पूर्णः । निजामः एतां घटनां ज्ञातवान् । सः लज्जितः जातः । मालवीयाय अधिकं धनं दत्त्वा अभिनन्दितवान् । हिमालयतःकन्याकुमारिपर्यन्तं, पेशावारतः, ब्रह्मदेश (म्यान्मार्) पर्यन्तम् अनेकवारं देशं समग्रं पर्यटितवान् पण्डितमालवीयः । यत्र कुत्रापि गत्वा उदात्ताय स्वाशयाय धनं याचते स्म धनिकान् । एकस्मिन् पर्याये दरभङ्गायां भागवतमधिकृत्य भाषणं कृतवान् मालवीयः । दरभङ्गामहाराजः अन्तिमदिने कार्यक्रमे उपस्थितः आसीत् । मालवीयस्य अद्भुतं भाषणं श्रुत्वा आश्चर्यचकितः महाराजः २५ लक्षरूप्यकाणि उपायनरूपेण दत्तवान् । न केवलं तत् स्वीयं शेषजीवनं मालवीयस्य उदात्ताशयसाधनाय समर्पयामि इति प्रतिज्ञातवान् । तस्य वचनं श्रुतवतः मालवीयस्य नेत्रे आनन्दाश्रुणा पूर्णे जाते । उक्तवचनानुसारं दरभङ्गामहाराजः मालवीयेन सह बहुत्र अटितवान् । देशस्य चतसॄषु दिक्षु पर्यटन् मालवीयः एककोटिचतुस्त्रिंशल्लक्षरूप्यकाणि संगृहीतवान् । भिक्षुकाणाम् अधिपतिरिति विरुदमपि प्राप्तवान् । कदाचित् 'मालवीयतः धनार्जनोपायः ज्ञातव्यः’ इति गान्धिमहाशयः साश्चर्यम् उक्तवान् । काशीहिन्दुविश्वविद्यालयः १९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । गङ्गानद्याः तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः वेदाः,उपनिषदः, भगवद्गीता,महाभारतं,रामायणम् इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः । "स्वदेशीयाः निर्धनाः न भवेयुः इत्येतदर्थं प्रयत्नः सर्वेणाऽपि कर्तव्यः । कृषिक्षेत्रमात्रे अभिवृद्धिः सर्वतोमुखाभिवृद्धिः न भवति । आर्थिकाभिवृद्धेः अपेक्षया व्यक्तिविकासः शीलनिर्माणं च अत्यन्तं प्रमु्खम् । सर्वोऽपि देशजनः स्वीयधर्मं रक्षेत् । युवानः हिन्दुधर्मस्य रक्षकाः भवेयुः । ते यदि तम् अंशं विस्मरेयुः तर्हि संस्कारहीनाः भवेयुः । प्राप्ता विद्या व्यर्था भवेत् । धर्मग्लानिः स्म्भवेत् । धर्मस्य ज्ञानार्थं विशालं लक्ष्यम् आवश्यकम् । हिन्दुधर्मं ये सम्यक् जानन्ति तेषां सः धर्मः जीवनमार्गदर्शकः दीपः इव भवति । अद्यतनयुवजनाः अस्माकं संस्कृतिं सम्यग् अवगच्छेयुः" एवम् आसीत् मालवीयस्य विचारसरणिः । हिन्दुधर्मेण प्राप्तानाम् जीवनमौलिकांशानां संरक्षणं, तदर्थं योग्यायाः विद्यायाः बोधनमिति लक्ष्यं स्वीकृतं काशीहिन्दुविश्वविद्यालयेन । 'यूनां कृते विशाललक्ष्यप्रदः हिन्दुविद्यासुगन्धः दातव्यः । तेन सह अन्यधर्माणाम् अवगमनस्य आवश्यकता अपि बोधनीया’ इत्येतस्य मदनमोहनमालवीयस्य सदाशयस्य साकारितरूपम् एव 'काशीहिन्दुविश्वविद्यालयः’ इति चेत्, अतिशयोक्तिः न । आदर्शपुरुषः वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया । 'पत्रिकायाः सम्पादकत्वस्य निर्वहणे अन्येषां हस्तक्षेपम् अत्यल्पप्रमाणेन अपि न सहे, तत्र मम सम्पूर्णं स्वातन्त्र्यम् आवश्यकम्’ इत्युक्तवान् आसीत् मालवीयः । एतं नियमम् अङ्गीकृत्यैव राजा रामपालसिंहः तस्मै पत्रिकायाः स्वामित्वं समर्पितवान् । तेषु दिनेषु पण्डितप्रतापनारायणः, श्रीबालमुकुन्दगुप्तश्च पत्रिकाप्रकाशने असाधारणौ पुरुषौ । ताभ्यां द्वाभ्यां सह अविभाज्यम् अनुबन्धं रक्षितवान् मालवीयः । अनेकासां लघुपत्रिकाणां कृते एतस्य सहकारः आसीत् । देहलीतः मुद्राप्यमाणायाः 'कोपाल’साप्ताहिकपत्रिकायाः प्रकाशने एतस्य साहाय्यम् आसीत् । बाबू पुरुषोत्तमदासटाण्डन्-महोदयेन चाल्यमानायाः 'अभ्युदय' पत्रिकायाः प्रकाशने च सम्पूर्णसहकारं यच्छति स्म मालवीयः । विश्वपत्रिकाप्रकाशकेषु पत्रिकाकाररूपेण अत्यधिकां ख्यातिं प्राप्तवान् मालवीयः । स्वीयं पत्रिकाप्रकाशनकौशलं देशाय समर्पितवान् च । भारतीयपत्रिकाप्रकाशनसंस्था एतेनैव कारणेन प्रख्यातिं प्राप्तवती । पत्रिकाकारस्य लक्षणं भवेत् आत्मगौरवं, दृढता, स्वाभिमानः च । उन्नतधर्मं नीतिम् ॠजुवर्तनं च न विस्मरेत् सः इति वदति स्म मालवीयः । देहलीस्थां 'दि हिन्दुस्थान् टाइम्स्’ पत्रिकासंस्थां क्रीत्वा कानिचन वर्षाणि तां सम्यक् चालितवान् । कार्यभारस्य कारणतः अनन्तरदिनेषु तां पत्रिकाम् अन्यस्यै संस्थायै दत्तवान् । वर्तुलोप्तीठिका सभा तेषु दिनेषु भारतदेशः आङ्ग्लजनैः पाल्यते स्म । भारताय स्वतन्त्र्यं दातव्यम् उत न वा इत्येतस्मिन् विषये चिन्तयति स्म आङ्ग्लसर्वकारः । १९३१ तमे वर्षे लण्ड्न्-नगरे द्वितीयवर्तुलोप्तीठिका सभा आयोजिता । तस्यां सभायां भाषणं कर्तुं मालवीयं निरणैषीत् गान्धिमहोदयः । र्तुलोप्तीठिकासभायां मालवीयस्य भाषणम् अविस्मरणीयम् आसीत् । 'इण्डियन् डायरी’ इति स्वीये पुस्तके माण्टेङ्गः मालवीयस्य भाषणं बहुधा प्रशंसितवान् । तेजबहदूरः सप्रू अपि तस्य भाषणम् अभिनन्दितवान् । स्वीयैः प्रज्ञासमेतैः भाषणैः खण्डान्तरेषु अपि राजनीतिज्ञानाम् आदरपात्रम् अभवत् सः । स्वीयदैनन्दिननियमान् विदेशे अपि नोल्लङ्घितवान् श्रीमालवीयः । प्रातः निद्रातः उत्थाय नियमेन व्यायामं करोति स्म सः । स्नानाय भारतदेशीयं सुफेनकमेव उपयुङ्क्ते स्म सः । पूजां कृत्वा फाले तिलकं धरति स्म सः । अनन्तरम् उष्णं दुग्धं पीत्वा श्वेतवस्त्राणि, उष्णीषं च धरति स्म । मध्याह्ने घण्टाद्वयम् आगतैः सह सम्भाषणञ्च करोति स्म । मालवीयः मितमेव आहारं स्वीकरोति स्म । भोज्नानन्तरं विश्रान्तिं स्वीकरोति स्म । शय्याप्रकोष्ठे तस्य मातापित्रोः तैलवर्णचित्रम् आसीत् । मातापित्रोः, भगवतः च प्रार्थनां कृत्वा एव निद्रां करोति स्म सः । एवं तस्य दिनचर्या आसीत् । 'वसन्तपञ्चमीम्’ अत्यन्तं शुभदिनं भावयति स्म सः । तस्मिन् दिने बहवः तं मिलन्ति स्म । तस्मिन् एव पर्वणि काशीहिन्दुविश्वविद्यालयस्य स्थापनमभूत् । तस्य भाषणं श्रोतुं सहस्रशः छात्राः, उपाध्यायाः आगच्छन्ति स्म तस्मिन् दिने । सरलभाषायां भारतीयसंस्कृतिं, धर्मम् उद्दिश्य, काशीहिन्दुविश्वविद्यालयस्य लक्ष्यं चोद्दिश्य स्पष्टं विशदयति स्म सः तदा अन्यदाऽपि । बहुभाषाकोविदः आङ्ग्ल-संस्कृत-हिन्दी-उर्दूभाषासु कोविदः आसीत् मालवीयः । आङ्ग्लभाषया भाषणावसरे अन्यभाषापदानि न कदापि उपयुङ्क्ते स्म । संस्कृतभाषया भाषणसमये तु विद्यानां माता सरस्वती एव तस्य जिह्वायां नृत्यति स्म । भाषणानि इव तस्य लेखाः अपि पठितॄणां हृदयानि हरन्ति स्म । वचनानि मौक्तिकानि लेखनानि रत्नानि इवासन् तस्य । क्रान्तिकारी मालवीयः यद्यपि प्राचीनसम्प्रदायानुसारी तथापि क्रान्तिकारीमनोभाववान् अपि आसीत् । १९१९ तमे वर्षे एप्रिलमासस्य त्रयोदशदिनाङ्के अमृतसरनगरस्थे जलियन्-वालाबाग् स्थाने अत्यन्तं विषादकरी घटना प्रवृत्ता । सभायां भागिनः निस्सहायाः श्रोतारः विदेशीयानां गोलकास्त्रैः निहताः । स्त्रियः पुरुषाः बालाः वृद्धाः इति भेदं विना क्षयं गताः शतशः । एतस्य प्रधानकारणम् आसीत् जनरल् डय्यरः । भारतजनता चकिता जाता । सर्वकारीयप्रतिनिधयः सिमलायां समाविष्टाः । समावेशे श्रीमालवीयः अत्यन्तम् उद्वेगभरस्वरेण षड्घण्टां यावत् नरवधमधिकृत्य भाषितवान् । प्रेरणायुतायाः तस्य भाषणस्य कारणतः समाविष्टाः आङ्ग्लेयाः अपि प्रभाविताः । १९४७तमे वर्षे भारतदेशः स्वतन्त्रतां प्राप्तवान् । स्वतन्त्रतायाः एकवर्षात् पूर्वम् अतिविषादकर्यः घटनाः अभवन् । भारतीयजनतया कदापि न विस्मरणीयाः घटनाः ताः । तासां स्थानमासीत् वङ्गप्रदेशः । अत्यधिकसङ्खायां हिन्दवः पीडिताः । नवकालीपट्ट्णे दीनमारणम् अभवत् । निस्सहायाः जनाः बहूनि कष्टानि अनुभूतवन्तः । सर्वकारः तूष्णीं पश्यन् आसीत् । घटनाः ज्ञात्वा मालवीयः स्थाणुः अभवत् । महम्मदीयमते परिवर्तितानां हिन्दूनां पुनः स्वधर्मे आनयनाय 'रामनाम-पवित्रगङ्गाजलं च पर्याप्तम्’ इति हिन्दून् प्रति उक्तवान् सः । हिन्दून् सर्वान् एकसूत्रे संयोक्तुं महान्तम् अविरतं च प्रयत्नं कृतवान् सः । हिन्दु- महम्म्दीयसख्यस्य कृते अपि अधिकं प्रयत्नं कृतवान् । 'हरिजनोद्धरणेनैव हिन्दुदेशः अभिवृद्धिं प्राप्नोति’ इति वदन् आसीत् श्रीमालवीयः । दलितसहोदराणां, निर्धनानां महिलानाम्, अक्षरज्ञानशून्यानां जनानाम् च सेवां कुर्वन् आसीत् सः । सर्वथा भारतदेशः पुरोगामी भवेदिति मालवीयस्य काङ्क्षा आसीत् । अन्तिमयात्रा शतं वर्षाणि पूर्णजीवनं यापनीयमिति मालवीयस्य आशयः आसीत् । भगवतः निर्णयः अन्यथा आसीत् । नवकाल्याः दारुणघटनानि तस्य हृदयं मनः च पीडयन्ति स्म । असाधारणीं वेदनां जनयन्ति स्म च । तथैव वेदनया १९४६ तमे वर्षे नवम्बर् मासस्य १२ दिनाङ्के पण्डितमदनमोहनमालवीयः अन्तिमश्वासं त्यक्तवान् । तेन भारतवासिनः सर्वे अपि दुःखसागरे निमग्नाः अभवन् । मालवीयस्य विचारधारा परमेश्वरे विश्वसितु । पशुपक्षिणां विषये अनुरागं दर्शय । निर्धनेषु, दुर्बलेषु च कृपां दर्शय । महिलाः मानय । आपन्नेषु साहाय्यं कुरु । कस्मिन्नपि क्रूरतां मा प्रदर्शय । स्वच्छं जीवनं यापय । पवित्रां गोमातरं रक्ष । अन्येषां सम्पदं मा हर । उत्तमकार्याणि सत्फलदानि । दुष्कार्याणि दुष्फलदानि । आत्मस्थैर्यं विश्वासश्च सर्वेषां भवेत् । अन्येषां विषये दुर्वचनानि मा वद । अभिप्रायभेदेऽपि प्रतिवादिनां वचनं शृणु । कस्मादपि मा भैषीः । अन्येषु भीतिं मा जनय । भारतदेशः अस्माकं मातृभूमिः । अस्माभिः भगवतः अनुग्रहेण लब्धा एषा भूमिः अतिपवित्रा । ऋजुवर्तनेन एतस्याः भूमेः सेवां कुरु । भारतं नाम इण्डिया नाम हिन्दुस्थानम् । भगवतः आशिषः प्राप्तवन्तः एव अत्र भारते जायन्ते । हैन्दवधर्मः महोन्नतः । भारतीया आध्यात्मिकजीवनपद्धतिः एव श्रेष्ठा विश्वे । 'सन्मार्गे चर, सत्कर्माणि कुरु, मुक्तिं प्राप्नुहि’ इति भगवतः निर्देशं प्रकटयति सा । तत् लक्ष्यं प्राप्तुं भगवान् धर्मक्रमम् अनुगृहीतवान् । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासाश्रमधर्मान् क्रमेण आचरन् मानवः स्वयं धन्यो भवति; नैतिकधर्मान् शाश्वतं रक्षितुञ्च शक्नोति मानवः । केवलं स्वसुखाय जीवन् मानवः पशुसमानः भवति । सर्वोऽपि स्वदेशार्थं, धर्मार्थं, परार्थं च जीवेत् । विश्वे अत्यन्तपुरातनग्रन्थाः वेदाः एव । पाश्चात्यविज्ञाः अपि एतं विषयम् अङ्गीकृतवन्तः । सृष्टेः पूर्वं विश्वः सर्वोऽपि गाढान्धकारमयः । स्वदिव्यतेजसा भगवान् विश्वस्य कृते प्रकाशं दत्तवान् । भगवान् सर्वदा प्रकाशानुरागी । मानवः अस्मिन् ज्योतिर्मयमार्गे एव व्रजेत् । तदर्थं साधनमपि कुर्यात् । श्रीमालवीयेन अस्मभ्यं प्रदत्तः चिरस्मरणीयः सन्देशः एषः एव । बाह्यसम्पर्कतन्तुः Mahamana Madan Mohan Malaviya, Biography at BHU website Madan Mohan Malaviya University of Technology, Gorakhpur Malaviya National Institute of Technology भारतीयस्वातन्त्र्ययोधाः भारतीयराष्ट्रियकांग्रेस्-पक्षस्य अध्यक्षाः भारतीयन्यायवादिनः हिन्दीपत्रिकासम्पादकाः १८६१ जननम् १९४६ मरणम्
2142
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE%20%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80
सोनिया गान्धी
| children = राहुल् गान्धिPriyanka Vadra | profession = Politician social worker | footnotes = | signature = }} सोनियागान्धि - अस्याः जन्म १९४६ तमे वर्षे इटलीदेशे अभवत्‌ । पठितुं सा इंग्लैंडदेशं गतवती । तत्र सा राजीवगान्धिना मिलितवती । तयोः विवाहः जातः । तस्याः उभौ पुत्रौ - राहुलगान्धिः, प्रियाङ्का च । सा भारतस्य शक्तिशालिनी राजनैतिकप्रमुखा अस्ति। काङ्ग्रेस्-पक्षस्य नेतारः‎ भारतीयराजनेतृसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः जीवतव्यक्तयः १९४६ जननम्
2143
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%87%E0%A4%A4%E0%A4%A8
शान्तिनिकेतन
शान्तिनिकेतन विद्यापीठं रवीन्द्रनाथ ठाकुर महाभागे १९०१तमे स्थापितं. भारतस्य महाविद्यालयाः बाह्यानुबन्धः योजनीयः चित्रं योजनीयम् सारमञ्जूषा योजनीया पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् पश्चिमवङ्गस्य शिक्षणसंस्थाः‎ सर्वे अपूर्णलेखाः
2144
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%A5%20%E0%A4%A0%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B0
देवेन्द्रनाथ ठाकुर
देवेन्द्रनाथठाकुरः (१८०७-१९०५) कश्चन दार्शनिकः समाज-सुधारकः च आसीत्। तस्य पुत्रः रवीन्द्रनाथ ठाकुर: । पश्य द्वारकानाथठाकुरः (१७९४-१८४६) रवीन्द्रनाथठाकुरः (१८६१-१९४१) गगनेन्द्रनाथठाकुरः (१८६७-१९३८) अबनिन्द्रनाथठाकुरः (१८७१-१९५१) ठाकुरपरिवारः पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् पश्चिमवङ्गस्य लेखकाः‎ सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2145
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%8B%E0%A4%B9%E0%A4%A8%20%E0%A4%B2%E0%A4%BE%E0%A4%B2
मोहन लाल
मोहन लाल (1812-1877)कश्मीरी आसीत्‌. स: लेखक:,राजदूत: च आसीत्‌. आङ्ग्ल-अफगान युद्धे स: महत्वपूर्ण पात्र: आसीत्‌. ग्रन्था: Mohan Lal, Travels in the Punjab and Afghanistan and Turistan to Balkh, Bikhara and Herat and a Visit to Great Britain, Germany, First Ed. 1846 Reprint Al Biruni Lahore 1979 Mohan Lal, KLS, Life of the Amir Dost Mohammed Khan, of Kabul: with his political proceedings towards the English, Russian, and Persian governments, including victory and disasters of the British Army in Afghanistan. Two Volumes. Longman, Brown, Green and Longmans, London, 1846. बाह्यसम्पर्कतन्तुः Face of Afghan spy revealed in forgotten photo; Gallery uncovers 150-, Sunday Herald, The, Apr 21, 2002, by Juliette Garside. भारतीयलेखकाः जम्मू-काश्मीरराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
2146
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A6%E0%A5%8D
मुहम्मद्
'''मुहाम्माद: तस्य शान्तिः भवतु'" (५७०-६३२) इस्लामधर्मस्य प्रवर्तक: आसीत्। अरबी उच्चारण मुहाम्माद् अस्ति । सः सत्यधर्मस्य प्रवर्तकः आसीत् । तस्य पिता आब्दुल्लाह: आसीत् । तस्य माता अमीना आसीत् । :en:Muhammad धर्मसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2168
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%85%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80
स्वामी अखण्डानन्द सरस्वती
स्वामी अखण्डानन्द सरस्वती (महाराजश्री इति अनुयायिभिः आहूयते) (१९११-१९८७) कश्चन महान् पण्डितः आसीत् । शास्त्रवेदान्तादिषु विषयेषु सः बहु ज्ञातवान् आसीत् । भागवतपुराणविषये समीचीनप्रवचनं तेन क्रियते स्म । सः १९११ तमे वर्षे जुलैमासस्य २५ तमे दिनाङ्के वाराणसिमण्डलस्य महारैग्रामे जातः । तस्य पितामहः एतं प्राप्तुं वृन्दावनस्य भगवन्तं श्रीशन्तनुबेहारीं प्रार्थितवान् आसीत् । श्रावणमासे अमावास्यायां ब्राह्मणकुले अयं जातः । भगवतः शन्तनुबिहारेः अनुग्रहेण जातः इत्यतः शन्तनु बेहारी इत्येव नामकरणं कृतवन्तः । अध्यात्मासक्तिः श्रीगीतरसरत्नाकरनामके पुस्तके उल्लिखितमस्ति यत् अखण्डानन्दस्य जन्मनः अवसरे प्रसिद्धाः ज्योतिषिकाः अवदन् यत् अयं बालकः नवदशवर्षाणिमात्रं जीवति इति । मरणभयात् एव अखण्डानन्दः अध्यात्ममार्गम् आश्रितवान् । अस्मद्पूर्वजैः ऋषिभिः ज्ञातम् आसीत् यत् निश्चितात् मरणात् कश्चित् रक्षितुं न शक्यः चेत् ज्ञानं प्रदाय सः मरणभयात् मोचनीयः इति । अखण्डानन्दस्य जीवने तदेव अभवत् । ब्रह्मानुभवप्राप्तितः सः मरणभयात् शाश्वतरूपेण मुक्तः जातः । अयं दशवर्षीयः यदा आसीत् तदा तस्य पितामहः मूलभागवतं पठितुं प्रेरितवान् । ततः आरभ्य भागवतं तस्य विश्वासयोग्यः सहवर्ती जातम् । साहित्यकृषिः संन्यासस्वीकरणतः पूर्वं १९३४ तः १९४२ तमवर्षपर्यन्तं अयं गीताप्रेस्तः प्रकाशमानायाः 'कल्याण'पत्रिकायाः सम्पादकमण्डल्याः सदस्यः आसीत् । सः भागवतपुराणस्य अनुवादं हिन्दीभाषया अकरोत् । सः अनुवादः गीताप्रेस्-द्वारा प्रकाशितः । तेन १८० पुस्तकानि लिखितानि - भगवद्गीता, रामचरितमानस, उपनिषत् इत्यादीनां विषये । संन्यासाश्रमस्वीकरणम् युवकः अयं कदाचित् प्रसिद्धं ब्रह्मचारीप्रभुदत्तं द्रष्टुं गतवान् । तत्र उदियबाबाजिमहाराजः अमिलत् । तेन सह वेदान्तविषये चर्चाम् अकरोत् । अद्वैतविषये तदीयां श्रद्धां निर्मलचित्तं दृष्ट्वा ततः नितराम् आकृष्टः अभवत् अयम् । उदियबाबाजि एतं नितरां प्रीत्या अपश्यत् । तस्य प्रेरणातः एव युवकः संन्यासस्वीकरणे मनः अकरोत् । ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी श्री ब्रन्मानन्दजी सरस्वतीवर्यः एतस्मै संन्यासदीक्षाम् अयच्छत् । ततः पण्डित शन्तनुबिहारीद्विवेदी स्वामी अखण्डानन्दसरस्वती जातः । बाल्यतः अध्यात्मे आसक्तः अखण्डानन्दः बहुभिः महापुरुषैः अमिलत् - उदियाबाबा, हरिबाबा, आनन्दमायि मा । १९६० तमे वर्षे सः 'भारतसाधुसमाजस्य' अध्यक्षत्वेन चितः जातः । अयं भारतीयविद्याभवनस्य गौरवसदस्य आसीत् । एतादृशः अवसरः दलैलामा, मदर् तेरेसा, प्रिन्स् चार्ल्स्, भारतस्य राष्ट्रपति, प्रधानमन्त्री इत्यादिभिः एव प्राप्यते । मुम्बयी-भारतीयविद्याभवने, प्रेमपुरि अध्यात्ममन्दिरे, बिर्लाभवने, बिर्लामन्दिरे, जे के मन्दिरे च सः प्रवचनाय आहूयते स्म । आनन्दवृन्दावनाश्रमः भारतस्य उत्तरप्रदेशे मथुरामण्डले वृन्दावने अयम् आश्रमः विद्यते । अयम् आश्रमः अखण्डानन्दवर्येण संस्थापितम् । अत्र कर्म-भक्ति-ज्ञानयोगानां सम्मिलनमस्ति इत्यतः तीर्थराजप्रयागसदृशः मन्यते । अत्र सत्सङ्गः, देवपूजा, गोसेवा, छात्रेभ्यः वेदपाठनम्, इत्यादीनि कार्याणि प्रचलन्ति । आश्रमेण विद्यालयः, वैद्यकीयसेवा च प्रचाल्यते । स्वामी ओङ्कारानन्द सरस्वती महाराजः १९८७ तः २००८ पर्यन्तम् आनन्दवृन्दावनाश्रमस्य मार्गदर्शनम् अकरोत् । अद्यत्वे स्वामी सच्चिदानन्दवर्यः मार्गदर्शनं कुर्वन् अस्ति । १९८७ तमे वर्षे नवम्बर्मासस्य १९ दिनाङ्के तन्नाम मार्गशीर्षकृष्णत्रयोदश्याम् अखण्डानन्दसरस्वती भगवति लीनः जातः । बाह्यशृङ्खला www.Akhandanand.org - An introduction to life and works of Swami Akhandanand-ji Saraswati. आधुनिकगुरवः चित्रं योजनीयम् विषयः वर्धनीयः आधुनिकधार्मिकव्यक्तयः परिशीलनीयानि
2175
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BE%E0%A4%A3%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%83
चाणक्यः
चाणक्यः(Chanakya) (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति । जीवनचरितम् चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति । इतिहासः प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध: नलन्दाविश्वविद्यालय: आसीत् । राज्ये बहूनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धननन्द: राजा अभवत् । स: परमस्वार्थी इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अतः एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्ताग्रस्तः अभवन् । पाटलिपुत्रे बुद्धिमान् सदगुणसम्पन्न: राष्ट्रभक्त: सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धननन्दं बोधयितुं तस्य सकाशं गतवान्, किन्तु धननन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम 'चन्द्रगुप्त:' इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अतः एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धननन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्रगुप्तस्य पराक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम "विष्णुगुप्तः" इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम 'कौटिल्य:' इत्यपि आसीत् । चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अतः एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य 'अर्थशास्त्रम्' इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सूत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदीनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुषाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति। चाणक्य नीति जो आपको सफलता दिलाएगी | Chanakya Niti In Hindi बाह्यसम्पर्कतन्तुः चाणक्य नीति जो आपको सफलता दिलाएगी | Chanakya Niti In Hindi Philosophy of Chanakya Kauṭilya's Arthashastra (full 1915 Shamasastry text, divided into 15 books) Kauṭilya: the Arthshastra - Chanakya's revered work Philosophy and Biography Chanakya Niti in English Rhyme - A Knol collection Chanakya TV Serial Online Chanakya Niti - Malayalam translation as pdf Chanakya Quotes in English and Hindi Chanakya Neeti in Hindi chanakya niti अर्थशास्त्रज्ञः
2181
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%9C%20%E0%A4%AE%E0%A5%81%E0%A4%B6%E0%A4%B0%E0%A5%8D%E0%A4%B0%E0%A4%AB
परवेज मुशर्रफ
परवेज मुशर्रफ पाकिस्तान-देशस्य पूर्वप्रधानमन्त्री, सेनाध्यक्षश्च । पाकिस्तानदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
2420
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%87%E0%A4%B6%E0%A4%83
मुकेशः
मुकेशः (जीवितकालः क्रि.श. १९२३तमवर्षस्य जुलै २२दिनाङ्कतः क्रि.श. १९७६तमवर्षस्य अगस्ट् २७दिनाङ्कपर्यन्तम् ) हिदीभाषायाः चलच्चित्रजगतः प्रसिद्धः नेपथ्यगायकः । विशेषतः अस्य गानं हृदयसंवादि भवति । भारतस्य हिन्दीचलच्चित्रक्षेत्रे अस्य कालः नाम क्रि.श.१९५०तमवर्षस्य अनन्तरकालः सुवर्णयुगम् इति सङ्गीताभिमानिभिः उक्तः । मन्ना डे, मोहम्मद रफी, तलत् महमूदः इत्यादिषु तत्कालीनख्यातगायकेषु अग्रगण्यः स्वरसाम्राट् मुकेशः आसीत् । एषः द्विशताधिकचलच्चित्राणां गीतानि गीतवान् । चलच्चित्रगीतानि अतिरिच्य एषः भावगीतानि, शेर्गीतानि, भक्तिगीतानि इति अन्यागीतानि अपि गीतवान् । हिन्दीमहाकवेः तुलसीदासस्य रामायणम् अपि अनेन गीतम् अतीवजनप्रियम् अस्ति । बाल्यं वैवाहिकजीवनं च क्रि.शा.१९२३तमे वर्षे जुलै मासस्य २२दिनाङ्के पञ्जाबरज्यस्य मध्यमवर्गस्य लघुकुटुम्बे अजायत । देहल्याः अभियन्तृविभागे कार्यं कुर्वाणस्य लाला जोरवर् चन्द मथुरस्य दशापत्येषु षष्टः मुकेशः अस्य माता चान्द राणी इति । अस्य पूर्णं नाम मुकेश चन्द्र माथुरः देहल्यां दशमकक्ष्यापर्यन्तम् अध्ययनं कृत्वा तत्रस्थे सार्वत्रिककर्मकरविभागे (PWD) सहायकसर्वेक्षकरूपेण ७मासकालं कार्यं कृतवान् । मुकेशः क्रि.श.१९४६तमे वर्षे सरला त्रिवेदी इत्येषा अनुरागेण परिणीतवान् । एतां स्थलीयाः बची बहन् इति सम्बोधयन्ति स्म । एषा गुजरातीब्रह्मणस्य पुत्री । कुन्तु विवाहकले एतस्य मुकेशस्य निश्चितः अयः स्वीयं गृहं वा नासीत् । तदानीन्तनकाले चलच्चित्ररङ्गस्य वृत्तिम् अनैतिकः उद्योगः इति जानानां भावः आसीत् । एतादृशपृष्ठभूमौ प्रेमिणौ कुटुम्बतः दूरं गत्वा आर्.डि.माथुर् इत्यस्य सहाय्येन मुम्बैप्रदेशस्य कान्दिवलिमन्दिरे विवाहविधिं समपूरयताम् । सर्वविधकष्टकार्पण्यानि अनुभवन् अपि जयशाली भूत्वा स्वस्य ३०तमं विवाहवर्षिकोत्सवम् आचरितवन् । एतददन्तनरं क्रि.श. १९६७तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करःइत्यनया प्रसिद्धगायिकया सह सङ्गीतकर्यक्रमान् प्रदर्शयितुम् अमेरिकसंयुक्तसंस्थानम् अगच्छत् । मुकेशसरलादम्पत्योः रीटा, नितिन्, नलिनी, मोह्नीश्, नम्रता, नील्, इति षट् अपत्यानि आसन् । आरम्भिकपाठः कश्चित् सङ्गीतशिक्षकः मुकेशस्य गृहम् अगत्य तस्य सहोदरीम् पाठयति स्म । पार्श्वप्रकोष्ठे स्थितः मुकेशः तत्सर्वं श्रुत्वा पश्चात् अभ्यस्यति स्म । एतत् दृष्ट्वा सङ्गीताध्यापकः तस्मिन् मुकेशे भविष्यतः गायकम् अभिज्ञाय स्वस्य सहोदरं परमेश्वरीदासम् अस्य सङ्गीगुरुमकरोत् । तत्पश्चात् मुकेशः यदा देहलीनगरे उद्योगी अभवत् तदा रहसि केषाञ्चनचलच्चित्राणां गानानां ध्वनिमुद्रणम् अकरोत् । तदानितने काले एव मुम्बैनगरं गत्वा चलच्चित्राभिनेता भवितुं चिन्तितवान् अपि । मूकेशं सहोदर्याः विवाहमहोत्सवं गायन्तं दृष्ट्वा तस्य कश्चिद्बन्धुः मोतीललः एतं मुम्बैनगरं नीतवान् । मूकेस्य स्वस्य गृहे एव वासव्यवस्थां सङ्गीतपाठम् अपि प्रकल्पितवान् । सैगलस्य सम्प्रर्कः तदानीन्तनकालस्य प्रसिद्धः अभिनेता गायकः च कुन्दन् लाल् सैगल् इत्याख्यातः कदाचित् मोतिलालस्य गृहस्य पुरतः गच्छन् सुश्राव्यस्वरेण आकृष्टः अस्य गृहं प्रविष्टवान् । प्रथमाट्टे उपविश्य मुकेशस्य गानं शृण्वन् मोतिलालः 'दिहलीतः चलच्चित्ररङ्गे कार्यम् अन्विषन् आगतः' इति सैगलाय मुकेशस्य परिचयं कारितवान् । एषः चलच्चित्रगाने भविष्यति मम स्थानमारोहति इति सैगलः भविष्यवाणी अवोचत् । प्रथमावकाशः क्रि.श. १९४१तमे वर्षे सैगलस्य कश्चित् वयस्यः न्याषनल् स्टुडियो स्वामी ताराहरीशः " निर्दोष् " इति हिन्दीभाषाचलच्चित्रस्य निर्माणस्य सिद्धतायाम् आसीत् । सैगलस्य वचानानुसारेण ताराहरीशः मुकेशं तस्य चलच्चित्रस्य नायकं गायकं चाकरोत् । सिण्डरेल्लयाः कथा इव विमात्रा द्वभ्यां सहोदरीभ्यां हिंसितायै कथानायिकायै नवजीवनं दातुः धनिकयुवकस्य भूमिकां मुकेशः निर्वहति । नलिनी जयवन्त इति ख्यातनायिकायुक्तम् एतत् चलच्चित्रं यशस्वि अभवत् । मुकेशस्य कण्ठेन " दिल् ही बुझा हुआ हो तो " इति गानं जनानां कर्णेषु अनुरणति स्म मुखे खेलति स्म । अनया ख्यात्या रणजित् मूविटो इति समवाये वर्षत्रयं कार्यं कर्तुम् आह्वानं प्राप्तवान् । तेषु त्रिषुवर्षेषु मुकेशः अनेकेषु चलच्चित्रार्थं कार्यं कृतवान किन्तु कानिचन एव लोकार्पितानि । तानि अपि धनादानविषये सफलानि न अभवन । तत्कालीनप्रसिद्धाभिनेत्र्या सह सुख दुःख् इति चलच्चित्रे खलप्रेम्णः भूमिकां कृत्अवान् । करण दिवानस्य नायकत्वं नलिनी जयवन्तस्य नायिकात्वयुक्तं मुकेशस्य पोषकभूमिकायुक्तम् आदब् अर्ज़् चलच्चित्रं परिगण्यं चित्रम् । अस्मिन् समवाये वर्षत्रयं सम्पूर्य नेपथ्यगानस्य विषये अधिकं लक्ष्यं दत्तवान् । क्रि.श.१९४२-४४तमवर्षयोः "मूर्ति ", " उस् पार् " इत्यादिचित्राणां युगलगीतानि गीतवान् । तत्पश्चात् क्रि.श.१९४५तमे वर्षे "पहली नज़र् " चित्रे " दिल् जल्ता है तो जल् ने दे " इति गानं गीतवान् । अनिल् विश्वास इति ख्यास्वरसंयोजकस्य निदेशकत्वे दर्बारी रागम् अनुसृत्य रचितं गीतं मुकेशस्य चित्ररङ्गंप्रवेशस्य कारणिकस्य मोतिलालस्य च धर्मकर्मसंयोगः इति चित्रीकृतम् । गानम् अपि बहुविश्रुतम् अभवत् । विशिष्टा स्वशैली क्रि.श. १९४८तमे वर्षे "मेला ", क्रि.श.१९४९तमवर्षस्य "अन्दाज़् " चलच्चित्रे नौशादस्य सङ्गीतसंयोजने स्वीयां विशिष्टां शैलीम् निरूपितवन् । तत्रापि "अन्दाज़् " चलच्चित्रस्य "तु कहे अगर् ", "झूम् झूम् के नाचे आज़् ", "हम आज़् कहीं दिल् खो बैटे", " टूटे न दिल् टूटे न , इत्यादिषु गानेषु मुकेशस्य विशेषता दृश्यते । अस्य चित्रस्य विशेषः इत्युक्ते उपर्युक्तानि गीतानि दिलीपकुमारस्य अभिनययुक्तानि, राजकपूरस्य अभिनयार्थं महम्मद रफी गीतवान् । राजकपूरस्य गानस्वरः मुकेशः इत्येव लोके प्रथितः असीत् । क्रि.श. १९४८तमे वर्षे राजकपूरेण निर्मितात् " आग् " इति चलच्चित्रात् एतेयोः युग्मः आरब्धः । अग्रिमे वर्षे राजकपूरः शङ्करः जैकिशनः इति सङ्गीतज्ञयुग्मं स्वस्य गणे योजितवान् । अनेन अस्मिन् चलच्चित्रलोके किञ्चन नूतनयुगमेव प्रवृत्तम् । राजकपूरस्य " आवारा , श्री ४२० " इति अग्रिमचित्रयोः मूकेशस्य गानानानि न केवलं भारते रशियायां चीनायां च जनप्रियानि अभवन् । अभिनयः "आवारा "चलच्चित्रस्य पश्चात् मुकेशः अभिनये अतीव आसक्तः अभवत् । " भैरवि " इति चलच्चित्रे अभिनीतवान् । किन्तु तत् चित्रम् अपूर्णंम् अभवत् । सुरैया इत्यनेन अभिनीतं " माशुका " इति चलच्चित्रं क्रि.श. १९५२तमे वर्षे प्रदर्शितम् । रोशन् इत्यस्य सङ्गीतनिदेशनस्य एतत् चित्रम् अयशस्वि अभवत् । क्रि.श.१९५६तमे वर्षे मुकेश् फिलम्स् इति लाञ्छनस्य अधः स्वाभिनयस्य उषाकिरणः मृदुला नायिकायुक्तं " अनुरार् " इति चलच्चित्रं निर्मितवान् । अस्य सङ्गीतनिदेशनं गीतरचनम् अपि स्वयं कृतवान् । दौर्भाग्यवशात् धानादाने विफलम् अभवत् । "झूटे बन्दन् " इति चित्रनिर्माणम् उद्घुष्टवान् अपि धनाभावात् निर्मितुं नैव शक्तवान् । क्रि.श. १९५३तमे वर्षे लोकार्पितं राजकपूरस्य "आह् " इति चित्रे "छोटी सी यह ज़िन्दगानिरे " इति गीतम् अश्वरथिकस्य भूमिकाम् अभिनीय गीतवान् । एतस्मात् पश्चात् अभिनयात् विमुखः भूत्वा केवलं गायकः अभवत् । पुनः नेपथ्यगानम् किन्तु तस्मिन् काले मुकेशेन गानक्षेत्रे स्वस्थनस्य निर्मितव्यम् अभवत् । पञ्जवर्षाणि तावत् अनेन गानस्य अवकाशः न प्राप्तः । अतः आर्थिकी स्थितिः सुस्थिरा नासीत् । क्रि.श. १९५८तमे वर्षे दिलीपकुमारस्य अभिनयस्य "यहूदि " इति चलच्चित्रस्य " येह् मेरा दीवानापन् है " इति गानस्य प्रसिद्धेः पश्चात् पुनः गानावकाशः निरन्तरम् आगतः । दिलीपकुमारस्य एव "मधुमति " इति चित्रे सलिल् चौधरी इत्यस्य सङ्गीतसंयोजने गीतानि सर्वगानानि जनप्रियाणि अभवन् । पश्चात् " पर्वरिश् ", " फिर् सुबह होगी "इति चित्रस्य गानैः सह क्रि.श. १९६०तमवर्षतः क्रि.श. १९७६तमवर्षपर्यन्तम् अत्यन्तं हृद्यगीतैः मुकेशः जनमनांसि रञ्जितवान् । राजकपूरस्य सङ्गीतस्वरः इति सम्बोधितः मुकेशः मनोजकुमारस्य अभिनयार्थम् एव अधिकानि गीतवान् । अस्य अत्यधिकगीतानि कल्याणजी आनन्दजी इति युग्मसङ्गीतज्ञयोः स्वरसंयोजने एव सन्ति । नित्यनूतनगानानि मुकेशः गानस्य सन्निवेशस्य विवरणं प्राप्य तस्यां भूमिकायां परकायप्रवेशम् इव कृत्वा तस्य संवेदनं ज्ञात्वा भावम् अनुभूय गायति स्म । यथा.. क्रि.श. १९५१तमे काले प्रदर्शितास्य " अफ्साना " चलच्चित्रस्य किस्मत् बिगडी दुनिया बदली इति गीतम् । " यहूदी "चित्रस्य येह् मेरा दिवानापन् है इति गीतम् । देवर् चित्रस्य‘ बहारों ने मेरा चमन् लूट् कर् गीतम् । अपि च "आनन्द् " इति चलच्चित्रस्य " कहीं दूर् जब् दिन् डल् जाये " इति गाने मधुर्येण सह दुःखन्तर्यम् अपि अनुभोक्तुं शक्यते । यथा चित्रस्य नायकः वदति दुःखे अपि सौन्दर्यं अस्ति । गानवैविध्यम् न केवलं शोकभरितानि अवक्षेपयुतानि च न प्रेमनिवेदनस्य च गीतानि अनेकानि सन्ति । "मन् चली ", इति चलच्चित्रस्य "तन् मन् धन् सब् है तेरा ", देवस्य भजनम् भाव्यमानानि, "शारदा ", चित्रस्य "जप् जप् जप् रे मनवा जप् रे प्रीत् की माला " इत्यादीनि दुर्ललितगीतानि,च अनेन गीतानि । जनैः अधिकतया अश्रुतानि गीतानि यथा "ससुराल् " चित्रस्य " अप्ने उल्फत् पे जमाने का पेहरा होता " इति गीतम्, "मुहब्बत् इस्को कहते हैं " इति चलच्चित्रस्य " इत्ना हुस्न् पे हुज़ूर् न गुरूर् कीजिए ", एक् बार् मुस्कुरादो इति चित्रस्य " चेहरे पे ज़रा आञ्चल् " इत्यादीनि गीतानि वैविध्यस्य उदाहरणानि । क्रि.श. १९५९तमे वर्षे लोकार्पितस्य पिर् सुबह होगी चलच्चित्रस्य सामाजिकविडम्बनयुतानि ... गीतानि मुकेशः सामाजस्य परिदेवनायाः वेदनयायुतस्वरेण गीतवान् । निधनम् मुकेशः स्वस्य ५३तमं जन्मोत्सवम् आचर्य क्रि.श.१९७६तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करः इति ख्यातनेपथ्यगायिकया सह अमेरिकासंयुक्तसंस्थानस्य विविधस्थानेषु स्वस्वरमाधुर्येण सङ्गीतरसिकानां मनांसि तर्पितवान् । तत्र मिशिगन् संस्थानस्य डेट्रायिट् इति प्रदेशे वेदिकायाम् आगते सति हृदयवैफल्येन गतासुः अभवत् । पश्चात् अस्य पार्थिवशरीरं मुम्बैनगरम् आनीय अन्त्येष्टिं समाचरन् । एतदग्रिमे वर्षे तस्य कृतकर्माणां "दर्म् वी, अमर् अक्बर् अण्टोनी, खेल् खिलाडी का, चान्दी सोना," इत्यादीनि चलच्चित्राणि लोकार्पितानि । क्रि.श> १९७८तमे वर्षे अस्य स्वरयुक्तानि "आहुति , तुम्हारी कसम्, सत्यं शिवं सुन्दरम् " चलच्चित्राणि प्रदर्शितानि । एतत्पश्चादपि क्रि.श.१९९७तमवर्षपर्यन्तम् अपि अस्य पूर्वे एव गानमुद्रिकायुक्तानि चलच्चित्राणि प्रदर्शनम् प्राप्तानि । अस्य स्वरयुक्तम् अन्तिमं चित्रं चान्द् ग्रहण् इति । मुख्याः जीवनघटनाः क्रि.श.१९२३तमे वर्षे - जननम् । क्रि.श.१९४०तमे वर्षे - देहल्याः एच्.एम्.वि.ध्वनिमुद्रणालये प्रथमगानमुद्रणम् । क्रि.श.१९४१तमे वर्षे - अस्य अभिनययुक्तं प्रथमचलच्चित्रं "निर्दोष् " लोकार्पणम् । क्रि.श.१९४५ तमे वर्षे - पेहली नज़र् चित्रस्य " दिल् जल्ता है तो जलने दे " । क्रि.श.१९४६तमे वर्षे - सरला त्रिवेदी इत्यनया सह विवाहः । क्रि.श.१९४८तमे वर्षे - राजकपूरस्य निर्माणस्य प्रथमचित्रम् आग् इत्यस्मिन् गानम् । क्रि.श.१९५२तमे वर्षे - अस्य अभिनयस्य अन्तममं चित्रं, राजकपूरस्य आह् चित्रस्य गानं "छोटीसी यह ज़िन्दगानी रे " । क्रि.श.१९५९तमे वर्षे - राजकपूरनिर्मितस्य "अनाडी " चित्रस्य गानार्थं प्रथमा फिल्म् फेर् प्रशस्तिः । क्रि.श.१९६२तमे वर्षे - बि.बि.सी.मध्ये अस्य सन्द्रर्शनस्य प्रसारः, लण्डन् इङ्ग्लेण्ड् नगरयोः सङ्गीतगोष्ठ्यः । क्रि.श.१९७४तमे वर्षे - रजनीगन्ध इति चित्रस्य " कयीं बार् योंही देखा हैं " गानार्थं राष्ट्रीयप्रशस्तिप्राप्तिः । क्रि.श.१९७६तमे वर्षे - इहलोकत्यागः । अनेन गीतानि चलच्चित्राणि पहली नज़र (१९४५) मेला (१९४८) आग (१९४८) अन्दाज़ (१९४९) आवारा (१९५१) श्री ४२० (१९५५) परवरिश (१९५८) अनाडी (१९५९) सन्गम (१९६४) मेरा नाम जोकर (१९७०) धरम करम (१९७५) प्रशास्तिपुरस्काराः राष्ट्रियप्रशस्तयः क्रि.श.१९७४तमे वर्षे "रजनीगन्ध इति हिन्दीभाषाचलच्चित्रस्य क्यी बार् योंही देखा है गानार्थम् एषा प्रशस्तिः प्रदत्ता । फिल्म् फेर् प्रशस्तयः क्रि.श. १९५९तमे वर्षे, अनाडी चित्रस्य "सब् कुछ् सीका हम्ने " गानार्थम् । क्रि.श. १९७०तमे वर्षे, पहचान् चित्रस्य " सब् से बडा नादान् " गानार्थम् । क्रि.श. १९७२ तमे वर्षे बे इमान् चित्रस्य " जै बोलो बे इमान् की " गानार्थम् । क्रि.श. १९७६तमे वर्षे कभी कभी चित्रस्य " कभी कभी मेरे दिल् में गानार्थम् । चलच्चित्रगायकाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
2459
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A4%B9%E0%A4%82%E0%A4%B8%E0%A4%83
श्रीरामकृष्णपरमहंसः
श्रीरामकृष्णपरमहंसः (बाङ्गला: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय)(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) भारते जन्म कश्चन महान् धर्मोपदेशकः। पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्। बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकटयन्नवर्तत। स्वामिविवेकानन्दस्य गुरुः आसीत् सः। एतौ द्वाऽपि बङ्गनवजगरणस्य तथा विंशशताब्द्याः हिन्दुनवजागरणस्य अग्रगण्यौ । अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः । तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत् । तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्। तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्। तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत् । सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्। "देहि मे दर्शन"मिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च। तेनैव निर्दिष्टा शारदामणि नामिका बालिका एवं तस्य धर्मपत्नी अभवत्। पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन् । १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः । एतेषाम् अनुगामिनां नेतृत्वं स्वामी विवेकानन्दः कृतवान् । विवेकानन्दः रामकृष्ण मिशन् इति एकां धर्मीयसंस्थां निर्मितवान् । रामकृष्णान्दोलनं भारतस्य अन्यतमं नवजागरणान्दोलनम् । रामकृष्ण मिशन्-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे) विद्यामानाः सन्ति । अस्याः संस्थायाः प्रधानकार्यालयः पश्चिमबङ्गराज्यस्य हावडानगरस्य बेलुर मठे अवस्थितः । जीवनम् जन्म शैशवश्च पश्चिमवङ्गराज्यस्य हुगलिमण्डलस्य कामारपुकुरग्रामे १८३६ तमे वर्षे एकः दरिद्र-धर्मनिष्ठ-रक्षणशील-ब्राह्मणपरिवारे रामकृष्णपरमहंसः अजायत । तस्य पितरौ क्षुदिराम चट्टोपाध्याय तथा चन्द्रमणि देवी च आस्ताम् । एतयोः चतुर्थपुत्रः आसीत् अयं रामकृष्णः । कथितम् अस्ति यत् श्रीरामकृष्णस्य जननात् प्राग् पितामातुः जीवने बह्वः अलौकिकघटनाः घटिताः आसन् । शिवलिङ्गतः ज्योतिः तस्याः गर्भे प्रविष्टा इति सन्तानसम्भवा चन्द्रमणि देवी दृष्टवती आसीत् । तस्य पिता क्षुदिरामः तीर्थभ्रमणसमये गयायां गदाधरविष्णोः दर्शनम् प्राप्नोत् । एतस्मात् सः नवजातस्य शिशोः नामकरणं गदाधर इति कृतवान् । शैशवकाले गदाइ इति नाम्ना परिचितः गदाधरः ग्रामवासीजनेषु अतिप्रीयः आसीत् । अङ्कने तथा मृत्प्रतिमानिर्माणे तस्य दक्षता सहजाता आसीत् । तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्परन्तु गानवाद्यवादने, यात्राभिनये, धर्मीयोपाख्याने सः पारदर्शी आसीत् । तीर्थयात्री-संन्यासी-पुरणकथाव्याख्याकाराणां संससर्गेण अत्यल्पे वयसि एव पुराण-रामायण-महाभारतं तथा भागवतादिविषयेषु व्युत्पत्तिम् अर्जितवान् गदाधरः ।मातृभाषाबाङ्गलायां केवलम् अक्षरज्ञानं तस्य आसीत् ; किन्तु संस्कृतानुधाने समर्थः भूत्वाऽपि सम्भाषणे अपारगः आसीत् । पुरीतीर्थगमनमार्गे कामारपुकुरग्रामे विश्रामरतपथिकजनानां सेवाकार्यं सः अकरोत् । तस्मिन् समये तेषां धर्मीयतर्कवितर्कान् मनसा शृणोति स्म गदाधरः । श्रीरामकृष्णस्य स्मृतिचारणा इति पुस्तकात् ज्ञायते यत् सप्तमे वयसि एव रामकृष्णस्य आध्यात्मिकभावतन्मयता अगच्छति स्म । एकदा धान्यकृषिभूमौ चलनसमये आकाशे कृष्णमेघस्य उपरि श्वेतबलाकानां सौन्दर्येण मोहितः भूत्वा बाह्यज्ञानशून्यः सः अभूत् । अनन्तरकाले तस्य ताम् अवस्थाम् अनिर्वचनीयानन्दस्य अभिज्ञतारूपेण वणितवान् । बाल्यकाले इतोपि कतिपय वारं तस्य अनुरूपं भावतन्मयता दृश्यते स्म । १८४३ तमे वर्षे तस्य पिता दिवङ्गतः । समग्रपरिवारस्य परिपालनदायित्वम् अग्रजस्य रामकुमारस्य उपरि आपतितम् आसीत् । इयं घटना गदाधरस्य मनसि गभीरप्रभावं विस्तारितवती । धर्मीयजीवनयापनस्य इच्छा इतोऽपि दृढा अभवत् । नित्यगृहस्य कार्ये, गृहदेवतायाः पूजायां च गदाधरः अधिकसमयं व्ययं करोति स्म । प्रायशः आत्ममग्नः भवति स्म धर्मीयमहाकाव्यपाठसमये । गदाधरस्य यदा किशोरावस्था तदा परिवारे आर्थिकसङ्कटम् अभवत् । अग्रजः राजकुमारः कोलकातायां एकं संस्कृतपाठशालां (बाङ्गला- সংস্কৃত টোল, संस्कृत टोल्) आरब्धवान् । अतिरिक्ते समये सः पौरहित्यं करोति स्म । १८५२ तमे वर्षे अग्रजस्य सहायतां कर्तुं गदाधरः कोलकातां गतवान् । दक्षिणेश्वरस्य कालीमन्दिरे पौरहित्यम् १८५५ तमवर्षे कोलकातायाः अस्पृश्य-कैवर्तसमाजस्य धनी सामन्तपत्नी राणी रासमणि दक्षिणेश्वरप्रदेशे कालीदेव्याः मन्दिरं निर्मितवती । मन्दिरस्य प्रधानार्चकरूपेण रामकृष्णस्य अग्रजः रामकुमारः नियुक्तः आसीत् । गदाधरोपि सहकारी अर्चकरूपेण प्रतिमायाः अलङ्करणं दायित्वेन स्वीकृतवान् । १८५६ तमे वर्षे रामकुमारस्य परलोकप्राप्त्यां सत्यां गदाधरः मन्दिरस्य प्रधानपुरोहितरूपेण अभिषिक्तः जातः । मन्दिरस्य ईषाणकोणे तस्य प्रकोष्ठः आसीत् । जीवनान्तपर्यन्तं सः अस्मिन् प्रकोष्ठे निवासं कृतवान् आसीत् । एवमनुमियते यत् राणी रासमण्याः जामाता मथुरामोहन विश्वास- महोदायेनैव रामकृष्णः नाम प्रदत्तमासीत् । अन्यमतानुसारं, इदं नाम तोतापुरी गुरुणा दत्तमासीत् । रामकुमारस्य परलोकगमनोत्तरं रामकृष्णस्य भावतन्मयता अधिका जाता आसीत् । कालीदेवीं मातारूपेण तथा विश्वजननीरूपेण सः प्रत्यक्षितवान् । अस्मिन् समये देव्याः प्रत्यक्षरूपदर्शनाय तस्य मनः व्यकुलम् अभवत् । तस्य विश्वासेन पाषाणप्रतिमाऽपि अन्नग्रहणं करोति स्म । पूजावसरे देव्याः दर्शनम् अप्राप्य सः कदाचीत् उच्चैः क्रन्दनं करोति स्म । रात्रिकाले निकटवर्ती वनं गत्वा सः निर्जने स्थले वस्त्रोपवीत् त्यक्त्वा ध्यानं करोति स्म केचन उक्तवन्तः एषः उन्मत्तः जातः, अपरे तु मन्वन्ते स्म इश्वरप्रेम्नि आकुलः सः । टिप्पणी जालस्थाने पठनसामग्री पुस्तकानि (reprint, orig. 1965) शोधपत्राणि अधिकपठनाय Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5 बाह्यसम्पर्काः रामकृष्णमठस्य मुख्यकार्यालयस्य आधिकारिकजालस्थानम् रामकृष्णमठस्य सदस्याः आधुनिकधार्मिकव्यक्तयः बाह्यानुबन्धः योजनीयः विषयः वर्धनीयः पश्चिमवङ्गस्य धार्मिकव्यक्तयः सारमञ्जूषा योजनीया‎
2460
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%83
कृष्णदेवरायः
कृष्णदेवरायः विजयनगर साम्राज्यस्य तुळुवा वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः । नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म । अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति । सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती । बाह्यसम्पर्कतन्तुः Sreekrishnadevaraya history The Golden Era of Telugu Literature from the Vepachedu Educational Foundation Krishnadevaraya's complex at Tirupati Statutes of Krishnadevaraya and his wives at Tirupati. Gold coins issued during Krishnadevaraya's reign A Forgotten Empire (Vijayanagar): a contribution to the history of India ऐतिहासिकराजाः भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
2463
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A5%81%E0%A4%B0%E0%A4%B2%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%83
बालमुरलीकृष्णः
मङ्गलंपल्लि बालमुरली कृष्ण (M. Balamuralikrishna) कर्णाटकशास्त्रीयसङ्गीतस्य कश्चित् महागायकः, कृतिकारः वाद्यकारः च अस्ति। एतावताकालेन ४००अधिकाः कृतीः रचितवान् १८सहस्राधिकसङ्गीतगोष्ठीः सञ्चालितवान् । २५०अधिकाः सङ्गीतध्वनिमुद्रिकाः लोकाय प्रदत्तवान् । बाल्यं सङ्गीतसाङ्गत्यम् डा. मङ्गळम्पल्लि बालमुरलीकृष्णः क्रि.श. १९३० तमे वर्षे जुलै मासस्य षष्टे दिनाङ्के आन्ध्रप्रदेशराज्यस्य गोदावरीपूर्वमण्डलस्य रोजुलु इति जनपदस्य सङ्करगुपन् इति ग्रामे अजायत । अस्य बाल्यनाम मुरलीकृष्णः इति । किन्तु तस्य ग्रामस्य प्रसिद्धः हरिकथाविद्वान् नारायणः मुरलीकृष्ण इति नाम्नः मूले बाल इति पदं योजितवान् । गृहे एव सङ्गीतवातावरणम् आसीत् । पिता पट्टाभिरामय्यः वंशीवीणाबाहुलीनावादकः । माता सूर्यकान्तम्मा श्रेष्ठा वीणावादिनी । बालमुरलीकृष्णः यदा पञ्चदशे वयसि आसीत् तदा तस्य माता दिवङ्गता । अस्य पितृभगिनी एतं विजयवाडप्रदेशं नीत्वा स्वगृहे पोषितवती । बाल्यादारभ्य अस्य पिता सङ्गीतस्य प्राथमिकगुरुः । पितुः सङ्गीतासक्तिः पुत्रम् अपि प्रभावितवती । पिता सङ्गीताक्त्याः उत्तुङ्गे विद्यमानं पुत्रं सुसर्ल दक्षिणामूर्तिः इत्यस्य आश्रये सङ्गीतम् अध्येतुम् न्यस्तवान् । कतिपयेषु एव वर्षेषु बालमुरलिकृष्णः ७२रागान् वीतवान् । क्रि.श. १९६० तमे वर्षे विजयवाडस्य आकाशवाणीकेन्द्रस्य भक्तिरञ्जिनी इति प्रातःकालस्य कार्यक्रमे गीतमालाम् आरभ्य बहुजनप्रियः अभवत् । प्रयोगशीलः सङ्गीतविद्वान् बालमुरलीकृष्णः कर्णाटकसङ्गीतस्य मेरुगायकः । रागस्य तालस्य गानस्य पल्लव्याः च नूतनप्रयोगानां जनकः । भारतदेशस्य महत्सु वाग्गेयकारेषु अन्यतमः । देशविदेशेषु अनेकाः सङ्गीतगोष्ठीः समचालयत् । तेलुगुभाषा, संस्कृतभाषा, कन्नडभाषा, तमिळुभाषा, मलयाळभाषा, इत्यादिषु भाषासु शास्त्रीयतगीतानि गीतवान् । अपि च एतासु भाषासु चलच्चित्रगीतानि अपि गीतवान् सम्भाषणस्य कण्ठदानं च कृतवान् । क्रि.शा. १९३८ तमे वर्षे प्रचालिते सद्गुर्वाराधनामहोत्सवे स्वस्य प्रथमसङ्गीतगोष्ठीं प्रदर्शितवान् । तदा अस्य आयुः केवलं ८वर्षाणि । गानम् अतिरिच्य बाहुलीनां, खञ्जिरं, वंशीं सन्तोषेण वादयति स्म । विजयवाडस्य सर्वकारीयसर्ङ्गीतविद्यालयस्य प्राम्शुपालत्वेन सेवाम् अकरोत् । अभिनये निपुणः नैव किन्तु वाग्गेयकारः, कविः, सर्वदा नूतनस्य संशोधकः। स्विट्ज़र्ल्याण्ड् देशे Academy of Performing arts & Research इति संस्थाम् अस्थापयत् । कलासंस्कृतीनाम् अभिवृध्यर्थे मद्रास्(चेन्नै) नगरे एम्.बि.के.ट्रस्ट् इति संस्थाम् आरभ्य तया सङ्गीतनृत्यशालां सञ्चालयति । 'सन्ध्या केन्दिन सिन्धूरम्' इति मलयाळभाषाचलच्चित्रे प्रमुखभूमिकां निरूढवान् । सङ्गीतेन सह अस्य प्रियतरः वि़षयः नाम सुग्रासभिजनं मन्दं दीर्घकालपर्यन्तं कर्तुम् अस्य मनः इच्छति । अन्नसारयोः भोजनम् अतीव प्रियतरम् । भर्जितभक्ष्यानि, पयोहिमः इत्यादीनि अपि प्रियाणि । =प्रियं मनोरञ्जनम् गृहे बालैः सह खेलनम्, दूरदर्शनवाहिनिषु कार्यक्रमाणां वीक्षणम्, विदेशगमने धननिष्कानि उपयुज्य सभिकक्रीडा, इत्यादीनि बालमुरलीकृष्णस्य प्रियानि सद्व्यसनानि । सङ्गीतमेव मुख्यव्यसनम् बालमुरलीकृष्णः अपूर्वान् नूतनरागान् संयोजितवान् । पूर्वं पञ्चस्वरैः विना रागः न रञ्जयति इति सम्प्रदायः आसीत् । एतत् अतिरिच्य त्रयाणां चतुर्णां वा स्वराणां रागान् गीतवान् । अस्य कानिचन रागरचनानि एवं सन्ति । महती, सुमुखम्, त्रिशक्तिः, सर्वश्रीः, ओङ्कारी, जनसम्मोदिनी, मनोरमा, रोहिणि, वल्ल्भी, लवङ्गी, सुसमः इत्यादयः । बालमुरलीकृष्णः काश्चन नूतनकृतीः अपि रचितवान् सङ्गीतस्य नूतनकन्तिं, चिकित्सां च कुर्वन् शोधितवान् । वर्णं तिल्लानविष्यकं सूर्यकान्तिः इति रचनस्य विषये चतृसु भाषासु शोधग्रन्थाः सन्ति । बेङ्गळूरुमहानगरस्य गायनसमाजः इति सभाङ्गणे आयोजिते भक्तिभारतीप्रतिष्ठानस्य " पुरन्दरदसोत्सवे " सङ्गीतगोष्ठीं प्रदर्शितवान् । एषः न केवलं भारतम् अमेरिका, केनडा, इटलि, फ्रान्स्, रष्या, श्रीलङ्का, मलेष्या, सिङ्गपुर, इत्यादिषु देशेषु २०सहस्राधिकाः सङ्गीतगोष्ठीः प्रदर्शितवान् । शताधिकाः गीतगुच्छानां ध्वनिमुद्रिकाः लोकार्पिताः । अनेन स्वरनिबद्धाः महादेवसुतं, श्रीसकलगणाधिप, गङ्गणपते इत्यादयः कृतयः बहुजनप्रियाः सन्ति । प्रशस्तिपुरस्काराः आन्ध्रप्रदेशसराज्यस्य विश्वविद्यालयात् गौरवडाक्टरेट् ,डि.लिट्, डि.एस्.सि इत्यादयः उपाधयः । क्रि.श. १९७८तमे वर्षे सङ्गीतकलानिधिप्रशस्तिः क्रि.श. १९९२ तमे वर्षे विस्डम् म्यान् आफ् द् यियर् प्रशस्तिः । क्रि.श. १९९६ तमे वर्षे नादब्रह्मनृत्यालयप्रशस्तिः । ईस्तेटिक् सङ्घस्य प्रशस्तिः । पद्मभूषणप्रशस्तिः अत्युत्तमनेपथ्यगायकप्रशस्तिः । मध्वाचार्यः इति चलच्चित्रस्य सङ्गीतनिर्दॆर्शनार्थम् अत्युत्तमसङ्गीतनिदेशकप्रशस्तिः । तिरुपतेः [[तिरुमलदेवस्थानस्य, शृङ्गीरीपीठस्य, नञ्जनल्लूरु आञ्जनेयस्वामी देवस्थानस्य आस्थानविद्वान् इति गौरवपुरस्कारः । बाह्यानुबन्धाः Murali and Me: A tribute to the Great Master by Prince Aswathi Thirunal Rama Varma. Carnatic music maestro Balamuralikrishna and his favourite student Rama Varma sharing experiences. Dr. Balamuralikrishna on Tradition Dr. Balamuralikrishna with his musicians in Switzerland in 1992. कर्णाटकसङ्गीतगायकाः विषयः वर्धनीयः
2722
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%B8%E0%A4%BF%E0%A4%82%E0%A4%B9%E0%A4%83
अमरसिंहः
अमरसिंहः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एको बभूव। सो ऽमरकोषस्य कर्ता बभूव। अमरसिंहस् (Amarsimha) तस्य अमरकोश इति कोशेनैव विश्वप्रसिद्धोऽस्ति । संस्कृतवाङ्मये ईदानीमपि शब्दकोशस्य अनन्यो ग्रन्थोऽमरकोश इति प्रसिद्धो नामलिङ्गानुशासनम् । कि.श.३७५तमे वर्षे कविर्व्याकरणज्ञः चन्द्रगुप्तविक्रमादित्यस्य आस्थाने बभूव । अस्य जीवनविषये विशेषज्ञानम् उपलब्धं नास्ति । अमरसिंहो मूलतो बौद्धमतानुयायी इति कथयते । तस्य अपूर्वा कृतिर् नामालिङ्गानुशासनमेव सर्वसंस्कृताध्येतॄणां प्रमाणभूतो विश्वकोशः। एतस्मिन् ग्रन्थे त्रयः काण्डा दशसहस्रपदानि व्यवस्थितानि। स्मृतिपथे रक्षणस्य आनुकूल्यार्थे सर्वे श्लोकरूपेण सन्ति । क्रि.श.१७९८तमे वर्षे अमरकोशः प्रथमतस् तमिळुलिप्या रोम् नगरे मुद्रापितः। क्रि.श.१९२७तमे वर्षे कन्नडभाषया अपि चतुर्थवारं प्रकाशिते अस्मिन् ग्रन्थे त्रयः काण्डाः २५सर्गास्सन्ति । बाह्यसम्पर्कतन्तुः अमरकोशः संस्कृतकवयः संचित्रसारमञ्जूषे योजनीये स्टब्स् भारतसम्बद्धाः सर्वे अपूर्णलेखाः प्रथमशताब्द्याः कवयः
2804
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%95%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D
किष्किन्धाकाण्डम्
किष्किन्धाकाण्डस्य कथा वानराणां वासस्थलम् अस्ति किष्किन्धा । रामलक्ष्मणौ वानरनायकं हनुमन्तम् अत्र एव अमिलताम् । किष्किन्धाधिपत्यात् च्युतः सुग्रीवः अपि अत्र मिलितः । रामः सुग्रीवसख्यम् अकरोत् । तस्य ज्येष्ठभ्रातुः वालिनः हननं कृत्वा सुग्रीवाय किष्किन्धासाम्राज्यं पुनः अदास्यत् रामः । सुग्रीवेण सीतायाः अन्वेषणे साहाय्यं कर्तव्यम् इति अङ्गीकृतम् आसीत् । किन्तु सिंहासनारोहणानन्तरं सुग्रीवः इदं सर्वं विस्मृतवान् । सः आमोदप्रमोदेषु मग्नः जातः । एतेन परमक्रुद्धः लक्ष्मणः किष्किन्धायाः विनाशने उद्यतः जातः । वानरराज्ञी तारा मध्ये प्रविश्य लक्ष्मणं सान्त्वयति । सुग्रीवम् उद्दिश्य स्वस्य वचनपालनं क्रियताम् इति सूचयति । ततः सुग्रीवः सीतायाः अन्वेषणाय चतुसॄषु दिक्षु अनुचरान् प्रेषयिष्यति । किन्तु पूर्व-पश्चिम-उत्तरदिक्तः अनुचराः रिक्तहस्ताः सन्तः प्रत्यागताः । दक्षिणदिशि प्रस्थितवतां नायकौ आस्ताम् अङ्गदः हनुमान् च । पक्षिणा सम्पातिना तैः ज्ञातं यत् सीता लाङ्कां प्रति नीता इति । किष्किन्धाकाण्डस्य केचन नीतिश्लोकाः १ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।    सोत्साहस्यास्ति लोकेऽस्मिन्न किञ्चिदपि दुर्लभम् ॥ (१ - १२२) २ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।    निर्दोषो वा सुदोषो वा वयस्यः परमा गतिः ॥ (८ -८) ३ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम ।    हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ (१८ -१५) ४ नियतिः कारणं लोके नियतिः कर्मसाधनम् ।    नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ (२५-४) ५ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।    निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ (३४ - १२) Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/सुन्दरकाण्डम् रामायणस्य काण्डानि विषयः वर्धनीयः सारमञ्जूषा योजनीया‎
2931
https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A4%AF%E0%A4%BF%E0%A4%A8%E0%A5%80%20%28%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A5%80%E0%A4%A8%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D%29
उज्जयिनी (प्राचीनभारतम्)
क्षिप्रानद्याः तीरे स्थितम् उज्जयिनीनगरम् अतीव प्राचीनम् अस्ति । पूर्वम् अस्य नगरस्य अवन्ती अथवा अवन्तिका इति नाम आसीत् बिन्दुसारस्य काले पाटलीपुत्रं राजधानी आसीत् । कालिदासनगरी इत्यपि निर्दिश्यते ।क्रिस्ताब्दे ३८० वर्षतः ४१४ पर्यन्तं चन्द्रगुप्तः-२ प्रशासनं कृतवान् । तस्य विक्रमादित्यः इति अपरं नाम आसीत् । तदा तस्य आस्थाने कालिदासादयः नवकवयः ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् । तस्मिन् काले उज्जयिनी राजधानी आसीत् । कालिदासः स्वीये काव्ये मेघदूते उज्जयिनीवर्णन अत्यन्तम् उत्तमतया कृतवान् । अग्रे रजपूतानां सिन्धियावंशीयानां मोगलवंशीयानां च प्रशासनकेन्द्रमासीत् । उज्जयिनीनगरे स्थितं महाकालेश्वरमन्दिरम् अतीवप्रसिद्धम् अस्ति । उज्जयिनी महाकाललिङ्गं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् इति प्रख्यातमस्ति । उज्जयिनीतः ८ कि.मी दूरे मण्डुसुल्तानवंशीयानां जलविलासराजगृहम् अस्ति । शिप्रानद्या निर्मिते द्वीपे स्थित्वा एतत् रागगृहं द्रष्टव्यम् । प्रति द्वादशे वर्षे अत्र सिंहस्था कुम्भमेला भविष्यति । भगवतः शिवस्य द्वादश ज्योतिर्लिङ्गेषु अन्यतमं महाकालमन्दिरम् अस्मिन् नगरे विद्यते । इदं नगरं मध्यप्रदेशस्य बृहत्तमात् इन्दोर्महानगरात् ५५ कि मी दूरे विद्यते । इदं मन्दिराणां नगरमस्ति । अत्रत्या जनसङ्ख्या सामान्यतः ४ लक्षमिता वर्तते । इतिहासः उज्जयिन्याः राजनैतिकेतिहासः सुदीर्घः वर्तते । महाभारते उल्लेखः अस्ति यत् कृष्णः बलरामश्च विद्याभ्यासाय सान्दीपनी-आश्रमम् आगतौ आस्ताम् । कृष्णस्य पत्नीषु अन्यतमा मित्रवृन्दा उज्जयिन्याः राजकुमारी आसीत् । तस्याः विन्द-अनुविन्दनामकौ भ्रातरौ युद्धे कौरवपक्षीयौ सन्तौ वीरगतिं प्राप्तवन्तौ । उज्जयिन्याः चण्डप्रद्योतनामकः राजा अत्यन्तं प्रतापी आसीत् । तस्मात् अन्ये राजानः बिभ्यति स्म । तस्य दुहिता वासवदत्ता वत्सनरेशस्य पुत्रे उदयने अनुरक्ता आसीत् । तयोः प्रणयगाथा इतिहासप्रसिद्धा वर्तते । महाकविः कालिदासः विक्रमादित्यस्य साम्राज्ये विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । उज्जयिनी तस्य अत्यन्तं प्रिया आसीत् । तेन अत्रत्यः प्राचीनः वैभवः स्वयम् अवलोकिताः आसन् । तत्रत्या वैभवशालिनी अट्टालिका, उदयन-वासवदत्तयोः प्रणयगाथा, भगवतः महाकालस्य सन्ध्याकालीनं नीराजनं, क्षिप्रानद्याः पौराणिकमहत्त्वञ्च तस्य सुपरिचितम् आसीत् । अतः एव तेन काव्येषु उज्जयिन्याः मनोहरं वर्णनं कृतवान् अस्ति । सम्राट् विक्रमादित्यः महाकवेः कालिदासस्य आश्रयदातृरूपेण प्रसिद्धः अस्ति । उज्जयिन्याः इतिहासः ६ शतकात् उपलभ्यते । तस्मिन् समये भारते १६ मण्डलानि आसन् । तेषु आवन्ती अपि अन्यतमा आसीत् । आवन्ती द्विधा विभक्ता आसीत् । उत्तरभागस्य राजधानी उज्जयिनी आसीत्, दक्षिणभागस्य राजधानी महिष्मती आसीत् । तस्मिन् समये चन्द्रप्रद्योतनामकः साम्राट् आसीत् । प्रद्योतवंशजाः त्रिशतकं यावत् शासनम् अकुर्वन् । मौर्यसाम्राज्यम् मौर्यसम्राट् चन्द्रगुप्तः अत्र आगतः आसीत् । तस्य पुत्रः अशोकः अत्र राज्यपालनम् अकरोत् । तस्य पत्नी वेदिसादेवी । पुत्रौ महेन्द्रः सङ्घमित्रा च । महेन्द्रः बौद्धधर्मस्य प्रचारकः आसीत् । बाह्यसम्पर्कतन्तुः Online Ujjain Guide Official website of Ujjain Tourism Official website of Ujjain Official website of Ujjain Yoga LIfe Society Ujjain buzz Mahakaleshwar Temple, Ujjain On India Tours /for detail information of ujjan भारतस्य प्राचीनस्थानानि विषयः वर्धनीयः चित्रं योजनीयम् भारतस्य तीर्थक्षेत्राणि
2932
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B0%E0%A5%8B%E0%A4%AA%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83
परोपकारः
परस्य हितसाधनं सज्जनाः कर्तव्यम् इति भावयन्ति । यत् कर्म मनुष्याणां हिताय कल्पते, तादृशं मानवोचितं कर्म यदि वयम् आचरेम तर्हि इतरे जनाः तदुपकारं लब्ध्वा प्रीताः सन्तः सुखेन जीवन्ति । तेन च अस्माकं मनसि सन्तोषः जायते । एतेन एव समाजस्य प्रभूतः उपकारः संसाधितः भविष्यति । समाजस्य उपकारेण एव राष्ट्रस्य समृद्धिः भवति । अतः व्यासमुनेः वचनमिदं सर्वदा स्मरणीयं स्यात् - 'परोपकारः पुण्याय पापाय परपीडनम्' इति । एतस्मिन् प्रसङ्गे सर्वदा प्रकृतिः एव अस्माकं दृष्टान्तस्वरूपा भवति । सूर्यः लोकस्य उपकाराय आलोकं(प्रकाशं) ददाति । चन्द्रानिलनलाः परोपकाराय एव सन्ति । पञ्चमहाभूतानां सृष्टिः विश्वस्य हितसाधनाय एव जाता । तथैव मेघाः नद्यः वृक्षाः गावः परोपकारार्थम् एव जीवन्ति । अस्मिन् विषये सुभाषितमेकम् अत्यन्तं प्रसिद्धम् अस्ति । परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ शरणापन्नं कपोतं स्वशारीरस्य विनिमयेन रक्षयितुं सिद्धस्य परोपकारिणः शिबेः कथा सर्वविदिता एव । 'प्राणैरपि धनैरपि शरणापन्नस्य जीवनरक्षा मनुष्यस्य परमोधर्मः' इति तस्य चिन्तनम् आसीत् । श्येनस्य क्षुधानिवारणाय कपोतरक्षणाय च स्वशरीरं समर्पयितुं सिद्धः शिबिः वदति- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ इति। अतः वयं सर्वे मानवाः परोपकारार्थं कृतसङ्कल्पाः भवामः । बहुजनहिताय त्यागार्थं सन्नद्धाः स्याम । सामाजिकगुणाः चित्रं योजनीयम्‎ बाह्यानुबन्धः योजनीयः श्टब्स् संस्कृतसम्बद्धाः सारमञ्जूषा योजनीया‎ सर्वे अपूर्णलेखाः सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4004
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A5%81%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%88%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%BE%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%83%20%E0%A4%8F%E0%A4%B5%E0%A4%82%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B9%E0%A4%A8%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%28%E0%A4%AC%E0%A5%87%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A5%8D%29
बृहन्मुम्बै विद्युतापूर्तिः एवं परिवहनसंस्था(बेस्ट्)
बेस्ट बंम्बई की बिजली कंपनी है। बाह्यसम्पर्कतन्तुः BEST Undertaking – Official site of the BEST. वाणिज्यसंस्थाः महाराष्ट्रराज्यसम्बद्धाः स्टब्स् चित्रं योजनीयम् सर्वे अपूर्णलेखाः
4031
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%B5%E0%A5%80%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%B6%E0%A4%BE%E0%A4%B9%E0%A4%A6%E0%A5%87%E0%A4%B5
ज्ञानेन्‍द्र वीरविक्रमशाहदेव
ज्ञानेन्द्र बीर विक्रम नेपालदेशस्य नृप महेन्द्रस्य द्वितीय पुत्ररूपे विक्रम सम्बत २००४ वर्षे उद्वोदित। तस्य जन्मकाले एकतन्त्री राणा शासन विद्यमान आसित्। नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः नेपालदेशस्य जनाः सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
4104
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%A6%E0%A4%BE%E0%A4%B8
देवदास
उपन्यास (Devdas)देवदास हिन्दी उपन्यास शरतचन्द्र चट्टोपाध्याय लिखित चलचित्र देवदास_(1935_फ़िल्म) (हिन्दी विकिपीडिया) कुन्दन लाल सहगल अभिनीत देवदास_(1955_फ़िल्म) (हिन्दी विकिपीडिया) दिलीप कुमार, वैजयन्ती माला अभिनीत देवदास_(2002_फ़िल्म) (हिन्दी विकिपीडिया) शाहरुख़ ख़ान, माधुरी दीक्षित, ऐश्वर्या राय अभिनीत हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः
4150
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BE%E0%A4%B8%20%E0%A4%8F%E0%A4%82%E0%A4%9C%E0%A4%B2%E0%A4%B8
लास एंजलस
लास एंजलस केलिफोर्निया प्रदेशस्य नागरी अस्ति। केलिफोर्निया प्रदेशस्य जनाकिर्णतमा नगरी अस्ति। विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4168
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D
व्याकरणम्
व्याकरणं नाम वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सर-पदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्। शब्दार्थः व्याकरणस्य व्युत्पत्तिलभ्योऽर्थोऽस्ति पदमीमांसाकरं शास्त्रम्। व्याकरण --> वि + आङ् + कृ + ल्युट् > व्याक्रियन्ते व्युत्पाद्यन्ते विशोध्यन्ते साधुशब्दाः अनेनेति व्याकरणम्। महत्त्वम् एतद्वेदस्य मुखत्वेन स्मृतम् - 'मुखं व्याकरणं स्मृतम्।' भाषा लोकव्यवहारं प्रवर्तयति। यदि भाषा न स्यात्, तर्हि जगदिदमन्धेतमसि मज्जेत्। यथोक्तं दण्डिना - 'इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम्। यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥' भाषायाः शुद्धये व्याकरणस्य अपेक्षा भवत्येव। न हि व्याकरणज्ञानशून्यो जनः साधून् शब्दान् प्रयोक्तुं शक्नोति। स्वयम् ऋक्संहितायाम् अस्य व्याकरणशास्त्रस्य प्रशंसायाम् अनेके मन्त्राः भिन्न-भिन्नस्थानेषूपलब्धा भवन्ति। ऋग्वेदस्यैकस्मिन् सुप्रसिद्धमन्त्रे व्याकरणं वृषभस्य रूपकत्वेन प्रतिपादितमस्ति - 'चत्वारि शृङ्गाः त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्ता सोऽस्य। त्रिधाबद्धो वृषभो रोरवीति महोदेवो मर्त्याम् आविवेश।।' अस्य वृषभरूपी व्याकरणस्य चत्वारि शृंङ्गाणि सन्ति - नाम-आख्यात-उपसर्ग-निपात-रूपाणि। त्रिपादोऽस्य भूत-भविष्य-वर्तमानाः। सुप्तिङन्तश्च द्वे शीर्षे स्तः, सप्तविभक्तयश्च सप्तहस्ताः सन्ति। उरसि शिरसि च कण्ठे त्रिधाबद्धो वृषभोऽयमस्ति। एवंविधव्याकरणज्ञानाद् योऽनभिज्ञोऽस्ति, सः जानन्नपि न जानाति, पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोति। किञ्च यो हि जनो व्याकरणशास्त्रज्ञोऽस्ति, तत्सन्निधौ वाणी सुसज्जिता कामिनी इव समागत्य सर्वतोभावेन समर्पिता भवति — 'उतत्वः पश्यन् न ददर्श वाचम् उतत्वः शृण्वन् न शृणोत्येनाम्। उतोत्वस्मै तन्वं विसले जायेव पत्ये उशती सुवासाः।।' अाचार्यवररुचिः व्याकरणशास्त्रस्य महनीयतां गायन् यदा तदध्ययनप्रयोजनानि पञ्च प्रतिपादयति, तदा महर्षिः पतञ्जलिः तदध्ययनप्रयोजनानि त्रयोदश ब्रूते। तेन हि व्याकरणशास्त्रं नितरां प्राचीनं शास्त्रमस्ति। न हि व्याकरणज्ञानशून्यः साधून् शब्दान् प्रयोक्तुमीशः। वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्। 'रक्षार्थवेदाध्ययनमध्येयं व्याकरणं, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति' इति पतञ्जलिः। वेदरक्षाक्षमतयैव व्याकरणस्य वेदाङ्गत्वमपि समर्थ्यते। व्याकरणाध्यनस्य आवश्यकता ऋषिर्ब्रूते यद्वेदानां रक्षायै व्याकरणस्याध्ययनमपेक्ष्यते। यो जनो लोपागमवर्णविकारज्ञो भवति, स एव वेदान् साधु रक्षितुमर्हति। तथा हि - वेदे 'जहार' इत्येतस्य क्रियापदस्य स्थाने 'जभार' इत्येतत् क्रियापदं प्रयुज्यते। व्याकरणानभिज्ञस्य दृष्ट्या 'जभार' इत्येतत्क्रियापदं न शुद्धम्, स 'जहार' इत्येतदेव शुद्धं मत्वा 'जभार' इत्येतत्पदम् अनुच्चार्य 'जहार' इति प्रयोक्तुमुपक्रान्तो भविष्यति। कुफलञ्चैतदीयमिदं स्याद् वेदोऽनेकपरिवर्तितपदवान्। अयं हि महान्नर्थो व्याकरणज्ञानशून्यतया निपातितो भवेत्। तस्माद् व्याकरणस्य अध्ययनमतितरामपेक्ष्यते। व्याकरणाध्ययनेन विभक्तिविपरिणामस्य च बोधो जायते तस्माद व्याकरणम् अवश्यम् अध्ययनीयमस्ति। न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः सन्ति। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्या भवति। न अवैयाकरणस्तान् यथायर्थं विपरिणमयितुं शक्नोति। तथाहि 'अग्नये त्वा जुष्टं निर्वपामि' इत्येतदस्ति वेदवाक्यम्। इदं हि वाक्यम् अग्निदेवताकं वर्त्तते। निर्वापकाले अग्निदेवताम् उद्दिश्य मन्त्रोऽयं पठितो भवति। परं यदा सूर्यदेवता लक्ष्यीकृत्य निर्वापः कृतो भवति, तदा सूर्याय त्वा जुष्टं निर्वपामि इत्येतेन विपरिणामेन पठनीयो भवति मन्त्र एषः। इमं हि विपरिणामं वैयाकरण एव सम्यग् यथायथं कर्तुं पारयति। ‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्येतस्मादपि हेतोः व्याकरणस्याऽध्ययनं परमापेक्षितं भवति। वेदस्य षडङ्गत्वात् षटत्स्वङ्गेषु च व्याकरणस्य प्रधानत्वात्। सुलभतया यथार्थज्ञानं व्याकरणं विना न भवितुमर्हति अतोऽपि व्याकरणस्य पठनमपेक्ष्यते। इदं तु विदितमेव वर्त्तते यद्, जिज्ञासुनाऽवश्यमेव शब्दस्य कार्यं ज्ञानम्। शब्दस्य ज्ञानं व्याकरणं विहाय न केनाप्यन्येन सुलभेनोपायेन शक्यम्। संशयराहित्यनिमित्तेनाऽपि व्याकरणमध्येयमस्ति। याज्ञिकाः पठन्ति 'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेते'ति तस्यां सन्देहोऽयमस्ति - स्थूला चासौ पृषती च स्थूलपृषतीति कथनमभिप्रेतं किं वा स्थूलानि पृषन्ति यस्याः सा स्थूलपृषतीकथनमिष्टम् ? अवैयाकरणस्तां न स्वरतोऽध्यवसति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः। अथान्तोदातत्त्वं ततस्तत्पुरुष इति। एतेन विवेचनेन व्याकरणस्य उपादेयत्वं तन्महत्त्वञ्च समुपस्थापयन् आचार्यपतञ्जलिः तस्य अन्यानि च कतिपयानि आवश्यकतां प्रस्तौति। स आह यद् व्याकरणं हि यो नरो न जानाति, स शुद्धमपि वक्तुं न शक्नोति। शुद्धोच्चारणलाभाय व्याकरणस्याध्ययनं कर्तव्यम्। अशुद्धोच्चारणकर्ता शिक्षितसमाजे निन्दितो भवति। तस्माद् विज्ञेन सततमुच्चारणस्य शुद्धता समुपासनीयेति। अध्ययनं तदेव लाभप्रदं भवति यदर्थाभिधारणपूर्वकं विधीयते। अर्थावधारणायाः कृते व्याकरणस्य ज्ञानमपेक्षितं जायते। यदध्ययनं विनाऽर्थावबोधं कृतं जायते, तदध्ययनं सदैवाध्येतारं दुनोति। तदध्ययनं तु तदर्थं भाररूपमेव जायते। मया यत्किमपि पठितं तन्न जाने किं पठितमिति विचार्य सखिन्नमना जायते। अतस्तस्मात् स जुगुप्सते। कथनस्य प्रयोजनमिदमेव यद् यत् किमपि पठनीयं जनेन तद्बोधपूर्वकं पठनीयम्। बोधपूर्वकं पठनं तदैव सम्भवं भवितुं मर्हति, यदा व्याकरणस्य ज्ञानं स्यात्। इत्थं हि विद्वान् पतञ्जलिव्याकरणस्य महत्त्वं विदधानोऽग्रे पुनराह - मानवेन शब्दप्रयोगे प्रवीणेन भवितव्यम्। कः शब्दः केन प्रकारेण प्रयोक्तव्यः इत्येतद् यो जानाति, सः स्वीयेनैकेनाऽपि शब्देन नैजं प्रभावं जनताया मानसे समुपस्थापयितुं शक्नोति। जनतां स तां दिशां नेतुमर्हति यां दिशं प्रति तस्या अावर्जनं तस्येष्टं भवति। शब्दज्ञ एव समुदाचारस्य विधिं प्रयोक्तुमर्हति। अस्य कथनस्य तात्पर्यमिदमस्ति यत्, समुदाचारे किं वा सामाजिकव्यवहारे शब्दस्य पदस्य च उच्चारणं केन विधिना कार्यमित्यपि कोऽपि शब्दज्ञ एव साधु वेत्ति यतः स एव यथाऽवसरे हस्व-दीर्घप्लुतोच्चारणस्य महत्त्वं जानाति, तेन व्याकरणाध्ययनस्य प्रयोजनं सुस्पष्टमेवेति। वैयाकरण एव यज्ञे प्रयुक्तान् मन्त्रान् सविभक्तिकान् विधाय पठितुं समर्थो भवति, तदर्थमपि व्याकरणस्याध्ययनमपेक्षितमस्ति। यज्ञकर्मणि स एव विद्वान् अधिकारी भवितुमर्हति यः पदोच्चारणं तथा करोति यथा न किमपि पदं न कोऽपि स्वरो न च किमप्यक्षरमस्फुटं स्यात्। यज्ञाधिकारस्य लाभार्थमपि व्याकरणमध्येतव्यम्। 'शब्दो ब्रह्मः' तेन हि शब्देन सह तादात्म्ये सति शब्दस्य परब्रह्मभूतेनार्येण सहापि तादात्म्यं भवितुं शक्नोतीत्येतस्मादपि व्याकरणस्य ज्ञानमपेक्षितम्। वाक्यगतस्य अर्थज्ञानस्यापि लाभाय व्याकरणं पठनीयमस्ति। नापि श्रुतेन न चापि लिखितेन वाक्येन न तावत् किमपि कार्यं भवितुमर्हति यावद् वाक्यगतार्थस्य साधुज्ञानं न जायते। वस्तुतः तदनवगतार्थ वाक्यन्तु निरर्थकमेव तदर्थमपि व्याकरणस्य ज्ञानं काङ्क्ष्यते। प्रयोजनम् व्याकरणस्य सर्वाणि प्रयोजनानि उक्तानि महाभाष्ये — 'रक्तोहागमलध्वसन्देहाः प्रयोजनम्॥' रक्षार्थं वेदानामध्येयं व्याकरणम्। ऊहः खल्वपि, न सर्वैलिङ्गैर्न सर्वाभिः विभक्तिभिर्वेदे मन्त्राः निगदिताः, ये चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः, तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्। तस्मादध्येयं व्याकरणम्। एवम् अन्यान्यपि अपभाषण-दुष्टशब्द-अर्थज्ञान-धर्मलाभ-नामकरणादीनि प्रयोजनानि व्याख्यातानि महाभाष्ये। व्याकरणशास्त्रं तु नितरां प्राचीनशास्त्रमस्ति। वैदिकमन्त्रेषूपलभ्यमानास्तत्तत्पदविषयिण्यो व्युत्पत्तय अपि उपर्यभिहितमभिधानं परिपुष्णन्ति - १. 'यज्ञेन यज्ञमजयन्त देवाः'। यजयाचेत्यादिनङ्। २. 'ये सहांसि सहसा सहन्ते'। सहधातोरसुन् उणादौ। ३. 'धान्यमसि धिनुहि'। धिनोतेर्धान्यम्, महाभारते। ४. 'केतपूः केतं नः पुनातु'। क्विप् च। ५. 'तीर्थोस्तरन्ति'। पातृतुदिव*** इति स्थक्० उ०। व्याकरणशास्त्रस्य प्रमाणभूतः अाचार्यः पतञ्जलिव्याकरणशास्त्रस्य उपरिनिर्दिष्टानि प्रयोजनानि वर्णयन् 'चत्वारि शृङ्गाः' 'चत्वारि वाक्', 'उतत्वः', 'सक्तुमिव', 'सुदेवोऽसि' -इत्येतन्मन्त्रपञ्चकमुद्धरति स्म। पतञ्जलेरपि प्राचीनतरो यास्कोऽपि 'चत्वारि वाक् इत्येतस्य मन्त्रस्य व्याख्यां व्याकरणशास्त्रपरकमेव कुर्वाणोऽवाप्यते। व्याकरणमित्येतत्पदं यस्माद्धातोः निष्पद्यते, तस्यापि मूलार्थो यजुषि - 'दृष्ट्वा रूपे व्याकरोत् सत्त्वाऽनृते प्रजापतिः' इत्येतस्मिन् वाक्ये प्रयुक्तः प्राप्यते। व्याकरणशास्त्रस्य उत्पत्तिमधिकृत्य तु न निश्चप्रचतया किमपि कथनं सम्भवम्। इदं तु वक्तुं शक्यं यदुपलब्धवैदिकपदपाठेभ्यः प्राग् व्याकरणं शास्त्रं पूर्णतां गतं बभूव। प्रकृतिप्रत्ययधातूपसर्गसमासवत्पदविभागश्च कृत्स्नतया निर्धारितो जातो यदा तस्यानेहसो गतस्यानेकसहस्राब्दाः व्यतीताः। वाल्मीकिरामायणस्य रचनाकाले व्याकरणशास्त्रस्य अध्ययनमध्यापनञ्च सुव्यवस्थिततया प्रचलितमासीदित्येतद्धि — 'नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरताऽनेन न किञ्चिदपभाषितम्।।' महाभारतयुद्धकालवर्तिनि यास्क-निरुक्ते बहूनां व्याकरणाचार्याणामुल्लेखो दृश्यते। आचार्यः शाकटायनस्तु नैजं व्याकरणं यास्कादपि प्राक् लिलेख। तैत्तिरीयसंहितायामस्य विषयस्य सर्वप्रथमस्तथा प्राचीनतमरुल्लेखो लभते। व्याकरणस्याविर्भावः तदित्यं सकलशास्त्रशिरोभूतं वेदपुरुषस्य मुखत्वेन स्मृतं व्याकरणं कदा प्रभृति प्रवर्ततमभूदिति न शक्यते तत्वतो निरूपयितुम् । तथापि पण्डिताः । कथयन्ति : यद्वयाकरणस्य बीजवैदिकसंहितासु दृश्यते । महामुनिर्यास्को महाभाष्यकारश्च पतञ्जलिरेतादशानु मन्त्रानु स्मरति येषु व्याकरण स्वरूपं सूचितमस्ति। यथा चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यं आ विवेश। अस्येत्थमाशयो व्याखातः। चत्वारि शृङ्गा इति नाम-आख्यात-उपसर्ग-निपाताः, त्रयः पादा इति त्रीणि वचनानि त्रयः पुरुषाश्च, द्वे शीर्षे इति सुबन्ततिङ्गन्तरूपे, सप्तसहस्तास इति सप्त विभक्तयः त्रिधा बद्ध इति कृदन्त-तद्धितान्त-समासान्तत्वेन नियमितः रोरवीति सर्वानतिशेते, महान् देवः इति दैवी वाक्, मर्त्यान् आ विवेशेति। एवमेवोक्त यजुर्वेदेऽप्युक्तं - दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः'। संहितानन्तरं ब्राह्मणसाहित्येऽपि व्याकरणास्तित्वविषये बहुत्र बहुधोक्तमस्ति । अनेनैतत्सिध्यति यत्संहिताकाले, एव व्याकरणं सुव्यवस्थितमासीत् । तथ्यमिदं पतञ्जलिः स्मरति- ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राहमणी व्याकरणं स्माधीयते इति यद्यपि पुरांकल्पस्य कियत्प्राचीनत्वमिति. नैव सुस्पष्टं तथापि न्यूनतममपि एषः संहिताकालं तु सूचयत्येव । “पुराकल्पे .. कुमारीणां मौजीबन्धनमिष्यते' ‘अनावृताः किल पुरा स्त्रिय असन् वरानने इत्यादावपि । पुराकल्पपुराशब्दौ सुपूरातीतकालावबोधकावेव । गोपथब्राह्मणे . व्याकरणस्य स्पष्टमेवं व्याख्यातं यथा - ओङ्कारं पृच्छामः, को धातुः, कि प्रातिपदिकं, किं नामाऽऽख्यातं, किं. लिंङ्ग, किं वचनं, का विभक्तिः, कः प्रत्ययः, कः स्वरः, उपसर्गों निपातः, कि ? वै व्याकरणं, को विकारः को विकारी, कतिमात्रः, कतिवर्णः, कत्यक्षरः, केति'पदः, कः संयोगः, किं स्थाननादानुप्रदानानुकरणम् इति। तथैव मैत्रायणसंहितायामुक्त-‘तस्मात् षड् विभक्तयः। ऐतरेयब्राह्मणेऽपि सप्तधा वै वागभवत् इति। सप्तधा इति सप्त विभक्तय इति भट्टभास्करः । स्वयमृग्वेदेऽपि यस्य ते सप्त सिन्धवः इति। अत्र सप्त सिन्धव इति सप्त विभक्तयं इति । तेन व्याकरणस्य समस्तद्वैपायनपरम्परार्षवैदिकवाङ्मयादपि प्राचीनतत्वमिति युधिष्ठिरभीमांसकमतमत्यन्तमेव समीचीनं प्रतिभाति । तथ्येमिदं ने केनाऽप्यलपितं शक्यते यत्संस्कृतभाषा आदौ यौगिकपदबाहुल्याऽऽसीत्। ह्रमशः सा रूढिमाश्रिता इति । यौगिकताऽस्य स्वभावसिंद्धा । सा च प्रकृतिप्रत्यय विभागेनैव ज्ञायते । प्रतिपदपाठादेव भाषाज्ञानस्यासम्भवात्तत्पदानां प्रकृतिप्रत्यय विमागेन सामान्यीकरणं यदैवानुभूतं तदैव व्याकरणं प्रवर्ततम् । एतत्प्रवर्तनञ्च । यदि मूलसंहिताप्राक्काले न सम्मवति चेदपि तत्सहैव तु निश्चयमेव । व्याकरणस्य तेन मूलसंहिताकालादारभ्य पतञ्जलिपर्यन्तमेव प्रवर्तनकालः सञ्चरति । तदनन्तरं व्याख्याकाल उदेति। सम्प्रति अपि स एवं सञ्चरति प्रक्रियामुखैन । तर्हि केन प्रथमं तादृशं सर्वशास्त्रशिरोरत्नभूतं व्याकरणं प्रवततमित्यपेंक्षायामितरशास्त्रप्रवर्तनमिवास्यापि प्रवर्तनं ब्रह्मण एवं सञ्जातं मन्यन्ते परिनिष्ठवैयाकरणाः पतञ्जलिप्रभृतयः । व्याकरणप्रवर्तनक्रमं निर्दशन् स कथयति- महाभाष्ये। ब्रह्मा वृहस्पतये प्रोवाच, वृहस्पतिरिन्द्राय, इन्द्रो । भरद्वाजाय, भरद्वाजऋषिभ्य ऋषयो ब्राह्मणेभ्यः इति। विषयेऽस्मिन्नपरमपि मतं प्रचलितमस्ति यन्महेश्वरो वेदात्षडङ्गान्युद्धत्य प्रोवाचेति। अत्र हि षडङ्गानि एकतः शिक्षाकल्पादीनि षट्, • अपरतस्तु षड्विभक्तिमयं, नामाख्यातोपसर्गनिपातकर्मप्रवचनीयसर्वनामादिषडङ्गात्मकं, षड्लिङ्गात्मर्क षट्सन्धिमयं लट् लिङ्-लिट्-लुङ-लुट्-लडादिषड्लकारप्राधान्यं, त्रिगुणितषडाख्यातमयं, कतृ-कर्म-भाव-कर्मक कृत्यकृदन्तमयस्वरूपं, षट्कारकमण्डितं, षट्समासमय, अपत्यादिमख्यषट्प्रत्ययविग्रहं व्याकरणमपि बुध्यते । तत्र व्रह्मणा प्रोक्त व्याकरणं वृहस्पतिरधीतवान् । स चेन्द्राय प्रोवाच । यावत्पर्यन्तं व्याकरणं प्रतिपदपाठमात्रसम्बद्धमासीत् । वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । वर्षसहस्रमित्यर्थवाद एबाशयस्तु : सुदीर्घकाल इति । तथाविधस्यः प्रतिपदपाठस्य किं स्वरूपमासीदिति तु न शक्यते इदमित्थन्तया वक्त म्। सम्मवति समानरूपाणां नामाख्यातादीनां सङ्ग्रह एव प्रतिपदपाठमिति युधिष्ठिरसम्मतिः किन्तु प्रतिपदं रूपसिद्धिरेव प्रतिपदपाठ इत्यपरे । शब्दपारायणमिति रूढिय कस्यचिद्ग्रन्यस्येति भर्तृहरिर्महाभाष्यव्याख्याने । सम्भवति बाईप व्याकरणशास्त्र' हि शब्दपारायणशब्देन संज्ञितं स्यात् । स्याद्यद्वा तद्वा म लप्रयत्नसांध्यत्वाद व्याकरणं मरणान्तव्याधि मन्यन्ते स्मोशनसाः। बृहस्पतिः-प्रतिपदमशक्यत्वाल्लक्षणस्याप्यव्यवस्थितत्वात्तत्रापि नादनवस्थाप्रसङ्गाच्च मरणान्तो व्याधियकरणमिति औशनसा इति। भारतीये हि शास्त्रे प्रायः सर्वाण्यपि शास्त्राणि ब्रह्मप्रवन न्यन्ते । युधिष्ठिरमीमांसको भगवदत्तमुद्धृत्य ब्रह्मप्रोक्तानां द्वाविंशतिशास्त्राणां सूचि, प्रस्तौति । तानि च वेद-ब्रह्मज्ञान-योगविद्या-आयुर्वेद-हस्त्यायुर्वेदरसतन्त्र-धनुर्वेदपदार्थविज्ञान-धर्मशास्त्र-अर्थशास्त्र-कामशास्त्र-व्याकरण-लिपिज्ञान-ज्योतिषशास्त्रगणित-शिल्पशास्त्र-अश्वशास्त्र-नाट्यवेद-इतिहास-पुराण-मीमांसाशास्त्र-स्तवशास्त्राणीति । युधिष्ठिरो हि ब्रह्माणं वर्तमानश्वेतवाराहकल्पादिभवमैतिहासिक पुरुषं मन्यते । स्यादपि तत् । ब्रह्मा हि, कामं रजोमूतधरः परमात्मा वा ऐतिहासिको वा, शास्तप्रवचनमकरोत् । तेन हि पृथक्पृथक् शास्त्राणि तु नैव प्रणीतानि किन्तु तत्सर्वाङ्गीणप्रवचने प्रसङ्गामुसारेण सर्वेषामेव शास्त्राणां बीजं निहितं सम्भवति । प्रवाचकश्रेण्यां ब्रह्मणोऽनन्तरं वृहस्पतेः स्थानम् । स हि देवानां पुरोहितो . महर्षेरङ्गिरसः पुत्रः (ऐ० ब्रा'८।२६) । सामगानं (छा० उ०२।२२।१), अर्थशास्त्र (महा० १२१५९।८४) इतिहासपुराणे (वायु० १०३।५९), वेदाङ्गानि (महा० १२।२१०।२०), व्याकरण (महामाष्यं १।१।१) ज्यौतिष (प्रबन्धचिन्तामणौ) वास्तुशास्त्रं (मत्स्य० २ ५१॥३-४), अगदतन्त्रञ्च वृहस्पतिप्रोक्तत्वेन प्रख्यातम् । एतदतिरिक्तमपि बहुविधं स्फुटपद्यस्तवर्क बृहस्पतिप्रोक्तसम्मतत्वने प्रसिद्धम् । बृहस्पतिकालपर्यन्तमपि वागव्याकृतैवासीत् । तेनैव वृहस्पतिः प्रतिपदपाठमेवाध्यापयामासेन्द्रम् । इन्द्रो ह देवानामग्रणीः । स हि स्वाधीतं देवेभ्यः प्रोवाच । देवा वै तदवधातुमसमर्थाः सन्तो तद्वाकरणायेन्द्रं प्रोचुः । इन्द्रो ह तां वाचं मध्यतोऽवक्रम्य व्याकरोत् । स च प्रकृतिप्रत्ययभागेन शब्दसिद्धिं व्याख्यातवान् । यथाऽऽह सायणाचार्यः - ‘तामखण्डां वाचं मध्ये विच्छिद्य प्रकृतिप्रत्ययविभागं सर्वत्राकरोत् ।' इति । तेनेन्द्रो हि प्रथमो वैयाकरणः । कातन्त्रादीनि हि व्याकरणानि तस्य शाखाप्रशाखारूपाणि ।। एवमेव वेदात्षडङ्गान्युद्धत्य महेश्वरः सदाशिवोऽक्षरसमाम्नायनिर्देशपूर्वक व्याकरणमुपदिष्टवान् । पाणिन्यादयो हि तस्य व्याख्यातारः । व्याकरणप्रवर्तने । इन्द्रमहेश्वरयोः कतरः प्रथम इत्यपेक्षायां सारस्वतभाष्ये उक्त यत्-- ‘समुद्रवद् व्याकरणं महेश्वरे तदद्ध कुम्मोद्धरणं बृहस्पतौ। तद्भागधेयाञ्च शतं पुरन्दरे कुशाग्रविन्दुत्पतितं हि पाणिनौ । इति । अनेन तु ऐन्द्रापेक्षया बार्हस्पत्यस्य तदपेक्षयाऽपि माहेश्वरस्य व्याकरणस्य । प्राचीनत्वं विशालता च सिध्यति । पतञ्जलिः किन्निमित्तं तदुपेक्षते इति विचारणीयो विषयः । व्याकरणस्य भेदाः सामान्यतो व्याकरणस्य त्रीणि रूपाणि-छान्दसं लौकिकं छान्दसलौकिकञ्च। तत्र छान्दसं प्रातिशाख्यादि, लौकिकं कातन्त्रादि, छन्दसलौकिकं पाणिनीयादि । माहेश्वरं हि व्याकरणं छान्दसलौकिकमेन्द्रं हि लौकिकमित्यनुमीयते तथैव परम्पराभावात् । प्रातिशाख्यं छान्दसमात्र : व्याकरणं समुदितम् ।'प्रतिशाख्यं हि वेदानां प्रातिशाखसम्बद्धम् । तेन यावन्तो । वेदस्य भेदास्तावन्त्येवं प्रातिशाख्यानि स्युः किन्तु दुर्भाग्यादेव सम्प्रति षडेवोपलभ्यन्ते शेषाणि चत्वारि नामत एव श्रूयन्ते । तेषु शौनकसङ्गृहीतमृप्रातिशाख्यं, कात्यायनसङ्कलितं बाज़सनेयीयप्रातिशाख्यं, वररुचिसङ्कलितं सामप्रातिशाख्यं, अथर्वप्रातिशीख्यं तैत्तिरीयप्रातिशाख्यं 'मैत्रायणीयप्रतिशाख्यञ्चाज्ञातसँगृहीतञ्चेति षट् सम्प्रति समुपलब्धानि आश्वलायनवाष्कल-शांङख्यायनचारायणप्रातिशाख्यानि तु नामत एव श्रुतानि । मन्त्राणां संहितापाठे सम्मवविकारेषु विचार एव मूलतः प्रातिशाख्यस्योद्देश्यं येन पदपाठस्थमूलपादानां ज्ञानं सुकरं स्यात् । तेन हि तत्र पदपाठक्रमपाठसम्बद्धनियमा एव विशेष निरूपिताः सन्ति । पदप्रकृतीनि सर्वचरणानां ' पार्षदानि इति यास्कः। तत्र प्रकृतिप्रत्ययविभागेनः पदसाधुत्वानुशासनस्यावश्यकतैव नासीत् । तेन । • प्रातिशाख्यं पाठानुशासनग्रन्थो न तु शब्दांनुशासनपरः । प्रातिशाख्यं हि । शब्देनापि परिचायते। एवमेब महाभाष्यकारः पारिषद शब्दमपि प्रयुनक्ति तन्निमित्तम् । यथा - ‘पदप्रकृतीनि सर्वचरणानां पार्षदानि ।' ‘सर्ववेद पारिषद हीदं शास्त्रम् । शाखा शाखां प्रति प्रतिशाखम् । प्रतिशाखे भवं प्रोतिशाख्यम यास्काचार्यः - पदप्रकृतिः संहिता, पदप्रकृतीनि सर्वचरणानां पार्षदानि । कुमारिलस्तु यथा| धर्मशास्त्राणां गृह्यग्रन्थानां च प्रातिशाख्यलक्षणवत् प्रतिचरणं पाठव्यव-.. स्थोपलम्यते । तथैवानन्तदेवः - ‘प्रतिपञ्चदशशाखायां भिन्नानि प्रातिशाख्यानि नोपदिष्टानि, किन्तु | श्रोतस्मार्तसूत्रवत् प्रातिशाख्यसूत्रमपि पञ्चदशशाखासाधारणं समाम्नातम् । अत्र चरणशब्दः शाखासंमूहबोधको यथा वाजसनेयचरणः, शाखाशब्दश्च आचार्यानुयायिभेदबोधको यथा, वाजसनेयचरणस्य माध्यन्दिनकण्वगालवादयः । शाखां प्रतिगता शाखा प्रतिशाखा, अनुशाखा अवान्तरशाखा इति ।। प्रातिशाख्यं संहितायाः सम्भवविपर्ययाणामध्ययनं करोति । तत्र हि वर्णोच्चारणादीनां सूक्ष्मं विवेचनमपि कृतमस्ति । वर्णोच्चारणे सस्भविदोषाणां सूक्ष्मविवेचनमपि प्रातिशाख्यस्य विषयेष्वन्यतमम् । तत्र पदपाठस्य नियमोऽपि स्पष्टतया निदशितः । एवमेव क्रमपाठस्य नियमोऽपि सामान्यतः सम्प्रर्दशितः । यत्र कुत्र जटापाठस्य नियमोऽपि प्रदशितः । अथैषां प्रातिशाख्यानां सङ्क्षेपेण परिचय उच्यते । ऋक्प्रातिशाख्यम्-प्रातिशाख्यमिदं शौनकप्रोक्तम् । शौनक हि यास्कः स्मरति शौनकोऽपि यास्कं स्मरति । यास्कस्य निरुक्तकारत्वं महाभारते हि समुल्लिखितम्। तेन ऋचस्य कालो महाभारतात्पूर्ववर्तीति त्ववश्यमेव । तत्रापि लिट् प्रयोगेण कियत्कालपूर्ववर्तीति तु वैव निश्चितम् । युधिष्ठिरमहाशयस्तु तं विक्रमपूर्वतृतीयसहस्राब्दीभवं मन्यते। अत्रे हि अष्टादश पटलाः यत्र त्रयोदशचतुर्दशयोः. शिक्षाविषयः, षोडश सप्तदशः - अष्टादशपटलेषु छन्दांसि वणितानि । अस्योपरि विष्णुमित्रस्य वृत्तिः ऋज्वर्था, उव्वर्टस्य भाष्यञ्च प्रसिद्धम् । एतदतिरिक्तमन्येऽपि बृत्तयो भाष्याणि च 'सन्तीति श्रूयतेऽस्योपरि । ऋग्वेदस्याश्वलायनशाखासम्बद्धमाश्वलायनेनैव प्रणीतं प्रातिशाख्यमासीदिति अनन्तस्य वाजसंनेयीयप्रातिशाख्यटीकातो ज्ञायत इति युधिष्ठिरमीमांसकः . . समुल्लिखति । ‘नाप्याश्वलायनाचार्यादिकृतप्रातिशाख्यसिद्धत्वम् इति तत्र १. वचनम् । एवमेव वाष्कलशाखासम्बद्धमपि प्रातिशाख्यमासीदिति शाङ्ख्यायन| श्रोतसूत्रस्यानिर्तीयभाष्यस्य ‘उपद् तो नाम सन्धिर्वाष्कलादीनां प्रसिद्धः । तस्योदाहरणम्' इति वचनाज्ज्ञायते इति युधिष्ठरो निदशति । किन्तु वाष्कलानामप्रगृह्य तदयं वचनम्' इत्यपि तस्य भावे प्रमाणम् । वाजसनेयीयप्रातिशाख्यम्- प्रातिशाख्यमिदं महर्षिकात्यायनप्रणीतम् । स हि याज्ञवल्क्यस्य पुत्र इति युधिष्ठिरमतम् । प्रातिशाख्यातिरिक्त तस्य हि संहिताब्राह्मणं, कात्यायनपरिशिष्ट, प्रतिज्ञासूत्र, गृह्यसूत्रञ्च प्रसिद्धा ग्रन्थाः । कात्यायनस्य स्थितिकालस्त्वनिर्णीत एव । तथापि तेन विक्रमपूवंसहस्राब्दीतो ऽपि, पूर्ववतनैव भाव्यमिति प्रबलस्तर्कः । युधिष्ठिरस्तु तं विक्रमपूर्व २९०० मितवर्षमभितः समुत्पन्नं मन्यते । अस्योपरि उदटाचार्यस्य भाष्यं अनन्तस्य व्याख्या चे प्रसिद्धा । तदतिरिक्तमपि अन्याष्टीकाटिप्पण्यश्चास्योपरि सन्तीति निर्दिष्टमस्ति । तैत्तिरीयप्रातिशाख्यम् - ज्ञातकर्तृ कमिदं प्रातिशाख्यं तैत्तिरीयशाखासम्बद्धम् । अस्य च प्रणयनं पाणिनिपूर्ववर्तनि काले एव सञ्जातमित्यनुमीयते । अस्योपरि सोमयार्यस्य त्रिरत्न भाष्यं प्रसिद्धम् । एतदतिरिक्त माहिषेयभाष्यं, गोपालयज्वनो वैदिकाभरणं च प्रसिद्धे । । सामप्रातिशाख्यम्- सामवेदस्य प्रातिशाख्यमिदं पुष्पसूत्रनाम्ना . प्रसिद्धम् । तच्च वररुचिप्रोक्तम् । स हि कात्यायनस्यः पौत्र इति युधिष्ठिरनिर्देशः । अस्योपरि अजातशत्रोः पुष्पसूत्रभाष्यं प्रसिद्धम् । अथर्वप्रातिशाख्यम्- अज्ञातकर्तृ कमिदं प्रातिशाख्यमथर्ववेदसम्बद्धम् । इदञ्च प्राक्पाणिनीयमित्यनुमीयते । एतदतिरिक्तमेव सन्त्यन्यान्यपि प्रातिशाख्यानि येषां विषये ज्ञानं नास्ति। प्रातिशाख्यातिरिक्तं तत्सदृशानि अन्यान्यपि शाकटायनप्रणीतत्वेनानुमीतं ऋक्तन्त्रं, शौनकप्रणीतत्वेन सम्मतो. अथर्वचतुरध्यायी, कात्यायनकृतं प्रतिज्ञासूत्रं, तस्यैव भाषिकसूत्रं, गाय॑स्य सामतन्त्रं, आपिशलेरक्षरतन्त्रञ्च प्रसिद्धानि । तत्राथर्वचतुरध्यायी कौत्सव्याकरणाभिधानेनाऽपि प्रसिद्धम् । यास्कस्य निरुक्तमपि प्रकरणेऽस्मिन्नितान्तमेव स्मर्तव्यमस्ति । प्रातिशाख्यादिग्रन्थेषु स्मृतानां एकोनषष्टिसङ्ख्याकानामाचार्याणां संप्रमाणा सूचियुधिष्ठिरमहोदयेन प्रस्तुताऽस्ति येषु कतिपये पाणिनिना स्मृता विस्मृता उपेक्षिताचाचार्याः सन्ति । पाणिनिनाऽनुल्लिखिताः किन्तुं तत्पूर्ववर्तन आचार्याः । महेश्वर-बृहस्पति-इन्द्र-वायु-भरद्वाज-भागुरि - पौष्करसादि - चारायण-काशकृत्स्नवैयाघ्रपद्यमाध्यन्दिनि-रौढि-शौनकि-गौतम-व्याडि‘प्रभृतयः प्राणिनेरष्टाध्याथ्यां स्मृता आचार्या आपिशलि-काश्यप-गाग्र्यगालव-चाक्रवर्मण-भारद्वाज-शाकटायनशाकल्य-सेनक-स्फोटायनाः पाणिन्यनन्तरर्वातनः आचार्यास्तु कातन्त्रव्याकरणकारः । सम्भवतः शर्ववर्मा एव चान्द्रव्याकरणकारश्चन्द्रगोभी, क्षेपणकः, जैनेन्द्रव्याकरणकारो देवनन्दी, वामनः पाल्यकीतिः, भोजदेवः, शिवस्वामी, बुद्धिसागरः, भद्रश्वरसूरिः, वर्धमानः, हेमन्द्रः, मलयगिरिः, कुमदीश्वरः अनु- . अतिस्वरूपः, बोपदेवः, पद्मनाभंश्च । एषां विषये आगामिप्रकरणे . सक्षेपेण चर्चा क्रियते । लौकिकव्याकरणं प्रथमतस्तु द्विधा विभक्तं सच्छान्दस लौकिकमात्रञ्च । तत्र सच्छान्दसं पाणिनीयं लौकिकमात्र कातन्त्रादि इति तु पूर्वमेवोक्तम् । लौकिकव्याकरणस्य वहवो भेदा आचार्यैः स्मर्यन्ते । सम्प्रत्यपि अष्टादशाधिका व्याकरणपरम्परा प्रवर्तिता दृश्यते। तेष्वपि प्राधान्येन अष्टौ वा नवैव गृहीताः । सन्ति शेषास्तु तत्सम्बद्धा एव । तत्राष्टौ व्याकरणानि यथा - ब्राह्ममैशानमैन्द्रञ्च प्राजापत्यं वृहस्पतिम् ।। त्वाष्ट्रमापिशलञ्चति पाणिनौय मथाष्टमम् ॥ तथैव मतान्तरे - यस्मिन् व्याकरणान्यष्टौ निरुप्यन्ते महान्ति च । तत्राद्यं ब्राह्ममुदितं द्वितीयं चान्द्रमुच्यते । प्राचीनव्याकरणानि स्वशास्त्रे कृताः, तत्राऽपि प्राक्तनव्याकरणदृष्टसंज्ञाभिरेवाऽत्र व्यवहार इति व्याचक्षते व्याख्यातारः। अन्यच्च - 'त्रितुत्राथसिसुसरकसेषु च' इति दशसु कृत्प्रत्ययेषु पठ्यन्ते, तस्माद् व्याकरणान्तरस्थाऽप्यत्रानूदिता इत्येव वक्तव्यं स्यात्। किञ्च स्तम्भु-स्तुम्भुप्रभृतिधातवो न पाणिनीये धातुपाठे दृश्यन्ते। ते धातवश्च पूर्वव्याकरणसंस्कारेणैव पाणिनिना स्वसूत्रेषु निबद्धाः, इत्येव स्वीकर्त्तुमापतति। एवं 'चर्करीतस्व' इत्यदादिगणे पाणिनिना, यङ्लुगन्तं तेन गृह्यते इति व्याख्यातार आहुः। न हि पाणिनीये व्याकरणे यङ्लुगन्तं चर्करीतमिति परिभाष्यते, प्राक्तनेष्वेव व्याकरणेषु कारितमिति णिजन्तं, चिकीर्षितमिति सन्नन्तं, चेक्रीतमिति यङन्तं, चर्करीतमिति यङ्लुगन्तं व्यवहृतमासीत्। तस्मात्प्राचीनव्याकरणसंस्कारमात्रेण एव पाणिनिना 'चर्करीतञ्च' इत्यादौ सन्निवेशितम्। इदं दिङ्मात्रप्रदशितमपि स्पष्टमेव द्रढीयस्कतया ज्ञापयति यत्, पाणिनेः प्रागपि व्याकरणस्य सत्ता आसीत् इति। पाणिनिरष्टाध्याय्यां स्वकीयायां दश प्राचीनान् व्याकरणाचार्यान् स्मरति सादरमेतेषु सूत्रेषु - वा सुप्यापिशलेः ६॥१॥९२, तृषिमृषिकृषेः काश्यपस्य १॥२॥२५, औतो गार्ग्यस्य ८॥३॥२०, तृतीयादिषु भाषितपुंस्कां पुंवद् गालवस्य ७॥१॥७४, ई ३ चाक्रवर्मणस्य ६॥१॥१३०, ऋतो भारद्वाजस्य ७॥२॥६३, लङः शाकटायनस्यैव ३॥४।। १११, लोपः शाकल्यस्य, ८।।३।१९, अवङ् स्फोटायनस्य ६॥१।१२३, गिरेश्च सेनकस्य ५॥४।। ११२ मीमांसकयुधिष्ठिरः 'संस्कृत व्याकरणशास्त्र का इतिहास' इत्येतन्नामके स्वकीये ग्रन्थे पाणिनेः प्राग्वर्तिनः त्रयोदश आचार्यानन्यानपि निर्दिशति। बहूनि प्रमाणानि समुद्रुत्य आचार्यमीमांसको मन्यते यत्, सञ्जातस्य पाणिनेः साम्प्रतिकात् कालात् ४८२१ वर्षाणि व्यतीतानि। परमाधुनिकानां प्रतीच्यानां विपश्चितां तु मान्यतेयं यत्पाणिनेः जातस्य प्रायेण प्रायः २७०० वषणि व्यतीतानि इति। पाणिनीयव्याकरणम् सम्प्रति व्याकरणरूपी वेदाङ्गस्य प्रतिनिधिव्याकरणमेकमेव मन्यते 'पाणिनीयं व्याकरणम्'। महर्षिपाणिनिना प्रायः ४००० अल्पाक्षरैः सूत्रैः संस्कृतभाषायां नितान्तं वैज्ञानिकं व्याकरणं प्रस्तुत्य विदुष आश्चर्यचकितं कृतम्। वैज्ञानिकदृष्ट्या देवभाषायां यावत् सुष्टु शास्त्रीयविवेचनं पाणिनिना कृतं, तादृशं विवेचनमन्यत्र दुर्लभमस्ति। पाणिनिरिव भाषामर्मज्ञो वैयाकरणः संसारेऽन्यत्र समुपलब्धो नाऽस्ति। पाणिनेर्ग्रन्थः अष्टासु अध्यायेषु विभक्तोऽस्ति, तेनैव कारणेनास्य ग्रन्थः ‘अष्टाध्यायी' इति नाम्ना ख्यातोऽस्ति। समयस्त्वस्य ईसापूर्व-षष्ठशतकमस्ति। वार्तिकं, महाभाष्यञ्च पाणिनीयस्य व्याकरणस्य परममहत्त्वपूर्णमङ्गं कात्यायनस्य वार्तिकपाठोऽस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णमेव प्रतिभाति। पाणिनिनाऽऽख्यातान् संस्कृतसाहित्ये प्रयुक्तान् शब्दान् व्याख्यातुमेव ईसापूर्वचतुर्थशतके कात्यायनेन वार्तिकानां रचना कृतेति। कात्यायनस्य वार्तिकपाठमिदं पाणिनीयस्य व्याकरणस्य महत्त्वपूर्णमङ्गमस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णम् एव प्रतिभाति। पतञ्जलिः कात्यायनस्य वार्त्तिकपाठमवलम्ब्यैव तत्र नैजं महाभाष्यमरचयत्। पतञ्जलिभगवत एषा हि महाभाष्याख्या रचना पाणिनीयं व्याकरणं सरलया सरसया च रीत्या व्याचष्टे। सकलेऽपि संस्कृतवाङ्मये महाभाष्यं वस्तुतोऽद्वितीयो ग्रन्थः। सर्वेऽपि विद्वांसो मुक्तकण्ठतया प्रशंसन्ति ग्रन्थमिमम्। ईसापूर्वद्वितीयशतकेऽस्य ग्रन्थस्य निर्माणमभवत्। व्याकरणस्य दार्शनिकसिद्धान्तानां मीमांसा प्रथमत अत्रैवोपलब्धा भवति। व्याकरणस्य पाणिनिः, कात्यायनः, पतञ्जलिरेव मुनित्रयमस्ति। पाणिनिव्याकरणसम्बद्धाः ग्रन्थाः महाभाष्यानन्तरं व्याकरण-दर्शनस्य सर्वाधिकप्रधानो ग्रन्थो वाक्यपदीयोऽस्ति। अस्य ग्रन्थस्य रचयिता षष्ठशतकोद्भवो भर्तहरिरासीत्। वाक्यपदीये व्याकरणशास्त्रस्य दार्शनिकस्वरूपं स्फुटरूपेण अभिव्यक्तं भवति। व्याकरणन्तु शैवागमान्तर्गतमेवास्ति। अस्य स्वीया विशिष्टा साधनप्रक्रियाऽस्ति। भक्तृहरिः शब्दाद्वैतस्य संस्थापकः आसीत्। तस्य विचारे 'स्फोट' एवैकमात्र परमतत्त्वमस्ति। जगदिदं तस्यैव विवर्त्तरूपमस्ति। काशमीरनिवासिना कैयटेन विरचितं 'भाष्यप्रदीपम्' महाभाष्यीयसिद्धान्तस्य प्रदीपमिव प्रकाशयितः एकमात्रो ग्रन्थरत्नः अस्ति। प्रदीपस्य उद्योताख्या व्याख्या नागेशभट्टेन लिखिताऽस्ति। व्याकरणशास्त्रस्येतिहासे भट्टोजिदीक्षितेन एकस्य अभिनवयुगस्य स्थापना कृता। अस्य त्रयः सुप्रसिद्धा ग्रन्थाः सन्ति- (१) सिद्धान्तकौमुदी, (२) शब्दकौस्तुभः, (३) मनोरमा चेति। दीक्षितपरम्परायामेव नागेशभट्टः उद्भटवैयाकरणोऽभवत्। अस्य विदुषः प्रतिभा बहुमुखी आसीत्। अस्य परिभाषेन्दुशेखरः पाणिनिव्याकरणस्य सर्वमान्यग्रन्थोऽस्ति। अस्य शब्देन्दुशेखरः इति मनोरमायाः विस्तृता व्याख्याऽस्ति। अस्य ‘लघुमञ्जूषा' शब्दार्थयोः सिद्धान्तस्य मीमांसकः सर्वश्रेष्ठग्रन्थोऽस्ति। नागेशभट्टः काशीनिवासी आसीत्। अष्टादशशतकस्य पूर्वार्द्धेऽयं विद्यमान आसीत्। व्याकरणयस्य प्रमुखविषयाः सन्धिः कारकम् उपसर्गः वृत्तिः नामपदम् अव्ययम् लकाराः शाब्दबोधः धात्वर्थः स्फोटः सम्बद्धाः लेखाः शिक्षा कल्पः निरुक्तम् वेदाङ्गम् उद्धरणम् वेदाङ्गानि व्याकरणम् विषयः वर्धनीयः संचित्रसारमञ्जूषे योजनीये
4170
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%83
अग्निः
अग्निः ( ) (, ) पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतं रथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।| नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते । ऋग्वेदे अग्निस्तुतिः ऋग्वेदे विद्यमानेषु १०२८ सूक्तेषु २१८ सूक्तानि अग्निपराणि सन्ति । ऋग्वेदस्य प्रथमे सूक्ते अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम् इत्यत्र अग्नेः स्तुतिः सन्दृश्यते । अरणीमन्थनम् इति काचित् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । मातरिश्वा,जातवेदाः इत्यादीनि अपराणि नामानि । गृहस्थस्य आहवनीय-गार्हपत्य-दक्षिणाग्नीनामाराधनम् आद्यं कर्तव्यम् । तदेव अग्निहोत्रम् इत्युच्यते । गृहस्थः निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् । पृथ्वीस्थानदेवतासु अग्निः प्रधानः । देवतात्रितये अग्निः प्रधानः । द्विशताधिकाः सूक्ताः अग्निदेवताकाः सन्ति । एतान् विहाय अन्याभिः देवताभिः सह अपि अग्निः स्तुतः अस्ति । सर्वान्तर्यामी अग्निः अग्नेः विश्वरूपं साक्षात्कृतवन्तः ऋषयः एनं बहुधा स्तुतवन्तः । आविश्वम् अग्निना धृतं रक्षितं च वर्तते । उदक-दारु-प्राणि-पक्षि-जन-इत्यादिषु स्थावरजङ्गमात्मकेषु सकलपदार्थेषु अपि अग्निः विद्यते । जठराग्नौ सः सर्वेषु तिष्ठति इति गीतायाम् उल्लिखितमस्ति । (ref – ’अहं वैश्वानरो भूत्वा------------ पचाम्यन्नं चतुर्विधम्’) अग्नेः सर्वान्तर्यामित्वम् अधो निर्दिष्टः मन्त्रः स्पष्टं निरूपयति – गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्च स्थातां गर्भशर्चथाम् । अद्रौचिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ (१-७०-४) ’अग्निः जले विद्यते अपांनपात् संज्ञकरूपेण, अरण्यवृक्षेषु विद्यते दावाग्निरूपेण, काष्ठादिषु स्थावरेषु अपि विद्यते, सञ्चारशीलेषु प्राणिषु जनेषु च जाठराग्निरूपेण विद्यते, अद्रौ विद्यमानस्य अग्नेः हविःप्रदानं कुर्वन्ति । अयम् अमरः, शोभनकर्मयुक्तः । सज्जनः राजा प्रजाः यथा रक्षति तथा अयम् अस्माकं रक्षकः अस्ति ।’ अस्मिन् विषये विविधेषु सूक्तेषु उल्लेखः कृतः अस्ति – अग्निदेवस्य प्रभावः द्युलोके, भूमौ, अन्तरिक्षे, समुद्रे, वृक्षेषु च प्रकाश्यते । (३-२२-२) अग्निमथनावसरे अरणिभिः अग्निः उत्पद्यते, शिलया अग्निः उत्पद्यते (अश्मनः) ’यो आत्मनोरन्तरग्निं जजान’ (२-२-३) अग्नेः स्वरूपम् हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम । जन्म ’त्रीणि जाना परिभूषन्त्यस्य समुद्र एकं दिव्येकमप्सु । (१-९५-३) अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च । अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९) ’शुष्काद्यद्देव जीवो जनिष्ठाः’ (१-६८-२) इत्युक्त्वा दश युवतयः एनं आरण्योः उत्पादितवत्यः इत्युच्यते यत् दश अङ्गुलीभिः ग्रहणं निर्दिशति । ’दशेमं त्वष्टुर्जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम्’ (१-९५-२) । त्रिमूर्तिरूपः अग्निः त्रिस्थानेषु विद्यते इति उक्तम् । एतं त्रिधादेवताः स्रष्टवन्तः । अस्य प्रकाशः त्रिविधम् (३-२६-७) । अयं त्रिभिः शिरोभिः युक्तः (१-१४६-१) । अस्य जिह्वात्रयं, देहत्रयं, स्थानत्रयम् (३-२०-२) । त्रिषदस्था (६-८-७) इत्येतत् विशेषणं प्रामुख्येन अग्नेः अन्वेति । त्रिपस्तृ इत्येतत् अग्नेः विशेषणम् (८-३९-८) । एवम् अग्निः त्रिमूर्तिरूपः । अग्नेः तृतीयं रूपम् अत्युन्नतमिति वर्णयन्ति । ’विष्णुरित्था परममस्य विद्वान् जातो बृहन्नभि पाति तृतीयम् ।’ (१०-१-३) – व्यापनशीलः, ज्ञानादिगुणयुक्तः, महत्तमश्च अग्निदेवः स्वस्य तृतीयं स्थानं रक्षति । त्रिस्थानविवेचनम् निरुक्ते यास्काचार्यः अग्नेः त्रिस्थानविवेचनं कुर्वन्ति । ’तमू अकृण्वन् त्रेधा भुवेकम्’ इत्यस्य व्याख्यानं कुर्वन् वदति – ’तमकुर्वन् त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणी’ इति शाकपूणिनाम् अभिप्रायम् उल्लिख्य ’यदस्य दिवि तृतीयं तदसावादित्य इति ब्राह्मणम्’ इति ब्राह्मणस्य आधारम् उदाहरति । एवम् अग्नेः तृतीयं स्थानं द्युलोके विद्यते यत् तत् आदित्यस्य रूपमिति वदति (नि ७-२८) । अग्निः त्रिस्थानेषु विद्यते इत्यतः सः त्रिस्थानरक्षकः अस्ति । द्युलोकस्य प्रधानभूतः, भूलोकस्य सन्नाहकः, द्यावापृथिव्याः अधिपतिः विद्यते । मूर्धार्दिवो नाभिरग्निः पृथिव्या अथा भवदरती रोदस्योः ! (१-५९-२) अग्नेः विद्युद्रूपं स्तुतवन्तः ऋषयः । ’धनोरधि प्रवत आस ऋण्वति’ - धनुषः वेगेन आगच्छन् बाणः इव आगच्छति । ’सजायमानः परमोव्योमन्याविरग्निरभवन्मातरिश्वने’ (१-१४३-२) – परमव्योम्नि अयं जायते । मातरिश्वः अग्निम् अन्तरिक्षात् अधः आनयत् इत्युच्यते । एवम् अन्तरिक्षात् भूमिं प्रति अग्नेः आगमनं विद्युद्रूपेण इति ज्ञायते । ’मूर्धा भुवो भवति नक्तुमग्निः ततः सूर्यो जायते प्रातरुद्यन्’ (१०-८८-६) – अग्निः सूर्यरूपेण उदेति इत्युक्तम् । अपरत्र अग्निः सूर्यस्य प्रकाशेन अन्तर्भवति (५-३८-१) इति उक्तम् । ’ऊर्जोऽनपातमध्वरे दीदिवांसमुपद्यवि । अनिमीळे कविक्रतुम् । (३-२७-१२) अग्नेः महिमा प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ (७-६-१) अग्निः शक्तेः प्रतीकम् । अयम् अत्यन्तं बलिष्ठः, सर्वभुवनानाम् ईश्वरः विद्यते । इन्द्रं यथा स्तुवन्ति तथा एनमपि जनाः स्तुवन्ति । दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्ररिरिचे महित्वम् । राजा कृष्टीनामसि मानुषीणाम् युदा देवेभ्यो वरिवश्चकर्थ ॥ (१-५९-५) द्यावापृथिव्योः अपेक्षया अयं महत्तमः । आ रोदसी अपृणा जायमानः । (६-६-२) जन्मनः अपसरे एव अयं द्यावापृथिवी, सर्वभुवनानि, भूतजातानि च व्याप्नोत् । सर्वेषु भूतजातेषु अन्तर्निहितः जातः । जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसित्म ना । (३-३१०) सर्वासां देवतानाम् अपेक्षया अस्य महिमा वरीवर्तते (१-६८-२) । सर्वे देवाः अस्मात् भीतः सन्तः एनं पूजयन्ति । विश्वेदेवा अनमस्यन् भियानाः त्वामग्ने तमसि तस्थिवांसम् । (६-९-७) एनं मित्रः, वरुणः, मरुतः, सर्वाः देवताः च अर्चन्ति । मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वेमरुतः सुम्नमर्चन् । यच्छोचिषा सहसस्स्पुत्र तिष्ठ अभिक्षितीः प्रथयन् सूर्योनॄन् ॥ (३-१४-४) सर्वान्तर्यामी (सूर्यः) अयम् अग्निदेवः मानवान् अभिलक्ष्य मार्गदर्शनं कृत्वा रश्मीन् (नॄन्) अग्रे नयन् सर्वतः विस्तीर्य दीपयति । तस्मादेव हे बलवन् अग्निदेव ! मित्र-वरुण-मरुद्देवताः सर्वे अपि भवन्तम् अर्चयन्तः पूजयन्ति । अस्य महिम्नः पुरतः मानवाः देवताः अपि वन्दन्ते । अयं सहस्रजित्, शत्रुनाशनं कृत्वा कर्मनिष्ठानाम् आर्याणां तेजोभिवृद्धिं साधयति । (८-५-६) कर्मभ्रष्टान् अनार्यान् पणीन् अयं विनाशयति । (७-६-३) अयं व्रतध्वंसकः इत्यपि निर्दिष्टः । सर्वदेवताः एनम् अर्चयन्ति इति भावः अधस्तने मन्त्रे अपि विद्यते – त्रीणिशता त्रीसहस्राण्यग्निं त्रिंशच्चदेवा नवचासपर्यन् । औक्षन् घृत्येरस्तृणन् बर्हिरस्मा आदिद्धोतारं न्यसादयन्त । (३-९-९) सर्वशक्तः अयम् अग्निदेवः सर्वान् असृजत् । अयमेव सृष्टिकर्ता । सर्वेषां रक्षकः अग्निदेवः द्यावापृथिवी असृजत् ’जनितारोदोस्योः’ (१-९६-४) अस्य नियमान् द्यावापृथिवी पालयतः । (७-५-४) एतद्वयं सः चर्मद्वयमिव आच्छादितवान् – ’वि चर्मणीव धिषणे आवर्तयद्वैश्वानरो विश्वमधत्तवृष्णम्’ (६-८-३) लोकद्वयं पार्थक्येन संस्थापितवान् अयम् । अन्तरिक्षस्य मापनम् अकरोत् । - ’व्यन्तरिक्षम् अमिमीत सुकृतुः वैश्वानरो महिना नाकमस्पृशत् ।’ (६-८-२) अग्निना लोकाः निर्मिताः । सर्वेषां हिततमः सः सुकर्मा । द्युलोकसम्बन्धीनि रोचमानानि नक्षत्राणि अयम् असृजत् । सर्वान् भूतजातान् अयमेव निर्मितवान् । अयम् अदब्धः (अहिंसितः) सन् सर्वरक्षकः विद्यते – ’एयो रजांसि अमिमीत सुक्रतुः वैश्वानरो विदिवो रोचना कविः । परियो विश्वा भुवनानि पप्रथे अदब्धो गोपा अमृतस्य रक्षिता ॥’ (१०-८८-४) अग्नेः नामानि आरण्यां विद्यमाना शक्तिः आविर्भवति इत्यतः अयं शक्तिपुत्रः, ऊर्जोनपात्, सहसस्सूनु । प्रत्येकस्मिन् गृहे प्रतिदिनम् अयम् उत्पद्यते इत्यतः अयं ज्येष्ठः यविष्ठश्च । पूर्वदिनमपि आसीत् इत्यतः ज्येष्ठः, अग्रिमे दिने अपि जनिष्यति इत्यतः यविष्ठः । (उष उषो हिवसो अग्रमेषि) । एवम् अयं पुरातनः नूतनश्च । अमरः नित्ययुवा च । अग्निना एव प्रथमं यज्ञम् आचरितम् इत्यतः (३-१५-४) तस्य अपेक्षया ज्येष्ठः याजकः न विद्यते (५-३-५) । प्रतिदिनमपि अयं तमसः आगच्छति ज्योतिरूपेण । ’तमसो ज्योतिषाङ्गात्’ । अयं घृतपृष्ठः, तपुर्मूर्धा, विश्पतिः, शुचिदन्, गृहपतिः, शुक्रशोचिः (शुब्रज्वालायुतः) च । विविधानि नामानि गृहपतिः – ’त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे’ (७-१६-५) – अयं प्रत्येकस्मिन् गृहे अपि वसति । स्वस्थाने निवसन्नेव सर्वैः सह अपि भवति । ’अप्रोषिवान् गृहपतिर्महान् असि’ (८-६०-१९) । अयं मानवानाम् अतिथिः । अयं प्रतिगृहम् अतिथिः अस्ति (१०-९१-२) । दीप्तज्वालायुक्तं सर्वज्ञम् एनम् अग्निदेवं गार्हपत्याग्निरूपेण याजकाः अतिथिमिव पूजयन्ति (५-८-२) । अयं मानवानां समीपबन्धुः (६-१५-१) । अयं कुटुम्बे पूर्वारभ्य सदैव विद्यते इत्यतः अनेन सह पुरातनं सख्यमस्ति । पूर्वजैः पूजितः महात्मा अयम् । हव्यवाहः – अयं हविः स्वीकरोति, अपि च अन्यदेवतानां कृते नयति । अग्निना हविः आनीयते चेदेव तर्हि अन्यदेवताः प्रीताः भवन्ति अन्यथा ते न सन्तुष्यन्ति - ’न ऋते त्वदमृता मादयन्ति’ (७-११-६) । अयं देवताः यज्ञमण्डपं प्रति आनयति (३-१४-२) ऋत्विक्, पुरोहितः, होता – अयं देवतानां मानवानाञ्च पुरोहितः । ऋत्विजां सर्वाणि कार्याणि अनेन निरूह्यते इत्यतः अयम् अध्वर्युः, ब्रह्मन्, होतृ, अध्वर्युश्च । स्वीयदैवशक्त्या यज्ञनिर्वहणाय साहाय्यम् आचरति अयम् । अग्निः पुरोहितः इव ऋषिः अपि अस्ति । (९-६६-२०) ’त्वमग्ने प्रथमो अङ्गिरा ऋषिः’ (१-३१-१) ’ऋषिः श्रेष्ठः समिध्यसे’ (३-२१-३) इति एतं स्तुतवन्तः । स्वस्य प्रज्ञाबलेन एव अयं सर्वं ज्ञातुं शक्तः – ’कविः काव्येनासि विश्ववित्’ (१०-९१-३) कविक्रुतुः, विश्ववेदः इत्येतानि विशेषणानि तस्य सर्वज्ञत्वं सूचयन्ति । रक्षोहन् - अग्निदेवः असुरध्वंसं कृत्वा मानवान् पोषयति । अतः अयं रक्षोहन् । स्वीयविस्तृततेजसा दीप्यमानः अग्निदेवः कर्मानुष्ठानेषु विघ्नम् आचरतः शत्रून् राक्षसान् च नाशयति इति एते मन्त्राः सूचयन्ति – विपाजसा पृथुना शोशुचानो बाधस्व द्वि षो रक्षसो अमीवाः । (३-१५-१) यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः । (३-६-४) ज्योतिप्रदः – नेतृतमः अग्निः प्रकाशरहिते अन्धकारे विद्यमानाः प्रजाः उषायाः प्रकाशेन ऋजुगामिनः अकरोत् इत्यतः सः अन्धकारनाशकः, ज्योतिप्रदश्च । अग्निस्सर्वादेवताः सर्वाः देवताः अग्नेः रूपमेव इति ऋषयः कथयन्ति । अग्निः एव वरुणः, अग्निः एव मित्रम् (२-१-४) । यागाय आगमनावसरे सः वरुणरूपी (१०-८-५), आरणिभिः यदा उत्पद्यते तदा मित्रम् (५-३-१) । अनेकाभिः देवताभिः सह अग्नेः तादात्म्यं वर्णयन्ति एते मन्त्राः – त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरं ध्या ॥ त्वमग्ने राजा वरुणो धृतव्रतः त्वं मित्रो भवसि दस्म ईड्यः त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देवभाजयुः ॥ त्वमग्ने त्वष्टा विधते सुवीर्यं तवग्रावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषेस्वश्व्यम् त्वं नरां शर्धो असिपुरूवसुः ॥ त्वमग्ने रुद्रो असुरो महोदिवः त्वंशर्धो मारुतं पृक्ष ईशिषे । त्वं वात्येररुणैर्यासि शङ्गयः त्वम्पूषा विधतः पासिनुत्मना ॥ त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि । त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥ (२-१-३ तः ७) अस्मिन् लोके विद्यमानं समस्तमपि अग्निरूपमेव – असच्च सच्च परमे व्योमन् दक्षस्य जन्मनदितेरुपस्थे । अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥ (१०-५-७) भक्तरक्षकः अग्निः भक्तानुग्रही अयं शतशः अयोदुर्गैः प्राप्यमाणं रक्षणम् अयं भक्तेभ्यः ददाति । (७-३-७) नौकया समुद्रस्य तारणं यथा तथा अयं भक्तान् कष्टेभ्यः तारयति – ’विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि’ (२-४-९) यः यजमानः अग्नये क्षिप्रम् अन्नम् आज्याहुतिं समित् च समर्प्य होमं पोषयति तम् अग्निः सहस्रनेत्रैः पश्यति । ’हे अग्ने ! अस्मदनुकूलः अस्ति भवान्’ इति वदति अयं मन्त्रः – ’यो अस्मा अन्नं जुह्वा ददात्याज्यैः घृतैर्जुहोति पुष्यति । तस्मै सहस्रमक्षभिर्विचक्षेऽग्ने विश्वतः प्रत्यङ् असित्वम् ॥’ (१०-७९-५) स्वस्य सेवायां निरतेभ्यः भक्तेभ्यः अग्निदेवः सहस्रनेत्रैः दृष्ट्वा तेभ्यः सकलं रक्षणं कल्पयति । सर्वविधं श्रेयः अपि अग्निदेवादेव प्राप्यते । वृक्षेभ्यः शाखोपशाखाः यथा भवन्ति तथा सर्वनिधेः स्वामी अयं भक्तेभ्यः अमितां सम्पदाम् अनुगृह्णाति । भूम्यन्तरिक्षेषु सर्वेष्वपि स्थानेषु अयं सम्पदधिदैवमस्ति । स्वीयकरुणाकटाक्षेण निर्धनत्वं निवारयति अयम् । महामहिमः, परमकरुणालुः अयं कृतज्ञश्च विद्यते । भक्तानां प्रार्थना ’कदा त उक्था सधमद्यानि कदा भवन्ति सख्या गृहे ते ।’ (३-३-४) भवतः संश्लेषः कदा भवति इति भक्ताः औत्सुक्येन अग्निं पृच्छन्ति । ’अयं योनिश्चकृमा यं वयन्ते जायेव पत्य उशती सुवासाः । (३-३-२) भवतः कृते उत्तरवेदी सिद्धः अस्ति । आगम्यताम् । पत्याम् अनुरक्ता पत्नी शोभनवस्त्रोपेता सती पार्श्वे पत्युः कृते यथा स्थानं कल्पयति तथा भवते उत्तरवेदी सज्जा अस्ति इति प्रार्थयति भक्तः । अग्निदेवः मरुभूमौ सम्पदिव – ’धन्वन्निव प्रपा असि’ (१०-४-१) सकलाभीष्टदायकः अयं भक्तवत्सलः । भक्तानां प्रति अस्य आगमनम् उष्णगोष्ठं प्रति पशुरागमनमिव – ’यं त्वा जनासो अभिसञ्चरन्ति गाव उष्णमिव व्रजं यविष्ठ’ (१०-४-२) मूढाः वयं ज्ञानिनं महात्मानं भवन्तं कथं वा अवगन्तुं शक्नुयाम – ’मूरा अमूर न वयं चिकित्वः महित्वमग्ने त्वमङ्गवित्से’ (१०-४-४) अग्निदेवः अस्माकं सर्वविधबन्धुः - ’अग्निं मन्येपितरमग्निमापिम् अग्निं भ्रातरं सदमित् सखायम्’ (१०-७-३) ’मानो अग्ने सख्या पित्र्याणि प्रमर्षिष्ठा अभिविदुष्कविः सन् । नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥ (१-७१-१०) भवतः ध्यानकरणाय अस्मासु उत्तमभावम् अनुगृह्णातु – ’सा ते सुमतिर्भूत्वस्मे’ ’अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्बान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ हे अग्निदेव ! अस्मान् सम्पद्युक्ते मार्गे नय । त्वं सकलज्ञानयुतः महानुभावः अस्ति । अस्माकं शत्रुं पापं नाशय । पौनःपुन्येन भवन्तं नमामः । यास्काचार्यः अग्निशब्दस्य निर्वचनम् एवं वदन्ति – ’अग्रणीर्भवति’ (नि ७-१४-४) – सर्वार्थेषु अग्रनयनः । ’अग्रं यज्ञेषु प्रणीयते’ – यागेषु सर्वादौ अस्य अनुग्रहः प्राप्तव्यः । अयं प्रसन्नः नो चेद् अन्य कर्माणि अशक्यानि एव । आत्मधारणम् असाध्यं भविष्यति । ’अङ्गं नयति सन्नममानः’ – सर्वमपि आत्मसात् करोति अयम् अग्निः । एवं सर्वं जनयित्वा, रक्षन् पोषयन् अयं देवः सर्वशक्तः करुणालुश्च । सर्वधारकः, सर्वपोषकः अयम् । अनेन एव वयम् अस्तित्वं प्राप्नुमः । विश्वम् अग्नेः रूपम् । अयं सर्वत्र विद्यते । वृक्षे, जले, शिलाखण्डे, समस्तजीवेषु च अयं गूढतया प्रकाशते । ’अनेन जीवेनात्मना अनुप्रविश्य नामरूपे व्याकरवाणि’ इति उपनिषत् सुन्दरं विवृणोति अस्य सर्वव्यापकत्वम् अनुप्रवेशञ्च । एवम् अग्निदेवस्य स्तुतिः अनुपमरीत्या कृता अस्ति ऋग्वेदे । बाह्यसम्पर्कतन्तुः अग्निः विकिमीडिया सामान्यः अग्निः, हिन्दू अनलदेवता अग्निः अग्निः विषयः वर्धनीयः
4220
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%20%E0%A4%A6%E0%A4%A4%E0%A5%8D%E0%A4%A4
गुरु दत्त
गुरु दत्त चलच्चित्रसम्बद्धाः स्टब्स् चित्रं योजनीयम् सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4224
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%AD%E0%A4%9F%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D
आर्यभटीयम्
आर्यभटेन गणितज्योतिषविषये लिखितः ग्रन्थः। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्यभटः पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ्यायत्तसम्प्रदायविच्छेदग्रन्थवैकल्यादि जनितेन दृग्गणितविसंवादेनाकिञ्चित्करण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः तादृशज्योतिर्ज्ञानबीजलाभाय ज्योतिश्छक्रग्रहादेरादिवक्तारं भगवन्तं स्वयम्भुवम् अमलैस्तपोभिराराधयामास । ततः प्रसन्नो भगवांस्तस्मै तादृशमतीन्द्रियम् अतिरहस्यभूतं कालक्रियागोलज्ञानबीजमुपदिदेश । ततोऽयमाचार्यार्यभटस्तदुपदिष्टं सर्वं बीजभूतं दशभिर्गीतिसूत्रैः, तत्परिकरभूतलौकिकगणितबीजं स्वबुध्या आभ्यूहितम् | एकेनार्यसूत्रेण च संक्षिप्य लोके प्रकाशयामास । ततोऽष्टाधिकशतैरार्यसूत्रैर्गणित–कालक्रिया –भूगोलबीजोपयोगं दिङ्मात्रेण दर्शयामास । तदिदमाचार्यार्यभटमुखारविन्दनिर्गतं प्रबन्धद्वयात्मकं ज्योतिश्शास्त्रमस्माभिर्व्याचिख्यासितम् । प्रतिपाद्यो विचाराः तत्र त्रीणि वस्तूनि प्रतिपाद्यतया प्रतिज्ञातानि-गणितं, कालक्रिया, गोल इति। तत्र गणितं सङ्कलित–व्यवकलितादिमिश्रक-क्षेत्रश्रेणी–कुट्टाकारादि चानेकविधम्। इह तु ज्योतिश्शास्त्रप्रतिपाद्ययोः कालक्रिया - गोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रमेव सामान्यगणितं प्रतिपाद्यतया प्रतिज्ञायते। कालस्य क्रिया कालक्रिया। कालपरिच्छेदोपायभूतं ग्रहगणितं कालक्रियेत्यर्थः। ब्रह्माण्डकटाहान्तर्त्याकाशमध्यस्थं ग्रहनक्षत्रकक्ष्यात्मकं खमध्यस्थ समघनवृत्तभूमिकं अपक्रमाद्य शेषविशेषोपेतं प्रवहवायुप्रेरणान्नित्यं पश्चिमाभिमुखं गच्छत् स्थलजलसीमास्थानां सर्वाश्चर्यमयं कालचक्र–ज्योतिश्छक्र-भपञ्जरादि शब्दवाच्यो गोलः। स च वृत्तक्षेत्रत्वात् चतुरश्राद्यनेक क्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव। एवमेतानि त्रीणि वस्तूनि व्याख्यातानि। एतत् त्रयमपि प्रत्येकं द्विविधम् – उपदेशमात्रावसेयं, तन्मूलन्यायावसेयं चेति। तत्र एतावद् युगप्रमाणम्, एतावन्तो युगे ग्रहमन्दशीघ्रीच्चपातनक्षत्राणां परिवर्ताः, एतावान्मन्दपरिधिः, एतावान् श्रीघ्रपरिधिः, एतवान् ग्रहाणां परमापक्रमः, एतावांश्चन्द्रादीनां परमविक्षेपः, एतावद् ब्रह्मदिनप्रमाणम्, तद्गतमेतावद्, एतावती युगे योजनात्मिका ग्रहगतिः, एतावती ग्रहकक्ष्या इत्येवमादिकं वस्तुजातम् उपदेशमात्रावसेयम्। एतदुपदेशं विना प्रमाणान्तरेणावगन्तुं न शक्यते। एतस्यातीन्द्रियस्य ग्रहगतिबीजस्य निरवशेषप्रतिपादनाय दशगीतिसूत्रारम्भः। एतावतैव कृत्स्नं गणितस्कन्धगतार्थजातं परिसमाप्तम्। इतोऽन्यत्सर्वं न्यायसिध्दत्वाद् बुध्दिमद्भिरभ्यूह्य प्रतिपादयितुं शक्यते। तथा हि गणितपादोक्तानि चतुरश्र- त्र्यश्रक्षेत्रादिफलानि, त्रैराशिकादीनि कुट्टाकारपर्यन्तानि च गणितानि तावल्लौकिकगणितन्यायसिध्दानि सर्वैरभ्यूहितुं शक्यन्त एव। काक्रियापादोक्तान्यपि तथाविधान्येव। भूदिनानि तावद् रविनक्षत्रभगणयोरुपदेशाल्लोकसिध्देन द्वियोगन्यायेन तयोरन्तरं कृत्वा ज्ञातुं शक्यते। तानि च ग्रहादिमध्यमानयने प्रमाणराशिः। युगरविमासाश्च युगरव्यब्दोपदेशाद् वर्षस्य च द्वादशमासत्वेन लोकसिध्दत्वाद्, युगरव्यब्दद्वादशगुणनवैव सिध्यन्ति। रविशशियोगस्य चान्द्रमासत्वाद् रविशशिभगणविशेष एव चान्द्रमासा भवन्ति। एकस्य चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वेन प्रसिध्दत्वात् ते त्रिंशदगुणिता युगतिथयः स्युः अवमदिनस्य शशिसावन दिनान्तरत्वाद् युगसावनयुगचन्द्रदिनान्तरं युगावमदिनानि। आन्द्रसौरमासान्तरस्य अधिकमासत्वप्रसिद्धः युगादिमासानयनमपि स्पष्टम्। एवम् एतैः परिकरभूतैरिष्टकालत्रैराशिकेन गत सौरमासतिथिषु याताधिकावमादीनि संसाध्य गतमासतिथिषु तद्योगशोधनेन कलियातदिनानि ज्ञातुं शक्यन्ते। तानि च इच्छाराशिः। फलराशिश्च इष्टग्रहादेर्युगभगणाः। एवमेतैस्रैराशिकगणितेन ग्रहमध्यमाः सिध्यन्ति। उच्चमध्यमे ग्रहमध्यमे च ज्ञाते उच्चमध्यमसमो ग्रहमध्यम एव स्फुटः। तयोः कक्ष्यामण्डलस्योच्चनीचरेखायाः परमविश्लेषो राशित्रयम्। तत्रत्येन मध्यमस्फुटान्तरेण व्यासार्धेन निष्पन्नाः पठिताः परिधयः। इष्टकालग्रहोच्चान्तरस्य त्रैराशिकेन तात्कालिकमध्यमस्फुटान्तरमानीय मध्यमग्रहतत्संयोगवियोगाभ्यामेव पारमार्थिकग्रहसिध्दिः। तथा शीघ्रोच्चोपदेशो येषामस्ति ते शिघ्रोच्चस्वान्तरोत्त्पन्नेन फलेनापि संस्कृताः पारमार्थिका भवन्ति। इत्येतान्यन्यानि च कालक्रियापादोक्तानि अर्थजातानि सर्वाण्युपद्शमूलन्यायावसेयान्येव। तथा गोलपादोक्तान्यपि तथाविधान्येव। तथा हि – स्थलजलसीमायां लङ्कामधिकृत्यापक्रमोपदेशात् पूर्वपराया उत्तरेण दक्षिणेन चापक्रान्तं किञ्चिदुन्मण्डलमस्तीति शक्यं कल्पयितुम्। अपमण्डालात् प्रभृति विक्षेपोपदेशात् तदुत्तरतो दक्षिणतश्च स्थितं किञ्चिन्मण्डलमस्तीत्यपि शक्यं कल्पयितुम्। एवमन्यान्यपि गोलपादोक्तान्यर्थजातानि बीजोपदेशवत् सुतरां न्यायपथमधिरोहन्ति। ग्रन्थपरिचयः अस्मिन् ग्रन्थे अष्टाधिकशतपद्यानि सन्ति। अतः एव एतत् पुस्तकम् आर्यशताष्टकम् इति प्रसिद्धम् अस्ति। अस्मिन् ग्रन्थे चत्वारः खण्डाः सन्ति। भास्करः एतत् पुस्तकम् अश्मकतन्त्रम् इति कथयति। १) गीतिकपादः - अस्मिन् कालमात्रघटकाः वर्णिताः। अस्मिन् ज्य कोश अपि अस्ति। २) गणितपादः - अस्मिन् क्षेत्रव्यवहारः, शङ्खुयन्त्रमन्त्रम्, कुट्टकाः च वर्णिताः। ३) कालक्रियापादः - कालगणनम् अस्मिन् भणितम्। ४) गोलपादः - नक्षत्रविद्या अस्मिन् वर्णिता अस्ति। सः ग्रन्थे वदति - चतुरधिकम् शतमष्टगुणम् द्वाषष्ठिस्तथा सहस्राणाम्। अयुतद्वयविश्कम्भस्यासन्नो व्रित्तपरिणहः॥ मात्रगणनं त्रिकोणमात्रम् च आर्यभट उवाच - "त्रिभुजस्य फलशरीरम् समदलकोटि भुजार्धसंवर्गः।" सः सैन् इति अनुपातम् ज्य इति अकथयत् कोसिन् इति अनुपातम् कोज्य इति च। बीजगणितम् सः वर्गाणां घनानां पङ्क्तीनां सम्पर्कान् अगणयत्। ज्योतिषम् सुर्यग्रहचलनम् "अचलानि भानि पश्चिमाग्नि"-आर्यभटः ग्रहणम् सः भूरदयः ग्रहाः सुर्यस्य ज्योतिम् म्रिष्ट्वा एव शोभन्ते इति उवाच। सः ग्रहणम् भूछायया एव कृतम् न तु राहुकेतुभ्याम् इति उक्तवान्। भूचक्रपरिधिः सः भूचक्रपरिधिः 39,968.0582 कि.मी इति सम्यक् उक्तवान्। बाह्यसम्पर्कतन्तुः httpः//www.scribd.com/doc/20912413/The-Aryabhatiya-of-Aryabhata-English-Translation - The Aryabhatiya of Aryabhata English Translation William J. Gongol. The Aryabhatiyaः Foundations of Indian Mathematics. University of Northern Iowa. Hugh Thurston, "The Astronomy of Āryabhata" in his Early Astronomy, New Yorkः Springer, 1996, pp. 178–189. ISBN 0-387-94822-8 आर्यभटीयम् संचित्रसारमञ्जूषे योजनीये संस्कृतग्रन्थाः
4257
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%B6%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B2%E0%A4%AE%E0%A5%8D
अभिज्ञानशाकुन्तलम्
अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्। तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् -- काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला। तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।। शेक्सपियर् तुलनां जनाः कालिदासस्य सह कुर्वन्ति। शाकुन्तलविषये गटेनामकस्य जर्मनकवे:अभिप्राय: अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् । नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता । नामकरणम् “अभिज्ञायते अनेन इति अभिज्ञानम् चिह्नमिति, अभि+ ज्ञा + ल्युट् । शकुन्तैः लालिता शकुन्तला । शकुन्तलामधिकृत्य कृतं नाटकं शाकुन्तलम् ‘अधिकृत्यकृते ग्रन्थे’ इति सूत्रेण ‘अण्’ प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तलम् ‘अभिज्ञानशाकुन्तलम्’ इति व्युत्पतिं दर्शं दर्शं सिध्दमेव अभिज्ञानशाकुन्तलस्य समस्या प्रधानत्वम्, नायिकाप्रधानत्वं च । अतः समस्यां नायिकां च आदाय कृतमस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामकरणं सर्वथा सफलमुचितम् चास्ति । अथवा – अभिज्ञानसहितं शाकुन्तलम् अभिज्ञानशाकुन्तलम् । अथवा अभिज्ञानञ्च शकुन्तलाञ्च इति अभिज्ञानशाकुन्तलम् । कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । अभिज्ञानशाकुन्तले चतुर्थेऽङ्के कविः कण्वरुपेण उपस्तितोऽस्ति । अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति । दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता । क्षौमं केनचिदिन्दुपाण्डुतरुणा मांगल्यमाविष्कृतम् इत्यनेन शकुन्तलायै वनस्पतिभि आभूषणप्रदानमपि विशिष्टा घटना अस्ति । अस्मान् साधु विचिन्त्य “ इति महर्षिणा कण्वेन दुष्यन्ताय तथा ‘शुश्रूषस्व गुरुन् कुरु’- इत्यनेन शाकुन्तलायै कृत उपदेशः शाश्वतिकः तथा समाजे सर्वेषां कृते महदुपयोगी अस्ति । आपरितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति । कथायाः पृष्ठभूमिः पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् । दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्। कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास । यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणे किमपि अजानन् इव - धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥ अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- "महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति" इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव "वेश्यापुत्रि !" इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता - "भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम्" (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - "अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता । शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् । अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते । कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नास्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति । प्रथमोऽङ्कः अथ नाट्टकस्यादौ पूर्वरङ्गाङ्गभूताम् आशीरूपां या 'सृष्टिः स्रष्टुराद्या' इत्यात्मिकामष्टपदीं नान्दीं विघ्नव्यूह-निरासाय पठति सूत्रधारः । ततः सुत्रधारो नटीं ब्रते यत्, आर्ये ! कालिदासेण ग्रथितवस्तुनः अभिनयेन अभिज्ञानशाकुन्तलनामकेन नाटकेन उपस्थातव्यमिति तदनु चिरप्रवृत्तमुपभोगक्षमं ग्रीष्मकालमधिकृत्य नटी गायति। मनोहारिणा तेन गीतेन मृगेण राजा दुष्यन्त इव अहमपि हठात् मनोहारिणा गीतेन हृतोऽस्मीति प्रस्तौति प्रस्तावनायां सूत्रधारः - तवास्मि गीतरागेण हारिणा प्रसभं हृतः। एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ।। तदनन्तरं मृगवधाय यावदसौ राजा धनुषि शरं संधत्ते, तावदेव द्वो वैखानसौ (संन्यासिनौ) 'आश्रममृगोऽयं न हन्तव्यो न हन्तव्य' इति निषेधयन्तौ दुष्यन्तं निवारयतः । सोऽपि तदादेशानुसारं सद्यः सायकं (तीरं) प्रतिसंगृहीतवान् । ततः ताभ्यां स्वात्मानुगुणं चक्रवर्तिनं तनयं प्राप्नूहि इति शुभाशिषं प्रदाय कण्वाश्रमे प्रवेशायानुरोधं कृत्वा समिदाहरणार्थं, प्रस्थितौ । ततो राजा तपोवनोवरोधो मा भूदिति रथादिकं बहिः संस्थाप्य दक्षिणबाहुस्पन्दनपूर्वकं विनीतवेषेण आश्रमं प्रविश्य तत्र सखीभ्यां समेताम् आम्रान् सिञ्चन्तीं शकुन्तलाम् आलोक्य आत्मगतं चिन्तयति - इदं किल व्याज मनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति । ध्रुवं स नोलोत्पल पत्रधारया शमील्लत छेत्तुमृषिर्व्यवस्यति ॥ सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव मधुराणां मण्डनं नाकृतीनाम् ॥२०॥ अत्रान्तरे भ्रमरपीडिता शकुन्तला आत्मानं परित्रातुं सख्यो प्रार्थितवती । ततः तयोः सपरिहासं भणति – के आवां परित्रातुम् । राजरक्षितव्यानि तपोवनानि । अतो दुष्यन्तनमाक्रान्द। स एवागत्य त्वां परित्रास्यति । अवसरं ज्ञात्वा दुष्यन्तस्य स्वात्मप्रकाशनम्, ससम्भ्रमां शकुन्तलां वीक्ष्य अनसूयाप्रियंवदयोः - राज्ञ आतिथ्यसामग्रीसञ्चयार्थं शकुन्तलायै आदेशदानम् । ततो राजा - भवतीनां सुनृतया गिरा एवं कृतमातिथ्यम् । ततः सखीसकाशात् तन्नामजन्माद्यवगम्य तदीयरूपलावण्याकृष्टो राजा ब्रवीति - मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः। न प्रभातरलं ज्योतिरुदेति वसुधातलात्।। इदं श्रुत्वा शकुन्तलाऽधोमुखी तिष्ठति । ततो नेपथ्ये – भो भोः तपस्विनः मृगयाविहारी राजा दुष्यन्तः प्रत्यासन्नो वरीवर्ति। अतः तपोवनसत्वरक्षायै सज्जीभवन्तु भवन्त इति श्रवणम् । किमस्मदन्वेषिणः पौराः तपोवनम् उपरुन्धन्ति। अतः आश्रमपीडा यथा न भवेत्तथा प्रयतिष्यामहे । दुष्यन्तरथदर्शनसम्भ्रान्तस्य कस्यचिद् वन्यगजस्य तपोवनप्रवेशं श्रुत्वा संभ्रान्ता मुनिकुमार्यः उत्तस्थुः कथयामासतुश्च आर्य वन्यगजवृत्तान्तेनानेन पर्याकुलः स्मः । अतोऽनुजानीहि उटजगमनाय। असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्ये विज्ञापयितुम् । राजापि मा मैवं दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य निर्गता। राजापि नगरगमनं प्रति मन्दौत्सुक्यः सन् यथा आश्रमबाधा न भवेत्तथा यतिष्ये इत्युक्त्वा निष्क्रान्तः का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥ जाने तपसो वीर्ये सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥ तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।। ३ ।। शक्यमरविन्दसुरभिः कणवाही मालिनीतरंगाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥ अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपंक्तिर्दृश्यतेऽभिनवा ॥ ९ ॥ स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयो न तु ग्रीष्मस्यैवं सुभगमपराद्धे युवातिषु ॥ १० ॥ क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावन्सौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥११॥ पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो निवृत्य बहुशोऽप्यनया सतृष्ण- मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ १२ ॥ स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः। दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ १३ ॥ इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः। अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १४ ! अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत् वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ १५ ॥ उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्या । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १६ ॥ तुज्झ ण आणे हिअअं मम उण कामो दिवावि रत्तिम्मि । णिग्घिण तवइ बलीअं तुइ वुत्तमणोरहाइं अङ्गाइं ॥ १७ ॥ तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१८॥ संदष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १९ ॥ इदमनन्यपरायणमन्यथा हृदयसंनिहिते हदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥२०॥ परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्रवसना चोर्वी सखी च युवयोरियम् ॥ २६ ॥ किं शीतलैः क्लमविनोदिभिरार्दवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ २२ ॥ उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गै: ॥ २३ ॥ गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनदिन्ताः ॥ २४ ॥ अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २५ ॥ मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२६॥ तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद् भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २७ ॥ सायंतने सवनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥ २८ ॥ इति तृतीयोऽङ्कः । तृतीयोऽङ्कः अथ कुशहस्तो यजमानः शिष्यः प्रविश्य राज्ञो दुष्यन्तस्य तपोवनप्रवेशात निरुपप्लवं निखिलं यज्ञकर्म संवृत्तमिति सगौरवं तस्य शौर्यं प्रतापातिशयं च वर्णयति विष्कम्भके - का कथा बाणसन्धाने ज्याशब्दे नैव दूरतः । हुंकारणैव धनुषः स हि विघ्नानपोहृति ।। ततो मुनिभिरनुज्ञातो दुष्यन्तः दूरीकरणाय श्रमक्लममनोविनोदाय च क्व गच्छामि ? अथ शशाङ्कमदनानुद्दिश्य कामव्यथां वर्णयन् सखीपरिवृता शकुन्तला मालिनी नदीतटे इमामुग्रां वेलामतिवाहयतीति तामन्विष्यन् मालिनीतीमाययी तत्र लतामण्डपे कुसुमास्तरणं शिलापट्टमधिशयानां सखीभ्यां नलिनीदलादिभिरुपचार्यमाणां शकुन्तलामक्षिलक्ष्यी चकार । बलवदस्वस्थशरीरायाः शकुन्तलायाः सखीभ्यां सह विश्रम्भालापांश्च संश्रोतुकामो नृपः शाखान्तरितो भूत्वाऽतिष्ठत्। ततः सखीभ्यां तदवस्थां ज्ञातुं पृष्टा सा ब्रवीति - सख्यौ तपोवनेऽस्मिन् राजर्षेः दुष्यन्तस्य आगमनादेव अहमिमां दशां गतास्मि। स एव मम शरणमिति निशम्य प्रियम्वदा मदनलेखात्मक प्रयोगं रुचिरं विचार्य देवताप्रसादोपदेशेन राजानं प्रति तत्प्रापणकार्यं स्वयं स्वीकरोति । ततो मदनलेखं विरच्य शकुन्तलया वाच्यमानं निशम्य सन्तुष्टान्तरात्मा दुष्यन्तः तमेवावसरं प्रकटयितुं मत्वा सहसोपसृत्य स्वीयां चानिर्वर्णनीयां दशां ताः प्रख्यापयति । ततः सख्यौ आहतुः - महाभाग ! एषा नौ प्रियसखी शकुन्तला भवन्तमेवोद्दिश्य मदनेनेदं दशान्तरं नीता । तदहस्यभ्युपपत्या जीवितमस्या अवलम्बितुं । यथा नेयं बन्धुजनशोच्या भवति तथा करोतु महाराज-इत्युक्त्वा मृगपोतकं तन्मात्रा सह मेलयितुं व्याजीकृत्य लतामण्डपाद् बहिः निर्यग्मतुः । अथ सख्योरनुसरणपरा शकुन्तला राज्ञा बलान्निवारिता । ततः किञ्चित्कालं चिरप्रार्थितवाञ्छासाफल्येन सुखितयोः परमानन्दमनुभवतोः तयोः स्वस्थोपलम्भनार्थं शान्त्युदकहस्ता गौतमी शकुन्तलामाह्वयन्ती तमेव प्रदेशमनुसृत्य। प्रोवती वत्से ! अनेन दर्भोदकेन ते शरीरं निर्बाधं भविष्यति । ततो जाते ! परिणतो दिवसः सायंकालः संजातः, उटजं गच्छामः इति सर्वाः प्रस्थिताः । अथ दुःखेन तामनुसरन्ती । सा लतावलयव्याजेन राजानमवोचत् - लतावलय ! सन्तापहारक ! आमन्त्रये त्वां पुनः परिभोगाय। एवं सापदेशं राजानमुक्त्वा निर्ययौ । तेनातिखिन्नमना राजा तत्रैव प्रेयसीविहृतस्थलादि स्मारं स्मारं कथञ्चिदतिवाह्य प्रियापरिभुक्तमुक्ते लतामण्डपे मुहूर्तं स्थित्वा विषण्णः सन् सवनकर्मव्यापृतानामृषीणां निशाचरभयवारणायागात् - सायन्तने सवनकर्मणि संप्रवृत्ते, वेदी हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः, सन्ध्यापयोदकपिशाः पिशिताशनानाम्॥ सत्यवसरे दुष्यन्तो गान्धर्वविवाहविधिना शकुन्तलामुद्वाह्य तया साकं किञ्चित्कालमतिबाह्य ऋषिभिरनुज्ञातः स्वां राजधानीं जिगमिषन् तस्यै स्वनामाङ्कितमङ्गुलीयकं प्रदाय प्रावोचत् प्रिये ! अत्र प्रत्यहमेकमेकं मदीयं नामाक्षरं गणनीयं यावदन्तं गच्छति तावद् ममान्तःपुरप्रापकः कश्चन विश्वस्तो जनः तव समीपमुपैष्यतीत्येवमाश्वास्य हस्तिनापुरं चचाल । चतुर्थोऽङ्कः कुसुमावचयव्यग्रयोः प्रियम्वदाऽनसूययोः सख्योः मिथः संवादेन शायते यत्तपोवने समारब्धस्य यज्ञस्य निर्विघ्नं समाप्तौ मुनिभिर्विसर्जितः राजा दुष्यन्तः स्वां राजधानीं प्रतिष्ठाय स्वान्तःपुरजनेने गान्धर्वविधिना परिणीतां सखीं शकुन्तला संस्मरिष्यन् वेति । तमेव राजानं ध्यायन्ती शकुन्तला खिन्नमना उटजेऽवतस्थे सन्निधावेव वर्तते । एतस्मिन्नेवावसरे - अतिथिपरिभाविनि। ये स्वं प्रियमनन्यमनस्कतया विचिन्तयन्तीं आतिथ्येन द्वारदेशे समुपस्थितं मां तपोधनं न वेत्सीत्यतो बोधितोऽपि स ते प्रियः विवाहवृतं न स्मरिष्यतीति शप्त्वा सुलभकोपो महर्षिः दुर्वासा प्रतिनिवृत्तः । विचिन्तयन्ती यमनन्यमानसा, तपोधनं वेत्सि न मामुपस्थितम्। स्मरिष्यति त्वां न स बोधितोऽपि सन् कथा प्रमत्तः प्रथमां कृतामिव॥ इमं व्यतिकरं निशम्य अनसूया सपदि मुनिप्रसादनाय प्रियम्वदां प्राहिणोत् । तया च मुनिचरणयोः प्रणिपत्य भूयो भूयोऽनुनीतो महर्षिरवादीत् - मम शापोऽन्यथा न भावी, किन्त्वभिज्ञानाभरणदर्शनेन स शापो निवर्तयिष्यते इत्यभिधायान्तर्हितो जातः । सख्यौ च नगरगमनसमये राज्ञा शकुन्तलायै प्रदत्ताङ्गुलीयकं स्मृत्वा शकुन्तलाचित्तोद्वेगभिया तच्छापवृत्तं तस्यै न निवेदितवत्यो । अथ सोमतीर्थयात्रातः प्रतिनिवृत्तेन महर्षिणा कण्वेनाग्निगृहे प्रवेशे कृतेऽशरीरिण्या व्योमवाचा शकुन्तलाया दुष्यन्तेन साकं संवृत्तं वृत्तमवोचि। ततो महर्षिः ब्रीडावनम्रां शकुन्तलामाश्लिष्य तत्कर्माभिनन्द। पतिगृहं प्रेषयितुकामः तदीय प्रस्थानमङ्गलविधिमादिदेश च। गौतम्यादिभिः जरतीभिः तापसीभिराशीर्वचनपूर्वकं निर्वतितप्रस्थानकौतुका, सखीकृतमङ्गलसमारम्भे च शकुन्तला मालिन्यां स्नानादिकृत्यं कृत्वाऽऽगतं तातकण्वं प्रणनाम । स च प्रेमगद्गदया वाचा - जाते ! शाकुन्तले ! आत्मसदृशेन भर्त्रा त्वं संगतेति प्रसीदतितमां मे चैतः। पतिगृहं समुपस्थाय मर्यादापालनपूर्वकं पति-सपत्नी-श्वसुर-श्वश्रू-परिजनादीनां सन्तोषकरकार्ये कार्यमित्यादिश्य, ययातेः शर्मिष्ठेव भर्तुः बहुमता भवेत्याशिषमदात्। ततः शकुन्तला तातानुरोधेन हुताग्नीन् प्रदक्षिणीकृत्य वनदेवताश्च प्रणम्य विभिन्नैः वृक्षादिभिः दत्तानि दिव्यानि आभरणवस्त्राणि परिधीय स्नेहविक्लवेन कण्वेन, वयस्याभ्यां चानुगम्यमानी पदे पदे स्खलन्ती प्रतस्थे । उदकान्तं प्रियजनोऽनुगन्तव्य इति शास्त्रनियमेनोदकान्तं गत्वा महर्षिः कण्वो दुष्यन्ताय समुचितं सन्दिश्य शकुन्तलामपि प्रसङ्गोचितमुपदिशत्। सख्यावपि प्रियम्वदानसूये - प्रियसखि ! शकुन्तले ! यदि स राजा प्रत्यभिज्ञानमन्थरो भवेत्तदा नगरगमनसमये तुभ्यमर्पितं तदङ्गुलीयकं तस्मै दर्शयितव्यमिति संदिदिशतुः । ततो गौतमी-शार्ङ्गरवशारद्वतैः सह शकुन्तला हस्तिनापुरं प्रतस्थे, कण्वश्च प्रियम्बदानुस्याभ्यां साकं शकुन्तलाशून्यं स्वाश्रमं प्रति परावृत्तः स्नेहप्रवाहाविमर्शपूर्वकं प्रावोचत् - अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः। जातो ममायं विशदः प्रकामं प्रत्यार्पितन्यास इवान्तरात्मा ॥ पञ्चमोऽङ्कः अथास्मिन् वयस्येन माधव्येन सह राजधान्यां नागरिकवृत्या लयतालबद्धं हंसपदिकागीतं निशम्य तदर्थं स्मारं स्मारं कामप्यन्तर्व्यथामानुभवति राजा दुष्यन्तः । अत्रैवान्तरे कुलपतेः कण्वस्यादेशमादाय तपोवनात् सस्त्रीकाः तपस्विनः समायाता इति कञ्चुकी निवेदते । ते श्रौतेन विधिना सत्कृत्य यशालायां प्रवेशयितव्या इत्यादिश्य राजापि तान् प्रतिपालयितुं तत्रोपतिष्ठते । ततः सोमरातः पुरोहितो राजाज्ञया श्रौतेन विधिना तान् सत्कृत्य शालामुपस्थापयत्। तच्च प्रविष्टास्ते आशीर्वचनपूर्वकं राज्ञे अवगुण्ठनवती शकुन्तलामधिकृत्य कण्वस्य सन्देशं न्यवेदयन् - सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते। अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः।। परं महर्षेः दुर्वाससः शापप्रभावेण स शकुन्तलायाः परिणयविधिं विसस्मार अकथयच्च यत्, भो भोः तपस्विनः! निपुणं विचारयन्नपि न स्मरामि अस्याः देव्याः पाणिग्रहणम् । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रति आत्मानं क्षत्रिणं मन्यमानः प्रतिपत्स्ये। तत्कण्वस्यान्तेवासिनां साधिक्षेरमुक्तोऽपि शकुन्तलायाः अवगुण्ठनापनयनानन्तरं प्रत्यक्षीकृत्यापि यदा नाङ्गी चकार तदाऽभिज्ञानेन तस्य शङ्कामपनेतुं शकुन्तला प्रववृते, परमङ्गुलीयकशून्यामङ्गुलीं दृष्ट्वा परमं विषण्णा सती तस्मै दीर्घापाङ्गमृगशावक जलपानप्रत्ययवचनं दत्तवती । तथापि वैफल्ये सति राजाऽवोचत् - आत्मकार्ये निर्वर्तनीनामनृतवाङ्माधुरीभिः विषयिण आकृष्यन्ते। उड्डयनशक्तेः पूर्वं परभृतः स्वानि अपत्यानि काकैः परिपोषयन्ति । अशिक्षितास्वपि स्त्रीषु परवञ्चनकौशलं प्रसिद्धमेव । अतो वनवासवर्धितापीयं शकुन्तला स्त्रीभावसुलभं वञ्चनकौशलं जानात्येव। यदि स्त्रीजातौ समुत्पन्नासु शिक्षणं विनैव नैसर्गिकं वञ्चनपङ्कत्वं दृश्यते, तर्हि वाग्व्यवहारकुशलासु मानुषीषु किं वक्तव्यम्? स्त्रीणामशिक्षितपटुत्वममानुषीषु, संदृश्यते किमुत याः प्रतिबोधवत्यः। प्रागन्तरिक्षगमनात् स्वमपत्यजातम्, अन्यैद्विजैः परभृताः खलु पोषयन्ति।। त्वं जनयित्वा जङ्गके उत्सृष्टा कोकिलेवपरैः भृतासि । अतः कामं गच्छ, तिष्ठ वा यदेच्छं कुर। एवं स्वजनन्युपमर्देन सन्तप्ता शकुन्तला दुष्यन्तं प्रति - अनार्य ! आत्मनोऽनुमानेन सर्वान् प्रेक्षसे इति। तृणैराच्छन्नकूपस्य इव धर्मकञ्चुकिनः त्वत्तोन्य संसारे कः पापबुद्धिः। ततो गौतमी - जाते! पुरुवंशप्रत्ययेन मधुरभाषिणो हृदयनिहितविषस्य दुष्यन्तस्य हस्ते त्वमुपगता। ततः सकुन्तला पटान्तरे मुखमाच्छाद्य रोदिति। ततः शारद्वतोऽब्रवीत् - शार्ङ्गरव! किमुत्तर-प्रत्युत्तरेण। अस्माभिः गुरोर्नियोगोऽनुष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! किमुत्तर-प्रत्युत्तरेण। अअस्माभिः गुरोः नियोगोऽनिष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! गच्छाग्रतः। शकुन्तले! पतिकुले ते दास्यमपि शुचिव्रतमित्यादिश्य सर्वे प्रस्थिताः। राज्ञा समयोचितं कर्तव्यें पुष्टः पुरोधा प्रोक्तवान् - इयं देवी तावत् मम गेहे एवाप्रसवं तिष्ठतु। त्वं प्रथमं चक्रवर्तिनं पुत्रं जनायिष्यसीति सिद्धैरादिष्टम्। तत् यदि मुनिदौहित्रः तल्लक्षणोपपन्नः स्यात्तर्हि इमामनभिनन्धान्तःपुरे प्रवेशयिष्यसि, विपर्ययेऽस्याः पितुः समीपे गमनमुचितम्। राज्ञानुमतो।सौ यदास्वगृहं गन्तुं प्रववृते तदैव 'भवगति वसुधे! देहि मे विवरमि'त्यभिदधाना स्वानि भाग्यानि च निन्दन्तीं क्रन्दमानां च तां शकुन्तलां स्त्रीसदृशमेकं ज्योतिरुत्क्षिप्याप्सरस्तीर्थे जगामेति पुरोहितो निवेदयति। तस्मिन्नुदन्ते साश्चर्यः पर्याकुलो राजा शयनागारं प्रविष्टश्चिन्तयति - कामं प्रत्यदिष्टां स्मरामि न परिग्रहं मनुेस्तनयाम्। बकवत्तु दूयमानं प्रत्यापयतीव मे हृदयम्।। षष्ठोऽङ्कः अथ गच्छति किञ्चित्काले शक्रावतारतीवर्ती कश्चिद् धीवरी रत्नजटितं राजनामोत्कीर्णे बहुमूल्यसेकं स्वर्णमयमङ्गुलीयकं विक्रेतुमापणे गच्छन् राजपुरुषाभ्यां बद्धहस्तो नगररक्षकराजश्यालकसमीपमानीतः। अङगुलीयकागमनकारणं पृष्टः स ब्रते - स्वामिन् ! जालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणपोषणं करोमि । एकदा मया जाले एको रोहितो मत्स्य आसादितः । खण्डशः कल्पितस्य तस्य मत्स्यस्योदरे रत्नभास्वरमिदमङ्गुलीयकं मया लब्धा विक्रमापणे आगतः, आभ्यां गृहीतः आनीतश्च । तदाकण्ये नगरपालः तदङ्गुलीयकमादाय राजकुलं गत्वा राजशासनं प्रतीक्ष्य प्रत्यागतो रक्षिणावुवाच – मुच्यतामेष जालोपजीवी धीवरः । विदितोऽस्याङ्गुलीयकस्यागमवृत्तान्तः, एषोऽङगुलीयकमूल्यसम्मितः प्रसादोऽपि सन्तुष्टेन राज्ञाऽस्मै प्रदत्त, इत्युक्त्वा तस्मै धीवराय, स्वर्णकङ्कणं दत्तवान् चकार च तेन साकं कादबरो-मैत्रीम्। अथ मेनकासहचरी सानुमती नामाप्सराः पर्यायनिवर्तनीयमप्सरस्तीर्थसान्निध्य सम्पाद्य राज्ञो दुष्यन्तस्य प्रमदवने प्रविष्टा तिरस्करिणी प्रतिच्छन्ना राज्ञः पार्श्ववर्तिनी भूत्वा तस्थौ । अङ्गुलीयकदर्शनेन स्मृतशकुन्तलो राजा क्वापि शान्तिं न लेभे, वसन्तोत्सवं प्रतिषिध्य माधव्याद्वितीयः शकुन्तलावृत्तान्तं भूयो भूयः स्मरन् निन्दंश्चात्मनश्चेष्टितं शकुन्तला-चित्रलेखनादिना तद्विषयकालापैश्च कथं कथमपि निनाय दिवसान् । प्रत्यादेश-विमानितायाः शकुन्तलाया विरहेन दुःखमनुभवन्, रात्रौ जागरणात् न मया धर्मासनमध्यासितुं सम्भावितमतो यत् प्रत्यवेक्षितममात्येन तत् पत्रमारोप्यतामिति पौरकार्यपर्यवेक्षणे नियुक्तममात्यमादिशति । ततः समुद्रव्यापारव्यवहारी सार्थवाहो धनमित्रो नौव्यसने विपन्नः। अतोऽनपत्यस्य तस्यार्थसंचयो राजगामी भवेदित्यमात्येन लिखितं विचार्यात्मनोऽनपत्यतां स्मरन् मदवसाने पुरुवंशश्रिय एष एव विपाको भवितेति भावयन्, बहुपत्नीकस्य तस्य धनिकस्य काचिद्भार्या आपन्नासत्वा स्यात्तर्हि तद्भार्यागर्भस्थ एवं शिशुः पित्र्यं रिक्तमर्हतीत्यादिशति धर्मात्मा राजा दुष्यन्तः । इमं निखिलं वृत्तान्तं मेनकानियुक्ता सा सानुमती प्रत्यक्षीकृत्य स्वसख्यै मेनकायै प्रियमिदं निवेदयितुं कामा ततो दिवं निर्जगामः। अत्रान्तरे केनापि अलक्षितेन सत्त्वेनाक्रान्तो माधव्योऽब्राह्मण्यमुद्घोषितवान् । ततो भूयः तस्मिन् मेघप्रच्छन्ने प्रासादे आर्तस्वरं निशम्य स्ववयस्यस्य संरक्षणाय स्वधनुषि अमोघं स्वं बाणं सन्दधे । तदा माधव्यमुन्मुच्येन्द्रसारथिर्मातलिराविर्भूय ‘हरिणा असुरास्ते शरण्ये कृताः, तेष्वेवेदं धनुः विकृष्यतां न मयि' इत्युवाच। तदनु राज्ञाभिनन्दितोऽसौ तस्मै स्वागमनकारणमाख्यत् - राजन् ! कालनेमिप्रसूतो दुर्जयो नाम दानवगणः ते सख्युरिन्द्रस्याजयो जातः । तस्य त्वं निहन्ता स्थितः । अत आत्तशस्त्रं इममिन्द्ररथमारुह्य विजयाय प्रतिष्ठिताम् । तदाकर्ण्य राजा दुष्यन्तः 'अनुगृहीतोऽस्मि अनया मघोनः संभावनया' इत्युक्त्वा माधव्यस्याक्रमणकारणं पृष्ट्वा ज्ञाततथ्यः स्वगमनवृत्तान्तममात्याय निवेदयितुमादिश्य तस्मिन् राजभारं च नियोजितवान् प्रहृष्टमना - त्वन्मतिः केवला तावत् परिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥ तदनन्तरं स वासवीयं रथमारुह्य दिवं प्रस्थितवान् । सप्तमोऽङ्कः अस्मिन्नङ्के कालनेमिप्रसुतं दर्जदानवगणं निहत्य देवकार्य-सम्पादनानन्तरं देवराजस्य सत्क्रियया संभावितो राजा दुष्यन्तो व्योमयानेनावतरद् मातलि-परिचायिता देवभूमीरवलोकयन् मध्ये मार्गे हेमकूटं किंपुरुषवर्षपर्वतं दृष्ट्वा तत्र तपश्चरतः सपत्नीकस्य मरीचिनन्दनस्य देवपितुः कश्यपस्य दर्शनलालसया तदाश्रममवतरति । तत्र प्रजापतिः कश्यपः स्वभार्यया दक्षकन्ययाऽऽदित्या पतिधर्ममधिकृत्य पृष्टो महर्षिपत्नीभिः सहितायै तस्यै उपदिशतीति ज्ञात्वा अशोकवृक्षमूले राजा समुपविशति, मातलिश्च राजागमनं निवेदयितुमवसरं ज्ञातुं च महर्षिसमीपे प्रस्थितः। तत्र नरपतिः शुभसूचकचिह्नमनुभवन् तापसीभ्यां निषिध्यमानेनाबालसत्वेन बालेन संक्रीडितुं सिंहशिशुं बलादाकृष्ण जुम्भस्व सिंह ! दन्तांस्ते गणयिष्ये इति वीरोचितैः कृत्यैः औरससुतानुरागेण चाकृष्टो भवति । कस्य कृतिनो बीजमयं बाल इति विमृशन् स सिंहशावकादन्यत् क्रीडनकं ग्रहीतुं प्रसारितकरस्य तस्य बालकस्य हस्ते चक्रवर्तिलक्षणं दृष्ट्वा हृष्टः। ततो वाग्व्यापारेणायं विरमयितुमशक्य इति मत्वा एका तापसी तं प्रलोभयितुं मृत्तिकामयूरमानेतुं स्वकुटीरे जगाम । ततो द्वितीया इतस्ततोऽवलोक्य राजानमवोचत् - भद्रमुख ! मोचय नेन दुर्मोकहस्तेन बाध्यमानं बालमृगेन्द्रम् । ततस्तावत्तद्वचनमनुतिष्ठन् बालस्पर्शसुखमुपलभ्य कामपि अपूर्वां निर्वृतिमेतः स तां तद्बालकवंशपरिचयादिकं पप्रच्छ । सा च तस्य पुरुवंशप्रभवत्वम् अप्सरसः संभवत्वं चावोचत्। यदा च केसरिकिशोरकविमर्दात्तन्मणिबन्धात् परिभ्रष्टं रक्षाकरण्डकं दुष्यन्तो यावद् गृह्णाति, तावत्तापसी निवेदयते - एषा अपराजिता नामौषधिरस्य शिशोः जातकर्मसमये भगवता कश्यपेन बद्धा । यदि जननी जनकं बालकं वा विहायान्यः कश्चिद, भूमिपतितामेनां गृह्णाति तदा सर्पो भूत्वा तं दशतीत्यनेको दृष्टचरम् । ततः स्वपुत्र एवायमिति जातनिश्चयो बालं प्रेम्णापरिसवाजे । ततस्तापसीभ्यां तदुदन्तमुपलभ्य तत्रागतां शकुन्तलां समीक्ष्य राजा तामभिननन्द। ततो मातरमालोक्य सर्वदमनः - मातः ! क एषः पुत्र इति कथयित्वा मामालिंगति । ततः सा - आयुष्मन् स्वं भाग्यं पृच्छेत्युत्तरयति । ततः प्रणिपातादिना शकुन्तलाया विषादशल्यमुद्धरनुवाच राजा - प्रिये ! मया त्वं मोहात्स्वयमुपस्थितापि उपेक्षिता । एवं पश्चात्तापदूनहृदयो नृपोऽङ्गुलीयकोपालम्भात् स्मृतिरूपलब्धेत्युक्त्वा तस्यै तदङ्गुलीयकं दर्शयति । विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । नास्य विश्वसिमि । आर्यपुत्र एवैतद् धारयतु । तत्र च तादृशं भूपं वीक्ष्य मातलिसौभाग्येनायुष्मान् धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च वर्द्धसे इत्युक्त्वा तं संभावयामास । ततो राजा–मातले ! वृत्तान्तेनानेनाखण्डलोऽवबोद्धव्य इति विचारे मातलिः विहस्याह - किमीश्वराणामविदितं, सर्वं जानाति स सहस्राक्षो देवराजः । ऐतु आयुष्मान् सपत्नीको मरीचिनन्दनो महर्षिः कश्यपः ते दर्शनं वितरति । अनन्तरं सकलत्रपत्रो राजा भगवन्तं कश्यपमदिति च द्रष्टुमुपस्थितः । ततो महर्षिः कश्यपोऽपि स्नेहदृष्ट्या शुभाशिषा तावनुगृह्य आयुष्मन् ! दुर्वाससः शापादियं तपस्विनी शकुन्तला त्वया प्रत्यादिष्टा नान्यथा, वत्से ! चरितार्थासि सहधर्मचारिणं दुष्यन्तं प्रति त्वया मन्युर्न कार्य इत्याभाष्य प्रत्यादेशविषये उभावपि निवृत्तचित्तौ कृत्वा शुभाशिषा संयोजयति - आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ मेनकापि तत्र भर्तृपुत्रसहितां दुहितरं दृष्ट्वाऽतिमुमुदे । ततो दुष्यन्तो भगवता मारीचेन विसृष्टः पत्रकलत्राभ्यां सदिते दिव्यर्मैन्द्रं रथमारुह्य पौरैरभिनन्द्यमान स्वं नगरं प्रविवेश । बाह्यसम्पर्कतन्तुः Abhijnana Sakuntalam - Transliterated text at GRETIL Complete translation by Arthur W. Ryder सन्दर्भाः कालिदासस्य कृतयः संस्कृतनाटकानि सारमञ्जूषा योजनीया‎
4272
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%97%E0%A4%AE%E0%A4%A4%E0%A5%80
बागमती
जिल्ला: काठमाडौं ललितपुर भक्तपुर नुवाकोट रसुवा धादिङ सिंधुपाल्चोक काभ्रेपलान्चोल सर्वे अपूर्णलेखाः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः न प्राप्तः भाषानुबन्धः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4273
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%A0%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%82
काठमाण्डू
काष्ठमण्डपः (नेपाली भाषायांः काठमाडौं) नेपालदेशस्य राजधानी नगरम् अस्ति । उपदशलक्षाः अत्र निवसन्ति । नेपालस्य महत्तमनगरेषु अन्यतमम् अस्ति । अस्मिन् महानगरे ललितपुर-भक्तपुरनामिके भगिनिनगरे स्त । बहवः लघूनि नगराणि सन्ति । इदं नगरं नेपालस्य केन्द्रभागे १४०० मीटर्मिते कंसाकारिकायाम् उपत्यकायां शिवपुरि-फूल्चौक्-नागार्जुन-चन्द्रगिरिशिखराणां मध्ये विद्यते । काठ्माण्डूनगरं - काठ्माण्डू, ललितपुरम्, भक्तपुरम् इत्येतैः त्रिभिः मण्डलैः युक्तः अस्ति । देशे अत्यधिका जननिबिडता अत्रैव दृश्यते । पञ्चदशांशात्मिका जनसङ्ख्या विद्यते । काठ्मण्डू नेपालस्य राजधानीमात्रं न, इदं केन्द्रभागस्य (मध्यमाञ्चलस्य) प्रमुखकेन्द्रं वर्तते । केन्द्रभागः - भागमती, नारायणी, जनकपुरम् इत्येतैः त्रिभिः विभागैः युक्तः वर्तते । तस्मिन् काठ्मण्डू भागमतिविभागे अन्तर्भवति । जनाः हिन्दुधर्मस्य बौद्धमतस्य च अवलम्बिनः दृश्यन्ते अधिकतया । नेपालीभाषा बहुभिः उपयुज्यमाना भाषा । शिक्षितैः आङ्ग्लभाषा अवगम्यते । ९८% जनाः अक्षरज्ञाः सन्ति । 'युनेस्को'संस्थया काठ्मण्डु-उपत्यका (काठ्मण्डु-ललितपुर-भक्तपुरश्च) जागतिकपारम्परिकस्थलत्वेन परिगणिता अस्ति । नामनिष्पत्तिः 'काठ्मण्डु' इत्येतत् नाम 'काष्ठमण्डप' इत्यतः निष्पन्नम् । 'मरुसत्तल ' इत्यपि प्रसिद्धम् इदं विशिष्टं मन्दिरं राजा लक्ष्मीनरसिङ्गमल्लेन १५९६ तमे वर्षे निर्मितम् । अट्टद्वयात्मकम् इदं समग्रं मन्दिरं काष्ठेन एव निर्मितम् अस्ति । इदं नगरं 'कान्तिपुरम्' इत्यपि निर्दिश्यते स्म । 'कान्तिः' इत्येतत् लक्ष्माः अपरं नाम । इतिहासः पुरातत्त्वज्ञैः काठ्मण्डुप्रदेशे कृतेन गवेषणेन प्राचीनसंस्कृतेः अवशेषाः प्राप्ताः सन्ति । तेषु अन्यतमः अस्ति मालिगान्प्रदेशे दृष्टा क्रि श १८५ तमे वर्षे निर्मिता प्रतिमा । धण्डोचैत्ये कृतात् खननात् ब्राह्मीलिप्या युक्ता काचित् इष्टिका प्राप्ता अस्ति । इयं २००० वर्षप्राचीना इति विश्वस्यते पुरातत्त्वज्ञैः । प्राचीनेतिहासः काठ्मण्डुनगरस्य प्राचीनेतिहासः पुराणसम्बद्धः । स्वयम्भूपुराणानुगुणम् इदं नगरं पूर्वं 'नागदहः' नामकः सरः आसीत् । इदं सरः मञ्जुश्री शुष्कीकृत्य तत्र मञ्जुपत्तनं निर्मितवती । तस्य राजा आसीत् धर्माकरः । नेपालीयानां वंशवृक्षस्य अध्येता गोपालराज् वन्सवली वदति यत् लिचचाविनां शासनात् पूर्वं इदं मण्डलं गोपालः, महिष्पालाः, आभिराः, किराताश्च अशासन् इति । प्राचीनोल्लेखाः अत्यल्पाः उपलभ्यन्ते । मध्यकालीनेतिहासः अस्मिन् समये काठ्मण्डुनगरस्य शासकाः आसन् लिच्छविजनाः मल्लाश्च । नगरस्य वर्धनम् अस्मिन् काले एव अधिकतया जातम् । बहवः ऐतिहासिकानि मन्दिराणि, आश्रमाः भवनानि च अस्मिन् एव काले निर्मितानि । इदं नगरं भारत-चीनदेशयोः वाणिज्यस्य केन्द्रभूतम् आसीत् । लिच्छवियुगे इदं नगरं द्विधा विभक्तम् आसीत् - कोलिग्राम् (यम्बु/थःने) दक्षिण-कोलिग्राम् (येङ्गाल्/क्वःने) च इति । अग्रे गुणकमदेव एतद्वयं संयोज्य मञ्जुश्रीस्य खड्गाकारकं नगरं निर्मितवान् । नगरं परितः अष्ट मातृका सहितं सेनावासाः रचिताः आसन् । अजिमाः एतेषां नायकाः आसन् । नगरं सम्पदः देव्याः कान्ते नाम्ना कान्तिपुरम् इति नामाङ्कितम् आसीत् । मानगृह-कैलासकूटभवन-भद्रादिवासभवन-इत्यादीनां भवनानाम् उल्लेखः कृताः दृश्यन्ते तदानीन्तनैः यात्रिकैः संन्यासिभिश्च । सप्तमशतकस्य लिच्छविराजस्य अंशुवर्मणः प्रासादस्य कैलासकूटभवनस्य उल्लेखः प्रसिद्धेन चैनीयात्रिकेण झुवाङ्ग्जाङ्गेन कृतः दृश्यते । अग्रे मल्लयुगः आरब्धः । तदा काठ्मण्डु - कान्तिपुर-ललितपुर-भक्तपुर-कीर्तिपुरनामकैः चतुर्भिः नगरैः युक्तम् आसीत् । एतेषां मण्डलानां मध्ये कला-शिल्प-वाणिज्यादिषु विषयेषु महती स्पर्धा भवति स्म इत्यनेन सर्वत्र महती प्रगतिः दृष्टा । विविधाः कलाविदः कलाप्रचाराय देशे विदेशे च बहु अटन्ति स्म । एषियाखण्डस्य बहुत्र तैः कलाप्रचारः कृतः । सार्वजनिकभवनानां, मन्दिराणां निर्माणे, नीतिसंहितायाः सज्जीकरणे, नाटकादीनां लेखने, जनसम्मर्दप्रदेशेषु तस्य प्रदर्शने च स्वयं राजानः एव आसक्तिं प्रदर्शयन्ति स्म । राज्ञः प्रतापमल्लस्य शिलालेखेषु भारत-टिबेट्-चैना-पर्शिया-युरोप्-इत्यादिभ्यः देशेभ्यः प्राप्तानि चिन्तनानि उल्लिखितानि दृश्यन्ते । तन्त्राख्यान, हरमेखला (वैद्यकीयम्), मूल्देवशशिदेव (धर्मः), अमरकोशः इत्यादयः ग्रन्थाः अस्मिन् युगे एव रचिताः । अस्मिन् युगे निर्मितानि प्रसिद्धानि भवनानि - कठ्मण्डु दर्बार् स्क्वेर्, पाटन् दर्बार् स्क्वेर्, भक्तपुर् दर्बार् स्क्वेर्, कीर्तिपुरस्य भूतपूर्व दर्बार्, न्यातपोल, कुम्भेश्वर, कृष्णमन्दिरं च । आधुनिकेतिहासः मल्लशासनात् अनन्तरं गोखसाम्राज्यस्य उदयः आधुनिकयुगस्य आरम्भकालः । काठ्माण्डु तेषां राजधानी आसीत् । नव-अट्टयुक्तं बसन्तपुरभवनम् इत्यादीनि नेपालीशिल्पकलायुक्तानि नूतनानि भवनानि निर्मितानि । प्रतिवेशिदेशैः सह जातात् निरन्तरयुद्धात् वाणिज्यं कुण्ठितं जातम् । ग्रेट्ब्रिटन्देशस्य विरुद्धं फ्रान्स्देशेन सह भीमसेनथापेन कृतस्य सन्धेः कारणतः नूतनसेना व्यवस्थापिता जाता । ब्रिटीश्विरुद्धनीतिः ब्रिटीश्परं जातं राणस्य शासनकाले । तदा एव विदेशीशिल्पकलायाः प्रगतिः अत्र दृष्टा । अस्य कालस्य प्रमुखानि भवनानि सन्ति - सिंहदर्बार्, कैसर्महल्, शीतल्निवास्, प्राचीननारायणहितिप्रासादः च । 'न्यूरोड्' इत्येषः अस्मिन् युगे निर्मितः आधुनिकवाणिज्यमार्गः । भूगोलम् काठ्मण्डुनगरं काठ्मण्डु-उपत्यकायाः वायव्यदिशि विद्यते । अस्य विस्तारः अस्ति ५०.६७ चतरस्रकिलोमीटर्मितम् । समुद्रतीरात् सामान्यम् औन्नत्यं विद्यते १३५० मीटर्मितम् । नगरस्य दक्षिणभागे ललितपुरम्, नैरुत्यदिशि कीर्तिपुरम्, पूर्वदिशि मध्यपुरम्, अन्यासु दिक्षु विविधाः ग्रामाः विद्यन्ते । नगरे अष्ट नद्यः प्रवहन्ति यासु बागमती, विष्णुमती, धोबिखोला, मनोहरा, हनुमन्त्, तुकुचा च मुख्याः सन्ति । एतासां नदीनाम् उगमस्थानरूपाः पर्वताः १५००-३००० मीटर्मिते औन्नत्ये विद्यन्ते । अत्र अधिकतया ओक्, एल्म्, बीच्, मापल् वृक्षाः दृश्यन्ते । नेपालदेशे पञ्च विभिन्नवातावरणयुक्ताः प्रदेशाः निर्दिष्टाः सन्ति । तेषु काठ्मण्डु-उपत्यका उष्णवातावरणयुक्तः (१२००-२३०० मीटर्-औन्नत्यम्) प्रदेशः इति निर्दिश्यते यत्र वातावरणं हितकरं भवति । उष्णकाले अत्र २८०-३०० सेण्टिग्रेड्मितं भवति । शैत्यकाले १०.१० सेण्टिग्रेड्मितम् उष्णं भवति । आर्थिकता भारत-टिबेट्देशयोः मार्गे काठ्मण्डुनगरस्य वाणिज्यं वर्धितम् । टिबेट्नगरे लासायां तेषां वाणिज्यं प्रसिद्धम् आसीत् । तेषाम् अन्याः वृत्तयः नाम कृषिः, काष्ठकार्यम्, वयनम्, कौलालं च । नेपालीयलोक्तकागदस्य पश्मिनाराङ्कवाणां च वाणिज्याय काठ्मण्डु प्रसिद्धं वर्तते । नेपालस्य औद्योगिक-वाणिज्यकेन्द्रमस्ति काठ्मण्डु । इदं बहूनां संस्थानां वित्तकोषाणां सङ्घटनानां च मुख्यकेन्द्ररूपेण विद्यते । नगरस्य आर्थिकतायां वाणिज्यस्य २१%, उत्पादनस्य १९%, कृषेः ९%, शिक्षणस्य ६%, परिवहनस्य ६%, उपाहारमन्दिरस्य ५% भागः भवति । नेपालस्य धनिकाः बहवः अत्र यद्यपि निवसन्ति नगरस्य अधिकांशाः जनाः निर्धनाः सन्ति । प्रवासोद्यमः नेपालदेशे प्रवासोद्यमः १९५० तमे वर्षे आरब्धः । ततः देशस्य राजनैतिकी स्थितिः सम्पूर्णतया परिवर्तिता । जगता सह सम्बन्धः आरब्धः । १९५६ तमे वर्षे वैमानिकव्यवस्था आरब्धा, काठ्मण्डु-राक्सर्-एतयोः मध्ये राष्ट्रियमुख्यमार्गः निर्मितः । नेपालदेशः अन्तर-राष्ट्रिय-प्रवासोद्यमसंस्थासु सदस्यत्वं प्राप्नोत् । नगरस्य अधिकांशानां जनानां प्रवासोद्यमः एव जीविका । हिन्दु-बौद्ध-यात्रिणः अत्रत्यानि पशुपतिनाथ, कैलासनाथ-महादेव-प्रतिमा(जगतः अत्युन्नतः शिवमूर्तिः), स्वयम्भुनाथ, बौद्धनाथ, बुधनीलकण्ठ-इत्यादीनां स्थलानां दर्शनाय आगच्छन्ति । यात्रिणां सङ्ख्या निरन्तरं वर्धमाना दृश्यते । हिमालयस्य प्राकृतिकसौन्दर्यं देशस्य वैभवपूर्णा सांस्कृतिकी सम्पत्तिश्च अस्य उद्यमस्य यशस्वितायै प्रमुखाः हेतवः । सर्वकारः पौरव्यवस्था च काठ्मण्डुमहानगरं पञ्चधा विभक्तम् अस्ति - केन्द्र-पूर्व-उत्तर-नगर-पश्चिमभागाः इति । पौरशासनाय नगरमिदं ३५ निर्वहणपाल्यत्वेन विभक्तम् । नगरपालिकायाः निर्वहणाय १७७ निर्वाचितसदस्याः २० नियुक्तसदस्याः च भवन्ति । वर्षे द्विवारम् अस्याः गोष्ठी प्रचलति यस्याम् अभिवद्ध्यै अपेक्षिताः निर्णयाः स्वीकरिष्यन्ते । जनसङ्ख्या अत्रत्या जनसङ्ख्या अस्ति ६,७१,८४६ (२००१ जनगणतेः आधारेण) । पूर्वारभ्य नेवारजनाः अत्र अधिकाः सन्ति । ९,१५,०७१ - २०११ तमे वर्षे । १३,१९,५९७ जनसङ्ख्या भवेत् इति ऊह्यते २०२१ तमे वर्षे । जनसङ्ख्यायाः वर्धनानुगुणं भूविस्तारः अपि चिन्त्यमानः अस्ति । संस्कृतिः कलाः काठ्मण्डु-उपत्यका कला-शिल्पकलानाम् आगारम् इति उच्यते । काष्ठ-शिला-धातु-इत्यादिभिः निर्मिताः शिल्पकलाः मन्दिरेषु, स्तूपेषु, चैत्यासु, प्रासादेषु च दृश्यन्ते । देवतानां कलाकृतयः मार्गेषु, गृहेषु च दृश्यन्ते । एताः कलाः बहु पूर्वारभ्य विद्यते स्म चेदपि जगति तस्य प्रसारः १९५० तमवर्षात् अनन्तरं जगतः कृते देशस्य द्वाराणि यदा उद्घाटितानि तदा एव जातः । सङ्ग्रहालयाः दि न्याषनल् सङ्ग्रहालयः, दि न्याचुरल् हिस्टरि सङ्ग्रहालयः, हनुमन्धोक-प्रासाद-समुच्चयः, कैसर्-ग्रन्थालयः, दि पटान् सङ्ग्रहालयः, राष्ट्रिय-कलाशाला, नेपाल्-फैन्-आर्ट्-ग्यालरि, नेपाल्-आर्ट्-कौन्सिल्-ग्यालरि इत्यादयः काठ्मण्डुनगरे विद्यमानाः केचन सङ्ग्रहालयाः । सङ्गीतम् नेपालदेशे काठ्मण्डु सङ्गीतनृत्यानां केन्द्रं वर्तते । 'गुन्ला' इत्येषः साम्प्रदायिकः सङ्गीतोत्सवः । नेवारसङ्गीतस्य उगमस्थानमस्ति काठ्मण्डुनगरम् । नेपाले विद्यमानाः सर्वे सङ्गीतप्रकाराः अत्र द्रष्टुं शक्याः । १९७० तमे वर्षे बहवः हिप्पिजनाः अत्र आगत्य राक् राल् सङ्गीतस्य परिचयम् अकारयन् । धर्मः हिन्दुधर्मः काठ्मण्डुनगरे विद्यमानाः बहवः देवालयाः अतीव प्राचीनाः विद्यन्ते । पशुपतिनाथदेवालयः, चाङ्गुनारायणदेवालयः (प्राचीनतमः), काष्ठमण्डपं च प्रमुखानि सन्ति । बज्रयोगिनीदेवालयः, दक्षिणकालीदेवालयः, गुह्येश्वरीदेवालयः, शोभाभगवतीमन्दिरं च अन्ये देवालयाः । काठ्मण्डुनगरे प्रवहति बागमतिनदी हिन्दुभिः बौद्धैः च पवित्रा मन्यते । बौद्धधर्मः काठ्मण्डु, तत्र विद्यमानाः स्तूपाः च नेवार्-टिबेटन्-बौद्धानां महत्त्वपूर्णाः सन्ति । बौद्धमतं संस्कृतेन आचर्यते इति निर्देष्टुं योग्यम् एकमेव स्थलं नाम काठ्मण्डु । अत्रत्यौ राजकुमारी भृकुटी-कलाकारः अरनिको च टिबेट्देशे बौद्धमतस्य प्रचारकार्ये बहु प्रमुखं पात्रम् अवहताम् । शाक्यमुनिवंशजाः अत्रैव न्यवसन् इति विश्वस्यते । १९६० तमात् वर्षात् शाश्वत-टिबेटीयबौद्धानां सङ्ख्या अवर्धत । ५० बौद्धविहाराः वर्तन्ते । अन्ताराष्ट्रिय-बौद्ध-अकाडमि, कोपन्-विहारः, अमिताबविहारः, थार्लाम्-विहारश्च उल्लेखार्हाः । अन्यानि मतानि सिक्खजनानां गुरुद्वारं कुपुण्डोल्प्रदेशे विद्यते । काठमण्डु-उपत्यकायां ३०० बहैमतस्य बहामन्दिराणि विद्यन्ते । ४.२% जनाः यवनाः सन्ति । क्रैस्तानां सङ्ख्या अत्यल्पा - ०.४५% । तथापि काठ्मण्डुनगरे एव १७० क्रैस्तमन्दिराणि वर्तन्ते । क्रीडाः पादकन्दुकक्रीडा, क्रिकेट्क्रीडा च युवानां प्रिया वर्तते । आल्-नेपाल्-फुट्बाल्-असोसियेषन्-इत्यस्य मुख्यः कार्यालयः काठ्मण्डुनगरे वर्तते । दशरथ-रङ्गसाल-क्रीडाङ्गणम् अन्ताराष्ट्रिय-पादकन्दुक-क्रीडाङ्गणं वर्तते । क्रिकेट्क्रीडा युवानां बहु प्रिया जायमाना अस्ति । कीर्तिपुरे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडाङ्गणं वर्तते । बाह्यशृङ्खला Digital Kathmandu 3d flyer navigator software by OOPSLite Technologies A Kushan-period Sculpture from the reign of Jaya Varma-, AD 184/185 Kathmandu, Nepal. A Kushan-period Sculpture from the reign of Jaya Varman, AD 185. Kathmandu, Nepal Updated but shortened version of previous entry Kathmandu Sights and Scenes Kathmandu Destination Guide from whl.travel Tour of Nepal Hippies in Kathmandu Vintage footage of Kathmandu I am Kathmandu Directory of Places in the Kathmandu Valley नेपालदेशः नेपालदेशस्य नगराणि
4274
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%AA%E0%A4%BE%E0%A4%B2%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%BE
नेपालभाषा
नेपाल भाषा नेपालस्य प्राचीनभाषा अस्ति। नेपाल: एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। नेपालभाषावाङ्मय नेपालवाङ्मये अद्वितीयं स्थानम् अलङ्करोति। इयं भाषा अधुना नेवारसमुदायेन भाष्यते। नेपाल भाषा चीनी-तिब्बती परिवारस्‍य काचित् भाषा अस्‍ति। 'नेपाल' शब्दस्य व्युत्पत्तिः 'नेपाल’ इति शब्दात् अभवत् ।   नेपाल भाषा देवनागरी, रन्जना, नेपाल लिपी, ब्राह्मि, मक्षिमुण्ड इत्याद्या लिप्या लिख्यते| नेपाल भाषा उत्पत्ति प्राचिन नेपालराज्ये अभवत् । नेपालराज्यम् एकः आर्य राज्य अस्ति । कान्तिपुरे, भक्तपुरे व ललितपुरे अस्याः उपयोगः अधिकः । नेपाल भाषा चिनी-तिब्बतीभाषापरिवारे अन्तर्भवति । चिनी, तिब्बती, बर्मी, इत्यादयः भाषाः चिनी-तिब्बतीभाषा: सन्ति । नेपालभाषाविकासे वामाचार तथा महायानसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । स भाषा नेपालदेशे उपत्यकाक्षेत्रे एकम् भाषा अभवत् । "नेपाल भाषा" इत्यस्य शाब्दिक अर्थः "नेपाली भाषा";  तथापि देशस्य वर्तमानस्य केन्द्रसर्वकारस्य राजभाषा नेपालीभाषा भाषायाः समाना नास्ति । भाषाद्वयं भिन्नभाषापरिवारस्य (क्रमशः चीन-तिब्बती, इन्डो-यूरोपीय च) अस्ति, परन्तु शताब्दशः सम्पर्कस्य परिणामः अस्ति यत् साझीकृतशब्दकोशस्य महत्त्वपूर्णः निकायः अभवत्। नेपालभाषा १० शताब्द्याः १८ शताब्द्याः अन्ते यावत् नेपालस्य प्रशासनिकभाषा आसीत् ।  २० शताब्द्याः आरम्भात् लोकतन्त्रीकरणपर्यन्तं नेवारः आधिकारिकदमनस्य शिकारः अभवत् । १९५२ तः १९९१ पर्यन्तं काठमाण्डू उपत्यकायां नेवारभाषिणां प्रतिशतं ७५% तः ४४% यावत् न्यूनीकृतम्।अद्यत्वे नेपालभाषा च खतरे अस्ति । युनेस्कोद्वारा एषा भाषा "निश्चयेन विलुप्तप्रायभाषा" इति सूचीकृता अस्ति । नेपाल भाषा साहित्यं लेखका: जयन्त वर्मा लुन्तभ बज्राचार्य जय प्रकाश मल्ल सिद्धिदास महाजु सिद्धिचरण श्रेष्ठ शुक्रराज जोशी शास्त्री चित्तधर "हृदय" धूस्वां सायमी बासु पासा बाह्य गवाक्षा: http://www.jwajalapa.com http://www.layalama.com Editable Online Nepal Bhasa dictionary वर्ग::भाषा नेपालदेशः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4276
https://sa.wikipedia.org/wiki/%E0%A4%88%E0%A4%B6%E0%A4%BE%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D
ईशावास्योपनिषत्
ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते । उपनिषत्सारः शान्तिमन्त्रस्य साराम्शः इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसम्हितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदम् व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदम् नियमबद्धम् सम्पूर्णम् विश्वम् सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते । मन्त्राणां सारः अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव मुक्तिः । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् । आत्मनः स्वरूपम् आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । आत्मा अत्यन्तं तेजस्वी अखण्डः अशरीरः शुद्धः निष्पापः च विद्यते । स्वीयसङ्कल्पमात्रेण सः सर्वासु दिक्षु विस्तृतः भवति । सर्वज्ञः सर्वव्यापकः सः स्वयम्भू परमात्मा अनन्तकालपर्यन्तं सकलसृष्टये यथायोग्यान् नियमान् विधत्तवान् अस्ति । अस्मिन् जगति केचन व्यक्तसृष्टेः ज्ञानमात्रं प्राप्य विषयसुखवाञ्छया तस्य एव उपासनं कुर्वन्ति । तैः अज्ञानान्धकाराः अवश्यम् अनुभोक्तव्याः भवन्ति । केचन व्यक्तसृष्टिः मिथ्या इति भावयन्तः अव्यक्तोपासकाः भवन्ति । ते अपि अज्ञानान्धकारे पतिताः भवन्ति । व्यक्ताव्यक्ताः पार्थक्येन पूर्णसत्यभूताः न । ते सत्यांशमात्राः । उभाभ्यां युक्तः परमात्मा पूर्णसत्यः । क्षराक्षरयोः समन्वयेन यः परमात्मनः साक्षात्कारं प्राप्नुयात् सः सृष्टेः ज्ञानेन मृत्युलोकं तीर्त्वा अव्यक्ततत्त्वस्य ज्ञानेन अमृतत्त्वं प्राप्नोति । तेजोयुक्तस्य सूर्यस्य मुखमण्डलं स्वर्णवर्णप्रकाशेन यथा आवृतं वर्तते तथा परमात्मनः सत्यस्वरूपम् अनेन मोहकेन विश्वेन विलोपितमस्ति । अतः साधकस्य प्रार्थना वर्तते - ’हे सर्वपोषकज्ञानसूर्य ! सत्यदर्शनाय इमां मोहकमायाम् अपसारयतु । ज्ञानप्रकाशं प्रसारय । भवति मया दृश्यमानः ज्ञानमयपुरुषः एव मयि अपि वर्तते । शरीरं नश्येत् किन्तु प्राणवायुः स्वतन्त्रः वर्तते’ । ’हे ! मनः कृतं कर्म स्मर्यताम् । हे अग्निदेव, मां सन्मार्गे प्रवर्तय । यतः कर्म-कर्मफलयोः ज्ञानं भवति विद्यते । पापमुक्तं करोतु । सहस्रशः नमस्काराः ।’ इत्येषः उपनिषदः सारः । प्रमुखाः शब्दाः असुर्य - असुराणाम् अन्धकारयुक्तस्य अर्शत् - गच्छत् स्वित् - किञ्चित् अपः - कर्मबीजरूपाणि कर्मशक्तयः कवि - मन्त्रद्रष्टा सम्भूति - अव्यक्तम् असम्भूति - व्यक्तम् धीराः - धिया राति इति क्रतु - सङ्कल्पशक्तिः राय - सत्फलम् वयुनानि - कर्मफलानि ईशावास्योपनिषदः महत्त्वम् इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति । अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते । प्रतिस्वरं तत्त्वार्थयुक्तः विद्यते । अस्य अपारं मन्त्रसामर्थ्यं विद्यते । तेषां मन्त्राणाम् अभ्यासेन मन्त्रद्रष्टॄणाम् अध्यात्मिकस्थितिः प्राप्तुं शक्या । शतं वर्षाणि कर्माचरणं कुर्वन्तः एव जीवनं यापयेम । कर्मबन्धनात् मुक्तेः प्राप्त्यर्थमपि अयमेव मार्गः अनुसर्तव्यः । कर्माचरणावसरे अपि परमात्मनः एव इति भावः स्यात् । परमात्मनः ज्ञानं विना क्षराक्षरयोः ज्ञानेन नित्यानन्दकरी मुक्तिः न प्राप्यते । परमात्मनः साक्षात्काराय चित्सूर्यस्य उपासना विधेया । साक्षात् सत्यस्वरूपस्य दर्शनानन्तरम् अहम्भावस्य कल्पना विनश्यति । साक्षात्कारस्य प्राप्तिमात्रेण साधनं न समाप्यते । अन्तार्जागरायाः अनन्तरं शतशः प्रणम्य तस्य प्रसन्नता अस्माभिः सम्पादनीया । मोक्षसाधनमार्गे गमनावसरे कर्म इत्येतत् हस्तपादमिव, भक्तिः अन्तःकरणमिव, ज्ञानमित्येतत् नेत्रे इव भवन्ति । अन्तश्शक्तेः दृष्ट्या कर्म इत्येतत् अस्माकम् इच्छाशक्तेः सङ्कल्पशक्तेः बाह्यपरिणामः, भक्तिः प्रेमभावस्य परिणतिः, ज्ञानम् अस्माकं चिच्छक्तेः निजस्वरूपम् । परमात्मना अनुगृहीतानाम् एतासां शक्तीनां समन्वयनेन अस्माभिः परमात्मनः दिशि मोक्षाय धावनीयमित्येव अस्याः उपनिषदः सारः । आधुनिकजगति मानवानां विविधशक्तीनां प्रगतिः महता प्रमाणेन जाता विद्यते । किन्तु तदीया नैतिकाध्यात्मिकशक्ती न विकसिते । अहङ्कारः एव सर्वान् शास्ति । अस्याम् उपनिषदि प्रथमे श्लोके एव अहङ्कारस्य उपरि कुठाप्रहारः कृतः । ईशावास्यमिदं सर्वम् । तस्याः शक्तेः पुरतः त्वं क्षुद्राणुमात्रम् । व्यक्तित्वस्य अस्तित्वं नास्ति किम् ? इति चेत् द्वितीये मन्त्रे उच्यते - ’तया परमशक्त्या यत् अनुगृहीतं तावत् भवता भोक्तव्यम् । तदतिरिक्तं न भवतः । यत् न भवदीयं तत् न अपेक्षितव्यम् । भवदीयं कर्म कुर्वन् सत्कर्मचारी इव शतं वर्षाणि जीवेयम् इति इच्छावान् भवतु’ इति । बाह्यसम्पर्कतन्तुः Text in Sanskrit/Devanagari on wikisource.org Isha Upanishad Text in Sanskrit/Devanagari with commentary by Swami Dayanand Saraswati Isha Upanishad Sri Aurobindo on Isha upanishad. GRETIL etext Isha Upanishad translation and commentary by Swami Paramananda Isa Upanishad A translation by Swami Nikhilananda Isha Upanishad as Shukla Yajurveda Adhyaya 40 (White Yajurveda Chapter 40) A translation by Ralph T.H. Griffith, 1899 Isa Upanishad Gujarati translation and commentary by Yogeshwarji Isa Upanishad Isha Upanishad translation by श्री अरविन्दः, 1910. Also see this. Similar to the previous, but with slight grammatical variations. Isha Upanishad Commentary by श्री अरविन्दः Isha Upanishad Commentary by Dr. CS Shah Isha Upanishad translation and commentary by P.K. Hari Hara Subramanian. Isha Upanishad translated by Swami Prabhavananda and Frederick Manchester. Isha Upanishad Invocation Translations Several translations of Purna, the Isha Upanishad Invocation. प्रमुखोपनिषदः सारमञ्जूषा योजनीया‎ उपनिषदः
4291
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%87%E0%A4%B0%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%A8
येरेवान
येरेवान (आर्मीनियन: Երևան) राजधानीः आर्मीनिया अस्ति। विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4292
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%80%E0%A4%B2%E0%A4%83
नीलः
नील एकः वर्णः अस्ति। आधाराः नीलः जीवनशैलीसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4306
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AC%E0%A4%A8
लिस्बन
लिस्बन राजधानीः पुर्तगालस्य अस्ति । विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4307
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%8D
मद्रिद्
मद्रिद् स्पेन् देश्स्य राजधानी अस्ति। नगरस्य जनसंख्या ३२७३०४९ अस्ति। आधारानि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4310
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%B6%E0%A4%BF%E0%A4%A8%E0%A5%8C
चिशिनौ
चिशिनौ राजधानीः मोल्दोवास्य अस्ति । विभिन्नदेशसम्बद्धाः स्टब्स् माल्डोवदेशः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4312
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%81%E0%A4%A3%E0%A5%87
पुणे
पुणे भारतदेशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति। पुणे (पुणे) (०२०) पुण्यपट्टनम् इति प्रसिद्धं पुणेनगरं शिवाजीमहाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराज्ञां राजधानी अप्यासीत् । शिवाजी शिवनेरी ग्रामे जन्म लब्धवान् किन्तु पुणेनगरे एव विद्याभ्यासं कृतवान् । शिवाजीमहाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् । मुळामुठा नद्योः तीरे स्थितं पुणेनगरं नानाफड्णवीसमहोदयस्य प्रशासनकाले भव्यम् उत्तमं सौलभ्ययुक्तं च अभवत् । जनाः जबतक नाना, तबतक पुणे” इति वदन्ति स्म । शनिवारवाडा एव पेश्वेराजानां राजधानीकेन्द्रम् आसीत् । पुणेनगरं बहुजनयुक्तं महाराष्ट्रराज्यस्य जनानां संस्कृतिदर्शकं च अस्ति । वातावरणम् अतीव सुन्दरम् आह्लादकरं चास्ति । पुणे नगरे स्थितः डेक्कन् महाविद्यालयः अतीव प्रसिद्धः प्राचीनसंस्कृतिप्रतिबिम्बकश्चास्ति । गणेशखिण्डी स्थले पुणेविश्वविद्यालयः अस्ति । शनिवारवाडा मध्ये एम्प्रेस् वाटिकानां भव्यता दर्शनीया अस्ति । आगाखान् प्यालेस् खडकीविभागेऽस्ति । महात्मा गान्धिः अत्रैव कारावासे स्थापितः आसीत् । यरवडासमीपे स्थितम् इदं भवनम् इदानीं महात्मा गान्धिकस्तूरबा गान्ध्योः स्मारकमस्ति । राजा केळकर म्यूसियम् (वस्तुसङ्ग्रहालयः) अतीव प्रसिद्धः प्राचीनजनानां कलाप्रज्ञां स्मारयति । श्री दिनकरकेळकरमहोदयस्य स्वकीयः वस्तुसङ्ग्रहालयः एषः। अयं दर्शनीयः सुव्यवस्थितः च अस्ति । अत्र सङ्गीतवाद्यानि पूजासामग्रयः जीवनोपयोगिवस्तूनि, क्रीडनकानि, तैलदीपाः, तालाः, पूगकर्तर्यः, सूक्ष्मचित्राणि च सन्ति । पुणेनगरे दक्षिणभागे पार्वतीपरमेश्वरदेवालयः अस्ति । एम्प्रेस् उद्यानवने मृगालयः गणेशदेवालयः पञ्चाळेश्वर देवालयाः दर्शनीयाः सन्ति । समीपे शिवाजीप्रतिमा अस्ति । पुणेतः नैत्रत्ये २५ कि.मी. दूरे सिंहगडदुर्गम् अस्ति । सागरतीरतः १२७० मीटर् उन्नतप्रदेशे स्थिते दुर्गे तानजीमहोदयस्य (शिवाजीसेनापतेः) स्मारकम् अस्ति । पुणेनगरे एव श्रीगोपालकृष्णगोखले श्रीबालगङ्गाधरतिलकः इत्यादयः प्रसिध्दाः । श्रीतिलकमहोदयः गणेशोत्सवस्य सार्वजनिकरीत्या आचरणं प्रचलने आनीय राष्ट्रभक्तिं जागरितवान् । वाहनमार्गः मुम्बयीतः १९२ कि.मी धूमशकटमार्गः मुम्बयीतः डेक्कनक्वीन् सिंहगड, प्रगति-एक्स्प्रेस् इत्यादीनि धूमशकटानि सन्ति । महाराष्ट्रराज्ये पुणे द्वितीयं महानगरम् अस्ति । महाराष्ट्रराज्यस्य प्रेक्षणीयस्थलानि महाराष्ट्रराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः महाराष्ट्रराज्यस्य प्रमुखनगराणि सारमञ्जूषा योजनीया‎
4313
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D
नागपुरम्
नागपुरं भारतदेशे महाराष्ट्रे विद्यमानं किञ्चन नगरम् अस्ति । महाराष्ट्रराज्यसम्बद्धाः स्टब्स् भारतस्य राज्यानां राजधान्यः महाराष्ट्रराज्यस्य प्रमुखनगराणि सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4318
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A0%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%83
मठग्रामः
मठग्रामः अथवा मडगाँव ( ) (कोङ्कणी/हिन्दी: मडगाँव; ) इति नगरं गोवाराज्यस्य दक्षिणगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं सालनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य द्वितीयं बृहत्तममेतन्नगरम् अस्ति । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् क्रमेण अस्य मोरगांव, मरगांव इत्येते नामान्तरे स्तः । प्रशासनिकनाम मडगांव तु संस्कृतापभ्रंशशब्द एव । मठ, ग्राम इति द्वाभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः मठग्राम इति मूलशब्दः अस्ति । तयोः शब्दयोः अर्थः मठ = the hut of an ascetic, ग्राम = Village च भवति । इतिहासः मडगाँव इत्यस्य नगरस्य इतिहासः बहु पुरातनोऽस्ति । मठग्राम इति नाम्नः एका पौराणिकी कथा वर्तते । पुरा भगवान् परशुरामः एकविंशतिवारं क्षत्रियान् पराज्य ब्राह्मणेभ्यः नवनगरनिर्माणस्य सङ्कल्पम् अकरोत् । भारतस्य पश्चिमभागस्थं समुद्रमग्नं भूभागं समुद्रात् बहिः निष्कास्य, तस्मिन् भागे ब्राह्मणेभ्यः नवनगरम् अस्थापयत् सः । तस्य नगरस्य नाम परशुरामक्षेत्रम् आसीत् । परशुरामः उत्तरभारतात् भिन्नगोत्रजब्राह्मणान् आहूतवान् । भरद्वाज-कौशिक-वत्स-कौण्डिन्य-कश्यप-वसिष्ठ-गौतमगोत्रजब्राह्मणाः अत्र आगत्य निवासं कृतवन्तः । तेषां ब्राह्मणानां मुख्यनिवासस्थानानि मठग्राम-गोमाञ्चल-पञ्चकोशी-कुशस्थलीत्यादिनगराणि आसन् । गोवापुर्याः एकस्मिन् भागे बहूनां मठानां स्थापनां कृतवान् परशुरामः । अतः तस्य भागस्य नाम मठग्राम इति अभूत् । कालान्तरे अपभ्रंशे सति तस्य नाम मडगांव अस्ति । मठग्रामे बहवः पवित्रदेवालयाः आसन् । तेषु मुख्यदेवालयः आसीत् दामोदरदेवालयः । केवलं मठग्रामवासिनाम् एव न, अपि तु गोवापुर्याः हिन्दुजनानामपि धर्मभावनायाः मुख्यकेन्द्रम् आसीत् एषः देवालयः । १५७९ तमे वर्षे देवालयं ध्वस्तं कृत्वा 'चर्च' निर्माणं कृतवन्तः क्रैस्त-जनाः । ततः गोवापुर्यां, मठग्रामे च पुरातनभारतीयसंस्कृतेः क्षयः प्रारभत । परन्तु भारतीयसंस्कृतेः मूलानाम् उन्मूलनम् असम्भवमेव । इदानीमपि मठग्रामे बहवः देवालयाः, मठाः च सन्ति । तेषां देवालयानां, मठानां च गणना वीक्षणीयस्थलेषु भवति । तेषु देवादयेषु मूलभारतीयसंस्कृतेः पोषणं भवति । वीक्षणीयस्थलानि दामोदरदेवालयः:- मूलभारतीयसंस्कृतेः प्रतीकः एषः देवालयः मडगांव-तः द्वाविंशतिः कि.मी. दूरे जम्बौलीम-पत्तनेऽस्ति । एषः देवालयः कुशवतीनद्याः तीरे अस्ति । अत्रस्थं प्राकृतिकसौन्दर्यं, देवालयस्य पवित्रवातावरणं च भक्तानां मनसि नूतनोर्जायाः सञ्चारं कारयति । दामोदरदेवः गौड-सारस्वतब्राह्मणानां कुलदेवता अस्ति, मठग्रामस्य (मडगांव) स्थानदेवताप्यस्ति । अत्र श्रीलक्ष्मीनारायण-श्रीमहाकाली-श्रीमुरवी-श्रीगोमेश्वरादिदेवानां देवालयाः सन्ति । श्रीशान्तादुर्गादेवालयः:- एषः देवालयः मठग्रामात् विंशतिः कि.मी. दूरे पोण्डा-पत्तनस्य कवलेम-नामके स्थलेऽस्ति । पुरा एषः देवालयः मठग्रामे एवासीत् । १५६४ तमे वर्षे मठग्रामे पुर्तगाली-जनानां देवालयध्वंसयोजनायाम् अस्य देवालयस्य ध्वंसः जातः आसीत् । ततः एतस्य देवस्थानस्य स्थानान्तरं पोण्डा-पत्तनम् अभूत् । 'शाहु राजे' इत्यस्य मराठाराज्ञः काले १७२८ तमे वर्षे नवदेवालयस्य निर्माणम् अभूत् । अत्र श्रीशान्तादुर्गादेवीप्रतिमायाः हस्तयोः सर्पौ स्तः । तौ सर्पौ भगवतः विष्णोः, शिवस्य च प्रतिनिधी स्तः इति जनमान्यतास्ति । अस्य देवालयस्य स्तम्भ-छत्र-प्राङ्गणादीनि स्थापत्यकलायाः अभूतपूर्वोदाहरणानि सन्ति । श्रीचन्द्रनाथदेवालयः:- एषः देवालयः एकोनषष्ठ्यधिकैकशतं मी. उन्नते चन्द्रनाथपर्वते स्थितः अस्ति । भोजवंशीयः कश्चन राजा चन्द्राधिपतिशिवस्य भक्तः आसीत् । अतः सः एतस्य देवालयस्य निर्माणं कारितवान् । अत्र वीक्षणीयमस्ति, पुरातनहस्तकलायाः उपयोगेन निर्मितः काष्ठरथः । आकर्षककाष्ठस्योपिर कृतं सुन्दरहस्तकलाकार्यम् अद्भुतमस्ति । अत्र गणेश-पार्वत्योः देवालयौ स्तः । देवालयं परितः देवानां मूर्तयः अपि कलायाः उत्तमोदाहरणमस्ति । अत्र प्रख्याताः समुद्रतटाः अपि सन्ति । यथा - मजोर्दा, उत्तोरदा, कोल्वा, वेल्साओ, वर्का, बैटुल इत्यदयः । मार्गाः विमानमार्गः वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकं मडगांव-तः चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति । धूमशकटमार्गः भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय धूमशकटयानानि सन्ति । मुख्यतः पणजी-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति । भूमार्गः भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः पणजी-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति । सम्बद्धाः लेखाः शिवः परशुरामः दक्षिणगोवामण्डलम् गोवाराज्यम् बाह्यानुबन्धः https://plus.google.com/104404145793240917860/about?gl=in&hl=en http://www.mapsofindia.com/maps/goa/margao.htm http://www.mmcmargao.gov.in/searchBirth.aspx http://www.mmcmargao.gov.in/ गोवाराज्यस्य नगराणि भारतस्य नगराणि
4319
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D
कानपुरम्
भारतदेशे राज्यमस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं मण्डलमस्ति कानपुरनगरमण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति कानपुरम्। कानपुर उत्तरप्रदेशस्य औद्यमिकराजधानी अस्ति । कानपुरनगरमण्डलस्य, कानपुरदेहात्मण्डलस्य, कानपुरविभागस्य च निर्वाहककेन्द्रमस्ति इदं नगरम् । भारतस्य जनपूर्णराज्येषु एकादशे स्थाने वर्तते इदम् । उत्तरप्रदेशस्य प्रमुख-औद्यमिककेन्द्रेषु अन्यतमम् । उत्तरभारत्स्य पुरातन-औद्यमिककेन्द्रमस्ति । अस्य विस्तारः अस्ति १६४० च कि मीटर्मितः । नगरविस्तारः ८२९ च कि मी मितः । जनसङ्ख्या ३०,००,००० स्यात् । निर्वहणदृष्ट्या इदं नगरं षट्धा विभक्तमस्ति, ११० लघुभागाः सन्ति । एकैकत्र १९००० तः २६००० जनसङ्ख्या स्यात् । कानपुरनगरवर्धनयोजना दूरदृष्टियुता उत्कृष्टा च वर्तते । इतिहासः सचेण्डिराज्यस्य चण्डेलावंशजाः कानपुरनगरं संस्थापितवन्तः इति विश्वस्यते । इदं नाम 'कन्हियापुर'तः (हिन्दिभाषया अर्थः - कन्हय्यस्य नगरम्) आगतम् । ब्रिटीशानां काले इदं खान्पुरम् इति जातम् । अन्ये विश्वसन्ति यत् इदं नाम कर्णपुरात् (महाभारतस्य कर्णस्य पुरम्) आगतम् इति । स्थलस्य प्राचीनेतिहासः १३ शतकं यावत् कानपुरस्य वर्धनविषयः अस्पष्टः । कानपुरस्य नाम न श्रूयते चेदपि तस्य द्वयोः उपनगरयोः - जैमौ, बितूर्-इत्येतयोः विषयः श्रूयते । बितूर् कानपुर ऐऐटि महाविद्यालयतः १० कि मी दूरे विद्यते । जैमौ नगरात् पूर्वदिशि ८ कि मी दूरे विद्यते । हिन्दुपुराणेषु उच्यते यत् ब्रह्माण्डस्य सृष्टेः अनन्तरं ब्रह्म बितूर्प्रदेशे अश्वमेधयागम् आचरितवान् । लिङ्गस्य प्रतिष्ठापनं कृतवान् च । वाल्मीकि-आश्रमः अपि अत्र विद्यते यत्र ऋषिः वाल्मीकिः संस्कृतमहाकाव्यं रामायणम् अरचयत् । रामेण परित्यक्ता सीता अस्मिन् आश्रमे एव स्थित्वा यमलपुत्रयोः लवकुशयोः पालनं कृतवती । जैमौप्रदेशे प्राचीनदुर्गस्य अवशेषाः दृश्यन्ते । सध्यःकालीनानि पुरातत्त्वगवेषणानि सूचयन्ति यत् इदम् अतीव पुरातनम् । वैदिककालीनं स्यात् । चन्द्रवंशस्य राज्ञः ययातेः दुर्गमिदम् इति ऊह्यते । कानपुरस्य केन्द्ररैल्वेनिःस्थानकतः २० कि मी दूरे शिवराजपुरे किञ्चन प्राचीनं मन्दिरं वर्तते । इदं चण्डेलराजेन सतिप्रसादेन स्वस्य राज्ञ्याः स्मरणार्थं निर्मितम् अस्ति । इदं रात्रिकाले निर्मितम् अस्ति, गङ्गानद्याः तटे वर्तते । इदं मन्दिरं स्वस्यशिल्पकलावैभवाय प्रसिद्धम् अस्ति । मुघलयुगस्य आरम्भात् पूर्वं कनौजस्य परिहारराजाः बहुकालं यावत् अस्य शासनं कृतवन्तः स्युः । ऐतिहासिकांशाः सूचयन्ति यत् प्रतिहारराजः मिहिरभोजः कानपुरे शासनम् अकरोत् यतः कनौज् परिहारस्य राजधानी आसीत् । अधिवासभूमेः स्थापनम् १२०७ तमे वर्षे प्रयागस्य राजा कान्तिदेवः (कनौज्साम्राज्याधिपतिः) कोनाग्रामं स्थापितवान् । अयमेव अग्रे कानपुरं जातम् । हर्षवर्धनः, मिहिरभोजः, जैचन्दः इत्यादीनां काले अपि कानपुरस्य कनौजेन सह सम्पर्कः आसीदेव । शेर्शाहस्य शासनावधौ १५७९ तमे वर्षे कानपुरस्य प्रथमः उल्लेखः दृश्यते । १८ शतकस्य आदिमार्धभागपर्यन्तं कानपुरं नगण्यग्रामः आसीत् । १७६५ तमस्य वर्षस्य मेमासे औधस्य शासकः शुजाउद्दौलः जैमौप्रदेशे ब्रिटीश्जनैः पराजितः जातः । १७७३तः १८०१ पर्यन्तं इदम् औध्-साम्राज्यस्य आधीन्ये आसीत्, ततः ब्रिटीशजनानाम् अधीनं गतम् । एतावता ब्रिटिशजनैः कानपुरस्य प्रेक्षणीयतायाः महत्त्वम् अवगतम् । युरोपियन्-वणिजाः कानपुरे स्वस्य अस्तित्वं दृढीकृतवन्तः आसन् एतावता । स्वस्य सम्पतीनां रक्षणाय एते 'औध्-स्थानीयसेनां' १७७८ तमे वर्षे अत्र व्यवस्थापितवन्तः । १८०१ तमे वर्षे औधस्य शासकेन नवाब्सादतेन कानपुरं ब्रिटीशसाम्राज्याय प्रदत्तम् । अग्रे कानपुरं ब्रिटीश्भारतस्य प्रमुखेषु सेनास्थानेषु अन्यतमं जातम् । १८०३ तमस्य वर्षस्य मार्च्मासस्य २४ तमे दिनाङ्के इदं मण्डलत्वेन घोषितम् । १८४७ तमे वर्षे कम्पनिभाग् संस्थापितम् । १८५४ तमे वर्षे गङ्गाकुल्या विनिर्मिता । अमूलैः वस्तुभिः युक्तः कानपुरसङ्ग्रहालयः १९९९ तमे वर्षे फूल्भाग्मैदानस्थे के इ एम् सभाङ्गणे विद्यते । १९ शतके कानपुरं ब्रिटीशसेनानिवासः आसीत् यत्र ७००० सैनिकाः आसन् । औद्यमिकप्रगतिः १८५७ तमस्य वर्षस्य अनन्तरं कानपुरं चर्म-वस्त्रोद्यमयोः प्रमुखं केन्द्रं जातम् । १८६० तमे वर्षे सैन्याय चर्मवस्तूनाम् आपूर्त्यै सर्वकारीयः यन्त्रागारः आरब्धः । ततः १८८० तमे वर्षे कापर्-अलेन्-यन्त्रागारः आरब्धः । प्रथमकार्पासवस्त्रनिर्माणी, दि एल्गिन् मिल्स् १८६२ तमे वर्षे, मूर्-मिल्स् १८८२ तमे वर्षे च आरब्धा । अग्रिमेषु ४० वर्षेषु बहवः अन्ये यन्त्रागाराश्च आरब्धाः यस्मात् कानपुरं किञ्चन प्रमुखं वस्त्रोद्यमकेन्द्रं जातम् । कानपुरस्य दि एल्गिन् मिल्स् खाखिवस्त्राय प्रसिद्धम् । इदं वस्त्रं स्वस्य वर्णाय स्थायित्वाय च प्रसिद्धमस्ति । अस्य निर्माणकर्ता वस्त्रनिर्माणे प्रसिद्धः श्री गोपालसदाशिवगोगटेवर्यः यः १९४२ तमे वर्षे डिसेम्बर्मासस्य १७ दिनाङ्के दिवङ्गतः । भारतस्य चर्मोद्यमस्य केन्द्रमस्ति कानपुरम् । अद्यत्वे तत्र बहवः चर्मोद्यमकेन्द्राणि विद्यन्ते । फेनकम्, आहारसंस्करणं, पान्मसाल (तमाखुः), चायचूर्णाचयः, प्लास्टिक्-उद्यमः, आभरणनिर्माण्म्, चर्मोद्यमः इत्यादयः नगरे नूतनतया आरब्धाः उद्यमाः । तेषु पान्मसाला-उद्यमः अत्यधिकेभ्यः उद्योगदाने अग्रे अस्ति । सर्वकाराय करदाने अपि अग्रेसरः । 'पान् वहार्' 'पान् पराग्' इत्येतादृशाः प्रसिद्धाः विविधताः अस्मिन् नगरे एव उगमं प्राप्तवन्तः । संस्कृतिः गङ्गानद्याः तटे स्थितं कानपुरम् उत्तरभारतस्य प्रमुखम् उद्यमक्षेत्रमस्ति । तस्य ऐतिहासिक-धार्मिक-वाणिज्यिकमहत्त्वं विद्यते । १९००-१९५० तमेषु वर्षेषु कानपुरं स्वातन्त्रसङ्ग्रामस्य साहित्यान्दोलनस्य च मुख्यभूमिः आसीत् । कवेः बालकृष्णशर्म / नवीनस्य नाम्ना प्रसिद्धं वाणीज्यकेन्द्रं नामाङ्कितम् अस्ति । अग्रे गोपालदासनीरजेन लिखितानि पद्यानि हिन्दिचलच्चित्रेषु योजितवन्तः । स्यामलगुप्तपर्शदः (विजयी विश्व तिरङ्गाप्यारा -प्रसिद्धगीतस्य रचयिता) जन्मस्थानमस्ति कानपुरम् । आचार्य महावीरप्रसादद्विवेदी, गणेशशङ्करविद्यार्थी, प्रतापनरैन्मिश्र, आचार्य गयाप्रसाद शूक्ल इत्यादयः लेखकाः अत्रत्याः । कृषिविश्वविद्यालयः क्रान्तिकारिणः चन्द्रशेखराझादस्य नाम्ना निर्दिश्यते । वैद्यमहाविद्यालयः गणेशशङ्करविद्यार्थी इति नामाङ्कितम् । एतौ उभौ अपि कानपुरे बहु समयम् अयापयताम् । चन्द्रशेखराझादः अलहाबादे आल्फ्रड्-उद्याने ब्रिटीश्सैनिकैः सह आवृत्तः सन् स्वयं गुलिकास्त्रेण स्वयम् आत्मानं हतवान् । गणेशशङ्करविद्यार्थी १९३१ तमे वर्षे कानपुरस्थे मचलिबझारप्रदेशे हिन्दु-यवनकोलाहलावसरे हतः जातः । बितूर् (ब्रह्मावर्त) कानपुरतः २५ कि मी दूरे विद्यते । अयोध्यातः रामेण परित्यक्ता सीता अत्रत्ये वाल्मीकि-आश्रमे एव आश्रयं प्राप्य लवकुशौ प्रसूतवती । अन्ते अत्रैव भूमौ अन्तर्धाना जाता । ब्रिटीश्जनाः कानपुरं यदा आक्रान्तवन्तः तदा नानासाहेबः अत्रत्ये दुर्गे आश्रयं प्राप्तवान्, इदमपि अत्र प्रेक्षणीयेषु स्थलेषु अन्यतमम् । गङ्गातीरे विद्यमानं बितूर् अद्यत्वे प्रमुखं प्रेक्षणीयस्थलं जातमस्ति । कानपुरं महता प्रमाणेन वर्धमानमस्ति वसतिसमुच्चयानां स्थापनेन । उत्सवेषु गङ्गामेला अतिविशिष्टं वर्तते । कानपुरे प्रचाल्यमानः अयम् उत्सवः होलीपर्वणः अनन्तरं पञ्चमे दिने आचर्यते । गङ्गास्नानतः पूर्वं सर्वे परस्परं वर्णक्षेपणपूर्वकम् आनन्देन क्रीडन्ति । सङ्गीत-नृत्य-काव्यवाचनादयः कार्यक्रमाः सायङ्काले आचर्यन्ते । भूगोलम् नगरमिदं २६.४६७०० उत्तरदिशि ८०.३५०००पूर्वदिशि च वर्तते । उत्तरप्रदेशः पुरातन-कान्पुरग्राममण्डलतः 'कानपुरदेहात्' इति नामकं मण्डलम् आरचयत् । कानपुर्, अलहाबाद्, फतेपुर् च पुरातनकाले वत्सदेशः इति निर्दिश्यते स्म । इदं प्रमुखनदीद्वयेन युक्ता अस्ति - गङ्गा ईशान्ये, यमुना दक्षिणे च प्रवहतः । कानपुरं परितः दक्षिणे हमीरपुरम्, ईशान्ये उन्नाव् च विद्यते । कानपुरस्य दक्षिणभागे बण्डेल्खण्ड्नामकं शुष्कप्रदेशः विद्यते । कानपुरमण्डलं कानपुरदेहात्मण्डलञ्च गङ्गायमुनानद्योः उर्वरप्रदेशे विद्यते । यमुनानदी अवध-बुन्देल्खण्डप्रदेशयोः सीमाम् अङ्कयति । स्वच्छपानजलस्य व्यवस्था विद्यते अत्र । कृषिकार्यार्थमपि जलव्यवस्था समीचीनतया कृता वर्तते । वातारणम् कानपुरम् आर्द्र्-उष्णविभाग-वातावरणयुक्तं देहल्याः इव । कानपुरे दीर्घः घर्मकालः, ह्रस्वः शीतकालः, धूलियुतः चण्डमारुतः, वर्षमारुतश्च विद्यते । विपरीततापमानाः अत्र दृश्यन्ते । कनिष्ठं ०० सेण्टिग्रेड्मितं भवति शैत्यकाले, ग्रीष्मकाले ४८० सेण्टिग्रेड्मितं यावत् अधिकं भविष्यति । डिसेम्बर्-जनवरिमासयोः कानपुरे महाती धूमिका (fog) भविष्यति येन वाहनसम्मर्दः, यात्राविलम्बः भविष्यति । कानपुरस्य दर्शनम् अक्टोबर्-नवम्बर्मासयोः अथवा फेब्रवरि-मार्च्मासयोः समीचीनं भवेत् । वार्षिकवृष्टिः ८८५ मि मीटर्मितं भवति सामान्यतः । सस्य-प्राणिसम्पत्तिः अत्रैव निवसतां देशान्तरगमनं कुर्वतां बहूनां पक्षिणां स्थानमस्ति कानपुरम् । बितूर्, ऐ ऐ टि कानपुरपरिसरे, गङ्गायाः तीरप्रदेशेषु च ते दृश्यन्ते अधिकतया । मयूराः नीलवृषभाः (nilgai) च अधिकतया दृश्यन्ते । एशियाखण्डस्य बृहत्तमं (विस्तारे) प्राणिशास्त्रोद्यानम् अत्र विद्यते । कानपुरप्राणिसङ्ग्रहालयः स्वस्य पञ्जरविन्यासाय प्रसिद्धः अस्ति यत्र प्राणिनः सहजतया जीवितुम् अर्हन्ति । बहुविधाः प्राणिनः अपि सन्ति । जलव्यवस्था अपि विशिष्टतया कृतमस्ति । जनसङ्ख्याविवरणम् २७,००,००० जनसङ्ख्यायुते कानपुरे जनाः अधिकतया उत्तरप्रदेशस्य केन्द्रभागतः पश्चिमभागतः च आगताः । बेङ्गाली, पञ्जाबी, आङ्ग्लो-भारतीयाः च अधिकसङ्ख्याकाः सन्ति स्वरूपनगरे, तिलकनगरे, आझादनगरे च । हिन्दवः ७६%, यवनाः १६%, सिक्ख-जैन-क्रिश्चियन्-बौद्धाः च अवशिष्टाः । २००१ तमस्य जनगणतेः अनुसारं नगरे अक्षरज्ञाः ७०.३६% (६०.२५% महिलाः, ७१.९२% पुरुषाः) । उत्तरप्रदेशराज्यस्य प्रमुखनगराणि कानपुर
4428
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
चिकित्साशास्त्रम्
पाश्चात्त्यचिकित्साशास्त्रम् आयुर्वेद सिद्ध चिकित्साः वैद्यविज्ञानसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4441
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
मालविकाग्निमित्रम्
मालविकाग्निमित्रम् कालिदासेन लिखितम् नाटकम्। "मालविकाग्निमित्रम्" इति शीर्षकस्य अर्थः मालविका अग्निमित्रः च इति। एषा शुङ्गवंशस्य राज्ञः अग्निमित्रस्य कथा अस्ति। सः स्वपत्नीसेविकां मालविकाम् अकामयत्। एतं विषयं ज्ञात्वा राज्ञी क्रुद्धा । सा मालविकां तिरस्करोत्। परन्तु मालविका राजपुत्री आसीत्। सुमन्दभाग्येन तस्याः जन्मवृत्तान्तं ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकां परिणीतवान्। अस्य प्रथमः श्लोकः 'पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम़्। सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥' कथा मालविकाग्निमित्रनाटकं कालिदासस्य प्रथमं रूपकमिति वदन्ति । पञ्चाङ्कयुक्ते नाटकेऽस्मिन् अग्निमित्रमालविकयोः प्रणयवृत्तान्तः निरूपितः अस्ति । अग्निमित्रः एकदा अकस्मात् चित्रे मालविकां दृष्ट्वा तस्याम् अनुरक्तः भवति । अग्निमित्रस्य पूर्वमेव धारिणी इरावती नामनी द्वे पत्न्यौ आस्ताम् । एतां मालविकां धारिण्याः अनुजः वीरसेनः सोदर्यै उपायनरूपेण प्रेषितवान् आसीत् । धारिणी मालविकां सेविकारूपेण स्थापितवती आसीत् । चित्रे मालविकायाः दर्शनात् आरभ्य अग्निमित्रः तया मेलितुम् उत्सहते स्म । अनयोः द्वयोः समागमाय राजा स्वमित्रं विदूषकं साहाय्यम् अयाचत । धारिणी-इरावत्योर्मध्ये प्राप्तः नायिकानायकयोः प्रेमाङ्कुरः, अभिवृद्धिः सिद्धयः च अनयोः विवाहार्थं अन्तःपुरे जायमानं कुतन्त्रं इत्यादिकं नाटकेऽस्मिन् हृद्यया शैल्या चित्रितम् । नायिकानायकयोः प्रेमव्यवहारार्थं समीचीनतया पृष्ठभूमिः रचिता । नाट्यस्य पाठनं, हरदत्तगणदासयोः कलहः इत्यादयः सन्निवेशाः नाटकस्य अभिवर्धने उत्तमवातावरणं कल्पयन्ति । कालिदासस्य कृतयः संस्कृतनाटकानि श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4442
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D
हरिद्वारम्
उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति हरिद्वारमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हरिद्वारनगरम् । हरिद्वारम् भारतदेशे विद्यमानं किञ्चित् सुप्रसिद्धं तीर्थस्थलम् अस्ति । एतस्य प्राचीनं नाम माया इत्यपि आसीत् । इदं नगरम् उत्तराञ्चलराज्ये गङ्गातीरे वर्तते । बाह्यसम्पर्कतन्तुः Official website of Haridwar district. Haridwarcity portal. Haridwar map Photos of Haridwar उत्तराखण्डस्य तीर्थक्षेत्राणि उत्तराखण्डस्य प्रमुखनगराणि उत्तराखण्डस्य प्रेक्षणीयस्थानानि स्टब्स् भारतसम्बद्धाः सारमञ्जूषा योजनीया भारतस्य तीर्थक्षेत्राणि सर्वे अपूर्णलेखाः
4448
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A5%87%E0%A4%B0%E0%A4%BE%E0%A4%AA%E0%A5%82%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%80
चेरापूञ्जी
चेरापूँजी भारतदेशे विद्यमानं किञ्चन नागरम् अस्ति । स्टब्स् भारतसम्बद्धाः मेघलयस्य प्रमुखनगराणि‎ सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4449
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A5%E0%A5%81%E0%A4%B0%E0%A4%BE
मथुरा
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति मथुरामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मथुरानगरम्। मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति। केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति । मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ- मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति । बाह्यसम्पर्कतन्तुः Mathura City E-Portal Entry on Mathura in the Dictionary on Pali Proper Names उत्तरप्रदेशराज्यस्य तीर्थक्षेत्राणि भारतस्य नगराणि उत्तरप्रदेशराज्यस्य प्रमुखनगराणि स्टब्स् भारतसम्बद्धाः भारतस्य तीर्थक्षेत्राणि सर्वे अपूर्णलेखाः
4453
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D
महाभारतम्
महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः महाकाव्यम् विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। महाभारतस्य रचनाकालः नामकरणञ्च महाभारतग्रन्थः त्रिभिः सवंत्सरैः विरचितं च - त्रिभिर्वर्षैः सदोत्थाय कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमद्भुतम्॥ इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । सूक्ष्मेक्षिकयाऽवलोकनेन ज्ञायते यत् - महाभारतस्य प्रगते चरणत्रयं विद्यते। - प्रथमे चरणे - जयनामकं काव्यमेतत् ८८०० श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य महर्षि व्यासेन स्वशिष्याय वैशम्पायनाय श्रावितमभूत्। नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।। प्रत्येकस्य अध्यायस्य आदौ विद्यमानः अयं प्रसिद्धः श्लोकः इदं निरूपयति । द्वितीये चरणे - भारतनामकं महाकाव्यमेतत् वैशम्पायनकृतं २४ सहस्रश्लोकपरिमितं (चतुर्विंशतिसाहस्री) वैशम्पायनेन अर्जुनस्य प्रपौत्राय जनमेजयाय नागयज्ञे श्रावितमभूत्। तृतीये चरणे - महाभारतनामकं महाकव्यमेतत् लोमहर्षपुत्रेण सौतिकेन रचितं - एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्यः ऋषिभ्यः श्रावितमभूत्। एवञ्च आख्यानमिदं त्रिभिर्वक्तृभिः महर्षिभिः विभिन्नश्रोतृभ्यः श्रावितम्। महाभारतस्य अन्ते विद्यमानेन श्लोकेन इदं प्रमाणितं भवति - उक्तं शतसहस्राणां श्लोकानामिदमुत्तमम्। अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति। महाभारतं कस्मिन् शास्त्रेऽन्तर्भवति प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता महाभारतस्य रचनाकालः सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात् परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्य जयाभिधानस्य वर्तमानमहाभारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकालसम्बन्धे विचारणीयमस्ति, तत्र – १. ख्रीष्टैकादशशतके जातेन क्षेमेन्द्रेण कृतो भारतमञ्जरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्वकालिकत्वं सर्वथा सिद्धम् । २. अष्टमशतकोत्तरार्धे जातः आद्यशङ्कराचार्यः महाभारतं स्त्रीभिः धर्मज्ञानाय अध्येयत्वेन आदिशन्ति, तेन महाभारतस्य ततः पूर्वकालिकत्वं सिद्धम् । ३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणि स्मरन्ति । ४. सप्तमशतकोत्पन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्य अष्टादश पर्वाणि हरिवंशं च स्मरन्ति । ५. कम्बोडियानामके भारतस्य प्राचीनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात् शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कृतः । ६. यवबालिप्रभृतिषु द्वीपेषु षष्ठशतके महाभारतमवर्त्तत, ततोऽपि पूर्वं तिब्बतभाषायां महाभारतस्यानुवादो जातः । ७. चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि । ८. ४६२ स्त्रीष्टोत्की-एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मकस्य महाभारतप्रणेतृत्वम् उल्लिखति । ९. सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबद्धात् महाभारतात् न भिद्यते इति । १०. डयोन क्राइसोस्तोम (Dion Chyrsostom) महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् इति । ११. ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुद्धतम् । एभिः सर्वैः समुदितैरेतत् सिद्धं यत् ख्रीष्टशतकप्रारम्भे महाभारतम् अवश्यम् अवर्तत । अपि च – (क) पाणिनिः महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण प्रतीयते । (ख) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्य उल्लेखो दृश्यते । (ग) ४०० ई.पू समये निर्मिते बौधायनधर्मसूत्रे महाभारतस्योल्लेखो दृश्यते । (घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्रनामोद्ध्रियते स्म । (ङ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकालेबुद्धस्य नाम नायाति । (च) मेगास्थनीजप्रणीते भारतवर्णने याः कथाः ता महाभारतात् एव प्राप्ताः । (छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् । (ज) ज्यौतिषप्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् । अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते । महाभारतकथासारांशः महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते - उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः - युधिष्ठिरः - भीमः - अर्जुनः - नकुलः - सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्। पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् । फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च। महाभारतस्यादरः रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारः अल्पः तथापि महत्त्वदृष्ट्या महाभारतं विश्वस्य कस्मादपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिप्रभृतिज्ञातव्यं बोधयति, महाभारतं तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणग्रन्थतयैवास्य पञ्चमवेदसंज्ञा जाता । यथा रामायणाधारेण बहवो ग्रन्था अरच्यन्त तथैव महाभारताधारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् । महाभारतस्य विभागाः महाभारतम् अष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि-सभा-वन-विराट-उद्योग-भीष्म-द्रोण-कर्ण-शल्य-सौप्तिक-स्त्री-शान्ति-अनुशासन-अश्वमेध-आश्रमवासि-महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति । अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिबिकथा-सावित्रीकथा-नलोपाख्यानादीनि वर्णितानि । युद्धवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः । हरिवंशोनाम खिलपर्वापि योजयित्वा आहत्य १९३६ अध्यायाः १६८३६ श्लोकाश्च सन्ति महाभारते।अस्मिन् महाभारते एव विदुरनीतिः सनत्सुजातीयम् भगवद्गीता अनुगीत चेति चत्वारः तत्त्वोपदेशग्रन्थाः भवन्ति। विदुरनीतिः उद्योगपर्वणि ३३ तः ४० अध्यायपर्यन्तम् भवति। सनत्सुजातीयं उद्योगपर्वणि ४९ तः ४६, पर्यन्तम् भगवद्गीता भीष्मपर्वणि २५ तः ४२ पर्यन्तम् अनुगीता अश्वमोधीकपर्वणि १६ तः५१ पर्यन्तम् च वर्तते। महाभारतस्य वैशिष्ट्यम् व्यासस्य कृतिरियं सर्वैरितिहास इत्युच्यते यतोऽत्र वीराणां पुण्या गाथा वर्णिता । अयं ग्रन्थो धार्मिकग्रन्थो येन लोकः स्वकल्याणं गवेषयति । अत्रैव ग्रन्थे गीतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि । गीताग्रन्थस्यादरो महाभारतस्यैव विशिष्टतां प्रमाणयति । स्वयमेव व्यासेन महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम् – यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यत्र रोचते । पुंस्कोकिलागरं श्रुत्वा रुक्षा ध्वंक्षस्य वागिव ॥ श्रीवेदव्यासस्य महत्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रैव लभेत, न च किञ्चिद् उच्छिष्येत इति । अतैव उच्यते - धर्मे चार्थे च कामे च मोक्षे च भरतर्षभम्। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥ महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते - महत्वाद् भारवत्वाच्च महाभारतमुच्यते। महाभारतं विरचय्य श्रीव्यासः ’शिष्येभ्यः कथम् अध्यापयामि’ इति यथा चिन्तामग्नः आसीत् तदा तस्य व्यथां ज्ञात्वा स्वयं लोकगुरुः भगवान् ब्रह्मा तस्य प्रीत्यर्थं लोकानां हितकाम्यया च तत्र आगच्छत्। यथाविधि तस्योपचारं कृत्वा स्वयं श्रीव्यासः स्वग्रन्थविषयेऽवदत् - ’भगवान् ! मया इदं परमपूज्यं काव्यं कृतम् । अस्मिन् काव्ये वेदरहस्यं साङ्गोपनिषदां विषयः च विस्तारेण वर्णितः । इतिहासाः - पुराणानि - भूतं -भव्यं - भविष्यं, जरा-मृत्यु-भय-व्याधि-भावाभावः, चातुर्वर्ण्यविधानं वर्ण्यधर्माः, पृथिवी - चन्द्रः - सूर्यः - तारागणः ग्रहप्रमाणाः, सत्य-त्रेता-द्वापर-कलियुगाः, ऋग्-यजुस्-सामानि सर्वमपि वर्णितम्। तीर्थानां पुण्यक्षेत्राणां च कीर्तनं, नदी-वन-पर्वत-सागरादीनां वर्णनं, सर्वमपि प्रतिपादितं विद्यते अस्मिन् ग्रन्त्थे । परन्तु एतस्य ग्रन्थस्य कोऽपि लेखकः भुवि न विद्यते। ब्रह्मा अपि प्रत्युत्तरे - 'अन्य कोऽपि अस्मात् श्रेष्ठतरं काव्यं लेखितुं न समर्थो भवति । लेखनार्थं श्रीगणेशं स्मर' इति उक्त्वा स्वधाम अगच्छत् । एवं महाभारतं श्रीव्यासेन प्रणीतं, श्रीगणेशेन लिखितम्। महाभारतस्य विविधविषयावगाहि - ज्ञानम्, अर्थगौरवं भावगाम्भीर्यं च प्रतिपादयितुं कतिपयानि सुभाषितानि उपस्थाप्यन्ते - दार्शनिकभावोपेताः सूक्तयः नवहारमिदं वेश्म, त्रिस्थूणं पञ्चसाक्षिकम्, क्षेत्रज्ञाधिष्टितं (क्षेत्रज्ञ-अधिष्टितं) यो विद्वान् वेद स परः कविः । अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन च नित्यं याति - तम् इशम् - ईड्यम् -अनुकध्पम् - अद्यं - विराजमानं तं मूढाः न पश्यन्ति। नीतिशिक्षाविषयकाणि सुभाषितानि यस्मिन् यथा वर्तते यो मनुष्यः - तस्मिन् तथा वर्तितव्यं सधर्मः मायाचारो मायया वर्तितव्यः, साध्वाचारः साधुना प्रत्युपेयः वृत्तं यत्नेन संरक्षेत् - वित्तमेति च याति च। अक्षीणो वित्ततः, क्षीणो वृत्ततस्तु हतो हतः। न च दुर्बलोऽपि क्षत्रुः बलीयसा अवज्ञेयः अल्पोऽपि दहत्यग्निः विषमल्पं हिनस्ति च। अर्थशास्त्रीयाः सूक्तयः धनमाहुः परं धर्मं, धने सर्वं प्रतिष्ठितम्। जीवन्ति धनिनो लोके, मृताः ये त्वधनो नराः॥ धनान् कुलं प्रभवति, धनान् धर्मः प्रवर्धते। नाधनस्यास्त्ययं लोको, न परः, पुरुषोत्तमः॥ राजनीतिविषयकाः सूक्तयः राजा प्रजानां प्रथमं शरीरं - प्रजाश्च राज्ञोऽप्रतिमं शरीरम्। राज्ञा विहीना न भवन्ति देशा, देशैर्विहीना न नृपा भवन्ति॥ राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते। यद् यदाचरते राजा तत् प्रजाभ्यः स्म रोचते॥ एवं गुणगौरवात् सर्वविषयावगाहित्वात् आचारशिक्षणात् पावनत्वात् अयं महाभारतग्रन्थः पञ्चमो वेदः इति ख्यातः। अत एव ग्रन्थश्चयित। - स्वगुणगौरवात् -त्रिदेववद् आद्रियते सम्मान्यते च - अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुः भगवान् बादरायणः॥ वेदानां धर्मप्रधानत्वाद्, यज्ञादिकर्मकाण्डप्रतिपादनात् अध्यात्मभावविवरणाच्च न समेषां प्रियत्वम्। वेदेषु द्विजानामेव विशिष्टा गतिः, धर्मत्वेन अभिरुचिश्च। परन्तु महाभारते सर्वेषां कृते किमपि अस्ति। सर्वमनोमोहनत्वाच्च एतद् स्त्रीशूद्रादिभ्यः अपि सुलभः। अस्य पावनत्वम्, उत्कृष्टत्वं, सर्वार्थसाधकत्वं, सर्वेभ्यः सुलभत्वञ्च प्रेक्ष्य विपश्चिद्भि - पञ्चमो वेदः ’महाभारतम्’ इति साह्लादम् उद्घोष्यते। अष्टादश पर्वेषु, अनेकोपपर्वेषु च विभक्तम् महाभारतम्। अस्य मुख्यांशाः - व्यासरहस्यम् - विदुरनीतिः - भगवद्गीता च। श्री गणेशः - यदि मम लेखनी क्षणमपि अलिखन्ती न अवतिष्टेत् - तर्हि अहं लेखको भवामि इत्यवदत् । तदा भगवान् व्यासः गूढं ग्रन्थग्रान्थिम् अरचयत् - अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि, शुको वेति, सञ्जयो वेत्ति वा न वा॥ इति सन्देहः एव - अद्यापि तच्छ्लोककूटं सुदृढं ग्रथितं, गूढत्वात् तस्य अर्थः केनापि भेत्तुं न शक्यते। अतः ’व्यासरहस्यम्’ इति ज्ञातम्। विदुरनीतिः - विदुरेण मोहग्रस्तं, दुःखितम्, अशान्तं धृतराष्ट्रं प्रति उपदिष्टा राजनीतिः विदुरनीतिरिति ख्याता। सत्यवक् विदुरः निष्पक्षपाततया धर्ममार्गद्योतकः प्रवर्तकश्चासीत्। ’प्रजागर’ नामके उपपर्वणि अष्टसु अध्यायेषु विदुरनीतिः सङ्ग्रहरूपेण निरूपिताः। विदुरस्योक्तिः न केवलं धृतराष्टम् उद्दिश्य उक्ताः, परन्तु सर्वेषां व्यक्तिजीवने उपयोगार्हा एव। महाभारतरण भूमौ मोहग्रस्तम् अर्जुनं प्रति - श्रीकृष्णेन उपदिष्टा भगवद्गीता वर्तते। सर्वोत्कृष्ट विषयस्तु अस्मिन् - ’सरस्वत्याः वृष्टिः’ इति यथोराशिविभूषिते महाभारते - अहितीयः, सर्वज्ञः, सर्वशक्तिमान्, परमयोगेश्वरः, अचिन्त्यानन्त गुणगणसम्पन्नः सृष्टि-स्थिति-प्रलयकारी, विचित्रलीलाविहारी, भक्तवत्सलः, भक्तभक्तिमान्, भक्तसर्वस्वः, निखिलरसामृतसिन्धुः, प्रेमघनविग्रहः, सच्चिदानन्दघनः वासुदेवस्य भगवतः श्रीकृष्णस्य गुणगौरवस्य मनमोल्क मधुरगीतं विद्यते - भीष्मपितामहेन उक्ते ’विष्णुसहस्रनाम’ स्तवे। एतत् सर्वं मनसि निधाय एव उद्घोष्यते - नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ अधुनातने जनजीवने संस्कृतस्य काव्यमिदम् अद्यापि जनजीवने सुविख्यातं, प्रेरणाप्रदं च तिष्ठति। दूरदर्शने 'रामायण'धारावाहिन्याः लोकप्रियताम् अनु महाभारतम् इति धारावाहिनी प्रसारिता। बी.आर.चोपडावर्येण सृष्टा इयं धारावाहिनी स्वस्य गभीराध्ययनपूर्णचित्रणात् सर्वान् आकर्षत् । दूरदर्शनयन्त्रे बहुवाहिनीभिः समृद्धे युगेऽस्मिन्नपि इयं धारावाहिनी पुनः पुनः प्रसार्यते। इमान्यपि दृश्यताम् भारतसावित्री बाह्यसम्पर्कतन्तुः महाभारतम् (संस्कृत विकिपुस्तके) Mahabharat (अंग्रेज़ी विकिस्रोते) महाभारतम् सारमञ्जूषा योजनीया‎
4459
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%81%20%E0%A4%9C%E0%A5%80%E0%A4%B8%E0%A4%B8%E0%A5%8D%20%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%9A%E0%A5%8D
ट्रु जीसस् चर्च्
ट्रु जीसस चर्च अथवा ईसा मसीह सत्य गिरजाघर एकं स्वतन्त्रं गिरजागृहमस्ति ,यत् चीन देशस्य बीजिंग नगरे १९१७ ख्रीस्ताब्दौ स्थापिताऽसीत् । अद्य पंच चत्वारिंशत राष्ट्रेषु पंचदश-लक्ष जनाः तस्य सदस्याः सन्ति । एतत् भारत देशे १९३२ ख्रीस्ताब्दौ स्थापिताऽभवत्। एतत् गिरजागृहं ईशाई जनानां प्रोटेस्टेंट-समूहेन संबद्धमस्ति ,ये क्रिसमस, ईस्टरं च न मन्यन्ते । बाह्यसम्पर्कतन्तुः True Jesus Church (Official Website) True Jesus Church China General Assembly True Jesus Church United States General Assembly क्रैस्त-देवालयाः धर्मसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया सर्वे अपूर्णलेखाः
4469
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%83
विक्रमादित्यः
विक्रमादित्यः भारतवर्षस्य कश्चन धर्मपरायणः सत्यव्रती न्यायप्रियः सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा द्वाविंशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नवरत्नानि आसन् । नवरत्नानि विक्रमार्कस्य आस्थाने नवरत्नानि धन्वन्तरिः क्षपणकोऽमरसिंहः शंकूवेताळभट्टघटकर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेस्सभायां रत्नानि वै वररुचिर्नव विक्रमस्य॥ नवरत्नानां चित्राणि मध्यप्रदेशस्थितस्य उज्जैन-महानगरस्य महाकालमन्दिरस्य समीपे विक्रमादित्य-टिला-नामक स्थानम् अस्ति। तत्र विक्रमादित्यस्य सङ्ग्रहालये नवरत्नानां मूर्तयः स्थापिताः सन्ति। 250px250px250px250px भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4470
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
यन्त्रशास्त्रम्
यन्त्रशास्त्र (Engineering) समाजसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः शिक्षणम् चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4471
https://sa.wikipedia.org/wiki/%E0%A4%8B%E0%A4%A3%E0%A4%BE%E0%A4%A3%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
ऋणाणुशास्त्रम्
ऋणाणुशास्त्र (Electronics) त्रिणाणुनाम् नियन्त्रण विद्या एवम् थदीय पठनम् एव त्रिणाणुशास्त्रः. द्विविद त्रिणाः सन्ति विध्युत् चालके. समाजसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
4474
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%83%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%83
भर्तृहरिः
भर्तृहरिः (Bharthruhari) संस्कृतभाषायाः परम: विद्वान् कविश्चासीत् । अर्वाचीनकोशे एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन गन्धर्वः । तस्य चत्वारः पुत्राः - भर्तृहरिः, विक्रमादित्यः, सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकमात्रपुत्री सुशीला एव भर्तृहरेः माता । अधिपस्य पुत्रसन्ततिः न आसीत् इत्यतः भर्तृहरेः कृते राज्यम् अयच्छत् । अयम् उज्जयिनीं राजधानीं कृत्वा राज्यशासनम् अकरोत् । ततः विक्रमादित्याय राज्यं दत्त्वा सुभटं सेनाधिकारिपदे नियोज्य निर्गतः इति । केषुचित् मराठिग्रन्थेषु भर्तृहरेः पिता गन्धर्वसेनः । तस्य चतस्रः पत्न्यः । गन्धर्वसेनस्य प्रथमः पुत्रः भर्तृहरिः । कालविचारः केचन कथयन्ति यत् भर्तृहरिः सप्तमशतमानस्य पूर्वार्धे आसीत् इति । किन्तु क्रि.श .६५१ तमे वर्षे दिवङ्गतं वाक्यपदीयकारं भर्तृहरिमेव शतकत्रयकारः भर्तृहरिः इति परिगणयद्भिः एवम् उक्तं स्यात् इति भाति । आचार्य दण्डिः क्रि श ९ शतमाने आसीत् । अलङ्कारशास्त्रज्ञः भामहः दण्डेः अपि पूर्वः । भामहात् भर्तृहरिः प्राचीनः यदि स्यात् भामहः स्वस्य अलङ्कारशास्त्रग्रन्थे उदाहरणरूपेण वा भर्तृहरेः श्लोकान् अलेखिष्यत् । विष्णुशर्मकृते पञ्चतन्त्रे भर्तृहरेः श्लोकाः उदाहृताः सन्ति । पर्षियादेशस्य शासकस्य राजा खस्त्रु अनुशरिवान् (क्रि श ५३१-७९) इत्येतस्य अनुज्ञानुगुणं पञ्चतन्त्रग्रन्थः पेह्लविभाषया अनूदिता अस्ति । अतः पञ्चतन्त्रस्य कालः क्रि श ५३१ तः बहु पूर्वमिति भासते । एतैः आधारैः भर्तृहरिः पञ्चमशतमानस्य मध्यभागे उत्तरभागे वा आसीत् इति भासते । शतकत्रयं किम् एतेनैव रचितम् ? अनेन कविना नीतिशतकम्, शृङ्गारशतकम्, वैराग्यशतकम् च इति शतकत्रयं रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते - श्रीमद्भर्तृहरिकृतं नीतिशतकं प्रारभ्यते । इह खलु राजर्षिप्रवरः भर्तृहरिः........... शतक त्रयात्मकं ग्रन्थं चिकीर्षति । अथ भर्तृहरिभूपतिकृतवैराग्य-शतक-प्रारम्भः । इति श्रीमहामुनीन्द्रभर्तृहरिकृतौ........ । इति श्रीमहाकविचक्रचूडामणिना भर्तृहरिणा विरचितं...........। शतकत्रयस्य परिचयः शृङ्गारशतकम् अस्मिन् शतके स्त्रीसौन्दर्यम्, प्रणयलीला, पुरुषहृदयवशीकरणम्, अनुभवदिविषये लिखितवान् अस्ति । इदं सः स्वस्य यौवने लिखितवान् स्यात् । नीतिशतकम् अस्मिन् शतके विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यादिविषयेषु लिखितवान् अस्ति । इदं स्वस्य वानप्रस्थदशायां लिखितवान् स्यात् । वैराग्यशतकम् अस्मिन् शतके आशापाशविमुखता, उच्चनीचतारतम्यनिरसनम्, लाभालाभनिवृत्तिः, मनोस्थैर्यम्, ईश्वरसेवा, अवधूतचर्या, मोक्षमार्गादिषु विषयेषु बोधनं लभ्यते । इदं सः स्वस्य वृद्धाप्ये लिखितवान् स्यात् इति भाति । काव्यशैली अत्रत्या शैली सुलभा, मञ्जुला, अर्थगौरवयुक्ता, आकर्षिका च वर्तते । संस्कृतस्य सामान्यज्ञानवन्तः अपि इदं पठित्वा अवगन्तुं शक्नुवन्ति । अत्र उपयुक्तं वृत्तं सुलभं लघु च विद्यते । अत्रत्याः उपमानोपमेयादयः स्वाभाविकाः इत्यतः पठितृषु नूतनभावोत्पादकाः सन्ति । कानिचन उदाहरणानि श्रोत्रं श्रुतैनैव न तु कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ॥१॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहिता विरमन्ति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्तिः ॥ २ ॥ सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम्। आपत्सु च महाशैलशिलासङ्घात् कर्कशम् ॥३॥ पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति। आपद्गतं च न जहाति ददाति काले सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः ॥४॥ क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः। क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ५ ॥ एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणैव सारस्फुरित तेजसा ॥६ </span> भर्तृहरिः संचित्रसारमञ्जूषे योजनीये विषयः वर्धनीयः बाह्यानुबन्धः योजनीयः पञ्चमशताब्द्याः कवयः
4475
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97
शिलाङ्ग
शिलाङ्ग मेघालयप्रदेशस्‍य राजधानीनागरम् अस्ति । भारतस्य राज्यानां राजधान्यः बाह्यसम्पर्कतन्तु मेघालयराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया