id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
4476
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%83
शिवः
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः, शंङ्कर: इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः। व्युत्पत्तिः 'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३) विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवराममूर्तिः,१९७६) शं करोती इति शंङ्कर: म्हणजे जो आपले कल्याण करतो तो शंकर होय. स्वरूपम् तृतीयनयनम् शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९) अर्धचन्द्रः शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्। विभूतिः विभूतिः वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपाः प्राचीन्भारतीय-श्मशानवैराग्य-दर्शनैस्साकं युक्ताः। अस्य मतानुयायीनः भवन्ति रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः । विभूतिभूषणोऽपि शिवस्य अपराख्या। जटाजुटः शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते। (चिद्भवनन्दः,पृ : २२, म्याक्डोनेल्, पृ: ६२.) नीलकण्ठः समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः।(फ़्लाड् ,१९९६.पृ: ९८| चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (८६९)। पवित्रगङ्गा हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८) ज्योतिर्लिङ्गमन्दिरानि शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा- . हिन्दुदेवताः सारमञ्जूषा योजनीया‎
4552
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B8%E0%A4%83
भासः
भासः कश्चन प्रसिद्धः संस्कृतनाटककारः । तेन रचितानि रूपकानि सरलभाषया निबद्धानि मनोहराणि च वर्तन्ते । तदीयानि त्रयोदश नाटकानि उपलभ्यन्ते । भासो हासः गीतगोविन्दकारः जयदेवः भासं स्तौति यथा-"भासो हासः " कविकुलगुरुः कालिदासो विलासः इति । महाकविः भासः (Bhaasa) कश्चित् महान् संस्कृतनाटककारः। भासस्य त्रयोदशनाटकानि उपलभ्यन्ते । १९०९ क्रिस्ताब्दौ त्रिवेन्द्रम् निवासी महामहोपाध्याय: टी० गणपतिशास्त्रीमहोदयः तिरुवाङ्कोर राज्यात् तालपत्रलिखितानि एतानि प्राप्तवान् । तेषां नाटकानांं नामानि सन्ति अधोलिखितानि। एतेषां त्रयोदशानामपि नाटकानां कर्ता भास इति लब्धयशसः टि.गणपतिशास्त्रिणः निरणयन् । प्राचीनः नोनराजस्य पुत्रः जोनराजः स्वग्रन्थे "सोऽग्निरपि भासमुनेः काव्यं विष्णुधर्मान्मुखात्त्यक्तवान् । नादहदित्यर्र्थः" इत्युक्तवान् । लाक्षणिकग्रन्थकारः रामचन्द्रगुणचन्द्रः नाट्यदर्पणे "यथा भासकृते स्वप्नवासवदत्ते" इत्येव वदति । किन्तु अन्ये विद्वांसः सर्वेषाम् एककर्तृत्वं पूर्वं नाङ्गीकृतवन्तः । ततः एतेषु स्वप्नवासवदत्तम् नाम्नि नाटके भासस्य नाम कर्तृत्वेन प्रस्तुतम् । अन्यत्र कुत्रापि नाटके कर्तुः नाम न गोचरति । तथा च एतेषु सर्वेषु नाटकेष्वपि "नान्द्यन्ते ततः प्रविशति सूत्रधारः" इति एकरीत्या प्रारम्भः भवति । "प्रस्तावना" इत्यस्मिन् स्थाने "स्थापना" इति निहितम् । अपि च सर्वेषु नाटकेष्वपि भरतवाक्यानि समानानि वर्तन्ते । एतदतिरिच्य आपञ्चदशशतकपर्यन्तं यावत्, संस्कृतकवयः स्वीयासु कृतिषु भासं तस्य ग्रन्थाणां वाक्यानि च समुदाहरन् । अपि च एतानि सर्वाण्यपि नाटकानि एकत्रैव प्राप्तानि । अतः एतानि सर्वाण्यपि रूपकाणि प्रायशः भासकृतानीति विद्वद्भिः सिद्धान्तितमस्ति । किन्तु एतस्मिन् विषये ऐकमत्यं न सिद्धम् । इमं कविं महाकविः कालिदासः मालविकाग्निमित्रम्इति नामके स्वस्य नाटके ’प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः क्रियायां कथं परिषदो बहुमानः?’ इति सबहुमानं भासम् अश्लाघत । बाणोऽपि स्वकाव्ये हर्षचरितम् नाम्नि काव्ये "सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव" इति भासकविम् अस्तौत् । कविः राजशेखरः अपि भासो रामिलसोमिलौइति, "भासो हासः" इति जयदेवःमुरारिश्च भासम् अस्तुवन् । भासस्य कालः अनेके कवयः भासं प्राशंसन् । काव्यशास्त्रकाराः भासकृतान् श्लोकान् स्वग्रन्थेषु समुदाहरन् । एतेन ज्ञायते यत् भासः कालिदासादपि प्राक्तनः तदर्वाचीनकवीनाम् आत्मीयश्च स्यादिति । अनेकेषां कवीनाम् यथा तथैव भासस्यापि देश-कालयोः विषये कोऽपि निश्चयः नास्ति । तथापि विमर्शकानाम् अभिप्रायानुसारं क्रि.पू.१थमे शतमाने भास आसीदिति निर्णेतुं शक्यते । शार्ङधरपद्धतिः, सूक्तिमुक्तावलिः, सदुक्तिकर्णामृतम्, सुभाषितावलिः, इत्यादिषु प्राचीनेषु सुभाषितग्रन्थेषु भासाङ्कितानि पद्यानि लभ्यन्ते । एतादृशानि सर्वाणि साक्ष्याणि उद्धृत्य भासः क्रिस्तात् पूर्वं सप्तमे शतके आसीदित्यपि विमर्शकाः निर्णीतवन्तः । केचन विपश्चितः भासः क्रि.श.२तीये शतके आसीदित्यपि अभिप्रयन्ति । गते शतके समुपलब्धम् यज्ञफलम् नाम रामायणकथावस्तु नाटकमपि भासकविकृतमेवेति तस्य अध्येतारः दोषज्ञाः निरचिन्वन् । भासस्य देशविषये, मातापित्रोः विचारे च कापि कथा नोपलभ्यते । अयं दाक्षिणात्यः इति केचन साधारं प्रतिपादयन्ति । भासस्य रुपकाणि प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि त्रीणि बृहत्कथाऽऽधाराणि । प्रतिमानाटकभिषेकश्चेति द्वे रामायणमूले । मध्यमव्यायोगपञ्चरात्रदूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि, बालचरितं भागवताश्रयम् दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः ।। १. मध्यमव्यायोगे – हिडिम्बानामकराक्षस्या सह भीमस्य प्रणयः, घटोत्कचनामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः । २. दूतघटोत्कचे –हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्य महाभारतीयं चरितम् । ३. कर्णभारे –कर्णस्योदात्तं चरितम्, तेन हीन्द्राय कवचकुण्डले दत्ते । ४. ऊरुभङ्गे –भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्य जङ्घे भग्ने । संस्कृतसाहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् । ५. दूतवाक्ये –दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्याभिमानित्वं वर्णितम् । ६. पञ्चरात्रे –कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम्, दक्षिणायां स पाण्डवानां राज्यं याचितवान् । पञ्चदिनाभ्यन्तरेऽन्वेषणेक्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् । ७. बालचरिते –कृष्णस्य बाललीला भागवताधारेणा कृता । ८. अविमारके –या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ्ग्या सह प्रणयोऽत्र वर्णितः । ९. स्वप्नवासवदत्तम् – मन्त्री यौगन्धरायणं पद्मावत्या मगधराजभगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्तिं वर्ध्दयिउमैच्छत् । ध्रियमाणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिदुदयने मृगयार्थं गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तत्प्रेमणि मालिन्यमानीयते पश्छात् पदमावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते । १०. दरिद्रचारुदत्ते-वसन्तसेनाचारुदत्तयोः प्रणयकथा वर्णिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते । ११. अभिषेके- रामायणोक्ता वालिवधादारभ्य रामराज्याभिषेकान्ता कथा वर्णिता । १२. प्रतिमानाटके – रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबध्दम् । १३. यज्ञफले –कथाभागोऽत्यल्प एव दशरथ यज्ञफले रामजन्म: , विश्वामित्र यज्ञफले असुरविनाश चापि जनक धनुष: यज्ञफले सीता विवाह भवन्ति। सर्वेषामेषां रुपकाणामेककर्तृकत्वम् उपरिदिर्निष्टनामानि रुपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनकं साम्यं प्रतिभासते । यथा – १. सर्वाण्यपीमानि नाटकानि- ‘नान्द्यन्ते ततः प्रविशति सूत्रधारः’ एभिरेव शब्दैः प्रारभ्यन्ते । २. एषु रुपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते । ३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः । ४. एषु सर्वत्र भरतवाक्यं समानम् । ५. एषां रुपकाणां भाषाऽऽश्चर्यजनकं साम्यं वहति । ६. सर्वेष्वप्येषु रुपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः । ७. अप्रधानपात्राणां नामसाम्यम्, व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् समाः वाक्यम्, सर्वत्र बाहुल्येन लभ्यते । ८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः । ९. नाट्यनिर्देशस्य अभावः समानः । १०. एषां सर्वेषां रुपकाणां नामानि केवलमन्त एव ग्रन्थस्य लभ्यन्ते नान्यत्र क्वापि । भासस्य द्विरवतारः यद्यपि बहवो विद्वांसो गुणपतिशास्त्रिणा प्र्काशितानि सर्वाण्यपि रुपकाणि प्रचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः, परन्तुजातेन बहुविधानुसन्धानेनेषां कर्त्ता प्राचीनो भासो न सिद्ध्यति, यतो भासकृतत्वेनोदाहृतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते, अतः सर्वाण्यपीमानि रुपवाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । मदृ मदृ रामावतारशर्माऽपि लभ्यमानरुपकाणामंशविशेष एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्बलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति । अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम्, तत्रैकः प्राचीनो भासो ये महा रुविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दीसमुद्भवो भासो यस्य रुपकाणि चतुर्दश मदृमगणपतिशास्त्रिभिः प्रकाश्यं नीतानि । भासस्य नाटकनिर्माणनैपुण्यम् बहूनां रुपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नित्वानिति वक्तुं सुशकम्, अत एव चास्य रुपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णवि कसितानि नाटकानि, यथा- स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम्, प्रतिमानाटकञ्च । मध्यमव्याव्योगदूतघटोत्कचद्वतवाक्यकर्णभारोरुभङ्गानि एकाङ्करुपकाणि कथयितुं शक्यन्ते । भासस्य रुपकेषु अभिनययोग्यतैवासाधारमभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च –एषां रुपकाणामादितोऽन्तं यावदभिनये सौकर्यम्, सुबोधा सरला संक्षेपवती च वाक्यावलिः, वर्णनविरहः, अविस्तृतानि पात्राणां कथनोपकथनानि, इत्यादिकाः सर्वेषु रुपकेषु दृश्यन्ते । भासः संवादतत्त्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं बिभ्रति सर्वत्र सुलभम् । भासो व्रिजेषु रुपकेषु स्वाधारभूताः कथास्तयैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादियोजनेन तानि स्मवीयतां प्रापयतीति भासस्य नाटकनिर्माणनैपुण्यं सुखमवगन्तुं शक्यम् । भासकृतिभिरन्यकविकृतिसाम्यम् भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा –शाकुन्तले चर्त्येऽङ्के वृक्षलतादीन् प्रति शकुन्तलाया यः कोमलो मनोभावः –‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु य इत्यादिना वर्णितस्तत्तुल्य एव भासस्याभिषेके ‘यस्यां न प्रियमण्डनापि महिषी देवस्यमन्दोदरी’ इत्यादौ मनोभावो वर्ण्यते । यथा शाकुन्तले आश्रमवासिनां पीडनं परिहर्तुमादिश्यते तथैव स्वप्नवासवदत्ते – ‘न परुषमाश्रमवासिषु प्रयोज्यम् ’ इत्यादिश्य समानं दृश्यते । तथैव स्वप्नवासदत्ते- ‘ श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता’ इति वीणादौर्भाग्यमाक्रुश्यते । एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सर्वाशगतं सादृश्यमासाद्यते । तदत्र केन कस्याधमर्ण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशुद्रकौ एवोत्तमर्णो भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासोद् द्वितीयो भास इति च । प्रथमो भासः कालिदासादीनां पाथि प्रदर्शकः सम्भवति, परं तदीयाः कृतयः नोपलभ्यन्ते , यश्चायं केरलीयो रुपकसमूहः स तु नवस्य भासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतीति । भासभारत्याः निदर्शनानि स्वप्नवासवदत्तस्य षष्ठाङ्कस्य अन्ते भरतवाक्यम्, यथा- इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ चारुदत्तनाटकस्य प्रथमाङ्के १३तमः श्लोकः, यथा- परिचिततिमिरा मे शीलदोषेण रात्रिः, बहुलतिमिरकालास्तीर्णपूर्वा विघट्टाः । युवतिजनसमक्षं काममेतन्नवाच्यम्, विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ नाटकानि स्वप्नवासवदत्तम् प्रतिज्ञायौगन्धरायणम् उरुभङ्गम् दूतवाक्यम् पञ्चरात्रम् बालचरितम् दूतघटोत्कचम् मध्यमव्यायोगः प्रतिमानाटकम् अभिषेकनाटकम् अविमारकम् चारुदत्तम् कर्णभारम् (महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् ) भासस्य कालः ई०पू० पञ्चमशताब्दिः इति मन्यन्ते इतिहासकाराः। तस्य नाटकानि अद्यापि कूडियाट्टेन प्रशासितानि। मातुराज्ञा गरीयसी (ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च ) घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् । वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि? घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि। वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि। घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति। पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्। घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या। प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि। तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि। द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि। घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि। घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः) घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति। घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः ) भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः। घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि। भीमसेनः--अतः खल्वहं प्राप्तः। घटोत्कचः -- किं भवान् अपि मध्यमः? भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः। वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'। भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्। घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति। माता किल मनुष्याणां देवतानां च दैवतम्। मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।। (प्रकाशम्)किं नाम भवतः माता? घटोत्कचः--हिडिम्बा। भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्। घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः। हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः । घटोत्कचः--भवति कोऽयम्? हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्। घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि। भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः) भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः) बाह्यबन्धुकानि http://samskrute.blogspot.com/search/label/bhaasa संस्कृतकवयः संचित्रसारमञ्जूषे योजनीये सज्जाऽर्हाणि पृष्ठानि प्रथमशताब्द्याः कवयः
4568
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%A6%E0%A4%BE%E0%A4%B8%20%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%9C%E0%A5%81
सिद्धिदास महाजु
सिद्धिदास महाजु (संस्कृतम्: सिद्धिदास अमात्य) नेपाल भाषायाः कश्चन महाकविः अस्ति । कृतयः पद्यकाव्यम् महाकाव्यम् - सिद्धि रामायण खण्डकाव्यम् - सत्यसति, शिवपिनास कोषकाव्यम् - शुकरम्भा संवाद, सनातन धर्म, सप्तस्तुति, सञ्चय इत्यादि। गद्यम् आत्मकथा - सिद्धिदास थःगु मिखाय्‌ कथा - शिवविलास निबन्ध - सर्वबन्धु रचनात्मकं / साहित्योत्तरवाङ्मयम् सूक्ष्म छन्द सरल छन्द बोध सत्यमदन समाचार स्वदेशवस्त्र सिद्धिव्याकरण विजुली मूहुर्त चिन्तामणि नेपालदेशस्य जनाः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
4569
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%A8%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%AA%E0%A4%BF%E0%A4%83
रञ्जनालिपिः
रञ्जना लिपि नेपाल भाषास्य एक लिपि अस्ति| रञ्जना लिपिः नेपालभाषाणां तथा संस्कृत अपि प्रमुखा लिपिः वर्तते । लिपयः लिपिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4575
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B2%20%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF
नारायणगोपाल गुरुवाचार्य
नारायणगोपाल गुरुवाचार्य नेपाली गायक व स्वर सम्राट(नेपाल) अस्ति| नेपालदेशस्य जनाः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4578
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%B0
नेवार
नेवार नेपालस्य समाजः विद्यते । नेवारसमाजस्य वासस्थानं भवति काठमाण्डुप्रदेशः । नेवारसमाजस्य मातृभाषाया: नाम नेपालभाषा। नेवाराः हिन्दुधर्मं बौद्धधर्मं च अनुसृत्य मुख्यतया भारत-आर्य-तिब्बती-बर्मन-जातीयानां भाषावैज्ञानिकं सांस्कृतिकं च समुदायं निर्मान्ति यत्र नेपालभासां स्वस्य साधारणभाषा अस्ति । नेवारैः श्रमविभागः, परिष्कृतः नगरसभ्यता च विकसिता यत् हिमालयस्य पादे अन्यत्र न दृश्यते । नेवाराः स्वस्य युगपुरातनपरम्पराः, व्यवहाराः च निरन्तरं कृतवन्तः, नेपालस्य धर्मस्य, संस्कृतिस्य, सभ्यतायाः च सच्चा रक्षकाः इति गर्वं कुर्वन्ति । नेवाराः संस्कृति-कला-साहित्य-व्यापार-कृषि-व्यञ्जनयोः योगदानेन प्रसिद्धाः सन्ति । अद्यत्वे ते नेपालस्य आर्थिकसामाजिकदृष्ट्या सर्वाधिक उन्नतसमुदायरूपेण निरन्तरं स्थानं प्राप्नुवन्ति इति यूएनडीपीद्वारा प्रकाशितवार्षिकमानवविकाससूचकाङ्कानुसारम्। २०२१ तमे वर्षे नेपालजनगणनानुसारं नेपालदेशस्य ८तमः बृहत्तमः जातीयसमूहः अस्ति यस्य संख्या १,३४१,३६३ जनाः सन्ति ये कुलजनसंख्यायाः ४.६% भागाः सन्ति । काठमाण्डू उपत्यका तथा तत्समीपस्थाः प्रदेशाः नेपालमण्डलस्य पूर्वनेवारराज्यस्य निर्माणं कृतवन्तः । नेपालदेशस्य अन्येषां सामान्यमूलजातीयजातीयजातिसमूहानां विपरीतम्, नेवाराः जातीयविविधतायाः, पूर्वं विद्यमानराजनीत्याः, अवशिष्टपरिचययुक्तस्य राष्ट्रसमुदायस्य उदाहरणरूपेण गण्यन्ते तस्य अन्तः नेवारसमुदायः जातीय-जातीय-जाति-धार्मिक-विषमता-विविधताभिः युक्ताः सन्ति, यतः ते प्रागैतिहासिककालात् नेपालमण्डले निवसन्तः विविधजनसमूहस्य वंशजाः सन्ति विभिन्नकालेषु आगताः स्वस्वभारतीयमहाजनपदात् (अर्थात् वज्जी, कोसल, मल्ल, लिच्छिवि, कोसलाः, मल्लाः इत्यादयः इन्डो-आर्यजनजातयः अन्ततः स्वभाषां स्वीकृत्य स्थानीयदेशीयजनसङ्ख्यायाः सह विलीनाः अभवन् तथा च... परंपरा। एताः जनजातयः तथापि स्ववैदिकसंस्कृतेः अवधारणं कृत्वा स्वसंस्कृतभाषाः, सामाजिकसंरचना, हिन्दुधर्मः, संस्कृतिः च स्वैः सह आनयन्ति स्म, ये स्थानीयसंस्कृतीभिः सह आत्मसाताः भूत्वा वर्तमाननेवारसभ्यतायाः जन्म दत्तवन्तः नेपालमण्डले नेवारशासनस्य समाप्तिः १७६८ तमे वर्षे गोर्खाराज्यस्य विजयेन अभवत् । नेपालदेशः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया उत्पतिः "नेपाल", "नेवार", "नेवाल" "नेपार" इति पदं ध्वन्यात्मकरूपेण एकस्यैव शब्दस्य भिन्नरूपं भवति, इतिहासे भिन्नकालेषु ग्रन्थेषु विविधरूपस्य उदाहरणानि दृश्यन्ते नेपालं साहित्यिकं (संस्कृतं) रूपं नेवारं च बोलचालकं (प्राकृतं) रूपम्। काठमाण्डूतः पश्चिमदिशि स्थिते उपत्यकायां तिस्टुङ्ग-नगरे ५१२ तमे वर्षे संस्कृतशिलालेखे "नेपाल-जनानाम् अभिवादनम्" इति वाक्यं दृश्यते यत् "नेपाल" इति पदस्य प्रयोगः देशस्य जनानां च उल्लेखार्थं कृतः इति सूचयति । "नेपालनिवासी" इति निर्दिश्य "नेवार" अथवा "नेवा:" इति पदं प्रथमवारं काठमाण्डौ १६५४ तमे वर्षे लिखिते शिलालेखे प्रादुर्भूतम् । इटलीदेशस्य जेसुइट्-पादरीः इप्पोलिटो डेसिडेरी (१६८४–१७३३) यः १७२१ तमे वर्षे नेपालदेशं गतः सः लिखितवान् यत् नेपालस्य मूलनिवासिनः नेवाराः इति उच्यन्ते । "नेपालः" "नेवारस्य" संस्कृतीकरणं भवेत्, अथवा "नेवार" "नेपालस्य" परवर्ती रूपं भवेत् इति सूचितम् । अन्तिमव्यञ्जनस्य पातयित्वा स्वरस्य दीर्घीकरणस्य स्वरविज्ञानप्रक्रियायाः फलस्वरूपं नेवारस्य नेवालस्य वा "नेवा", नेपालस्य वा "नेपा" च साधारणवाक्ये प्रयुक्ताः । इतिहास: सहस्राब्दद्वयाधिकं यावत् मध्ययुगीननेपाले नेवासभ्यता शास्त्रीय उत्तरभारतीयसंस्कृतेः सूक्ष्मविश्वं संरक्षितवती यस्मिन् ब्राह्मण-बौद्धतत्त्वानां समानं स्थानं प्राप्तम् ।मध्ययुगीनकाले मैथिलब्राह्मणपुरोहिताः काठमाण्डौ आमन्त्रिताः, अनेके मैथिलपरिवाराः निवसन्ति स्म मल्लशासनकाले काठमाण्डौनगरे । उत्तरतः (तिब्बतस्य) दक्षिणस्य (तिरहुतस्य) च जनानां प्रवाहेन न केवलं नेपालस्य आनुवंशिक-जातीय-वैविध्यं वर्धितम्, अपितु नेवार-जनानाम् प्रबल-संस्कृतेः परम्परायाः च बहुधा आकारः प्राप्तः। काठमाण्डू उपत्यका तथा तत्समीपस्थेषु क्षेत्रेषु नेपालमण्डलस्य पूर्वनेवारराज्यं निर्मितम् । नेपालदेशस्य अन्येषां सामान्यमूलजातीनां वा जातीयसमूहानां विपरीतम्, नेवाराः अवशिष्टपरिचययुक्तस्य राष्ट्रसमुदायस्य उदाहरणं मन्यन्ते, यत् जातीयरूपेण विविधतापूर्णा, पूर्वविद्यमानराजनीतितः उत्पन्नः अस्ति प्रागैतिहासिककालात् नेपालमण्डले निवसन्तः विविधसमूहानां वंशजाः इति कारणतः तस्य अन्तः नेवारसमुदायस्य विविधाः जातिजातिजातीयधर्मभेदाः सन्ति विभिन्नकालेषु आगताः स्वस्वभारतीयमहाजनपदानां (अर्थात् वज्जी, कोसल, मल्लस्य लिच्छवीः) इत्यादयः लिच्छवीः, कोसलाः, मल्लाः इत्यादयः इन्डो-आर्यजनजातयः अन्ततः स्वभाषां स्वीकृत्य स्थानीयजात्या सह विलीनाः अभवन् परन्तु एताः जातिः स्ववैदिकसंस्कृतेः अवधारणं कृत्वा स्वसंस्कृतभाषा, सामाजिकसंरचना, हिन्दुधर्मं च आनयत्, ये स्थानीयसंस्कृतिभिः सह समावृत्य वर्तमाननेवारसभ्यतायाः जन्म अभवत् । नेवारानां विभागे विविधाः ऐतिहासिकाः विकासाः अभवन् । काठमाण्डू उपत्यकायां नेवारानाम् साधारणपरिचयः निर्मितः । १७६९ तमे वर्षे गोर्खासाम्राज्येन उपत्यकायाः ​​विजयः यावत् कस्मिन् अपि काले उपत्यकायां निवसन्तः सर्वे जनाः नेवाराः वा तेषां पूर्वजाः वा आसन् । एवं नेवारानाम् इतिहासः आधुनिकनेपालराज्यस्य स्थापनायाः पूर्वं काठमाण्डू उपत्यकायाः ​​इतिहासेन सह सम्बद्धः अस्ति । उपत्यकायां नेवारानाम् शासनं समीपस्थेषु प्रदेशेषु तेषां सार्वभौमत्वं प्रभावश्च १७६९ तमे वर्षे पृथ्वीनारायणशाहेन स्थापितेन गोर्खाराज्येन काठमाण्डू उपत्यकायाः ​​विजयेन समाप्तः।गोर्खाविजयात् पूर्वं, यत् १७६७ तमे वर्षे कीर्तिपुरयुद्धेन आरब्धम्, नेपालमण्डलस्य दक्षिणे मकवानपुरराज्यं, उत्तरदिशि मकवानपुरराज्यं च आसीत् ।पूर्वदिशि किराटराज्यं यावत् तिब्बतराज्यं पश्चिमदिशि त्रिशूलीनद्याः च विस्तारिता आसीत् या गोर्खाराज्यात् पृथक् कृतवती। जातः वर्गीकरणः नेपाले अन्येभ्यः सर्वेभ्यः जातीयसमूहेभ्यः भिन्नः जातीयभाषिकसमुदायः नेवाराः सन्ति । नेवा: समुदाये व्यवसायाधारितं वर्णं, जाति, उपनाम च भेदं भवति। नेवाराः वैदिकवर्णव्यवस्थायाः आधारेण स्वस्य प्राचीनवंशानुगतव्यापारस्य आधारेण विविधाः अन्तःपत्नीगोत्रेषु समूहेषु वा विभक्ताः सन्ति । यद्यपि लिच्छवीकालस्य आरम्भः अभवत् तथापि वर्तमाननेवारजातिव्यवस्था मध्ययुगीनमल्लकाले वर्तमानरूपं स्वीकृतवती । १.ब्राह्मणः - मुख्यसमूहद्वयं अस्ति: कन्याकुब्ज ब्राह्मणः अथवा राजोपाध्यायः (द्यःभाजू ब्राह्मणः) (शर्मा, शुक्ला, सुवेदी)ये हिन्दु नेवारानाम् पुरोहिताः सन्ति तथा चङ्गु नारायणमन्दिरम्, तलेजु भवानी, कुम्भेश्वरमन्दिरम् इत्यादीनां महत्त्वपूर्णराष्ट्रीयतीर्थानां मन्दिरपुरोहिताः, अन्येषु च मैथिल ब्राह्मणः (झा, मिश्र) ये प्रायः लघुहिन्दुतीर्थानां मन्दिरपुरोहिताः सन्ति। २.छथरियश्रेष्ठः क्षत्रीयश्रेष्ठ क्षत्रियकुलीनखण्डः यस्मिन् मल्लवंशजाः, तेषां असंख्याकाः हिन्दुदरबारीगोत्राः प्रधानाः प्रधानाङ्गाः (मुख्यमन्त्रिणः सेनाप्रमुखाः च), अमात्यः (मन्त्रिणः), मास्के (दरबारीः), हाडा, माथेमा इत्यादयः सन्ति तथा वैद्य (आयुर्वेदिक अभ्यासकर्ता), राजभंडारी (राजकोषाध्यक्ष), राजवंशी (भूमिगत भद्र), कायस्थ (लिपिक) इत्यादयः क्षत्रिय-स्थितिविशेषज्ञाः। ३ पञ्चथरीयश्रेष्ठः वैश्यश्रेष्ठ (प्रशासक एवं व्यापारी) सहितेन प्रमुख हिन्दूव्यापारी एवं प्रशासनिक वर्गः अस्ति। ४. गुर्वाचार्य तथा कर्माचार्य - हिन्दूतान्त्रिक मन्दिरस्य पुरोहिता ५.जोशी- ज्योतिषी कार्यं करोति, दैवज्ञ ६.बज्राचार्य तथा बुद्धाचार्य- विभिन्न बौद्धस्थलस्य बौद्ध पुरोहिताः तथा ज्यापूपुरोहित। ७.शाक्यः- भगवान् बुद्धस्य शाक्यगोत्रस्य वंशजाः, बौद्धमन्दिरस्य पुरोहिताः अपि च परम्परागतरूपेण स्वर्णकाराः। ८.राजकर्णिकार या हलवाई : पारम्परिक मिठाई एवं मिठाई निर्माता। काठमाण्डू हलवाई बौद्ध, ललितपुर हलवाई हिन्दु। ९.शिल्पाकरः काष्ठाकाराः। १०.ताम्रकारः ललितपुरतः व्यापारी व्यापारी च समूहः; परम्परागतरूपेण ताम्रकारत्वेन प्रवृत्ताः। ११.उराय/उदास: मुख्य बौद्ध व्यापारी, व्यापारी एवं शिल्पकार समूह सहित तुलाधर एवं बनिया (व्यापारी), कंसकर (कांस्यकार), स्थानपित, कष्टकर (वास्तुकार/काष्ठकार), आदि। १२.कारीगरः जाति : "संस्कारपूर्वक शुद्ध" व्यावसायिक जातिः (सत-शूद्र): बालामी (क्षेत्रकर्मी एवं किसान), भा/करणजीत (मृत्युसंस्कार विशेषज्ञः), छिपा/रंजीतकर (रंजक), दुहि/पुतवार/डली (वाहक), वनमाली/ मालाकार/माली (माली), खुस/तण्डुकार (पालकी धारक/कृषक), पहाड़ी/नगरकोटी (उपत्यका इतरे कृषक), कौ/नकर्मी (लोहकर्मी), नौ/नपित (नाई), पुं/चित्रकार (चित्रकार), सालमी/ मानन्धर (तैली) इत्यादि । १३.ज्यापुः परम्परागतरूपेण कृषकाः(सत-शूद्र); काठमाण्डू उपत्यकायाः ​​अन्तः नेवारजनसंख्यायाःअल्पमतम् । सुवाल, दुवाल, बासुकला, कुम्हाल/प्रजापति ( मृत्तिकाकर्मी), अवाले (ईंटकार), सापु/गोपालि (गोपाल वंशस्य वंशज) इत्यादयः अपि अन्तर्भवन्ति । १४.जोगी/कपाली : कानफट योगी सम्प्रदायस्य वंशज रूपेण सम्बद्ध जाति। अपि च परम्परागतरूपेण दर्जी, संगीतकाराः (मुहालि वाद्यं वादयति)। पूर्वं एकः अनुसूचितजातिः । १५.च्यामे/चमाहा : परम्परागतरूपेण मत्स्यजीविनः, झाडकाः। एक अनुसूचित जाति। १६.धोबी : परम्परागतरूपेण धोविकाः। एक अनुसूचित जाति। १७.द्यःला/पोडे : परम्परागतरूपेण मन्दिरस्य सफाईकर्तारः, मत्स्यजीविनः, झाड़ूदाराः च। एक अनुसूचित जाति। १८.कुलु/दुम् : परम्परागतरूपेण चर्मकार्यकर्तारः। एक अनुसूचित जाति। १९.खड्गी/शाही : परम्परागतरूपेण कसाईः संगीतकाराः च। पूर्वं अनुसूचितजातिः । संस्कारादि विस्तृताः अनुष्ठानाः जन्मतः मृत्युपर्यन्तं नेवारजीवनचक्रस्य वर्णनं कुर्वन्ति नेवाराः मृत्युस्य परलोकस्य च सज्जतारूपेण जीवनचक्रसंस्कारं कुर्वन्ति । हिन्दुः बौद्धाः च समानरूपेण "शोदाशसंस्कारकर्म" अथवा हिन्दुव्यक्तिस्य जीवने अनिवार्यमार्गस्य १६ पवित्रसंस्कारं कुर्वन्ति । १६ संस्काराः १० यावत् लघुकृताः "१० कर्मसंस्काराः" इति उच्यन्ते । अस्मिन् व्यक्तिस्य जीवने "जातकर्म", "नामकरण", "अन्नप्रासन" इत्यादीनि महत्त्वपूर्णानि घटनानि समाविष्टानि सन्ति । "व्रतबन्धः" अथवा "कयेतापूजा", "विवाहः", जङ्क्वा इत्यादयः अपि सन्ति । अन्नप्रासनं (मचा जंको) एषः तण्डुलभोजनः । बालकानां कृते षड्-अष्ट-मासेषु, बालिकानां कृते पञ्च-सप्त-मासेषु क्रियते । उपनयन (कयेता पूजा) नेवाराः ब्रह्मचर्यस्य संस्काररूपेण कायेतापूजा इति उपनयनसमारोहं कुर्वन्ति – जीवनस्य पारम्परिकचतुर्चरणस्य प्रथमं सोपानम्। संस्कारकाले बालकः ब्रह्मचारीधर्मजीवनाय कुलवंशत्यागं करोति । तस्य शिरः उपरितनं अग्रभागं विहाय सम्पूर्णतया मुण्डितं भवति, सः पीतं/नारङ्गवर्णीयं वस्त्रं धारयेत्, सः स्वजनेभ्यः तण्डुलान् याचयन् विश्वं परिभ्रमितुं सज्जः भवेत्। एतत् तपस्वी आदर्शं प्रतीकात्मकरूपेण पूर्णं कृत्वा सः गृहस्थजीवनं, पतिपितृत्वेन च अन्तिमकर्तव्यं च ग्रहीतुं स्वपरिवारेण पुनः आहूतः भवेत् द्विजाः (ब्राह्मणक्षत्रियश्च) नेवाराः—राजोपाध्यायः छथरिय च—अग्रे उपनयनदीक्षां गच्छन्ति यत्र बालकः स्वस्य जनै (संस्कृत: यज्ञोपवीत) गुप्तवैदिकमन्त्रान् च प्राप्नोति। -ऋग्वेद.३.६२.१० (ब्रह्म गायत्री मन्त्र) नेवार ब्राह्मणानां कृते, -ऋग्वेद.१.३५.२ (शिव गायत्री मन्त्र) छथरियभ्यः दत्तः । बालकः तदा पूर्णतया द्विजत्वेन स्वस्य जातित्वे समाश्रितः भवति अतः परं सर्वेषां सामान्यनियमादीनि जातिदायित्वानुसरणस्य कर्तव्यं कर्म च उच्यते । इही (स्वर्णकुमारविवाह) एषः समारोहः यस्मिन् किशोरीणां भगवतः विष्णुस्य प्रतीकेन सुवर्णकुमारेण सह "विवाहः" भवति । . यदि बालिकायाः ​​पतिः पश्चात् म्रियते तर्हि सा विष्णुना विवाहिता विधवा न मन्यते, एवं च जीविता इति मन्यते । बार्हा (सुर्यदर्शनं) बालिकानां बर्हा तायेगु इति अन्यः औपचारिकः संस्कारः अस्ति, तदनन्तरं बालिकाः यौवनं प्राप्तवन्तः इति मन्यन्ते । एतत् ७, ९, ११ इत्यादिषु विषमसङ्ख्यायां मासिकधर्मात् पूर्वं भवति । सा १२ दिवसान् यावत् कक्षे स्थापिता भवति, १२ दिनाङ्के सूर्यदेव सूर्येण सह विवाहः भवति । विवाह स्त्रीपुरुषयोः सामान्यः अन्यः संस्कारः विवाहः अस्ति । विवाहे प्रायः वधूः गृहं त्यक्त्वा भर्तुः गृहं गत्वा भर्तुः कुलनाम स्वकीयं गृह्णाति इति अपि नेवार-प्रथा अस्ति । विवाहाः प्रायः मातापितृभिः एव भवन्ति, लामी इत्यस्य उपयोगः च भवति । जंको नेवा-जनानाम् वृद्धत्वे जुन्को-करणस्य प्रथा अस्ति । यतो हि सः यथाशक्ति परिवारस्य, समाजस्य, देशस्य च कृते बहु कार्यं कृतवान्, तथैव सः तस्य कार्यस्य प्रशंसाम्, सम्मानं च कृत्वा स्वस्य सुस्वास्थ्यस्य प्रार्थनां कुर्यात्, तस्य दीर्घायुषः कामना च कुर्यात्। सांस्कृतिकप्रत्ययानुसारम् एतावता दीर्घायुषः अनन्तरं मनुष्यः देववत् गण्यते, तस्मिन् अवसरे अयं कार्यक्रमः क्रियते । अत एव वयं वृद्धाः यत् वदन्ति तत् विश्वासयितुं प्रयत्नशीलाः स्मः। ते न आक्षिप्ताः भविष्यन्ति। यावत् वृद्धः वृद्धः भवति तावत् वृद्धस्य वयसानुसारेण उभयम् अपि करिष्यति। केवलं वृद्धा एव वयसानुसारं वयः पश्यति। परन्तु यदि पूर्वं वृद्धेन सह कृतं तर्हि पुनः न कर्तव्यम्। थरिथरी-नगरस्य वृद्धाः एतत् निष्कर्षं प्राप्तवन्तः इति भासते- क) भीम रथरोहण (प्रथम जंको) - आयु : ७७ वर्ष, ७ मास, ७ दिन, ७ घण्टा, ७ अवधि। ख) चन्द्ररथरोहणः (द्वितीयः जान्को) - ८२ वर्षेषु ८२ वर्षेषु ८२ वर्षेषु १००० वारेषु एकसहस्रं दीपाः प्रज्वलिताः भवन्ति । ग) देव रथरोहण (तृतीय जानको) - आयु : ८८ वर्ष, ८ मास, ८ दिन, ८ घण्टा, ८ अवधि। एतस्मिन् समये रथयात्रायाः अनन्तरं यः वृद्धः वृद्धः वा जङ्को जातः सः खिडक्याः माध्यमेन आनीयते । घ) दिव्य रथरोहण (चत्वारि जंको) - आयु : ९९ वर्ष, ९ मास, ९ दिन, ९ घण्टा, ९ अवधि। ग्याम्पो पूजा नूतने ग्याम्पो मध्ये अद्यापि निवसन्तः वृद्धाः जनाः स्थापयित्वा क्रियते। तदनन्तरं ग्याम्पो भग्नः पुनः बालजन्मभावेन बहिः निष्कासितः भवति । अस्मिन् समये चक्ररथं स्थापयित्वा भ्रमणार्थं गृह्णन्ति । पौत्राः रथं कर्षन्ति पुत्राः स्नुषाश्च लावा सिञ्चन्ति। अस्य कालस्य रथः दिव्यारथः इति कथ्यते । ङ) महादिव्य रथरोहण (पंचम जंको) - आयु : १०८ वर्ष, ८ मास, ८ दिन, ८ घण्टा, ८ अवधि। अस्य कालस्य रथः अष्टायां स्थित्वा किमपि दुष्टं न भवेत् इति कामनाया महादिव्यरथः इति उच्यते। रथयात्रा तथा उत्सवादि नेवा-समुदाये गाथामुग्-नगरात् आरभ्य सिथी-नख-पश्चात् उत्सवः समाप्तः भवति । गाथामुगः पश्चात् गुन्हिपुन्ही (गौयात्रास्य ९ दिवस), मोहनी (नवरात्र), स्वन्ती अथवा न्हुदन (नववर्षोत्सव), माघे संक्रांति, श्रीपञ्चमी, सिलचर्हे (शिवरात्रि), चैत्रदशै, पहाँचर्हे (पिशाच चतुर्दशी), भोतोजात्रा, बद्ध जयंती, आदि आचर्यन्ते।नेवारधर्मसंस्कृतिः अनुष्ठानैः समृद्धा अस्ति, वर्षभरि नित्यं उत्सवैः आचर्यते। अनेके उत्सवाः हिन्दु-बौद्ध-सम्बद्धैः उत्सवैः, तण्डुल-कटनी-चक्रैः च सम्बद्धाः सन्ति । अन्ये उत्सवाः कुलभोजैः, पूजाभिः च आचर्यन्ते । चन्द्रपञ्चाङ्गानुसारं उत्सवाः भवन्ति, अतः वर्षे वर्षे तिथयः भिन्नाः भवितुम् अर्हन्ति । मोहनी (नवरात्र) बृहत्तमेषु वार्षिकपर्वसु अन्यतमः अस्ति यः भोजैः, धार्मिककार्यक्रमैः, तीर्थयात्राभिः च कतिपयान् दिनानि यावत् आचर्यते । स्वन्ति (दीपावली) समये नेवाराः अस्मिन् दिने म्हपूजा, म्हापूजां कृत्वा नेपालसंवतस्य नववर्षं आचरन्ति यत् तन्त्रपरम्परानुसारं संस्कारः अस्ति यस्मिन् अस्माकं स्वशरीरस्य पूजा भवति, यस्य कृते अस्मान् आध्यात्मिकरूपेण शुद्धं करोति, दृढं च करोति इति विश्वासः अस्ति आगामिवर्षम् । तथा स्वन्तिकाले भैटिका अपि क्रियते । अन्यः प्रमुखः उत्सवः सपरुः यदा पूर्ववर्षे परिवारस्य सदस्यं त्यक्तवन्तः जनाः गोसन्तरूपेण वेषं धारयन्ति, विशेषमार्गं अनुसृत्य नगरेण गच्छन्ति केषुचित् सन्दर्भेषु वास्तविकगो अपि सायहस्य भागः भवितुम् अर्हति । एतादृशानां प्रतिभागिनां कृते जनाः धनं, भोजनं, अन्यं उपहारं च दानं कुर्वन्ति । प्रायः बालकाः शोभायात्रायां भागं गृह्णन्ति । जात्राः स्वस्थानानुसारं भिन्नरूपेण आचर्यन्ते । इन्द्र जात्रा, श्वेत मत्स्येन्द्रनाथ जात्रा, पाटन में लाल मत्स्येन्द्रनाथ जात्रा, भक्तपुर में बिस्का जात्रा, कीर्तिपुर में नेहगांव जात्रा, हंडीगांव जात्रा, खोनाये सिकाली जात्रा, बनेपाये चंदेश्वरी जात्रा, फार्पिंग जात्रा आदि। काठमाण्डौ बृहत्तमं जात्रा येन्या (इन्द्रजात्रा) अस्ति, यदा जीवितदेव्याः कुमारीम् अन्यद्वयं च गणेशं भैरवं च वहन्तः त्रयः रथाः आकृष्य मुखौटां कृत्वा नृत्यं कुर्वन्ति। ललितपुरे जात्रा इति प्रसिद्धा बुङ्ग द्यः जात्रा, मासपर्यन्तं भवति, भोटो जात्रादिने समाप्तं भवति।भवति भक्तपुरे बृहत्तमः उत्सवः उत्सवः च अस्ति बिस्काजात्रा यः रथशोभायात्रा अस्ति, नवदिनानि यावत् भवति।अन्यः प्रमुखः उत्सवः अस्ति पहां चर्हे यदा काठमाण्डौ पीठादेव्याः पूज्यन्ते। हिन्दुपञ्चाङ्गानुसारं चैत्रमासस्य चतुर्दशी (भूतचतुर्दशी)दिने एतत् आचर्यते । जनबहाद्यः - जात्रायाः अवसरे मध्यकाठमाण्डूद्वारा करुणामयस्य मूर्तिया सह रथेन त्रिदिनानि यावत् जात्रा भवति । सिथीनखः अन्यः प्रमुखः उत्सवः अस्ति यस्मिन् कुमारस्य पूजा भवति, प्राकृतिकजलस्रोतानां शोधनं च भवति अपि च विभिन्नेषु नेवारनगरेषु ग्रामेषु च स्थानविशिष्टाः उत्सवाः सन्ति ये रथेन अथवा खट राखी जात्राणा आचर्यन्ते। वाद्यादि पारम्परिकनेवासङ्गीते देवगीतानि, भक्तिगीतानि, ऋतुगीतानि, भगागीतानि, लोकगीतानि च सन्ति । ऋतुकालीनगीतेषु अन्यतमं सीताला माजु इति । अस्मिन् गीते १९ शताब्द्याः आरम्भे काठमाण्डूतः बालकानां निष्कासनस्य वर्णनं कृतम् अस्ति । अन्यत् ऋतुगीतं "सिलु" गोसाईकुण्डयात्राविषये अस्ति । "ज़ी वाया ला लछि मदुनी" नवविवाहितदम्पत्योः विषये दुःखदं गीतम् अस्ति । अशुभप्रेमिणां विषये राजमती इति लोकगीतं बहुप्रसिद्धम् अस्ति । गुरु सेथुरमश्रेष्ठः १९०८ तमे वर्षे कोलकातानगरे ग्रामोफोन-चक्रेण अस्य गीतस्य प्रथमं रिकार्डिङ्गं कृतवान् । अद्यत्वे अपि सङ्गीतशैली, वाद्ययन्त्राणि च प्रचलन्ति । संगीतसङ्घैः सह धार्मिकशोभायात्राः भवन्ति येषु देवस्य मूर्तिः रथस्य खटस्य वा उपरि स्थापयित्वा नगरं परितः नीयते । भजननाम्ना प्रसिद्धेषु सामुदायिकगृहेषु नित्यं भक्तिगीतानि गायन्ति। ज्ञानमाला भजन खाल आदि भजन समाज नियमित पाठ करते हैं। मन्दिरचतुष्कोणेषु पवित्रचतुष्कोणेषु च स्तोत्रगायनऋतुषु दाफागीतानि गायन्ति । गुंला बाजं संगीतसमूहः गुंला समये सड़केषु तथा मन्दिरेषु चैत्येषु च, नेपालसंवत् पञ्चाङ्गस्य १० मासः यः नेवार बौद्धानां कृते पवित्रः मासः अस्ति। सङ्गीतप्रदर्शनस्य आरम्भः एकेन पदयात्रेण भवति यत् देवानाम् अभिवादनस्य प्रतीकं भवति । ऋतुगीतानि गीतानि च विशिष्टऋतुभिः उत्सवैः च सम्बद्धानि भवन्ति विवाहेषु, शोदाशसमारोहेषु, अन्त्येष्टिषु च सङ्गीतं वाद्यते । नेवासमुदाये मुख्यानि वाद्ययन्त्राणि कहां, क्वाटः, धीमे, प्वङ्गा, कान्तादबदब, पैताखिं, मुहाली, कुकुवाय, करीमा, तिन्चु, भूस्यः, वायः, खिं, कोंचा खिं इत्यादयः सन्ति। लोकप्रिय पारम्परिक गीत घातु (ग्रीष्मकालीन संगीतम्, पहां चर्हे महोत्सवे एषा ऋतुधुनः वाद्यते) जि वया ला लछी मदुनी (व्यापारी की त्रासदी) *मोहनी (मोहिनी महोत्सवे यह ऋतु धुन वाद्यते) राजमतिः (युवा प्रेमिणां विषये) सिलु (तीर्थयात्रायां विरक्तदम्पत्योः विषये, एतत् ऋतुसङ्गीतं मनसूनकाले वाद्यते) सितला माजु (काठमाण्डू उपत्यकातः निष्कासितानां बालकानां शोक) स्वे धका स्वैगु मखु (प्रेम विषये गीत) अबिराया होली (होली गीत) होलिया मेला (होली गीतं) वल वल पुलु किसि (इन्द्रयात्रे गियते) योमारी चाकु उके दुने हाकु (मार्गशिर्षे गियते) धंग मदुनि भम्चा(पुत्रवधुयां आलस्यस्य शिकायतां कृत्वा पुत्र्याः गीतम्।) सिरसाय हेगु। धार्मिकसङ्गीतम् गुंला बाज मालश्री धुन दाफा स्तोत्रम् नाट्यादि नेवाः-समुदाये विभिन्नप्रकारस्य नृत्यस्य नृत्यं भवति। अधिकांशं नृत्यं देवदेवीनां भवति । नेवाराः नेवानृत्ये ख्वापावस्त्रधारिणः नर्तकस्य रातोमछिन्द्रनाथजनकस्य दीर्घतमं जात्रा अपि आचरन्ति, अधिकतया पाटननगरे । एषा यात्रा एकमासदीर्घा अस्ति, तत्र विविधाः उत्सवाः अपि अन्तर्भवन्ति । यद्यपि एतत् द्यः प्याखंम् इति प्रसिद्धं भवति तथापि ख्वापाप्रयोगं विना संस्कारनृत्यं चचाप्याखम् (संस्कृते चर्यानृत्यम्) इति नाम्ना प्रसिद्धस्य संस्कारस्य ध्यानस्य च भागरूपेण क्रियते। दबूप्यखान इति नाम्ना प्रसिद्धानि मुखौटाधारितनृत्यनाटकाः अपि सन्ति येषु सङ्गीतसहिताः धार्मिककथाः प्रस्तुताः सन्ति । एतेषु लखे नाचः अतीव रोचकः अस्ति । गुंलापर्वाणि उपत्यकायां विविधस्थानेषु काठमाण्डौ इन्द्रयात्रे च एतत् नृत्यं क्रियते । नवदुर्गा नृत्यं भक्तपुर, बनेपा, नल, धुलिखेल, पनौती, संग, देवपट्टन इत्यादि स्थानेषु भवति। लोकनृत्येषु धीमे नाचः, फाकंडलीप्याखः, गैचाप्याखः, कलालीप्याखः इत्यादयः सन्ति। ललितकला नेवासमुदाये ललितकलानां स्वकीया परिचयः अस्ति । नेपाले कला-वास्तुशास्त्रस्य अनेकानाम् उदाहरणानां निर्मातारः नेवाराः सन्ति । पारम्परिक नेवारकला मूलतः धार्मिका ललितकला अस्ति । नेवार भक्तिपूर्णपौवाचित्रं, शिल्पानि, धातुकर्म च स्वस्य उत्तमसौन्दर्यस्य कारणेन विश्वप्रसिद्धानि सन्ति । अद्यावधि प्राप्तः प्राचीनतमः तिथियुक्तः पौवा १३६५ ई. (नेपालसंवत् ४८५) चित्रितः वसुन्धरमण्डलम् अस्ति । हिमालयस्य पूर्वदिशि नेपालः स्थितः अस्ति, मुस्ताङ्ग-राज्यस्य १५ शताब्द्याः मठद्वयस्य भित्तिचित्रेषु काठमाण्डू-उपत्यकायाः ​​बहिः नेवार-कृतीनां चित्रणं दृश्यते ।बौद्ध-हिन्दु-देवतानां पाषाणमूर्तयः, काष्ठ-उत्कीर्णनानि, ललितकला, ​​धातुमूर्तयः च नेवारस्य केचन उत्तमाः उदाहरणानि सन्ति कला। भक्तपुरस्य म्हयखाजालकं, काठमाण्डुनगरस्य देसेमडुजालकं च काष्ठशिल्पानां कृते प्रसिद्धम् अस्ति । उत्कीर्णाः नेवार-जालकाः, मन्दिरस्य छताः, मन्दिरस्य टिम्पनाम्, तीर्थगृहाणि च इत्यादीनि वास्तुकलातत्त्वानि पारम्परिकसृजनशीलतां प्रदर्शयन्ति । ७ शताब्द्याः आरम्भादेव आगन्तुकाः नेवारकलाकारशिल्पिनां कौशलं लक्षितवन्तः, ये तिब्बतस्य चीनस्य च कलायां स्वप्रभावं त्यक्तवन्तः ।उत्सवानां मृत्युसंस्कारस्य च कृते मण्डलानां वालुकाचित्रणं नेवारकलानां अन्यः विशेषता अस्ति तिब्बती चित्रकला इति प्रसिद्धस्य थाङ्गकस्य उत्पत्तिः वस्तुतः नेवा-ललितकला-अन्तर्गतं विकसितं पौभा-चित्रकला एव । प्रारम्भे काठमाण्डौ उपत्यकायां एव अयं पौबहा निर्मितः आसीत् तथा च तिब्बती बौद्धसमुदायः काठमाण्डूतः एव आयातं करोति स्म । परन्तु कालान्तरे तिब्बती-कलाकाराः नेवा-कलाकारैः प्रशिक्षिताः अभवन्, अनन्तरं तिब्बत-देशे एव तस्य निर्माणं प्रारब्धम् । नेवार-जनाः नष्टं मोम-विधिं भूटान-देशम् आनयन् तत्रत्यानां मठानां भित्तिषु भित्तिचित्रं रचयितुं नियुक्ताः । पारम्परिकधार्मिककलायां उच्चस्तरीयकौशलस्य प्रदर्शनस्य अतिरिक्तं नेपालदेशे पाश्चात्यकलाशैल्याः परिचयं कर्तुं नेवारकलाकाराः अग्रणीः अभवन् । चित्रकार राजमनसिंह (१७९७–१८६५) इत्यस्मै देशे जलरङ्गचित्रकला आरब्धस्य श्रेयः प्राप्यते । भजुमन चित्रकारः (१८१७–१८७४), तेजबहादुरचित्रकरः (१९९८–१९७१) चन्दमनसिंहमास्के च अन्ये अग्रणीकलाकाराः आसन् ये प्रकाशस्य परिप्रेक्ष्यस्य च अवधारणां समावेश्य चित्रकलायाः आधुनिकतावादीशैलीं प्रवर्तयन्ति स्म। वास्तुकला काठमाण्डू उपत्यकायां यूनेस्को-विश्वविरासतां सप्तस्थानानि, २५०० मन्दिराणि, तीर्थानि च सन्ति, येषु नेवार-शिल्पिनां कौशलं सौन्दर्य-भावं च दर्शयति नेवारी-वास्तुकलायां उत्तम-इष्टका-काष्ठ-उत्कीर्णनानि सन्ति आवासीयगृहाणि, बाह-बही-नाम्ना प्रसिद्धानि भिक्षु-आङ्गणानि, विश्रामगृहाणि, मन्दिराणि, स्तूपाः, पुरोहितगृहाणि, प्रासादानि च अस्मिन् उपत्यकायां दृश्यमानानां विविधानां वास्तुसंरचनानां मध्ये सन्ति अधिकांशः प्रमुखाः स्मारकाः काठमाण्डू, ललितपुर, भक्तपुर इत्यादीनां दरबारचतुष्केषु स्थिताः सन्ति, ये १२ शताब्द्याः १८ शताब्द्याः मध्ये निर्मिताः पूर्वराजभवनसङ्कुलाः सन्ति। नेवा वास्तुकलायां पगोडा, स्तूपः, शिखरः, चैत्यः इत्यादयः शैल्याः सन्ति । उपत्यकायाः ​​व्यापारचिह्नं बहुछतयुक्तः पैगोडा अस्ति यस्य उत्पत्तिः अस्मिन् क्षेत्रे अभवत्, भारतं, चीनं, इन्डोचाइना, जापानदेशं च प्रसृतं भवितुम् अर्हति। चीनस्य तिब्बतस्य च शैलीविकासं प्रभावितं कर्तुं प्रसिद्धः शिल्पी आर्निको नामकः नेवारयुवकः आसीत् यः १३ शताब्द्यां ई.पू. सः बीजिंगनगरस्य मियाओइङ्ग् मन्दिरे श्वेतस्तूपस्य निर्माणार्थं प्रसिद्धः अस्ति। परिकार नेवारी भोजनस्य दृष्ट्या अतीव विविधाः सन्ति । उत्सवस्य अनुसारं भिन्न-भिन्न-व्यञ्जनानां निर्माणस्य परम्परा अस्ति ।योमरि, लाखामरि, चतामरि, गोरामरि,, इत्यादयः अनेकप्रकाराः सन्ति । नेपालदेशे अधिकांशः प्रकारः आहारः नेवासमुदायस्य अस्ति । नेवाजनाः जन्मतः मृत्योः यावत् उत्सवानुसारं च भिन्नप्रकारस्य भोजनं निर्मान्ति । भोजनं नित्यभोजनं, मध्याह्नभोजनं, उत्सवभोजनं च इति मुख्यतया त्रयः वर्गाः कर्तुं शक्यन्ते । नित्यभोजने क्वाथं तण्डुलं, मसूरसूपं, शाकं, अचारं, मांसं च भवति । मध्याह्नभोजने प्रायः चटनी, तले सोयाबीनः, आलू, मसालेन सह मिश्रितं तले मांसं च भवति ।परम्परानुसारं भोजने, उत्सवेषु, समागमेषु च नेवाराः सुकुले पङ्क्तिबद्धरूपेण उपविशन्ति सामान्यतया आसनव्यवस्था शीर्षे ज्येष्ठं, अन्ते कनिष्ठं च कृत्वा व्यवस्थाप्यते । नेवारीभोजने सर्षपतैलं, जीरकं, तिलं, हल्दी, लशुनं, अदरकं, पुदीना, लवङ्गः, दालचीनी, मरिचः, सर्षपः इत्यादयः बहवः मसालाः च उपयुज्यन्ते । लप्ते (विशेषपत्रैः निर्मिताः थालीः) इत्यत्र भोजनं परोक्ष्यते । तथा च ये केऽपि सूपाः बोटामायां (पत्रनिर्मिते कटोरे) स्थापयन्ति । सलिचा (मृत्तिकानिर्मितकटोरा) खोलचा (लघुधातुकटोरा) च मद्यं परोक्ष्यते । नेवारानाम् संस्कारस्य धार्मिकजीवनस्य च अन्नं महत्त्वपूर्णं भागं भवति, उत्सवेषु, उत्सवेषु च पच्यमाणानां व्यञ्जनानां प्रतीकात्मकं महत्त्वं भवति । तथा च उत्सवस्य वा अनुष्ठानस्य वा आधारेण मुख्य चिउरा परितः विविधानि व्यञ्जनानि स्थाप्यन्ते येन देवतानां विविधरूपाणां प्रतिनिधित्वं सम्माननं च भवति । सन्दर्भः
4583
https://sa.wikipedia.org/wiki/%E0%A4%A6%20%E0%A4%B8%E0%A4%BF%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%B8%E0%A5%8D
द सिम्प्सन्स्
द सिम्प्सनस्एकस्य: बहुचर्चित दूरदर्शनशृंखला कार्यक्रम अस्ति| उक्त कार्यकमस्य एमी पुरस्कारस्य विभुषित:|संयुक्त राज्यस्य मध्यमवर्गीय जीवनस्य उक्त कार्यक्रमेणु हास्य रस प्रदर्शिते| बाह्यसम्पर्कतन्तुः कार्यालयीय जालस्थानम् The Simpsons Archive Wikisimpsons, the Simpsons Wiki विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4599
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%A3%E0%A4%BE%E0%A4%A6%E0%A4%83
कणादः
इदानीं न्यायशास्त्रं यत् दृश्यते तत् ११ शताब्दात् पूर्वं न्यायदर्शनं वैशेषिकदर्शनं चेति द्विधा विभक्तम् आसीत् । वैशेषिकदर्शनस्य प्रवर्तकः एव कणादः । कणादेन वैशेषिकसूत्राणि रचितानि । एतेषां वैशेषिकसूत्राणाम् आधारेण एव वैशेषिकदर्शनं प्रवृद्धम् । 'विशेषः' इति पदार्थः कश्चन अङ्गीकृतः इत्यतः एतत् 'वैशेषिकम्' इति उच्यते । साड्ख्यशास्त्रं प्राचीनम् । ततः एतस्मिन् शास्त्रे विशेषः अस्ति इत्यतः एतत् 'वैशेषिकम्'इति केषाञ्चित् अभिप्रायः । कणादः सप्तमशतकात् पूर्वम् आसीत् इति पण्डिताः वदन्ति । क्षेत्रस्थान् कणान् (धान्यानि) सङ्गृह्य एषः अत्ति (खादति)स्म इत्यतः एतस्य् नाम 'क्णादः' इति जातम् इति कथा प्रसिद्धा । कणादस्य तपसा सन्तुष्टः भगवान् ईश्वरः उलूकरूपेण आगत्य शास्त्रम् उपदिष्टवान् इत्यतः कणाददर्शनम् 'औलूक्यदर्शनम्' इत्यपि प्रसिद्धम् अस्ति | परमाणुः, द्व्यणुकम्, त्र्यणुकम् इत्यादीनि निरूपितानि सन्ति कणादेन | कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना परिचित:|स: पुरातन भारतीय प्राकृतिक विज्ञानी तथा तत्वज्ञिनी आसीत्| भारतीय तत्वशास्त्रस्य वैशेषिक विभागस्य शालाम् स्थापितवान् यत् भारतीय भौतशास्त्रस्य प्राथमिकपरिचयम् अभवत्| कणाद महर्षे: कालम् क्रि पू ६ शतमानत: २ शतमान मध्ये इति चिन्तितम्। तस्य जीवन विषये बहु न ज्ञातम्। तस्य साम्प्रदायिक नाम: "कणद" इति - तदर्थ: "परमाणु भक्ष्क:" इति। स: भौ बाह्यसम्पर्कतन्तुः Early Atomism - Resonance magazine,Oct 2010 The Development of the Concept of Atoms and Molecules - Resonance magazine, Dec 2011 Book - Scientists of India by Dilip M. Salwi - Children's Book Trust - ISBN 9798170113187, 2007 पौराणिकधार्मिकव्यक्तयः प्राचीनगुरवः चित्रं योजनीयम् श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः भारतीयदार्शनिकाः
4662
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%B8%E0%A4%9F%E0%A4%A8
प्रिन्‍सटन
प्रिन्सटन् एकं नगरम्। अयं न्यू जर्सी देशे विद्यते। टिप्पणी बाह्यसम्पर्कतन्तुः Princeton Regional Convention and Visitors Bureau Princeton Township Municipal Web Site (Government) The Princeton Packet (Local Newspaper) Princeton Online (Local Online Community) Princeton Public Schools Data for the Princeton Regional Schools, National Center for Education Statistics PrincetonKIDS विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4666
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A5%8D
स्कन्दोपनिषद्
स्कन्द उपनिषद् उपनिषद् श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
4667
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%AA%E0%A4%BF%E0%A4%83
शारदालिपिः
शारदालिपिः (शारदा - 𑆯𑆳𑆫𑆢𑆳 वा 𑆯𑆳𑆫𑆢𑆳 𑆬𑆴𑆥𑆴, Śāradā script) कश्मीरप्रदेशस्य एका पुरातनी लिपिः । इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् । परिचयः शारदालिपेः उपयोगः भारतीय-उपमहाद्वीपस्य उत्तरपश्चिमप्रदेशपर्यन्तं सीमितः आसीत् । शारदालिपेः उद्भवकालः प्रायः क्रैस्तवीय तृतीयशतके अभूत् । क्रैस्तवीय नवशतकतः पञ्चदशशतकपर्यन्तम् अस्याः लिपेः स्वर्णयुगः आसीत् । चीनदेशीयपर्याटकः 'अल् बरुणी' स्वभारतभ्रमणविषयकग्रन्थे अस्याः लिपेर्नाम सिद्धमातृका इति उल्लिखितवान् । अस्य कारणमासीत् शारदावर्णमालायाः प्रारम्भः सर्वदा "ओम् स्वस्ति सिद्धम्" इति लेखनपश्चात् एव भवति । कश्मीरप्रदेशस्य अधिष्ठात्री देवी 'शारदा' ततः प्रदेशस्य नाम 'शारदादेशः' 'शारदमण्डलम्' वा उच्यते स्म । वस्तुतः शारदादेशे उयुज्यमाना लिपिः 'शारदा' नामप्राप्ता इति विद्वज्जनमतम् । पञ्चदशशतकानन्तरं शारदालिपेः प्रयोगः बहुन्यूनः अभवत् । नागरी-गुरुमुखी-टाकरीलिपीणां जननस्रोतः एषा एव लिपिः । वर्णमाला स्वरवर्णाः व्यञ्जनवर्णाः लिपेरुत्पत्तिः दक्षिण-एशियाभूखण्डस्य हिमालयपार्वत्यप्रदेशस्य प्राचीनलिपिषु 'शारदा' अतीव समादृता । उत्तरब्राह्मीलिपितः अस्याः लिपेर्जन्म जातम् इति विदुषां मतम् । एषा लिपिः बहुषु देशेषु (पाकिस्ताने,अफगानिस्ताने, कज़ाकिस्ताने अपि) प्रचलिता आसीत् । शारदालिपिना रचिताः बहुपाण्डुलिपयः विभिन्नदेशेषु विद्यन्ते । शारदालिपिना रचितमातृकानां सम्पादनतः तथा शिलालेखोद्धारतः हिमालयप्रदेशस्य संस्कृतिः इतिहासश्च इतोपि सुस्पष्टतया ज्ञायते । विस्तारः गुरुत्वञ्च काबुलप्रदेशे (वर्तमाने अफगानिस्ताने) प्राप्तशिलालेखतः प्रसिद्धस्य हिन्दुराजवंशस्य विषये ज्ञायते । 'ओहिन्द'-'गिल्गिट्' राजवंशयोः इतिहासोऽपि अस्याः लिपेः आविष्करणानन्तरं ज्ञातः । क्रैस्तवीय नवमशतकानन्तरवर्तीकाले भाषासाहित्ये तथा विविधशास्त्रेषु कश्मीरप्रदेशः मूर्धनीरूपेण स्थितः आसीत् एवं बह्व्यः कृतयः अनया लिपिना रचिताः आसन् । न तु केवलं शास्त्रकृतयः राजाभिलेखा-राजमुद्रास्वपि शारदालिपेः प्रयोगः आसीत् । एतादृशानि गूढकारणानि अस्याः लिपेः सूक्ष्माध्ययनं प्रति शोधकर्तारं प्रेरयति । प्राचीनब्राह्मी तथा खरोष्ठीलिपिसदृशः अस्याः लिपेर्कालः प्रारम्भिकमध्ययुगे आसीत् । प्राचीनयुगतः मध्ययुगीय-सामाजिकपरिवर्तनकाले एषा लिपिः संयोगसूत्ररूपेण स्थिता । तदानीन्तनस्य हिमालयप्रदेशस्य साहित्य-संस्कृतेः वाहिका एषा एव लिपिः आसीत् । दौर्भाग्यवशतः क्रैस्तवीय पञ्चदश-शतकानन्तरवर्तीकाले एषा गुरुत्वपूर्णा लिपिः लुप्ता जाता । प्रतिनिधिलिपयः ब्राह्मीलिपिः प्राचीनभारतस्य राष्ट्रियलिपिरासीत् । एषा लिपिः समयावर्तनेन सह बहुपरिवर्तनस्य स्तराणाम् अतिक्रमणं कृतवती । शारदालिपेरपि विकृतयः आगतासीत् ततः पृथक् लिपीनां जननम् अभवत् । शारदालिपेः प्रतिनिधिलिपयः यथा- नागरीलिपिः, बाङ्गलालिपिः, ओडियालिपिः, माराठीलिपिः इत्याद्याः । वस्तुतः एताः लिपयः उत्तरब्राह्मीतः विकासिताः आसन् । शारदालिपेः निदार्शनानि शारदालिपेः यूनिकोड संङ्केतः लिपयः
4670
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%B0%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%9F%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
भरतनाट्यम्
एषा भारतस्य शास्त्रीया नृत्यपद्धतिः अस्ति। भरतनाट्यस्य आकर्षकं मनमोहकं पदविन्यासं दृष्ट्वा को वा रसिकः प्रमुदितः न स्यात्? भरतनाट्यम् एतत् स्वयं ब्रह्मणा एव सृष्टम्। पृष्ठभूमिका कदाचित् देवाः गन्धर्वाः च ब्रह्मणः समीपं गत्वा निवेदितवन्तः -"सर्वाणि अपि इन्द्रियाणि सन्तुष्टानि यथा स्युः तथा कश्चन सुन्दरः पञ्चमः वेदः स्रष्टव्यः" इति। तदा ब्रह्मा चतुर्भ्यः अपि वेदेभ्यः एकैकम् अंशम् उद्धृत्य नाट्यवेदं सृष्टवान्। ऋग्वेदात् पाठ्यं, यजुर्वेदतः अभिनयं, सामवेदतः सङ्गीतम्, अथर्ववेदतः रसं च स्वीकृत्य नाट्यवेदं रचितवान् । ततः एतं भरतमुनये दत्त्वा सः उक्तवान् -"एतत् मानवान् बोधयतु" इति। रूपकं नाट्यं सङ्गीतं इत्यादीनि तन्त्राणि च योजयित्वा भरतमुनिः नाट्यशास्त्रं रचितवान्। अतः एतत् नाट्यं भरतनाट्यत्वेन प्रसिद्धम् अभवत् । प्रकाराः भरतनाट्यम् अतिप्राचीनः भारतीयः नृत्यप्रकारः अस्ति। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिलनाडु कर्णाटकराज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। 'शिलप्प्दिकारं' 'मणिमेखलै' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती सङ्गंकालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं ताण्डवनृत्यम् इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते -आनन्दताण्डवम् इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते -रुद्रतण्डवम् इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् लास्यम् इति उच्यते। इतिहासः भरतनाट्यवसरे यानि गीतानि गीयन्ते तेषां विषयः पुराणकथादिभ्यः चीयते। यः गीतानि गायति सः उच्यते 'नट्टुवाङ्गः' इति। मृदङ्गः वीणाविशेषः च गानावसरे अन्याभ्यां वाद्यते। प्रायः पूर्वं देवदास्यः भरतनाट्यस्य प्रदर्शनं कुर्वन्ति स्म। राजास्थानेषु राजनृत्याङ्गनाः एतत् नृत्यं दर्शयन्ति स्म। बहवः तमिळुनाडुराजाः एतस्य नृत्यस्य प्रोत्साहनं कृतवन्तः। दौर्भाग्यवशात् क्रिस्तीयविंशतिशतकस्य आरम्भकाले एतस्य नृत्यप्रकारस्य विशेषह्रासः दृष्टः। शासननियमैः देवदासीपद्धत्याः निवारणार्थं प्रयासाः प्रवृत्ताः । किन्तु भरतनाट्यप्रियाणां बहूनां परिश्रमस्य फलरूपेण कालक्रमेण अस्य प्रसारः अधिकः सञ्जातः । भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं ई कृष्णाय्यर् बालसरस्वती, रुक्मिणी अरुण्डेल्, कलानिधिः, शान्ताराव् इत्यादयः एतस्य प्रचारार्थं प्रसारार्थं च विशेषं परिश्रमं कृतवन्तः। शब्दनिष्पत्तिः भरतनाट्ये यानि अक्षराणि तेषु भावशब्दात् भकारः, रागशब्दात् रकारः, तालशब्दात् तकारः च स्वीकृतः। एवं भरतनाट्ये भावरागतालनृत्यानां सङ्गमः भवति। विशिष्टाः प्रक्रियाः रङ्गप्रवेशः - ऐदम्प्राथम्येन सार्वजनिकतया नृत्यं यत् प्रदर्शयति तस्य विशेषमहत्वं भवति। रङ्गप्रवेशः इति तस्य नाम। तमिळुभाषया एषः अरङ्गेट्रम् इति उच्यते। रङ्गप्रवेशसमये आदौ नूपुरपूजा (सालङ्गैपूजा इति तमिळुपदम्) क्रियते। प्राचीनकाले यावत् रङ्गप्रवेशः न भवति तावत् नूपुरधारणम् अनुमन्यते स्म । पश्य भारतीयकलाः भारतीयनृत्यप्रकाराः भरतमुनिः नृत्यप्रकाराः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4671
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%82%E0%A4%9A%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%A1%E0%A5%80
कूचिपुडी
आन्ध्रप्रदेशराज्ये कृष्णामण्डले कुचिपुडी इति ग्रामः अस्ति । प्रवेशः अयं भारतस्य शास्त्रीयनृत्यभेदेषु अन्यतमः। कूचिपुडी पदम् आङ्ग्लम् - Kuchipudi, తెలుగు : కూచిపూడి अस्य मूलं तु भारतदेशस्य आन्ध्रप्रदेशः। दक्षिणभारतस्य अन्यराज्येषु अपि अयं नृत्यप्रकारः प्रसिद्धः अस्ति । कूचिपुडी इति आन्ध्रप्रदेशस्य कृष्णाणमण्डले गङ्गासागरस्य (बङ्गालकोल्लि) तटप्रदेशे विद्यमानः कश्चन ग्रामः । तत्र वसन्तः विप्रजनाः एतत् नृत्यम् अभ्यस्यन्ति स्म । अतः अस्य नृत्यस्य कूचिपुडी इति नाम रूढिगतम् । प्रदर्शनम् कूचिपुडीनृत्यप्रदर्शनं रङ्गमञ्चे कैश्चन कलापैः सह आरभ्यते । प्रत्येकं नृत्यपटुः अपि वेदिकामागत्य गीतनृत्यादिभिः एव स्वपरिचयं श्रावयति । अनेन नृत्यनाटिकायाः कलाकारस्य तस्य पात्रस्य च सन्निवेशानां परिचयः सहृदयाणां भवति । नृत्यार्थं गीतगानेन सह कर्णाटकशास्त्रीयसङ्गीतस्य शैल्या वाद्योपकरणानि नादयन्ति । मृदङ्गम्।मृदङ्गं, बाहुलीना (वयोलिन्), वेणुः, तम्बूरः मन्द्रतन्त्री इत्यादीनां वाद्यानां सहयोगः अपि भवति । कलाविदः बुरुगु इति काष्टनिर्मिताभरणानि धरन्ति । शैली कूचिपुडीनृत्यस्य चलनं वेगगतौ भवति । पृष्टभूमौ कर्णटकसङ्गीतस्य वाद्यानां सहयोगः भवति एव । अस्मिन् नृत्ये भारतस्नाट्यस्य केचन अंशाः सम्मिलिताः । अस्य प्रदर्शनस्य कूचिपुडीगानेषु जतिस्वरः तिल्लानः च भवतः । नृत्यस्य गीतेषु कश्चित् भक्तः भगवति लीनः भवितुम् इच्छति इति भागः भवति । कूचिपुडीभरतनाट्ययोः पादन्यासेषु शैली भिन्ना भवति । कूचिपुडीनृत्यकलायाम् अपूर्वाणि विशिष्टानि नृत्यरूपाणि सन्ति । अत्र विशेषेण ’तरङ्गम्’ इति प्रकारः अस्ति । अत्र नर्तकः/नर्तिका पित्तलस्य स्थालिकायाः धारायां स्थित्वा स्थालिकां भ्रामयन् नृत्यं करोति । एतादृशनृत्यावसरे हस्तयोः तैलदीपौ शिरसि जलकलशः च भवन्ति । उभयरूपस्य नृत्ययोः वस्त्रविन्यासे सूक्ष्मः भेदः अस्ति । सामान्यतः भरतनृत्यस्य वेशभूषायां दीर्घाणि त्रिपुटानि भवन्ति । शाटिकायाः पुटानि वितृतानि इव दृश्यन्ते । किन्तु कूचिपुडीनृत्यप्रकारस्य वेशभूषायां केवलम् एकमेवपुटं दीर्घं च भवति । पौनपौन्येन कूचिपुडीनृत्यप्रकारे विंशतितमं करणम् उपयोजयन्ति । अत्र षट् प्रभेदाः भवन्ति । कूचिपुडी कलाविदः 'चौक' 'कट्टरनडु' 'कुप्पि अडगु' 'ओण्टडवु' 'जरडुवु' 'पक्कनाटु' इत्यादीनाम् उपयोगं कुर्वन्ति । चलनं सङ्गीतं च कूचिपुडीकलाविदः गीतानाम् अनुगुणम् चित्ताकर्षकेण भावाभिनयेन त्वरितकटाक्षेण मुखविन्यासेन च रसभावान् निरूपयन्ति । तरङ्गे नृत्यकारः जलकलशं शिरसि संस्थाप्य पित्तलस्थालिकायाः धारायां स्थित्वा नृत्यति । पृष्ठभूमेः गानं सर्वजनपरिचितस्य कृष्णलीलातरङ्गिणीग्रन्थतः उद्धृतं भवति । इयं सन्निवेशः श्रीकृष्णस्य जीवनम् अवतारान् च निरूपयति । सगाननृत्येषु कलाकारः भामाकलापम् इति नृत्यनाटिकायां श्रीकृष्णस्य राज्ञ्याः सत्यभामायाः पात्रं निरूपयति । सत्यभामा प्रेमालापस्य विविधश्रेणिषु सञ्चलति । कूचिपुडीनृत्यप्रकारे कृष्णशब्दम् इति किञ्चित् गीतम् उल्लेखनीयम् अस्ति यत्र क्षिरविक्रेत्री गोपिका विविधरीत्या कृष्णम् आह्वयति । अत्र नृत्याङ्गनाः अत्याकर्षकं नृत्यं निरूपयन्ति । नृत्यपरिणताः डा. वेम्पटि चिन्नसत्यम् गुरुः पि.वि.भरणि शङ्करः अनुराग् देब् (आयुष्- पाग्लू छाग्लु महाराजः)कोलकता, पश्चिमबङ्गालः। देवशीष् प्रधान् (बोटु महाराजः) कोलकता, पश्चिमबङ्गालः। गुरुः जयराम रावः वनश्री रावः च । श्रीनिवास रावः रविः च । वेदान्तं लक्ष्मीनारायणः । डा. उपा रामरावः । तडेपल्लि पेरय्य । चिन्ता कृष्णमूर्तिः । वेदान्तं नारायण शर्मा । डा. कोरद नरसिंह रावः । गुरुः सि.आर्.आचार्यलू । मृणालिनी साराभायी । गुरुः बालकोण्डल रावः । पि.बि.कृष्णभारती । पसुमर्थि वेणुगोपालकृष्ण शर्मा । डा.राजा रेड्डिः । स्वागत् कूचिपुडी । शोभा नायिडु । महाङ्कालि सूर्यनारायण शर्मा । ड. यशोधा ठाकोर् विजयपाल् पतलोथ् । वंशिकृष्ण शर्मा । मल्लिका रामप्रसादः । इन्दिरा श्रीराम दीक्षितः । रविः वेम्पटि । शलिकला पिनुमर्तिः । कमलारेड्डिः । कमला अय्यलराजु दासिक । सन्धाश्री आत्मकूरि । शारदा जम्मि । अनुराधा नेहरू । हिमबिन्दु चल्ला । यामिनी सारिपल्ली । व्याप्तिः कूचिपुडीनृत्यं न केवलं भारते देशे प्रसृतम् अस्ति किन्तु उत्तर-अमेरिका, युनैटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिषु अन्यदेशेषु अपि व्याप्तम् अस्ति । तत्रापि कृतपरिश्रमाः कूचिपुडीनृत्यकलाविदः प्रशिक्षकाः निदेशकाः च सन्ति । गिन्निस् विश्वाभिलेखं निर्मातारः कलाविदः द्विशताधिकाः नृत्यगुरवः २८००सङ्ख्याकाः कूचिपुडीकलाविदः क्रि.श.२०१०तमे वर्षे डिसेम्बरमासस्य २६दिनाङ्के हैदराबाद् (भाग्यनगरे) जि.एम्.सि.बालयोगी क्रीडाङ्गणे हिन्दोलस्य तथा तिल्लानानामिकायाः नृत्यगतेः प्रदर्शनं कृत्वा विश्वस्तरीयं गिन्निस् अभिलेखं निर्मितवन्तः । कूचिपुडीनृत्यनिदेशकस्य कार्याणि प्रशंसितुम् समग्रभारतस्य सर्वराज्येभ्यः १५देशेभ्यः च आगताः नृत्यकलाविदः उपस्थिताः आसन् । अन्ताराष्ट्रियकूचिपुडीमहासम्मेलनस्य अङ्गतया ११निमेषाणां नृत्यकार्यक्रमः सञ्चालितः । कुचिपुडीनृत्यपरिणताः वेम्पटि चिन्नसत्यम्, यामिनी कृष्णमूर्तिः राजा रेड्डिः राधा रेड्डिः शोभा नायिडु च राष्ट्रपतिपुरस्कारं प्राप्तवन्तः । उल्लेखाः कूचिपुडी भारतम् रागनृत्यश्रेणी ; श्री सद्गुरुप्रकाशनम् /इण्दियन् बुक्स् सेण्टर् नवदेहली, भारतम् । बाह्यानुबन्धाः युवसु भारतीयनृत्यकलोत्तेजनसंस्था । कूचिपुडीनृत्यस्य वेशभूषाः । राजा रेड्ड, राधा रेड्डिः कूचिपुडीनृत्यम् । कूचिपुडीनृत्यम् । दृश्यावली । शास्त्रीयकूचिपूडीकेन्द्रम् । ख्यातः कूचिपुडीकलाविदः नृत्यप्रकाराः सारमञ्जूषा योजनीया‎
4672
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A3%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%80%E0%A4%A8%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
मणिपुरीनृत्यम्
इदं भारतस्य शास्त्रीयनृत्येषु अन्यतमा पद्धतिः अस्ति। मणिपुरे नृत्यम् अपि जीवनस्य अविभाज्यम् अङ्गं भवति। मणिपुरम् इति शब्दस्य अर्थः रत्नानां नगरी इति ।पूर्वम् एषः प्रदेशः गन्धर्वाणां विद्याधरादीनां वा वासभूमिः आसीत् इति श्रूयते। तत्कारणतः एव स्यात् मणिपुरीयाणां सर्वेषाम् अपि नृत्ये आसक्तिः अधिका । मणिपुरीनृत्यं मणिपुरराज्यम् इव एव परमसुन्दरम् । भरतस्य उत्तरपूर्वीयभागे पर्वतानां मध्ये स्थितस्य मणिपुरस्य सौन्दर्यं वर्णनातीतम्। मणिपुरीनृत्ये चीनादेशस्य प्रभावः स्फुटतया दृश्यते। सप्तमे क्रिस्तशके चीनादेशीयाः अत्र आक्रमणं कृत्वा वासं कृतवन्तः। स्थानीयजनाः तैः परिणीताः अपि। तत्कारणतः नूतना इन्डो-मुङ्गोलियन् जनजातिः एव निर्मिता अभवत्। इतिहासः एषः नृत्यप्रकारः अतिप्राचिनः। विंशतिशतकस्य पूर्वार्धे प्रसिद्धः बङ्गालीयः कविः रवीन्द्रनाथठागोरः समग्रे देशे एतस्य नृत्यप्रकारस्य जनप्रियतां कल्पितवान्।१९२० तमे वर्षे मच्चिमपुरे तेन ऐदम्प्राथम्येन एतत् नृत्यं दृष्टम्। ततः सः नितराम् आकृष्टः। तदनन्तरकाले कलाशिक्षणार्थम् एव संस्थापितस्य शान्तिनिकेतनस्य पाठ्यक्रमे मणिपुरीनृत्यप्रकारम् अपि सः योजितवान्। प्रकाराः मणिपुरीनृत्यस्य जानपदीयः साम्प्रदायिकः आधुनिकः च प्रकारः समग्रतया निसर्गसम्बद्धः मणिपुरीनृत्यप्रकारेषु प्रसिद्धेषु अन्यतमः अस्ति 'रासः'। सः राधाकृष्णयोः प्रेमजीवनकथाम् अवलम्बते। मणिपुरीनृत्यम् एकव्यक्तिप्रदर्शनयोग्यं यथा, तथैव सामूहिकम् अपि । 'दोलयात्रा' 'होलिपर्व' इत्यादिषु प्रसङ्गेषु तत्रत्यैः सामूहिकं नृत्यं क्रियते । एतादृशेषु नृत्येषु महिलाः पुरुषाः चापि सोत्साहं भागं वहन्ति। 'राखुवल्'नामकं नृत्यं पुरुषैः एव प्रदर्श्यते। कृष्णः स्वस्य अनुचरैः सह यत् व्यवहृतवान् तां कथाम् अवलम्बते। वर्णमयः वेषः नृत्यस्य सवेगगतिं भूषयति। 'लै-हरौबा' इत्येतत् अपरं सामूहिकं नृत्यम्। यथा प्रेमसम्बन्धिनी 'लैलामजनूकथा' 'हीरारञ्जाकथा' च सुप्रसिद्धा तथैव 'खम्बा-तोयबि'कथा अत्र प्रसिद्धा। सा एतस्मिन् नृत्ये प्रदर्श्यते। पुरुषैः प्रदर्श्यमानम् मणिपुरीनृत्यं वेगयुक्तम्, उपवेशनोत्थानादि-अङ्गचालनयुक्तं च। 'खोल'नामकस्य वाद्यस्य ध्वनेः अनुगुणं तेषां नृत्यप्रकाराणां पदानां निवेशः भवति। एतानि नृत्यानि प्रायः मधुरगानेन सहैव भवन्ति। 'खोल'नामकवाद्यं प्रायः सर्वेषु नृत्येषु उपयुज्यते। 'एकतारा' यथा तथैव एकतन्त्रियुक्तम् अपरं वाद्यम् अपि अत्र उपयुज्यते। एतयोः उपयोगतः तालवैशिष्ट्यम् उत्पद्यते। परमोच्चनीचतालभेदः, तारमन्द्रस्वरभेदः इत्यादयः महता वेगेन यत् परिवर्तन्ते तत् द्रष्टृषु महान्तम् आनन्दम् उत्साहं च जनयति। मणिपुरीयनृत्यकाराः (पुरुषाः) कदाचित् खोलवाद्यं खञ्जरीवाद्यं च स्वयं गृह्णन्ति नृत्यावसरे। मणिपुरीनृत्यम् सारमञ्जूषा योजनीया‎
4673
https://sa.wikipedia.org/wiki/%E0%A4%93%E0%A4%A1%E0%A4%BF%E0%A4%B6%E0%A5%80
ओडिशी
ओडिशीभारतस्य काचित् शास्त्रीयनृत्यस्य पद्धतिः अस्ति । अस्य नृत्यस्य ओरिस्सी, उडिसी, ओडिसी इत्यपि भिन्नभिन्नेषु प्रान्तेषु व्यवहारः अस्ति । ओरियाभाषा - ଓଡ଼ିଶୀ}} , English:Oṛiśī) पुरातत्त्वशास्त्रानुसारम् इयं नृत्यपरम्परा भारतस्य प्राचीनतमा नृत्यपद्धतिः अस्ति । अस्य नृत्यस्य त्रिभङ्ग्याः कारणेण भारतस्य अन्यनाट्यप्रकारात् भिन्ना इति ओडिशीनृत्यपद्धतिः इति वदन्ति । मस्तकस्य उरसः वस्तिप्रदेशस्य पृथक् चलनं भवति इति कारणेन अस्य त्रिभङ्गी इति नाम आगतम् । अस्य नृत्यस्य चौकम् इति भावभङ्गिः पुरीजगन्नाथं द्योतयति । अस्मिन् नृत्ये अन्यभारतीयशिल्पकालासु यथा दृश्यते तथैव विविधैः भावाभिनयैः विविधप्रकारैः पादचालनैः च प्रात्रनिर्वणं भवति । अस्मिन् सामन्यभङ्गयः नाम अभङ्गी, अतिभङ्गी, त्रिभङ्गी व । मूलम् इतिहासः च अस्य ओडिशीनृत्यस्य चित्रं सर्वप्रथमतया ओडिशाराज्स्यस्य मञ्चापुरीगुहासु दृष्टम् । एतानि चित्राणि खरवेलराजस्य काले उत्कीर्णानि आसन् । चित्रे राजा खरवेलः द्वाभ्यां राज्ञिभ्यां सह उपविश्य नृत्यं पश्यन् अस्ति । यत्र काचित् वैश्यकन्या नृत्यं करोति महिलावाद्यवृन्दः नादयति । पूर्वं नृत्यमेतत् जात्यातीतम् आसीत् । कालक्रमेण ओडिशायाः मन्दिरानुबद्धम् अभवत् । पुरिस्थितस्य जगन्नाथमन्दिरस्य धार्मिककार्यक्रमेषु अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । क्रमेण ओडिशायाः शैविते, शक्तः विशैविते मन्दिरेषु अपि अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । कस्मिंश्चित् शिलाभिलेखने उत्कीर्णं यत् बौद्धालयस्य कर्पूरश्रीः इति काचित् देवदासी मत्रा मातमह्या च सह अत्र ओडिशीनृत्यस्य प्रदर्शनं करोति स्म इति । अनेन ज्ञायते यत् ओडिशिनृत्यं पूर्वम् आस्थाननृत्यप्रकारः आसीदिति । कालान्तरेण एतत् बौद्धानां जैननां हैन्दवानां च धार्मिकदेन्द्रेषु अस्य नृत्यस्य प्रदर्शनं व्याप्तम् । देवस्य सेवायां याः महिलाः स्वजीवनं समर्पितवत्यः भवन्ति स्म ताः भक्तिसमर्पणभावेन ओडिशीनृत्यसेवां कुर्वन्ति स्म । भारतीयदेवालयेषु विद्यमनेषु शिल्पकलासु एतादृशानि चित्राणि एव दृश्यन्ते । ओडिशीनृत्यस्य इतिहासः उडिशाराज्यस्य उदयगिरिप्रदेशस्य राणिगुम्फागुहातः आरब्धः भवति । तत्र उत्कीर्णानि चित्राणि ओडिशीनृत्यस्य भावभङ्गीः दर्शयन्ति । मन्दिरस्य इतिहासः भुवनेश्वरः ओडिशाराज्यस्य राजधानी अस्ति । तस्मिन् उदयगिरिः खण्डगिरिः इति पर्वतप्रदेशे गुहाः सन्ति । अपि च केचन जैनमतस्य गुहाः सन्ति । त्रविद्यमानानि ओडिशीनृत्यस्य चित्राणि उत्कीर्णानि यानि क्रि.पू.दितीशतके रचितानि ।2nd एते गुहाः राज्ञः खरवेलस्य सेवायाम् आसन् । एताः शिल्पकालाः एतत् दृढयन्ति यत् इयं ओडिशीनृत्यकला एव देशस्य प्राचिनतमा नृत्यपद्धतिः इति । अपि च कोनार्कप्रदेशस्य सूर्यदेवालये भुवनेश्वरस्य देवालये च एतादृशाः कलाः दृश्यन्ते । ओडिशाराज्यस्य रत्नगिरिपर्वतप्रान्तेषु कृतोत्खननकाले ओडिशीनृत्यस्य शिल्पकालाः अस्य इतिहासं समर्थयन्ति । हरिपुरेत्यदिषु पुण्यस्थानेषु बह्व्यः योगिन्यः तासां नृत्यशिल्पकाभिः स्मृताः। ओडिशीनृत्यप्रकारः विशेषतः शैवमन्दिरेषु प्रदर्शितः भवति यतः देवः शिवः नर्तकानां गुरुः इति भावः अस्ति । अपि अस्मिन् ब्रह्माण्डे नृत्यस्य अधिदेवः नटराजः इति कथ्यमानः शिवः एव । अतः नृत्यम् अपि देवतार्चनस्य काश्चन विधिः भवति । भुवनेश्वरस्य शैविते मन्दिरे ओडिशीनृत्यस्य असङ्ख्यातानि चित्राणि सन्ति । पुरिजगन्नाथमन्दिरे कोणार्कसूर्यदेवालये च भित्तिषु ओडिशीनृत्यसमूहस्य चित्राणि उत्कीर्णानि सन्ति । एतानि ओडिशायः शैविते मन्दिरेषु अस्याः कलायाः शिक्षा प्रचलति स्म इति प्रमाणयन्ति । परम्परा नर्तकाः च ओडिशीनृत्यपरम्परा माहिरिः नर्तकी गोटिपुरं च इति शालासु अस्तित्वं रक्षति । पुर्याः जगन्नाथमन्दिरस्य देवदास्यः महारी नाम्ना आहूयन्ते । अयं शब्दः महा नारी इति पदयोः सांक्षेपः । पूर्वं महार्यः(देवदास्यः)एतेषु मन्दिरेषुअ मन्त्रान् श्लोकान् च अबलम्ब्य नृत्तम् अभिनयं च कुर्वन्ति स्म । क्रमेण एताः महर्यः जयदेवस्य गीतगोविन्दम् अवलम्ब्य नृत्यानि प्रदर्शयन्ति स्म । नृत्यावसरे एतासां मन्दिरस्य अन्तः प्रवेशः कल्प्यते स्म किन्तु अन्यावसरेषु तासां मन्दिरप्रवेशः निषिद्धः आसीत् । षष्टशतकस्य अन्तिमभागे गोटिपुवा परम्परा निमज्जति स्म । कारणंतु वैष्णवमतावलम्बिनः महिलानां नर्तनं न सहन्ते स्म । अस्मिन् काले गोटिपुवबलाः महिलाः इव वेशं धृत्वा महरीभिः नृत्याभ्यासं प्राप्नुवन्ति स्म । वैष्णवकवयः राधाकृष्णयोः विषये असङ्ख्यगीतानि ओरियाभाषाया रचयन्ति स्म । राजभवनेषु नर्तकी नर्तनम् अवकाशम् अवाप्नोत् । यत् ब्रिटिश् कालात् पूर्वमेव संवर्धितम् आसीत् । तस्मिन् काले ओडिशीनृत्याङ्गनानां देवदासीनां दुरुपयोगः सर्वत्र अभवत् । अतः क्रमेण मन्दिरेभ्यः ओडिशीनृत्यप्रकारः बहिरागतः । राजभवनेषु अपि अस्य नृत्यस्य मौल्यं नष्टम् अभवत् । एषा नृत्यविद्या केवलं शिक्षाकेन्द्रेषु एव अवशिष्टम् । महारीपरम्परा शैविते मन्दिरेषु महिलानां नर्तनसंस्कृतेः संरक्षणार्थम् इयं परम्परा रक्षिता । पुर्याः जगन्नाथमन्दिरे देवस्य जगन्नाथस्य सेवार्थं महिलानाम् ओडिशीनर्तनस्य पद्धतिः अनुवर्तिता । एताः नृत्याङ्गनाः एव महार्यः (श्रेष्ठमहिलाः) इति अथवा देवदास्यः (देवानां दासयः) जगन्नाथस्य भार्याः इति परिगण्यन्ते । तासां कलारूपेण ओडिशीनृत्यप्रकारः संवर्धितः । ओडिशाराज्ये दशमशताब्दौ उद्योतकेसरी इति राज्ञः काले प्राप्ताः शिलाभिलेखाः महारी विषये सर्वप्रथमं प्रामाण्यम् । राज्ञः माता कलवती देवी अनेकाः नृत्याङ्गनाः ब्रह्मेश्वरदेवलयस्य परमेश्वराय समर्पितवती । क्रि.श.एकादशे शतके राजा अनन्तवर्मा चोळगङ्गदेवः जगन्नाथमन्दिरे नृत्यसेवार्थं नृत्यकन्निकाः नियुक्तवान् । शतमानकालपर्यन्तं अस्य नृत्यस्य संरक्षणम् एतासां नृत्याङ्गनानां दायित्वं भवति स्म । नृत्याङ्गना एकापादेन देहस्य समतोलन इत्यादिभिः तन्त्रैः अनुपमकौशलैः च अयं नृत्यप्रकारः अन्येभ्यः पृथक् विशिष्टः च इति निरूपयति । तासु काश्चन महार्यः एवं भवन्ति । मोहिनी महारी, दमिनी महारी, दुङ्ग्री महारी, पद्मश्रीः गुरुपङ्कजदासः । गोतिपुरपरम्परा ओरियाभाषया गोतिपुर इत्युक्ते एकाकी बालः इत्यर्थः । इतं नृत्यं तु केनचित् एकेन बालकेन महिलावेषेण प्रदर्श्यते । राज्ञः प्रतापरुद्रस्य प्रशासनकाले यः श्रीचैतन्यस्य अनुयायी आसीत् बालकानां नृत्यपरम्परा नाम गोतिपुरपद्धतिः समानीतः । यतः वैष्णवजनाः महिलानां नर्तनं नानुमन्यते स्म । [[Image:Rudrakshya 019.jpg|thumb|right|ओडिश्शीसमूहनृI I dont understand this नृत्यकोशः परिभाषा च पारम्परिकम् ओडिशनृत्यम् विविधांशयुक्तं भवति । मङ्गलाचरणम् - अयं देवताप्रर्थनयाः भागः । देवं जगन्नाथं संस्तुत्य अन्यदेवतायाः सुतिश्लोकगानेन सह तस्यार्थानुगुणं नृत्यं कुर्वन्ति । भूमौ नृत्यवजेन पादन्यासः क्रियते अतः क्षमां प्रार्थयन् मङ्गलाचरणे भुमिप्रणमः अपि अन्तर्गच्छति । त्रिखण्डिप्रणामः अपि भवति यत्र शिरसः ऊर्ध्वं, गुरोः मुखस्य पुरतः प्रेक्षकानाम् अभिमुखं च नृत्याङ्गना नमस्कारान् करोति । बट्टु नृत्यम् - स्थायिनृत्यम् अथवा बटुकभैर अपि अस्य नाम अस्ति । नृत्यप्रपञ्चस्य आरध्यदैवस्य नटराजपरमेश्वरस्य परितोषार्थम् एतत् नृत्यं कुर्वन्ति । शिवस्य ६४उग्ररूपेषु अन्यतमम् अत्र प्ररर्शयन्ति । अस्य कृतेः मूलं तु ओरियाभाषायाः लिङ्गपुराणं महानिर्वाणतन्त्रं च ययोः बतुक भैरवरवस्य विविरणं भवति । अस्मिन् साहित्येनृत्याङ्गनाः शिवभक्त्याः पूजायाः च प्रयोजस्य विवरणं भवति । अट्टुनृत्यं तु ओडिशानृत्यस्य अतिकठिणं परिशुद्धं नृत्यम् अस्ति । अस्मिन् नृत्ये शल्पकलाना अनुकरणमिव विविधाः आङ्गिकाभिनयः भवति । इत्युक्ते वीणायाः मृतङ्गस्य पकवाद्यस्य करतालस्य वेणोः वादनानां भङ्गीः नृत्याङ्गना प्रदर्शयति । एतादृशनृत्येषु गानं वा वाद्यं न अनुगच्छति । किन्तु केषाञ्चन अक्षराणां पुनरावर्तनं भवति तेन साह अभिनयप्रदर्शनं भवति । अक्षराणां पौनपुन्येन रटनं तु एकया पङ्क्त्या भवति यस्य उकुत इति कथ्यते यत् तालेन सह विविध जत्या उच्चार्यते तदा नर्तिका पादन्यासेन सर्वं समन्वयति । तालः नृत्यस्य अनुबन्धं निश्चिनोति यस्य तेदि अथवा कटम् इति नाम । अन्तिमदृश्यं सर्वदा झुलापहपटतालेन विन्यस्तः भवति अपि च नृत्यस्य शीघ्रगतिः भवति । पल्लविः - काचित् परिशुद्धं नृत्यवैविध्यं यस्मिन् रागाः नेत्राभिनयेन आङ्गिकेन पादन्यसेन च व्रिस्तृताः भवन्ति । पल्लविः इत्यस्य पदशः अर्थः तु विकसनम् इति । एतत् न केवलं नर्तनम् अन्वेति । किन्तु नृत्यसहयोगानां सङ्गीतवाद्यानम् अपि भवति । पल्लविः प्रार्थनापूर्वकश्लोकैः नेत्रयोः ग्रीवस्य पदयोः च चालनेन मन्दम् आरभ्यते । क्रमेण वेगं प्राप्य पराकोटिं च गच्छति । गानं वाद्यसङ्गीतानि च नृत्येन युगपत् वेगेन धावन्ति । नर्तनं तु रसमयं लीलायुतं भावात्मकं च भवति । अभिनयः - गीतस्य अथवा कथायाः साभिनयं भवाभिव्यक्तियुक्तं नर्तनम् । मुद्राभिः भावभिनयैः नेत्रयोः चालनेन च साहित्यस्य कथा प्रेक्षकान् प्राप्नोति । अभिनयः संस्कृतभाषायाः अथवा ओडियाभाषायाः साहित्येन सह प्रस्तुतः भवति । अभिनये संस्कृतभाषया अथवा ओडियाभाषायाः वा सहित्येषु दशावतारस्तोत्राणि , अर्धनारीस्तोत्राणि, गीतगोविन्दश्लोकाः च प्रसिद्धानि सन्ति । अभिनयस्य गीतानि विशेषतः राधकृष्णयोः विषये एव भवन्ति । जयदेवकविना लिखतस्य अष्टपदीकाव्यस्य गीतगोविन्दस्य उपयोगः अत्र अधिकः भवति । अयं ग्रन्थः पुरिजगन्नातस्य परितोषाय एव लिखितः इत् जनानां भावः । नृत्यनाटिका - अस्मिन् अनिकाः नृत्याङ्गनाः प्रारूपिकतया दीर्घाभिनयं कुर्वन्ति । काश्चन प्रसिद्धाः नृत्यनाटिकाः नाम गुरोः केलूचरणमहापात्रस्य रचनानि सुदामदरित्रभजनम्, मातामणिप्रदानम्, बल्यलीला, ऋतुसंहारः, कृष्णसुदामः, दुष्यन्तशाकुन्तला, उत्कलमुदामणिः, यागनाशिनी, मेघदूतम्, कुमारसम्भवम्, सप्ननायकः इत्यादयः । विशेषतः अध्यात्मविचाराः एव अत्र स्वीकृताः भवन्ति । तदन्तरकाकले किन्तु नूतनं विषयवस्तु स्वीकृत्य कृतः प्रयोगः यशस्वी अभवत् । आधुनिकलाके निरूपितानि नूतनानि विषयवस्तूनि नाम पञ्चकन्या, गङ्गायमुना, श्रितकमलम्, मृत्युः तन्त्रम् च । मोक्षः - नृत्यनाटिकायाः उपसंहारभागस्य मोक्षः इति परिभाषा । मोक्षः इत्यस्य पदशः अर्थः पार्मर्थिकं सायुज्यम् । आध्यात्मस्य परकोटीं नृत्यं प्रदर्शयति । नृत्यकलावित् सहृदयेभ्यः परिशुद्ध सरसप्रकाशं दर्शयति । चलनं यतिः च लीनः भूत्वा नूतनवि समयावकाशे सदा नविन्मेषशालिनः विन्यासान् च प्रदर्शयति । अस्मिन् भागे नृत्यं स्वपराकोटिं प्राप्य प्रेक्षकस्य नेत्रयोः कर्णयोः च उत्सवं जनयति । मोक्षः इव ब्रह्माण्डस्य ओम् इति नादं श्रावयत् नृत्यं परिसमाप्तिं गच्छति । भारतात् बहिः 1991: A short (23 second) Odissi dance scene was featured in Michael Jackson's music video of Black or White. The legendary pop-singer and dancer performs some Odissi, too. 1998: Madonna danced along with Odissi dancers live on stage during the 1998 MTV Award ceremony. US-based Odissi performers, Patnaik Sisters, were chosen to choreograph and perform alongside the legendary pop artist. विशेषाध्ययनम् Odissi : What, Why and How… Evolution, Revival and Technique, by Madhumita Raut. Published by B. R. Rhythms, Delhi, 2007. ISBN 81-88827-10-X. Odissi Yaatra: The Journey of Guru Mayadhar Raut, by Aadya Kaktikar (ed. Madhumita Raut). Published by B. R. Rhythms, Delhi, 2010. ISBN 978-8-18-882721-3. Odissi Dance, by Dhirendranath Patnaik. Published by Orissa Sangeet Natak Akademi, 1971. Odissi - The Dance Divine, by Ranjana Gauhar and Dushyant Parasher. Published by Niyogi Books, 2007. ISBN 81-89738-17-8. Odissi, Indian Classical Dance Art: Odisi Nritya, by Sunil Kothari, Avinash Pasricha. Marg Publications, 1990. ISBN 81-85026-13-0. Perspectives on Odissi Theatre, by Ramesh Prasad Panigrahi, Orissa Sangeet Natak Akademi. Published by Orissa Sangeet Natak Akademi, 1998. Abhinaya-chandrika and Odissi dance, by Maheshwar Mahapatra, Alekha Chandra Sarangi, Sushama Kulshreshthaa, Maya Das. Published by Eastern Book Linkers, 2001. ISBN 81-7854-010-X. Rethinking Odissi, by Dinanath Pathy. Published by Harman Pub. House, 2007. ISBN 81-86622-88-8. अवलोकनम् Indian Classical Dance Ghungroo Odissi music टिप्पणी बाह्यानुबन्धाः Odissi dance at the Open Directory Classical Indian Dance Portal: Odissi Page Classical Indian Dance Portal Mahari and Gotipua tradition History of Odissi Costume of Odissi dance Historical evidences on Odissi Odissi dance jewelry Gotipua Dance Gurukul Indraadhanush- Odissi Center of Excellence Mayadhar Raut School of Odissi Dancing नृत्यप्रकाराः सारमञ्जूषा योजनीया‎
4680
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%88%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%83
जैमिनिः
भगवान् महर्षिर्जैमिनिर्जनिं लब्ध्वा परमकारुणिको श्रुत्यर्थतात्पर्यनिर्णये विभ्रान्तपिपासूनामाकाङ्क्षातृष्णाशान्तये कौत्सकुलमलञ्चकार। महाभागोऽयं भगवत्कृष्णद्वैपायनपाराशर्यव्यासशिष्यः आसीत्। तदुद्धृतं नीलकण्ठशास्त्रिणा ‘Jaimini and Badarayana’ इत्याख्ये निबन्धे− ‘सोऽयं प्राजापत्यो विधिः ताम् इमां प्रजापतिः बृहस्पतये प्रोवाच, बृहस्पतिर्नारदाय, नारदो विश्वकसेनाय, विश्वकसेनो व्यासाय पाराशर्याय, व्यासः पाराशर्यो जैमिनये, जैमिनिः पौष्पिण्ड्याय पाराशर्यायणाय...’ इति। व्यासः स्वशिष्याय जैमिनये सामवेदं प्रददौ इति श्रीमद्भागवताद्विज्ञायते− ‘पराशरात्सत्यवत्यामंशांशकलया विभुः। अवतीर्णो महाभागो वेदञ्चक्रे चतुर्विधम्॥ तेषां स चतुरः शिष्यान् उपाहूय महामतिः। एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः॥ साम्नां जैमिनये प्राह ततः छन्दोगसंहिताम्॥’ (श्रीमद्भागवतम्- २.६.४९,५५) इति। महर्षिरयं जनमेजयायोजितसर्पसत्रस्योद्गाता आसीदिति भारताज्ज्ञायते− ‘उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः’ (महाभारतम्- १.५३.६) इति। देशः महर्षिर्जैमिनिः कुत्रत्यः आसीदित्यस्मिन् विषये स्फुटं तथ्यं किमपि नोपलभ्यते। कालः भारतीयविदुषां समयनिर्धारणतिकष्टसाध्यं, यतस्तैः स्वविषये किमपि न लिखितम्। अस्यां स्थितौ अन्यकृतैरुल्लेखैः अनुमानेन च प्राचां दार्शनिकानां समयो व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते− १) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’ (रघुवंशम्- १८.३३) इति। अतःचतुर्थपञ्चमशतकीयात् कालिदासात् प्राचीनो जैमिनिरिति सिद्ध्यति। २) जैमिनसूत्रभाष्यं विरचयता शबरेण पाणिनिकात्यायनौ स्मृतौ− ‘सद्वादित्वाच्च पाणिनेर्वचनं प्रमाणम्, असद्वादित्वान्न कात्यायनस्य’ (शाबरभाष्यम्- १०.८.१) इति। पी. वी. काणेमहोदयः पाणिनेः क्रिस्तपूर्वषष्ठशतकोत्पन्नत्वं मनुते, ततः अपि प्राक्तनो जैमिनिरिति सिध्यति। ३) आश्वलायनगृह्यसूत्रे जैमिनेरुल्लेखो वर्तते− ‘प्राचीनावीतिसुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारत-धर्माचार्या इति’ (आश्वलायनगृह्यसूत्रम्- ३.४.५) इति। आश्वलायनश्च पाणिनेरपि प्राचीनः। यतोहि आश्वलायनशब्दव्युत्पादनाय अश्वलशब्दात्फक्प्रत्ययविधानाय पाणिनिना नडादिगणे अश्वलशब्दस्य ग्रहणं कृतम्। ४) किञ्च पाणिनेर्गुरुः आसीदुपवर्षः इति प्रसिद्धिः। सोऽपि जैमिन्यपेक्षया अर्वाचीनः। यतोहि शबरेण मीमांसासूत्रभाष्ये वृत्तिकारः भगवान् इत्याद्युपाधिना उपवर्षः सम्बोध्यते− ‘अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः’ (शाबरभाष्यम्- १.१.५) इति। एवञ्च उपवर्षादपि जैमिनिः प्राचीनः। एवं समीक्षया जैमिनिः ख्रीष्टपूर्वदशमशतकात् पूर्वमेव आसीत् न परतः इति सिद्ध्यति। गजाननमहोदयस्तु ५००० ई. पू. समये जैमिनिरासीदित्यभिप्रैति। कृतिः भगवता जैमिनिना द्वादशाध्यायात्मिका शताधिकाधिकरणोपेता सप्तविंशतिशतसूत्रात्मिका द्वादशलक्षणी निरमायि। ‘अत उपपन्नं जैमिनिवचनमाकृतिः शब्दार्थः’ (शाबरभाष्यम्- १.१.५) इति शबरवचनेन जैमिनेः सूत्रकर्तृकत्वं निर्विवादसिद्धम्। तत्र प्रथमेऽध्याये विध्यादेः प्रामाण्यं निरूपितं, द्वितीये तद्विधेयकर्मभेदः प्रपञ्चितः, तृतीये विहितानां शेषशेषिभावः, चतुर्थे क्रतुप्रयुक्तानुष्ठेयानां पुरुषार्थप्रयुक्तानुष्ठेयानां च पदार्थानां परिमाणं चिन्तितं, पञ्चमे अनुष्ठानक्रमचिन्ता, षष्ठे विहितकर्मफलभोक्तृत्वरूपाधिकरणनिरूपणं, सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः, अष्टमे स्पष्टास्पष्टप्रबललिङ्गा-तिदेशापवादविचारः, नवमे ऊहविचारारम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः, दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्व-समुच्चयग्रहादिविचारः, एकादशे तन्त्रादिचिन्ता, द्वादशे प्रसङ्गतन्त्रिनिर्णयसमुच्चयविकल्पविचारः। जैमिनीयश्रौतसूत्रम्, जैमिनीयगृह्यसूत्रम् इत्यपि जैमिनेः कृतिरिति विद्वांसो वदन्ति। ज्यौतिषशास्त्रज्ञोऽयं ‘जैमिनीयसूत्रम्’ इति ग्रन्थं विरचयाञ्चक्रे इति सम्प्रदायः। अयञ्च ग्रन्थः काशीहिन्दुविश्वविद्यालयस्य भूतपूर्वज्यौतिषाध्यापकेन रामयत्न-ओझामहोदयेन चौखम्बाप्रकाशनतः प्रकाशितः। अयञ्च गजेन मारितः इति पञ्चतन्त्रोपाख्यानाद्विज्ञायते− ‘मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्’ इति। उद्धरणम् सम्बद्धाः लेखाः मीमांसादर्शनम् प्रभाकरः कुमारिलभट्टः शबरस्वामी मीमांसादर्शनस्य द्वैतोपयोगित्वम् प्राचीनगुरवः पौराणिकधार्मिकव्यक्तयः चित्रं योजनीयम् सारमञ्जूषा योजनीया ऋषयः भारतीयदार्शनिकाः
4681
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8B%E0%A4%A7%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%83
बोधायनः
बौधायन एक: महान ऋषि आसीत्‌ | अनेन शुल्ब-सूत्रम् ग्रन्‍थ: लिखित: | गणितं "" पौराणिकधार्मिकव्यक्तयः प्राचीनगुरवः चित्रं योजनीयम्‎ बाह्यानुबन्धः योजनीयः सारमञ्जूषा योजनीया‎ हिन्दुधर्मसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः स्मृतिकाराः
4682
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%AA%E0%A4%AF%E0%A4%83
लिपयः
लिपिः वर्णानां लेखनं लिपिः भवति । नाम अक्षराणि लेखितुं यः विन्यासः उपयुज्यते सा लिपिः । अस्याः लिपी इत्यपि कथयन्ति । सरस्वतीलिपिः ब्राह्मीलिपिः देवनागरीलिपिः शारदालिपिः तेलुगुलिपिः तमिललिपिः रोमनलिपिः ग्रीकलिपिः चीनीलिपिः जापानीलिपिः लिपयः लिपिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4683
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
प्रज्ञासूत्रम्
प्रज्ञासूत्रम् इदं सुभाष काकेन विरचितम् आधुनिकसूत्रम् अस्ति। बन्धु-परोक्ष-यज्ञाः विज्ञानस्य त्रिपादाः ।१। देव-भूत-जीवात्मानोऽन्तरेण बन्धुः ।२। मनसि प्रतिबिम्बितं ब्रह्माण्डम् ।३। चिदाकाशस्य तदीयौ सूर्य-चन्द्रौ ।४। सूर्य-चन्द्राव्-अष्टोत्तर-शत-अंशात्मकौ ।५। सामान्य-आधारितं-ज्ञानम् ।६। शब्दः बन्धः ।७। भाषा अपरा ।८। विरुद्धानि इव अपि दर्शनानि परस्पर-पूरकानि ।९। आन्तरिक-स्थितयः परिसंख्या-योग्याः ।१०। भाषा-लोक-विरुद्ध-आभास-अतीतं विज्ञानम् ।११। यज्ञात् प्रज्ञा आविर्भवति ।१२। चित्तम्-आव्रियते वर्णैः ।१३। पशु-आसुर-राक्षसा आत्मनि निवसन्ति ।१४। पशुत्वस्य नाशनम् एव मुक्तिः ।१५। यज्ञो योगः परिणामः परिवर्तनं च ।१६। शरीर-मनसि असम्भूति-सम्भूती अविद्या-विद्ये पक्षाविव ।१७। प्रज्ञा ऐश्वर्यं पक्षिणः उड्डयनम् ।१८। संस्कृतग्रन्थाः चित्रं योजनीयम्‎ बाह्यानुबन्धः योजनीयः‎ श्टब्स् संस्कृतसम्बद्धाः सारमञ्जूषा योजनीया‎ सर्वे अपूर्णलेखाः
4686
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B2%20%E0%A4%AE%E0%A5%81%E0%A4%A8%E0%A4%BF
दत्तिल मुनि
सः सङ्गीतशास्त्रस्य एक: विद्वान: आसीत्। सः दत्तिलम् लिखितवान्। ' दत्तिलम् ' इत्यस्य ग्रन्थस्य उल्लेखः भरतमुनिना रचिते नाट्यशास्त्रग्रन्थेऽपि लभ्यते । सङ्गीतग्रन्थरचयितारः संस्कृतिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4687
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%81%E0%A4%A8%E0%A4%BF%E0%A4%83
मतङ्गमुनिः
अयं कश्चित् ब्रह्मर्षिः । ऋष्यमूकपर्वतस्य प्रदेशे तपः आचरन् आसीत् । केनचिद्ब्राह्मणेन क्षौरिककन्ययां जातः। इन्द्रः अस्मै अनेकान् वरान् दत्तवान् । किन्तु तेन अतृप्तः तपः समाचर्य ब्रह्मत्वं सम्पादितवन् । वालिः दुन्दुभिः इति राक्षसं हत्वा तस्य रुण्डं प्राक्षिपत् । तत् मुनेः आश्रमप्रदेशे पतितम् । अनेन कुपितः मुनिः यदा वालिः अत्र आगच्छति तदा तस्मै मरणप्राप्तिः भविष्यति इति अशपत् । महातपव्वी मातङ्गः अस्य पुत्रः । प्राचीनगुरवः श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
4688
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%83
शार्ङ्गदेवः
सः सङ्गीतशास्त्रस्य एकं विद्वानं आसीत्। सः सङ्गीरत्नाकरम् लिखितम्। सङ्गीतग्रन्थरचयितारः श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
4691
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%83
आदिशङ्कराचार्यः
शङ्कराचार्यः (मलयाळम्: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्ताब्दम् ७८८ - क्रिस्ताब्दम् ८२०), यस्यान्ये अभिधाने शङ्करभगवत्पादाचार्यः तथा च आदिशङ्कराचार्यः इति । आदिशङ्कराचार्यः कश्चन भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदान्तस्य सिद्धान्तः दृढतया प्रोद्बलितः । अद्वैतवेदान्तः वेदान्तस्य उपसंप्रदायः वर्तते । उत्तरमीमांसा इत्यपि एतस्य अपरं नाम । अद्वैतवेदान्तानुसारं जीवब्रह्मणोः अभेदः ब्रह्मणः निर्गुणत्वञ्च उच्यते । शङ्करः समग्रभारतवर्षस्य यात्रां कृत्वा स्वकीयं दर्शनं प्रवचनेभ्यः शास्त्रार्थेभ्यश्च प्रसारितवान् । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरम्परायाः संस्थापकः मन्यते । संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्यमानाः, अद्वैतवेदान्तसिद्धान्तस्थापनविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि प्रतिपादितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकाण्डं स्थापितमासीत् संन्यासश्च निन्दित: आसीत् । शङ्करः ब्रह्मविषये उपनिषदः प्रामाण्यं प्रोक्तवान् । तथा च ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाः च भाष्यं लिखितवान् । कर्मवादस्स्य प्रवर्तकेन मण्डनमिश्रेण सह ज्ञानवादं मण्डयित्वा जितवान् । आचार्यशङ्करः अनेकान् ग्रन्थानपि लिखितवान् तेषु विवेकचूडामणिः, उपदेशसहस्री प्रपञ्चसारश्च प्रमुखाः सन्ति तस्याद्वैतवेदान्तसिद्धान्तो माध्यमिकबौद्धसिद्धान्त इव प्रतीयते। यथाद्वैतवादः तथैव शून्यवादो वर्तते, न तस्मात् भिन्नः। अतः केचित् तं प्रच्छन्नबौद्धं कथयन्ति चरितम् केरळेषु पूर्णानद्यास्तीरे विद्यमाने कालटि ग्रामे स जज्ञे । तस्य शैशवे एव पिता शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोषयामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासाश्रमं प्रवेष्टुम् उत्कटेच्छा समजनि। परन्तु, माता नान्वमोदत ॥ एकस्मिन् दिने मात्रा सह पूर्णानदीं प्राप्य स्नानार्थम् अवतीर्णः । एकः ग्राहः तस्य पादं जग्राह । निनाय च नदीमध्यम् । तदवलोक्य तारं क्रन्दन्तीं मातरं स ऊचे । "यदि सन्यासानुज्ञां मे दास्यसि तर्हि नूनं ग्राहो मोक्ष्यति" इति । पुत्रं जीवन्तमिच्छन्ती सा कथञ्चित् अनुमेने । झटिति ग्राहशिशुं तीरोपकण्ठमानीय अमुञ्चत् । अथ विलम्बं विनैव स प्रव्रजितुं निरणौषीत् । "यदा मां स्मरिष्यसि, तदा त्वामुपस्थास्यामि" इति प्रतिश्रुत्य मातरं समाश्वासयन् गृहान्निरगाच्च ॥ स देशाद्देशं परिक्रममाणः नर्मदारोधसि स्थितं गौडपादाशिष्यं गोविन्दगुरुं प्रपेदे । परावरज्ञात् तस्मात् सकलाः विद्याः संन्यासञ्च जग्राह । तदनु तस्य गुरोः आज्ञया उपनिषदां ब्रह्मसूत्राणां गीतायाश्च भाष्याणि निर्ममे । अन्यानपि बहून् ग्रन्थान् निबबन्ध । तदनु गुरुणा अनुज्ञातः गौडपादेन चानुमोदितः कैश्चित् कुतार्किकैः कदर्थितं श्रौतं मतं सुप्रतिष्ठां नेतुं प्रायतत । प्रतिदेशं भ्रममाणः विपक्षवादान् तिलशः खण्डयामास । वैदिकमद्वैतमतं सुदृढं समर्थयामास च । तत्र तत्रानेके शिष्याश्च तस्याभूवन् ॥ अनन्तरं स्वेन समर्थितं मतं प्रचारयन् शिष्यैः सह कञ्चन कालं श्रीकाशीमध्युवास । तस्य यशः दिक्षु विदिक्षु च विससार । अस्मिन् अवसरे गयायामासन्नमृत्योः कुमारिलभट्टस्य अनुज्ञानुगुणम् अयमाचार्यः माहिष्मतीमेत्य मीमांसकानामग्रगण्यस्य मण्डनमिश्रस्य सकाशे वादभिक्षामयाचत । याचनामङ्गीकृत्य मिश्रः वादाय सज्जः अभवत् । तेन सह सुदीर्घवादः प्रावर्तत । अन्ते आचार्यः मिश्रं जिगाय । पराजितो मिश्रः सबहुमानं सभक्तिकञ्च आचार्यस्य शिष्यतां वव्रे । स एव सुरेश्वराचार्य इति प्रख्यातः ॥ एवमद्वैतमतं प्रतिष्ठापयन् आचार्यः बदरिकाश्रमं गत्वा नारायणं समाराध्य तत्र कञ्चन मठं स्थापयामास । तथैव पश्चिमतः द्वारकायां, पूर्वतः पुर्यां दक्षिणतः शृङ्गगिरौ तुङ्गायास्तीरे च । तेषु चतुर्षु मठेषु यथाक्रमं स्वशिष्यान् तोटकं, हस्तामलकं, पद्मपादं, सुरेश्वरञ्च पीठाधिपतिरूपेण न्ययोजयत् । उपनिषदां सम्मतस्य अद्वैतमतस्य रक्षणे पोषणे च तानादिदेश च ॥ अत्रान्तरे आतुरया मात्रा स्मृतः योगशक्त्या तस्याः पुरस्तादाविरासीत् । उचिताभिः परिचर्याभिस्तां प्रातोषयत् । प्रत्यासन्नायां तस्याः प्राणानामुत्क्रान्तौ नूतनाभिः नूतिभिः प्रसादितदैवतैस्तामनुगृहीतां सुगतिञ्च वितेने । पारत्रिकाणि कृत्यानि च यथाविधि वितेने ॥ अथ स्वकृत्यं सर्वं कृतं मन्यमानः स काश्मीरदेशं प्रययौ । तत्र महाजनानां मनोरथं मानयन् सर्वज्ञपीठमधिष्ठानं भूषयामास । तदनु हिमालयस्थां दत्तात्रेयगुहां जगाह । ततस्सत्ये शिवे शाश्वते पदे तिरोदधे च ॥ सम्बद्धितलेखाः आदिशङ्कराचार्यः (चलच्चित्रम्) बाह्यसम्पर्कतन्तुः Succession of Shankaracharyas (a chronology) (from Gaudapada onwards) Complete works of Adi Shankara Information on Sri Adi Shankara A Note on the date of Samkara (Adi Sankaracharya) by S. Srikanta Sastri Biography of Shankara in AdvaitaVedanta.org प्राचीनगुरवः पौराणिकधार्मिकव्यक्तयः दर्शनशास्त्रिणः
4695
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80
सरस्वती देवी
ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदा, वागीश्वरी, ब्राह्मी, महाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति । ज्ञानदात्री एषा देवी सर्वस्य ज्ञानस्य, कलानां, विज्ञानस्य च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं हंसः मयूरश्च । चित्रेण पिच्छकलापेन मयूरः विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव मोक्षः इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘ज्ञानमार्गः’ ‘भक्तिमार्गः’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः । आराधनफलम् नवरात्रोत्सवे आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । दुर्गापूजया दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । मन्दबुद्धीनां सरस्वत्याः तत्त्वानि अधिकहितकराणि भवन्ति । बौद्धिकक्षमतायाः विकासनार्थं चित्तस्य चञ्चलतां दूरयितुं सरस्वतीसाधना विशेषतया प्रयोजनकारिणी वर्तते । मस्तिष्कतन्त्रसम्बद्धेषु अनिद्रा, शिरोवेदना, आयासः, पीनसः इत्यादिषु रोगेषु सरस्वतीसाधना प्रभावशालिनी भवति । चिन्तनशक्तेः अभावः, निर्णये द्वैविध्यम्, विस्मरणम्, दीर्घसूत्रता, सर्वविषयेषु अरुचिः, इत्यादीनि शमयितुम् अपि सरस्वत्याः आराधनम् आवश्यकं भवति । शिक्षायाः विषये जनमानसेषु अधिकोत्साहं जागरयितुम्, अध्यात्मिकस्वाध्यायस्य गम्भीरतायाः ज्ञापनार्थं सरस्वत्याः पुजनं भवति । धनार्जनस् , बलवर्धनस्य, साधनसङ्ग्रहस्य, आमोदप्रमोदस्य, च अपेक्षया बुद्धिशक्तिः अमूल्यं सम्पत् । स्वरूपम् सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन ईशनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सरस्वत्याः पूजां कुर्वन्ति । सरस्वतीस्तोत्राणि सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥ शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌। हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌ वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥2॥ शारदां वरदां देवीं विद्याबुद्धिप्रदायिनीं। नमामि तां जगद्वन्द्यां वीणापुस्तकधारिणीम्।। हिन्दुदेव्यः बाह्यानुबन्धः योजनीयः विषयः वर्धनीयः सारमञ्जूषा योजनीया‎
4696
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80%E0%A4%A8%E0%A4%A6%E0%A5%80
सरस्वतीनदी
सरस्वती नदी नाम्ना एका नदी पुरा काले आसीत्। सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति। तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति। विनशनात् चतुश्चत्वारिंशत् दिनपर्यन्तं निरन्तरम्, अश्वगत्या चलित्वैव प्लक्षप्रासवणस्य उपसर्पणम्भवति। न तावदेतावद् एव सरस्वतीदृषद्वत्योः मध्यवर्तीप्रदेशस्य तथा तयोः सङ्गमस्थानस्य अपि निर्देशो लभते। सर्वाधिकमहत्त्वपूर्णः सङ्केतः एवम् अस्ति - प्रजापतेः वेदिस्वरूपेण कुरुक्षेत्रस्य मान्यता - 'एतावतो वात्र प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति'। प्रजापतेः यज्ञस्य प्रतीकत्वेन ‘कुरुक्षेत्रम्' यज्ञवेदि सिद्धो भवति। अर्थादस्मिन्नेव प्रदेशे ब्राह्मणानां सङ्कलनं कृतमासीत्। यज्ञयागस्यापि पूर्णप्रतिष्ठाऽस्मिन्नेव प्रान्तेऽभवत्। मनुस्मृतौ दृषद्वती-सरस्वत्योः उभयोः देवनद्योः मध्यवर्त्तीप्रदेशः ‘ब्रह्मावर्त्त'-नाम्ना ख्यातोऽभवत्। याज्ञिकसंस्कृत्याः केन्द्रं पीठस्थलञ्च इदमेव स्थानमस्ति, यत्र ब्राह्मणानां यज्ञप्रक्रियायाः पूर्णविकासः सम्पन्नोऽभवत्। अस्यैव प्रान्तस्य भाषा ‘राष्ट्रभाषा' अभवत्। अत्रत्यः आचारः समस्तभारतवर्षस्य मान्याचारोऽभवत्। अत्रत्य संस्कृतिरेव समस्तभारतवर्षस्य संस्कृतिरस्ति। सम्बद्धाः लेखाः गङ्गा यमुना गोदावरी नर्मदा सन्दर्भः उत्तराखण्डराज्यस्य नद्यः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4697
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE
ब्रह्मा
ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । ऋग्वेदस्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव विष्णोः परमदेवत्वस्य सूचना प्राप्यते - 'अग्निर्वे देवानामवमो विष्णुः परमः'। रुद्राय महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन उदुम्बरवृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति । अविधा संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः। अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः। उपाख्यानम् सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः। स्वरूपम् ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति। साङ्केतिकलक्षणानि चतुर्मुखाः- चत्वारःवेदाः।(ऋक्-साम-यजु-रथर्वश्च) चतुर्भुजाः- चतुर्दिशं (उत्तर-दक्षिण-पूर्व-पश्चिमश्च) द्योतयन्ति। एते पुनः मन-बुद्धि-अहङ्कार-आत्मधैर्यमपि प्रदर्शयति। जपमाला- सृष्टेः चलमानाप्रक्रियां सूचयति। पुस्तकम्- 'ज्ञानम्' इति अर्थवोधकम्। हिन्दुदेवताः बाह्यानुबन्धः योजनीयः श्टब्स् संस्कृतसम्बद्धाः संचित्रसारमञ्जूषे योजनीये सर्वे अपूर्णलेखाः
4700
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%87%E0%A4%AE%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B2%20%E0%A4%9F%E0%A5%87%E0%A4%B2%E0%A4%B0%20%E0%A4%95%E0%A5%8B%E0%A4%B2%E0%A4%B0%E0%A4%BF%E0%A4%9C
सेम्येल टेलर कोलरिज
सेम्येल टेलर कोलरिज (१७७२-१८३४) कवि आसीत्। विलियम वर्ड्सवर्थ के साथ उन्होंने रोमांटिक परम्परा की नींव रखी। स्थलम् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ विदेशीयाः
4701
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%AE%20%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A1%E0%A5%8D%E0%A4%B8%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A5
विलियम वर्ड्सवर्थ
विलियम वर्ड्सवर्थ (१७७०-१८५०) आङ्ग्ल भाषास्य सुविख्यात कवि आसीत्। प्रकृतिवादस्य प्रमुख प्रवक्ता । सेम्येल टेलर कोलरिज :en:Samuel Taylor Coleridge को साथ उनले रोमान्टिक (Romantic) परम्परा को थालनी गरे । विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः विदेशीयाः सारमञ्जूषा योजनीया‎
4702
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BE%E0%A4%A8%20%E0%A4%95%E0%A5%80%E0%A4%9F%E0%A5%8D%E0%A4%B8
जान कीट्स
जान कीट्स (१७९५-१८२१) सः आङ्ग्ल भाषास्य प्रमुख कवि। विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः विदेशीयाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4703
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%80%20%E0%A4%AC%E0%A4%BF%E0%A4%B6%20%E0%A4%B6%E0%A5%87%E0%A4%B2%E0%A5%80
पर्सी बिश शेली
पर्सी बिश शेली (१७९२-१८२२) आङ्ग्ल भाषास्य प्रमुख कवि आसीत्। bueee!! no se entiende un soberano culoooooooooooooo!!!!!!! pdta.... ALEX ES GAY! विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः विदेशीयाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4704
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%9C%20%E0%A4%AC%E0%A5%88%E0%A4%B0%E0%A4%A8
जार्ज बैरन
जार्ज बैरन (१७८८-१८२४) आङ्ग्ल भाषास्य प्रमुख कवि आसीत्। विदेशीयाः विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम्
4705
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%9F%E0%A4%B0%20%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A5%82%E0%A4%97%E0%A5%8B
विक्टर ह्यूगो
विक्टर्-मैरी ह्युगो (१८०२ – २२ मे १८८५) एकः फ्रांसीसी लेखकः राजनेता च आसीत्। षष्टिवर्षाधिकं यावत् कालस्य साहित्यिकवृत्तेः कालखण्डे सः विविधविधासु, रूपेषु च लेखनं कृतवान्। सः सर्वकालिकस्य महान् फ्रांसीसी लेखकानां मध्ये एकः इति मन्यते। तस्य प्रसिद्धाः कृतयः द हन्चबैक् आफ् नोट्रे-डेम् (१८३१) तथा लेस् मिसेरेब्ल् (१८६२) इति उपन्यासाः सन्ति। ह्युगोः क्रॉम्वेल्-नाटकेन, हेर्नानी-नाटकेन च रोमान्टिक-साहित्य-आन्दोलने अग्रणी आसीत्। तस्य बहवः कृतीः सङ्गीतस्य प्रेरणाम् अवाप्तवन्तः, तस्य जीवनकाले अपि च तस्य मृत्योः अनन्तरं, यथा ओपेरा रिगोलेट्टो, लेस् मिसेरेब्ल्स्, नोट्रे-डेम् डी पेरिस् इति संगीत नाटकानि च सः स्वजीवने ४,००० तः अधिकानि रेखाचित्राणि निर्मितवान्, मृत्युदण्डस्य उन्मूलनादिसामाजिककारणानां कृते च अभियानं कृतवान्। उल्लेख: विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः विदेशीयाः सारमञ्जूषा योजनीया‎ १८०२ जननम् १८८५ मरणम्
4706
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%8B%E0%A4%B9%E0%A4%BE%E0%A4%A8%20%E0%A4%B5%E0%A5%81%E0%A4%B2%E0%A5%8D%E0%A4%AB%E0%A4%97%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%20%E0%A4%AB%E0%A4%BE%E0%A4%A8%20%E0%A4%97%E0%A5%87%E0%A4%9F%E0%A5%87
योहान वुल्फगाङ्ग फान गेटे
जोहान वुल्फगांग गेटे (१७४९-१८३२) जर्मन भाषायाः प्रमुखः कविः उपन्यासकारश्च । बाह्यसम्पर्कतन्तुः The Autobiography of Goethe: Truth and Poetry, from My Own Life vol 1 (1848) English The Autobiography of Goethe: Truth and Poetry, from My Own Life vol 2 (1881) English Goethe in English at Poems Found in Translation The Lied and Art Song Texts Page Poems of Goethe set in music Encyclopaedia Britannica, Johann Wolfgang von Goethe "Goethe's Delicate Empiricism," A Special Issue of Janus Head Goethe's dual language poems (from German to other languages) Goethe Statue – Lincoln Park in Chicago, Illinois, United States Elective affinities Reprinted by Cornell University Library Digital Collections जर्मनी-देशस्य व्यक्तयः विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4707
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE
शतरूपा
पीठिका शतरूपा मानवकुलस्य सर्वप्रथमा माता अदिदेवी अस्ति । एषा स्वयम्भुवमनोः पत्नी । मनुशतरूपाभ्याम् एव मनवस्य सृष्ठिः आरब्धा । ततो मनुष्या अजायन्त इति श्रुतिवाक्यम् । स्वयम्भुवमनुः शतरूपा च ब्रह्मणः शरिरात् सञ्जातौ । तस्य वामभागत् मनुः दक्षिणभागात् शररूपा उद्भूतौ । न केवलं मानवाः नैके सहस्रशः प्राणिनः अपि एतेयोः सन्तानानि एव इति बृहदारण्यकोपनिषत् वदति । जीविका शतरूपा अतीव लज्जावती बालिका असीत् । अग्रे जगति स्त्रीः नाम कथं भूयात् इति दर्शितवती आदर्शा नारी एषा । शतरूपा स्वेच्छानुसारं यत्किमपि रूपं धर्तुं शक्नोति स्म । मनोः प्रथमसन्दर्शनावसरे तस्य दृष्टेः गोपयितुं शतधा रूपाणि धृतवती । तथापि सः स्वयम्भूमनुः शतरूपेषु अपि ताम् अभिज्ञातवान् । सा तत् रूपं धरति तेनैव रूपेण मनुः तां सन्दृष्टवान् । एवं सा शतशः रुपाणि प्राप्तवती इति तस्याः शातरूपा इति नाम । सा यस्य यस्य प्राणिनः रूपं धृतवती तस्य तस्य सन्तानमपि लोकाय अर्पितवती । स्वसन्तानेषु प्राणिषु दायां प्रीतिं च दर्शयन्ती इयं मानवस्त्रीः पशवः कथं दृष्टव्याः इत्यपि बोधितवती । राजधर्मः स्वयम्भवः मनुः ब्रह्मावर्तस्य राजा अभवत् । सकलाभिः सम्पद्भिः समृद्धा बहिर्ष्मती नगरम् अस्य रजधानी आसीत् । श्रीमन्नारायणः यदा वराहरुपेण भूमिमातरं रसातलात् उन्नीतवान् ततः तस्य शीरीरात् उन्मूलाः केशाः भूमौ अपतन् । ते एव अग्रे कुशकाशाः अभवन् । कुशस्य अपरं नाम बर्हिष् इति । अस्य प्रथमदर्शनम् अस्मिन् स्थाने अभवत् इति अस्य नगरस्य बाहिर्ष्मती इति नाम प्राप्तम् । अस्मिन्नेव नगरे शतरूपा स्वभर्त्रा स्वम्भुवमनुना सह अवसत् । शतरूपा पत्निधर्मं सुचारुरूपेण पालितवती । पत्या पर्मानुरक्ता सा स्वदेशस्य नगराणि प्रजाः पशुसम्पदः वृक्षसम्पदः आदरेण पश्यति स्म । महाराज्ञी शतरूपा प्रतिदिनं प्रेमपूर्णहृदयेन भगवतः पुण्यकथाः कथनम्, तस्य नामसङ्कीर्तनम्, पूजाचरणम् इत्यदिभिः धार्मिककार्यैः कालं यापयति स्म । एवं भारतीय़ा नारी सन्मार्गे कथं वर्तयेत् इति प्रदर्शयन्ती लोकादर्शा असीत् । स्वभर्त्रा सह सद्धर्मपालनम् अकरोत् । अतः अद्यापि वेदाः एतां बहुमानयन्ति । कुटुम्बः स्वायम्भुवमनुः शतरूपा च दम्पत्योः पुत्रौ तिस्रः पुत्र्यः अभवन् । पुत्रयोः नामनि उत्तानपादः प्रियव्रतः च । पित्रीणां नामानि आकूतिः, प्रसूतिः देवहूति च इति । अस्य उत्तनपादस्य पुत्रः एव प्रसिद्धः भक्तबालः ध्रुवः । मनोः द्वितीयः पुत्रः प्रियव्रतः एतत् भूमण्डलं सप्त खण्डरुपेण विभज्य उत्तमां प्रशासनव्यवस्थाम् अकल्पयत् । पुत्रिषु प्रथमा आकूतिः रुचिप्रजापतिं पतिम् अभजत । द्वितीया पुत्री प्रसूतिः दक्षप्रजापतिम् ऊढवती । स्वायम्भुमन्वन्तरस्य अयं दक्षः पत्न्या प्रसूत्या २४पुत्रीरत्नानि प्राप्य अग्रे ऋषिसन्तानार्थमपि कारणिकः अभवत् । मनोः तृतीयां पुत्रीं देवहूतिं कर्दममहर्षिः परिणीतवान् । अनयोः धर्मदाम्पत्यफलस्वरूपेण देवहूत्याः गर्भात् साङ्ख्याशास्त्रस्य प्रणेता भगवत्स्वरूपी कपिलमहर्षिः अवतीर्णः । स्वपुत्रिभिः पतिगृहे कथं वर्तनीयम् इति शातरूपा सम्यक् उपदिष्टवती । भर्तृगृहे कर्तव्यपालनम्, नियमानुसरणम्, कार्यनिष्ठा इत्यादयः नीतिसंहिताः बोधितवती । स्वायम्भुमनुः बहुकालं स्वराज्यं धर्मेमार्गेण परिपालितवान् । भगवतः नियमानुसारं शास्त्रोक्तरीत्या राज्यं प्रशासितुं शतरूपा स्वपतेः सर्वविधसहाय्यं कृतवती । अनेकवर्षाणि राज्यं प्रशासति तस्मिन् वैराग्योदयः नाभवत् । एतत् दृष्ट्वा पत्नी शतरूपा पतिं जागरितवती । तदनन्तरं स्वपुत्रम् उत्तानपादं आग्रहपूर्वकं सिंहासने उपावेश्य शतरूपया सह वानप्रस्थं स्वीकृत्य अरण्यम् अगच्छत् । स्वायम्भुमनुः पत्न्या सह सहस्राधिकवर्षाणि उग्रं तपः आचरन् भगवतः दर्शनं प्राप्तवान् । तस्य भगवतः मनोहरं रूपं लीलामोहनकृपाकटाक्षं मणिमयाभूषणं च दृष्ट्वा आत्मानं कृतार्थम् अमन्यत । आनन्दतुन्दिलौ तौ दम्पती तस्य परमात्मनः चरणं संस्पृश्य अनमताम् । तयोः मस्तके स्पृशन् भगवान् वरं वरयताम् इति अवदत् । तदा मनुः. हे प्राणदातः भवतः दर्शनमात्रेणैव अस्माकम् सर्वाभिलाषाः सम्पूरिताः किन्तु हृदयस्य कोणे काचिदेका आशा अस्ति भवतः समानं कञ्चन पुत्रम् अनुगृह्णातु इति प्रार्थयत् । मत्सदृशपुत्रं कुतः अन्विष्य आनयामि अतः अहमेव तव पुत्रत्वेन जनिष्यामि इत्यवदत् । भवत्याः इष्टानुसारं वरं वरय इति भगवान् शतरूपाम् अवदत् । तदा साध्वी सा मम पत्युः अपेक्षा एव मम अतीव प्रिया तथापि कञ्चन अन्यं वरं प्रार्थये। यथाहं पत्या सह पतिव्रताजीवनं यापितवती तथैव भविष्यति काले लोकस्य सर्वाः पतिव्रतानार्यः सुखजीवनं यापयन्तु, बुद्धिमतिषु स्त्रीषु सर्वकालेषु सद्विवेकः तिष्ठतु, तासां भवति उत्तमा भक्तिः भवतु एवं भवान् अनुगृह्णातु इति वरम् अयाचत् । तदा भगवान् तथास्तु मातः इति उक्त्वा तां मातृरूपेण स्वीकृत्य अन्तर्धानमगच्छत् । माता स्वार्थं विहाय परार्थे जीवन्ती कथं जीवनस्य सार्थक्यं पश्येत् इति शातरूपा स्वजीवनम् एव दृष्टन्तीकृतवती । इयं महापतिव्रता शातरूपा भूमण्डलस्य जनानाम् एवम् आदर्शप्राया अभवत् । अलौकिकश्रद्धाभक्तितपोभिः भगवन्तम् एव पुत्ररूपेण प्राप्तवती । भगवतः आज्ञानुसारं कञित्कालम् एतौ दम्पती ऎन्द्रलोके अवसताम् । कालक्रमेण स्वायम्भुमनुः अयोध्यायाः दशरथचक्रवर्ती अभवत् । शतरूपा तस्य पत्न्याः कौसल्यायाः रुपेण आगता परमात्मरूपिणं श्रीरामम् असूत । एवं शतरूपा लोकमाङ्गल्यार्थम् अविरता परिश्रान्ता जगतः प्रथमा महिलेति प्रथिता । मातुः वात्सल्यस्य पत्युः कर्तव्यस्य प्रतीका अभवत् । भारतीय-पौराणिकव्यक्तयः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4708
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%88
तराई
तराई नेपाल देशे दक्षिण भागस्य समथर भूमि अस्ति। तराई नेपालदेशसम्बद्धाः स्टब्स्-लेखाः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4710
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80%E0%A4%95%E0%A4%B5%E0%A4%AF%E0%A4%83
हिन्दीकवयः
वीरगाथा काल(सन 1000 -1325 ) दलपति विजय, चंद बरदाई, नरपति नाल्ह, जगपति, अमीर खुसरो, विद्यापति आदि सन्ति। भक्तिकाल(सन 1325 - 1650 ) प्रमुख कवि तुलसीदास कबीरदास सूरदास रहीम मीराबाई मलिक मोहम्मद जायसी रीतिकाल(सन 1650 - 1850 ) प्रमुख कवि बिहारी केशव भूषण पद्माकर देव घनानंद रत्नाकर आचार्य कृपाराम रसलीन ठाकुर आलम बोधा आधुनिककाल(सन 1850 -) प्रमुख कवि भारतेंदु हरिश्चंद्र (1850-1885) अयोध्यासिंह उपाध्याय 'हरिऔध' (1865-1941) मैथिलीशरण गुप्त (1886-1964) माखनलाल चतुर्वेदी (1889-1968) जयशंकर प्रसाद (1890-1937) निराला (1896-1961) सुमित्रानन्दन पन्त (1900-1977) सुभद्राकुमारी चौहान(1904-1948) महादेवी वर्मा (1907-1987) हरिवंश राय बच्चन(1907-2003) रामधारी सिंह दिनकर (1909-1974) अज्ञेय (1911-1987) डा. जगदीश गुप्त (1924-2001) भूपेंद्र नाथ कौशिक "फ़िक्र" (1925-2007) भवानी प्रसाद मिश्र (1914-1985) शिवमंगल सिंह 'सुमन' (1915-2003) सर्वेश्वर दयाल सक्सेना (1927-1983) गोपालदास नीरज (1926- ) नागार्जुन(1911-1998) रामकुमार वर्मा गोपालदास व्यास कुँवर बेचैन (डा.)(1942- ) दुष्यंत कुमार(1933-1975) नरेश मेहता भारतभूषण अग्रवाल अशोक चक्रधर(1951- ) यश मालवीय(1962- ) सोम ठाकुर पश्य आधुनिक हिंदी पद्य का इतिहास हिन्दी गद्यकार बाह्य लिंक हिन्दी साहित्य के श्रेष्ठ कवियों की उत्कृष्ट रचनाओं का उत्तम संकलऩ अनुभूति में हिंदी कवि हिन्दीसाहित्यम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4712
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%89%E0%A4%AA%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF
अयोध्या प्रसाद उपाध्याय
बाहरी लिंक हरिऔध की श्रेष्ठ रचनायें अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् उत्तरप्रदेशराज्यस्य व्यक्तयः सारमञ्जूषा अपेक्षते सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4714
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%96%E0%A4%A8%E0%A4%B2%E0%A4%BE%E0%A4%B2%20%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%80
माखनलाल चतुर्वेदी
बाहरी लिंक माखनलाल चतुर्वेदी की श्रेष्ठ रचनायें विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः मध्यप्रदेशराज्यस्य व्यक्तयः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4716
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%AD%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE%20%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%80%20%E0%A4%9A%E0%A5%8C%E0%A4%B9%E0%A4%BE%E0%A4%A8
सुभद्रा कुमारी चौहान
सुभद्रा कुमारी चौहान ( ) (, )हिन्दीभाषासाहित्यस्य एका सुप्रसिद्धा कवयित्री, लेखिका च । तया काव्यसङ्ग्रहद्वयं, कथासङ्ग्रहत्रयं च लिखितम् । किन्तु ’झांसी की रानी’ इत्यस्मै काव्याय सा जनेषु प्रसिद्धा जाता । तया भारतदेशस्य स्वतन्त्रतायाः आन्दोलने अपि भागः गृहीतः । आन्दोलनसमये कारावासस्य यातनाः अपि तया असह्यन्त । तदनन्तरं तया तासां यातनानाम् अनुभूतयः अपि स्वेन रचितासु कथासु वर्णिताः । तस्याः भाषाशैली सरला काव्यात्मिका च अस्ति । अतः तस्याः काव्यानि कथाः च हृदयङ्गमाः सन्ति । जन्म, परिवारश्च सुभद्रा कुमारी चौहान इत्यस्याः जन्म १९०४ तमस्य वर्षस्य अगस्त-मासस्य १६ तमे दिनाङ्के (१६/०८/१९०४) उत्तरप्रदेशराज्यस्य इलाहाबादमण्डलस्य निहालपुर-ग्रामे अभवत् । तस्मिन् दिवसे नागपञ्चमी-उत्सवः आसीत् । तस्याः पितुः नाम रामनाथसिंह आसीत् । सः भूमिपतिः (ज़मीनदार) आसीत् । तस्याः तिस्रः भगिन्यः, द्वौ भ्रातरौ च आस्ताम् । बाल्यं, शिक्षणं च शिक्षणप्रेमिणः पितुः मार्गदर्शने सुभद्रायाः प्रारम्भिकं शिक्षणं सम्पन्नम् । तया क्रास्थवेट् गर्ल्स् कॉलेज् इत्यत्र शिक्षणं प्राप्तम् । नवमीं कक्षां यावत् एव तया शिक्षणं प्राप्तम् । काव्यरचनायां तस्याः अभिरुचिः आसीत्,अतः बाल्यकालादेव तया अनेकानि काव्यानि रचितानि । तेषु काव्येषु ’सुभद्राकुंवरी’ नामकं प्रथमं काव्यं सुभद्रया १९१३ तमे वर्षे रचितम् । ’मर्यादा’ नामिकायां साप्ताहिक्यां तस्य काव्यस्य प्रकाशनम् अभवत् । तदा सा नववर्षीया एव आसीत् । सुभद्रा चञ्चला कुशाग्रबुद्धिमती आसीत् । तस्मात् हेतोः कक्षायां छात्रेषु प्रथमं क्रमाङ्कं प्राप्नोति स्म । तीक्ष्णबुद्धिबलेन तया पुरस्काराः अपि प्राप्ताः । तीक्ष्णबुद्धियुता सुभद्रा द्रुततरं न्यूनप्रयासेन एव काव्यानि रचयितुं शक्नोति स्म । विद्यालयस्य गृहकार्ये यदि काव्यलेखनस्य कार्यं भवति तर्हि विद्यालयात् गृहपर्यन्ते मार्गे एव सा काव्यरचनां करोति स्म । विवाहः १९१९ तमे वर्षे खण्डवा-नगरस्य ठाकुर लक्ष्मणसिंह इत्यनेन सह सुभद्रायाः विवाहः अभवत् । जबलपुर-नगरे माखनलाल चतुर्वेदी नामकः सम्पादकः ’कर्मवीर’ नामकस्य पत्रस्य प्रकाशनं करोति स्म । तस्यां संस्थायाम् एव लक्ष्मणसिंहः वृत्तिं (job) प्राप्तवान् । अतः लक्ष्मणसिंहः मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसाय आगतवन्तौ । श्वश्रोः अनुशासने सुभद्रा केवलं गृहिणी इव निवसितुं नेच्छति स्म । तस्याः हृदये समाजाय देशाय च कार्याणाम् उत्साहः, तेजः च आसीत् । किन्तु श्वसुरालये किमपि सम्भवं नासीत् । सुभद्रायाः लेखनस्य प्रतिभां दृष्ट्वा लक्ष्मणसिंहः अपि अस्मिन् कार्ये साहाय्यं करोति स्म । लक्ष्मणसिंहः सुभद्रायाः सफलतायै बहून् प्रयत्नान् करोति स्म । अतः सा पत्या सह जबलपुर-नगरम् आगतवती । तत्र सा पुत्रीद्वयं, पुत्रत्रयं च अजीजनत् । १ सुधा चौहान, २ अजय चौहान, ३ विजय चौहान, ४ अशोक चौहान, ५ ममता चौहान च । तेषु सुधा, अजयः, विजयः, अशोकः च मृतः । किन्तु ममता चौहान वर्तमाने न्युयॉर्क-नगरे निवसति । अजय-विजय इत्येतयोः पत्न्यौ वर्तमाने मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसतः । स्वतन्त्रतायां योगदानम् सुभद्रा बाल्याकालादेव निर्भया, साहसी, विद्रोहिणी च आसीत् । सा बाल्यकालादेव अशिक्षा- अन्धविश्वासेत्यादीनां विरोधं कृतवती । विवाहानन्तरम् अपि समाजसेवायै, देशसेवायै च कार्यरता आसीत् । स्वस्याः व्यक्तिगतस्वार्थं विहाय देशसेवायै संलग्ना अभवत् । माखनलालचतुर्वेदिनः मार्गदर्शने सुभद्रा स्वतन्त्रतायाः राष्ट्रिये आन्दोलने कार्यरता आसीत् । विवाहस्य सार्धवर्षानन्तरं सुभद्रा महात्मगान्धीमहोदयस्य असहयोगान्दोलने भागं गृहीतवती । तस्मिन् आन्दोलने तस्याः महद् योगदानम् आसीत् । सा तस्मिन् आन्दोलने प्रथमा महिला क्रान्तिकारिणी आसीत् । द्विवारं सा कारागारम् अपि गतवती । सा स्वकाव्यैः स्वतन्त्रतायाः आन्दोलनस्य नेतृत्वम् उद्दीपितवती । १९२०-२१ तमे वर्षे सुभद्रा लक्षमण सिंह इति इमौ अखिल भारतीय कॉङ्ग्रेस कमेटी इत्यस्य पक्षस्य सदस्यौ अभवताम् । नागपुर कॉङ्ग्रेस अधिवेशन इत्यस्मिन् अपि तौ भागं गृहीतवन्तौ । तौ प्रतिगृहे कॉङ्ग्रेस-पक्षस्य प्रचारं कुरुतः स्म । इमां समाजसेवां कर्तुं सामान्यव्यक्तित्वस्य आवश्यकता वर्तते । किन्तु सुभद्रायाः जीवनं सामान्यम् एव आसीत् । अतः सा श्वेतखादी इत्यस्य शाटिका धरति स्म । एकदा साधारणवेशाभूषायां दृष्ट्वा महात्मा गान्धी सुभद्रां पृष्टवान् – भगिनि ! भवत्याः विवाहः अभवत् ? सुभद्रा अकथयत् – आम् । तदा महात्मा खिन्नः जातः । महात्मा उक्तवान् – किमर्थं भवती श्वेतवस्त्रं धरति ? हस्ते कङ्कणानि अपि न सन्ति ? मस्तके सिन्दूरम् अपि नास्ति ? खिन्नः सन् महात्मा अवदत् – श्वः तान् अलङ्कारान्, शाटिकां च धृत्वा एव आगच्छतु इति । सुभद्रायाः मनः स्नेहि, स्वभावेन निश्छलञ्च आसीत् । अतः सर्वे तस्याम् अस्निह्यन् । स्वतन्त्रायाः कार्ये अपि जनाः तस्याः सम्माननं कुर्वन्ति स्म । १९२२ तमे वर्षे जबलपुर-नगरे झण्डासत्याग्रहनामकः भारतदेशस्य प्रथमः सत्याग्रहः अभवत् । तस्मिन् सत्याग्रहे सुभद्रा प्रथमा महिला सत्याग्रहिणी आसीत् । सत्याग्रहे प्रतिदिनं गोष्ठ्यः भवन्ति स्म । गोष्ठीसु क्रान्तिकारिणः स्वतन्त्रतायै जनान् बोधयितुं भाषणं कुर्वन्ति स्म । सुभद्रा अपि गोष्ठीसु भाषणं करोति स्म । तेन कारणेन टाईम्स् ऑफ् इण्डिया इत्यस्य समाचारपत्रस्य वृत्तान्तलेखकेन स्वस्य लेखे ’लोकल सरोजिनी’ इति नाम्ना सुभद्रायाः उल्लेखः कृतः । १९१७ तमे वर्षे अमृतसर-नगरे जलियावाला नामके उद्याने हत्याकाण्डः अभवत् । अस्य हत्याकाण्डस्य प्रभावः सुभद्रायाः मनसि अभवत् । तेन कारणेन तया त्रीणि आग्नेयकाव्यानि लिखितानि । तेषु काव्येषु ’जलियावाला बाग में वसन्त’ इत्यस्मिन् काव्ये तया लिखितं यत् – भारतदेशाय प्रेम सुभद्रायाः मनसि तु अस्ति किन्तु काव्ये अपि प्राप्यते । १९२० तमे वर्षे यदा महात्म गान्धीमहोदयस्य नेतृत्वे आन्दोलनानि चलन्ति आसन्, तदा सुभद्रा लक्ष्मणसिंहः इत्येतौ द्वौ स्वतन्त्रता-आन्दोलने जागरूकौ आस्ताम् । देशसेवायै द्वाभ्यां महान्ति कार्याणि कृतानि । कृतयः सुभद्रा कुमारी चौहान इत्यनया स्वस्य जीवने ८८ काव्यानि, ४६ कथाः च रचिताः सन्ति । ’झांसी की रानी’ नामकं तस्याः एकं सुप्रसिद्धं काव्यम् अस्ति । तेन कारणेन सा प्रख्याता जाता । किन्तु तेन काव्येन तस्याः अन्याः रचनाः गौणाः अभवन् ।यतः कस्यापि लेखकस्य एका रचना यदि बहुचर्चिता भवेत् तर्हि शेषाः रचनाः प्रायः गौणाः भवन्ति इति बहुमतम् । यथा चलचित्रजगति प्रसिद्धेन अभिनेत्रा अमिताभबच्चन इत्यनेन अपि नैकानि काव्यानि रचितानि सन्ति । किन्तु तस्य ’मधुशाला’ नामकं काव्यं जनेषु बहुप्रसिद्धम् अस्ति । अतः तस्य अन्यानि काव्यानि गौणानि अभवन् । सुभद्रा हिन्दीसाहित्यजगति लोकप्रिया सुप्रतिष्ठिता व्यापृता च वर्तते । १९३० तमे वर्षे तया ’मुकुल’ नामकः काव्यसङ्ग्रहः रचितः आसीत् । तस्याः लोकप्रियता बहु आसीत् । अतः तस्य काव्यसङ्ग्रहस्य षष्ठसंस्करणं तस्याः जीवनकाले एव प्रकाशितम् । तया विशिष्टानि चयनीयानि काव्यानि ’त्रिधारा’ नामके काव्यसङ्ग्रहे प्रकाशितानि । तेषु ’झांसी की रानी’ वर्तमाने अपि जनेषु बहुप्रसिद्धम् अस्ति । राष्ट्रियान्दोलने संलग्ना सती सा बहुवारं कारागारं गतवती । किन्तु तथापि तया त्रयः कथासङ्ग्रहाः रचिताः । १९३२ तमे वर्षे सुभद्रा कुमारी चौहान इत्यनया रचितः ’बिखरे मोती’ नामकः प्रथमः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् कथासङ्ग्रहे (१)भग्नावशेष, (२)होली, (३)पापी पेट, (४)मंझली रानी, (५)परिवर्तन, (६)दृष्टिकोण, (७)कदम के फूल, (८)किस्मत, (९)मछुये की बेटी, (१०)एकादशी, (११)आहुति, (१२)थाती, (१३)अमराई, (१४)अनुरोध, (१५)ग्रामीणा च एताः पञ्चदश-कथाः सन्ति । एतासां कथानां भाषा सरला, व्यावहारिकी च वर्तते । एतासु अधिकतमाः कथाः नारीविमर्शे आधारिताः सन्ति । १९३४ तमे वर्षे तस्याः ’उन्मादिनी’ नामकः द्वितीयः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् (१)उन्मादिनी, (२)असमञ्जस, (३)अभियुक्त, (४)सोने की कण्ठी, (५)नारी हृदय, (६)पवित्र ईर्ष्या, (७)अङ्गुठी की खोज, (८)चढा दिमाग, (९)वेश्या की लडकी इत्येताः नव-कथाः सन्ति । एतासु कथासु पारिवारिकाणि सामजिकानि च परिदृश्यानि वर्तन्ते । १९४७ तमे वर्षे ’सीधे-सादे चित्र’ नामकः तृतीयः कथासङ्ग्रहः प्रकाशितो जातः । अयं तस्याः अन्तिमः कथासङ्ग्रहः आसीत् । रूपा, कैलाशी नानी, बिआल्हा, कल्याणी, दो साथी, प्रोफेसर मित्रा, दुराचारी, मङ्गला च इत्येतासु कथासु स्त्रीणां कुटुम्बस्य, समाजस्य च समस्याः सन्ति । हीङ्गवाला, राही, ताङ्गे वाला, गुलाबसिंह इत्येताः कथाः राष्ट्रियविषयेषु आधारिताः सन्ति । सुभद्रया स्वस्याः काव्येषु भारतीयसंस्कृतेः प्राणतत्वानां, धर्मनिरपेक्षसमाजस्य निर्माणाय, साम्प्रदायिकस्य सद्भावस्य वातावरणस्य निर्माणाय अपि प्रयत्नाः कृताः सन्ति – काव्येषु देशप्रेम सुभद्रया रचितं ’वीरों का कैसा हो वसन्त’ नामकं काव्यं प्रसिद्धम् अस्ति । तस्मिन् काव्ये देशाय जोषः दृश्यते । तस्य काव्यस्य शब्दरचना, भावगाम्भीर्यं च अद्भुतम् अस्ति । स्वदेश के प्रति, विजयादशमी, विदाई, सेनानी का स्वागत, झांसी की रानी की सधि मापर, जलियांवाले बाग में बसन्त इत्यादिषु काव्येषु अपि देशप्रेम दृश्यते । काव्येषु राष्ट्रभाषाप्रेम राष्ट्रभाषायै अपि तस्याः मनसि प्रेम आसीत् । अतः तया राष्ट्रभाषायाः महत्त्वम् अपि स्वकाव्येषु प्रदर्शितम् अस्ति । ’मातृ मन्दिर में’ इति नामके काव्ये तस्याः विचाराः दृश्यते – काव्येषु प्रेमानुभुतिः सुभद्रायाः जीवनं सरलम् आसीत् । प्रेम एव सुभद्रायाः काव्यानां द्वितीयः आधारस्तम्भः आसीत् । इदं प्रेम द्विमुखि अस्ति । बाल्यप्रेम दाम्पत्यप्रेम च । तृतीयप्रेम्णे तस्याः जीवने स्थानमेव नासीत् । बाल्यप्रेम बाल्यप्रेमाधारितानि तया अनेकानि काव्यानि रचितानि सन्ति । तासु कवितासु बाल्यजीवनस्य स्मृतयः मधुरतापूर्वकं वर्णिताः सन्ति । तानि रचितानि काव्यानि शैशवसम्बन्धीनि सन्ति । तेषु काव्येषु पुत्र्याः अपि प्राधान्यं वर्तते । अतः सुभद्रया एतेषां काव्यानां माध्यमेन भ्रूणहत्यायाः विरोधः कृतः । उच्यते यत् – यदा तस्याः पुत्र्याः विवाहः अभवत्, तदा तया स्वस्याः पुत्र्याः कन्यादानं न कृतम् । सा उक्तवती- ’कन्या काऽपि वस्तु नास्ति’ इति । अतः तस्याः दानं कथं कर्तुं शक्नुमः । एतादृशः विचाराः तस्याः काव्येषु अपि उल्लिखिताः सन्ति । दाम्पत्यप्रेम दाम्पत्यप्रेमविषयकानि अनेकानि प्रेम-काव्यानि अपि तया रचितानि सन्ति । तेषु” आहत की अभिलाषा, प्रेम शृङ्खला, अपराधी है कौन, दण्ड का भागी बनता कौन” इत्यादीनि दाम्पत्यप्रेम-काव्यानि सन्ति । तेषु ’प्रियतम से’ नामके काव्ये दाम्पत्यजीवनस्य कश्चित् अंशः दृश्यते – काव्येषु प्रकृतिप्रेम सा प्रकृतिप्रिया अपि आसीत् । “ नीम, फूल के प्रति, मुरझाया फूल” इत्यादिषु काव्येषु तया प्रकृतेः विशिष्टवर्णनं कृतम् अस्ति । अतः एव सुभद्रा कुमारी चौहान इत्यस्याः काव्यानि व्यापकानि सन्ति । बालकाव्यानि सुभद्रायाः हृदये निस्सीमं मातृत्वम् आसीत् । बालकैः प्रेरितया सुभद्रया अनेकानि बालकाव्यानि रचितानि सन्ति । एतेषु काव्येषु राष्ट्रभावः अपि वर्तते । ’सभा का खेल’ अस्मिन् काव्ये अपि क्रीडाभिः राष्ट्रियभावनायाः सा प्रयासं कृतवती - अस्मिन् काव्ये बालकानां क्रीडा, गान्धीमहोदयस्य सन्देशः, नेहरुमहोदयस्य च मनसि गान्धीमहोदयाय प्रेम, साम्प्रदायिकैकतायाः विचारः इत्यादीनां विषये सुवर्णितम् अस्ति । प्रसिद्धेन हिन्दीभाषायाः कविना गजाननमाधवमुक्तिबोध इत्यनेन सुभद्रायाः प्रशंसा कृता । राष्ट्रियकाव्ये तस्य ख्यातिः विशिष्टा वर्तते । नारीसमाजस्य विश्वासः प्रसिद्धसाहित्यकारस्य प्रेमचन्द्रस्य पुत्रेण अमृतराय इत्यनेन सह सुभद्रायाः पुत्र्याः सुधा चौहान इत्यस्याः विवाहः अभवत् । अमृतराय स्वयम् एकः सुलेखकः आसीत् । सुधा अपि एका लेखिका आसीत् । तया एव सुभद्रायाः जीवनचरित्रं ’मिला तेज से तेज’ इत्यस्यां रचनायां लिखितम् अस्ति । सुभद्रायाः अधिकतमं जीवनं राजनीतिकार्ये व्यतीतम् । सा नगरस्य पुरातनी कार्यकर्त्री आसीत् । १९३०-३१, १९४१-४२ तमे वर्षे जबलपुर-नगरस्य सभासु अनेकाः स्त्रियः सम्मिलिताः अभवन् । तेन कारणेन स्त्रियः जागृताः जाताः । तस्य सम्पूर्णं श्रेयः सुभद्रायाः आसीत् । १९२० तमात् वर्षात् एव सा समाजस्य अनेकेषु कार्येषु संलग्ना अभवत् । तेन कारणेन सा नारीसमाजस्य पूर्णविश्वासं प्राप्तवती । कथालेखनम् यदा सुभद्रा काव्यानि लिखति स्म, तदा सम्पादकः तेषां काव्यानां धनं न ददाति स्म । सम्पादकः कथानाम् अपेक्षां करोति स्म । अतः सुभद्रया कथालेखनस्य आरम्भः कृतः । सम्पादकः तासां कथानां धनम् अपि ददाति स्म । समाजस्य अनीतिनां वेदनानाम् अभिव्यक्तिः गद्येषु एव भवितुं शक्नोति स्म । अतः सुभद्रा कथाः अलिखत् । तस्याः कथासु देशप्रेम्णा सह समाजस्य विद्रूपता, सङ्घर्षरतायाः नार्याः पीडा च दृश्यते । एकस्मिन् वर्षे एव तया ’बिखरे मोती’ नामकः कथा-सङ्ग्रहः निर्मितः । तस्य सङ्ग्रहस्य प्रकाशनार्थं सा इलाहाबाद-नगरं गतवती । ’बिखरे मोती’ नामकेन कथा-सङ्ग्रहेण सा सेकसरिया-पुरस्कारं प्राप्तवती । तस्याः अधिकतमाः कथाः सत्यघटनाधारिताः सन्ति । सुभद्रायाः अन्तिमा रचना इदं काव्यं सुभद्रायाः अन्तिमं काव्यम् आसीत् । मृत्युः १९४८ तमस्य वर्षस्य फरवरी-मासस्य चतुर्दशे(१४) दिनाङ्के (१४/०२/१९४८) नागपुर-नगरे शिक्षाविभागे एका गोष्ठी आसीत् । सा रेल-यानेन गन्तुम् इच्छति स्म । किन्तु नागपुर-नगरस्थः अधिकारी तां कार-यानेन आगन्तुम् उपदिष्टवान् । गोष्ठ्यानन्तरं १९४८ तमे वर्षे फरवरी-मासस्य पञ्चदशे(१५) दिनाङ्के(१५/०२/१९४८) सा जबलपुर-नगरम् आगन्तुं नागपुरनगरं त्यक्तवती । तस्याः पुत्रः अपि तया सह एव आसीत् । सः कार-यानं चालयति स्म । सहसा कार-यानस्य अग्रे कुक्कुटशावाः आगतवन्तः । सुभद्रा कुक्कुटशावकानां रक्षणार्थं पुत्रम् आदिष्टवती । तेन कारणेन कार-यानस्य एकेन वृक्षेण सह संघट्टः जातः । तस्मिन् दिवसे सुभद्रायाः मृत्युः अभवत् । तदा सा ४४ वर्षीया एव आसीत् । सम्माननं, पुरस्कारः च ’मुकुल’, ’बिखरे मोती’ इत्येताभ्यां काव्यसङ्ग्रहाभ्यां सा सेकसरिया-पुरस्कारः प्राप्तवती । २००६ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के भारतीयतटरक्षकसेनया सुभद्राकुमारीचौहान इत्यस्याः सम्मानने नूतनतटरक्षकस्य जलयानस्य नाम तस्याः नाम्ना दत्तम् । १९७६ तमस्य वर्षस्य ऑगष्ट-मासस्य ६ दिनाङ्कात् (०६/०८/१९७६) भारतीय डाक तार विभागेन सुभद्रायाः सम्मानने तस्याः चित्रस्य एका पत्रालयचीटिका चालिता । जबलपुर-नगरवासिभिः धनं सङ्गृह्य नगरपालिकापरिसरे सुभद्रायाः एका प्रतिमा निर्मापिता । १९४९ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमे दिनाङ्के (२७/११/१९४९) सुभद्रायाः सख्या महादेवी वर्मा इत्यनया तस्याः प्रतिमायाः स्थापना कृता । स्थापनायाः दिवसे भदन्त आनन्द कौसल्यायन, हरिवंशराय बच्चन, डॉ. रामकुमार वर्मा, इलाचन्द्र जोशी इति इमे अपि तत्र उपस्थिताः आसन् । बाह्यसम्पर्कतन्तुः http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%81%E0%A4%AD%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE_%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%80_%E0%A4%9A%E0%A5%8C%E0%A4%B9%E0%A4%BE%E0%A4%A8 http://www.iloveindia.com/indian-heroes/subhadra-kumari-chauhan.html http://kavyanchal.com/parichay/?p=237 http://hindi-blog-podcast.blogspot.in/2007/09/subhdra-kumari-chauhan-laxman-singh.html Script Termux Hack Akun FB Target Tanpa Login सन्दर्भः मध्यप्रदेशराज्यस्य व्यक्तयः चित्रं योजनीयम्
4717
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%82%E0%A4%B6%20%E0%A4%B0%E0%A4%BE%E0%A4%AF%20%E0%A4%AC%E0%A4%9A%E0%A5%8D%E0%A4%9A%E0%A4%A8
हरिवंश राय बच्चन
हरिवंशरायबच्चनः (Harivamsha Rai Bachchan )हिन्दीभाषायाः लेखकः आसीत् । Italic text हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १९०७ जननम् सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4718
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AE%E0%A4%82%E0%A4%97%E0%A4%B2%20%E0%A4%B8%E0%A4%BF%E0%A4%82%E0%A4%B9%20%27%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A8%27
शिवमंगल सिंह 'सुमन'
बाहरी लिंक शिवमंगल सिंह 'सुमन' की श्रेष्ठ रचनायें अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4720
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A5%80%E0%A4%B7%E0%A5%8D%E0%A4%AE%20%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%A8%E0%A5%80
भीष्म साहनी
भीष्मसाहनी (१९१५-२००३) पाकिस्तानदेशे रावलपिंडीप्रदेशे जातः। सः हिन्दीभाषासयाः महान् लेखकः आसीत्। प्रमुखरचनाः झरोखे, तमस, बसन्ती, मायादास की माडी, कुन्तो नीलू निलीमा निलोफर (उपन्यास) मेरी प्रिय कहानियां, भाग्यरेखा, वांगचू, निशाचर (कहानी संग्रह) हनुष (१९७७), माधवी (१९८४), कबीरा खड़ा बजार में (१९८५), मुआवज़े (१९९३) बलराज माय ब्रदर (आत्मकथा) गुलेल का खेल (बालकथा) प्राप्ताः पुरस्काराः १९७५ साहित्य अकॅडेमी अवार्ड १९७५ शिरोमणि लेखक अवार्ड पंजाब सरकार १९८० लोटस अवार्ड एफ्रो एशियन राइटर्स असोसिएशन १९८३ सोविएत लैंड नेहरू अवार्ड १९९८ पद्मभूषण भारत सरकार साहनी, भीष्म साहनी, भीष्म साहनी, भीष्म पाकिस्तानदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4725
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%9F
लिट
लिट् लकारः बभूव बभूवतुः बभूवुः बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम व्‍याकरण लकाराः श्टब्स् संस्कृतसम्बद्धाः न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः संचित्रसारमञ्जूषे योजनीये
4726
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
तत्त्वज्ञानम्
तत्त्वशास्त्रे भारतस्य गुरुत्वं सर्वत्र प्रसिद्धं वर्तते। भारते नास्तिक-आस्तिकभेदेन परस्परं भेदमापन्नानि तानि दर्शनानि सन्ति द्वादश विधानीति तेषु सन्ति षडास्तिकदर्शनानि, षट् च नास्तिकदर्शना नीति । तत्र नास्तिकदर्शनेषु चास्त्येकं दर्शनं बौद्धदर्शनमपीति तच्च बौद्ध दर्शनञ्चास्ति खलु भागत्रयात्मकम् । तत्र च - १. प्रारम्भिकबौद्धदर्शनरूपः प्रथमो भागः । २. द्वितीयश्च महायानदर्शनरूपः । ३. तृतीयश्व बौद्धधर्मपरिचयात्मकः । तत्रापि प्रारम्भिकबौद्धदर्शनस्य मूलाधारभित्तिश्च भगवतो बुद्धस्य चत्वारि आर्यसत्यानि सन्ति, तानि च साक्षाद् बुद्धोक्तानि गीयन्ते इत्यत्र नास्ति लेशतोऽपि विवादः । भगवतो बुद्धस्येमे एव सन्ति मूलभूताः प्रभूताः सदुपदेशा आर्यसत्यचतुष्टयात्मकाः । तानि च दुःख-दुःखसमुदय-दुःखनिरोध-दुःखनिरोधमार्गस्वरूपाणि इति । (१) तत्र चास्ति प्रथमम् आर्यसत्यं दुःखम् । तत्र जन्मापि दुःखम्, जरापि दुःखम्, मरणमपि दुःखम्, जननीजठरे शयनमपि दुःखम्, शोकोऽपि दुःखम्, इच्छायाः पूर्त्यभावोऽपि दुःखम् एवं व्याघातोऽपि दुःखम्, प्रियवस्तु वियोगोऽपि दुःखम्, अप्रियसंयोगोऽपि तथा, तत्त्वतः शरीरमपि दुःखम् इत्येवं क्रमेण सर्वमेव दुःखमिव सकलमेव चराचरात्मकं जगद् दुःखपङ्कनिमग्नमिति विज्ञेयम् इत्यत्र विवेक एव प्रमाणम् । (२) द्वितीयञ्चास्ति खल्वार्यसत्यं दुःखसमुदयरूपम् । अर्थात् दुःखस्य समुदयः ( दुःखस्य समुद्भवो ) भवति । यस्मात् कारणात् इति व्युत्पत्त्या दुःख कारणमेव 'दुःखसमुदय'-शब्दार्थः । सर्वेषामेव कार्याणां कारणनान्तरीयकत्वेन सकारणकत्वं सिद्धयति, यतः सर्वेषामेव कारणानामवश्यमेव किमपि कार्य मस्तीति तु परमार्थः । अतोऽस्ति चेद् दुःखं तदा तस्य कारणेनाऽप्यवश्यमेव भवितव्यम् इति विज्ञेयम् । तच्च कारणमविद्या, तृष्णादिकं द्वादशनिदा नान्तर्गतं विज्ञेयम् । तत्रापि द्वादशनिदानान्तर्गतं जन्म-मरणचक्रमेव 'प्रतीत्यसमुत्पाद'-नाम्ना व्याह्रियते । भगवतो बुद्धस्य शिक्षायाः प्रतीत्यसमुत्पाद एव चास्ति खल्वा धारभूतः स्तम्भः । 'सम्यक् सम्बोधि'-प्राप्त्यवसरे एवेदं प्रतीत्यसमुत्पादविषयक शिक्षणं प्राप्तवान् भगवान् प्रबुद्धो बुद्धः । हीनयानेऽपि खल्वयमेव प्रतीत्यसमुत्पादश्चास्ति बौद्धधर्मस्य बौद्ध दर्शनस्य चाऽऽधारभूतः स्तम्भः, इत्यस्ति हीनयानस्य सैद्धान्तिकः पक्षः । महायानेऽपि चायमेव प्रतीत्यसमुत्पादो हीनयानानुसारं वर्तते भगवतो बुद्धस्य मूलभूत उपदेशात्मक आदेशः । भगवतो बुद्धस्योपदेशान्तर्गतमुपदेशद्वय मेव चास्ति समीचीनं शोभमानम् । १. तत्रैकं दुःखसमुदयरूपम् । २. द्वितीयञ्चास्ति दुःखनिरोधरूपं निर्वाणापरपर्यायस्वरूपम् इति । इदमेव च वर्तते खलु शासितुः शासनम् इति । एतद् विदाङ्कर्तारो जना एव धर्म जानन्ति । एतो हेतुसहितधर्मविषयकं ज्ञानमेव प्रज्ञाभूमिः कथ्यते । तथा चोक्तम् - 'सच्च पटिच्च समुप्पादादि मेदा धम्माभूमिः ।' प्रसिद्धस्य महायानावलम्बिनो नागार्जुनस्येदमप्यस्ति कथनं यत् प्रतीत्य समुत्पादद्रष्टव चास्ति यथार्थद्रष्टा इति । अपि च महायानमार्गावलम्बी खलु नागार्जुनः प्रतीत्यसमुत्पादमेव शून्यतायाः सिद्धान्तं प्रोट्टङ्कयन्ति वर्णयन्ति च । अयमेव च बुद्धोपदिष्टमार्गः ।। (३) तृतीयश्चास्ति आर्यसत्यः दुःखनिरोधरूपः । स च 'निर्वाण'-शब्द जन्यवोधविषयतां गतोऽपि भवति । निर्वाणश्च खल्वस्ति अमृतरसः । तं रसं पीत्वैव जन्म-मरणादिरूपबन्धनतो निवृत्तो भवति मानव इति च सर्वाणि शास्त्राणि सकलाश्च शास्त्रतत्त्वज्ञा वदन्ति । इममेवाऽभिप्रायं मनसि निधाय भिक्षुगणान् बोधयामास भगवान् बुद्धः । हे भिक्षवः ! ध्यानं दीयताम्, मयाऽमृतं पीतम् । तस्यैवोपदेशमहं भवद्भ्यो ददामि । अस्यैवाऽमृतरसस्य पानं विदधानाः खलु जीवात्मानोऽमरत्वमापन्ना बभूवुः । तच्च जीवनिष्ठममरत्वं सर्वथा निर्माणरूपमिति निर्वाण एवाऽशेष लाभः 'परमाशान्तिः' 'परमा समवाप्ति:' 'परमपदरूपः' 'परमशिव'-कल्याणा वस्थारूपश्चास्तीति मे सुदृढोऽनुभवो विश्वासश्च । अतो निरोधस्यैवाऽपरं नाम निर्वाण इति । अयमेव चास्ति तृतीय आर्यसत्यः-दुःखनिरोधापरपर्यायभूतो निर्वाणरूपः । (४) चतुर्थ आर्यसत्यश्च 'दुःखनिरोधमार्ग' इति । अर्थात् निर्वाणप्राप्ति जनकीभूतो मार्गः । यानि तृष्णादीनि कारणानि दुःखं जनयन्ति तेषां कारणानां विनाशोपाय एव निर्वाणमार्गः कथ्यते । अस्य निर्वाणमार्गस्याऽष्टावङ्गानि सन्ति अतोऽयं निर्वाणमार्गोऽष्टाङ्गिकमार्गोऽपि कथ्यते । तानि चाष्टाङ्गानि निम्नो ल्लिखितानि सन्ति । यथा - १. 'सम्यग् दृष्टिः' इत्यस्ति प्राथमिकमङ्गम् । २. 'सम्यक सङ्कल्पः' इति च द्वितीयं मार्गद्वयमिदं प्रज्ञानाम्ना प्रोच्यते । ३. 'सम्यग् वाक्' इत्यस्ति तृतीयमङ्गम् । ४. 'सम्यक् कर्मान्तम्' चतुर्थमिदम् । ५. 'सम्यक् आजीवः' पञ्चममदः । ६. 'सम्यग् व्यायामः' षष्ठमिदम् । इदञ्च मार्गचतुष्टयं 'शील'-नाम्ना कथ्यते। ७. 'सम्यक् स्मृतिः' इति चास्ति सप्तमम् । ८. 'सम्यक् समाधिः' इति चाष्टमम् । इति च मार्गद्वयं समाधिनाम्ना समुल्लिख्यते । हीनयान-महायानविचारः भगवतो बुद्धस्य गार्हस्थ्यजीवनमापन्नस्य जीवनकाले बौद्धधर्मस्य नासीत् कोऽपि सम्प्रदायः । भगवान् बुद्धः खलु निर्वाणप्राप्त्यनन्तरमन्यदार्शनिकधर्म सम्प्रदायवत् स्वीयधर्मसम्प्रदायमप्यजीजनत् । यश्च बौद्ध सम्प्रदायनाम्नाऽधुना तनकालावच्छेदेन गीयते । भगवान् बुद्धस्तदानीन्तनकालावच्छिन्नान् व्याप्यवृत्तित्वेनाऽवच्छिन्नान् भिक्ष प्रवरान् बौद्धान् सम्बोध्य प्रोवाच हे भिक्षव: ! कालान्तरे इमे सर्वेऽपि धर्म सम्प्रदाया वादविवादविषयजनकीभूता भविष्यन्तीति भवद्भिनं सुनिश्चीयता मिति मे सदृढो विश्वासः । अनन्तरकालावच्छेदेन चेदमेव भगवतो बुद्धस्य वचनं कथनं वा बौद्धविद्वत्सु पारस्परिके वादविवादे जायमानेऽनेकेषां सम्प्रदायानां जायमानत्वेन याथार्थ्य रूपावच्छिन्नतां गतमिति सर्वेऽपि जानन्ति बौद्धधर्म-दर्शनवेत्तारो विद्वांसो जनाः । ते च पारस्परिकविरोधिवृत्तिमापन्नाः सम्प्रदायाः इत्थं श्रूयन्ते । यथा स्थविरवादः । अयञ्चाऽत्यन्तमेवाऽस्ति प्राचीनः सम्प्रदायः । एवमन्येऽपि बहवः सन्ति सम्प्रदायाः समुपलब्धमानाः, उदाहरणार्थं यथा - १. 'सर्वास्तिवादिसम्प्रदायः' । २. 'वात्सीपुत्रीयसम्प्रदायः' । ३. 'महासाङ्घिकसम्प्रदायः' । ४. 'काश्यपीयसम्प्रदायः' । ५. 'हैमावतसम्प्रदायः' । इत्यादिरूपेण नानाविधाः सम्प्रदाया अत्रापि मिलन्तीतिवत् अन्यत्रापि सर्वत्रैव मिलन्तीत्येवंक्रमेण बहवस्ते सन्ति सम्प्रदाया ये चाऽस्माभिः सङ्ख्यातुमेव न पार्यन्ते साधारणमनुजैः । अधुनाऽप्ययं बौद्धधर्मसम्प्रदायोऽहनिशमनिशमविच्छिन्नप्रयासायासभार मुद्वहन् समुन्नतिसमुत्सुकतयैवाऽऽत्मानं लब्धवानित्यत्र नास्ति लेशतोऽपि सन्देहा नध्यवसायावसरः । तत्रापि सङ्क्षपतोऽयं बौद्धधर्मो हीनयान-महायानभेदेन सम्प्रदायद्वये भिन्नतां गत एव समनुभूयते । यथा—जैनधर्मसम्प्रदायोऽपि श्वेताम्बर-दिगम्बरभेदेन भिन्नतां गतः शाब्दबोधविषयी क्रियते । एवमन्यत्रापि सर्वत्र बोध्यम् । एवं बौद्धधर्मप्रमुखसम्प्रदायद्वयभूतयोहीनयानमहायानयोरपि सन्ति खल्व वान्तरभेदा नानाविधाः, येषां दिग्दर्शनं किञ्चिन्मानं मयाऽकारि प्रागेव । तथापि ऐतिहासिकदृष्ट्या एवं धार्मिकदृष्ट्या तथा दार्शनिकदृष्ट्या मुख्यतः प्रागुक्तं हीनयान-महायानेति नामकं सम्प्रदायद्वयमेव चास्ति सर्वथा समीचीनम् । तत्रापि-आचार्यः श्रीअसङ्गो बौद्ध विद्वान् हीनयान-महायानयोरैतिहासिकं तत्त्वञ्च विवेचयन् महायानस्य महदेव वैशिष्ट्यं प्राकाश्यं नीतवान् । तथाहि - १. महायानं खल्वस्ति महदेव विशालक्षेत्रकं यतस्तत्र सर्वेषामेव जीवानां मुक्तिविधाननियमो निहितः । २. महायाने प्राणिमात्रस्य सुरक्षाया सन्देशो समुल्लिखितो वर्तते । ३. बोधिसत्त्वप्राप्तिविधानमेव महायानस्य चास्ति लक्ष्यम् । ४. बोधिसत्त्वमेव चास्ति आदर्शो महायानस्य । यश्च खल्वादर्शः सर्वेषा मेव जीवानां मुक्तिसंविधानरूपं चरम कल्याणं बोधयति । ५. महायानस्येयमस्ति मान्यता यद् बुद्धो हि भगवान् सर्वेषामेव जीवानां कल्याणार्थ प्रकारबहुत्वमाश्रित्य समुपदिशति । ते च बुद्धोपदेशाः सर्वथा सन्ति सर्वथा समानमाना इति । इत्यादिरूपेण सन्ति तदीया बहव उपदेशा इति । पश्यन्तु–'महायानाभिधर्मसङ्गीतिशास्त्रे हीनयान-महायानर्योर्भेदः सझेपतो हीनयानसम्प्रदायस्येदमेवास्ति लक्ष्यम्, यद् व्यक्तिगतं निर्वाणं जायतामितीदं ज्ञानयानं हीनयानम् । अर्थात् लघुयानेन बोध्यमानं यानं हीन यानमित्यर्थः । अत एव हीनयाने व्यक्तिगतं कल्याणं विचार्यते । तत्र खल हीनयाने 'बहुजनहिताय बहुजनसुखाय चेति नात्र शिक्षणं प्रदीयते । अत एव हीनयानमित्यस्य लघुयानमित्यर्थो लभ्यते । परन्तु भगवतो बुद्धस्य नैवंविधा परमसङ्कोचमापन्ना केवलं स्वार्थमयी कल्याणविषयिणी विचारधाराऽऽसीत् । महायाने तु नैवमस्ति शिक्षणम्, तत्र तत्सम्बन्धिकल्याणविषयकज्ञानयानं 'बहुजनहिताय बहुजनसुखाय च' भवतीति तत्र सामूहिकं सामाजिक कल्याण विषयिणी विचारधारां प्रदत्तवान् भगवान् बुद्धः सर्वेभ्यः स्वात्मजनेभ्यः । अत एव महायानं सामूहिकं यानं विस्तृतं यानमिति च गीयते । महायानानुसारं भगवान् बुद्धः सर्वेभ्यः सन्मार्गानुयायिभ्यो भक्तजनेभ्यो भिक्षुकप्रवरेभ्यो जागतिकबन्धनतो विमुक्तये समुपदिदेश । महायानञ्चास्ति भक्तिप्रधानो धर्मः । हीनयाने तदभावोऽनुभूयते। अपि च महायानदर्शनस्य शून्यवाद एव चास्ति प्रमुखः सिद्धान्तः । शून्य तत्त्वाऽवलम्बिनो दार्शनिका माध्यमिकपदजन्यबोधविषयतां गता भवन्ति । यथोक्तम्- 'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' । तच्च शून्यतत्त्वमनिर्वचनीयतायां पर्यवस्यति । अस्यैव शून्यतत्त्वस्य विवर्त भूतं चास्ति प्रभूतं जगत् इति च माध्यमिकास्तन्नयवेत्तारो वा वदन्ति । तच्च शून्यतत्त्वञ्चास्ति सर्वथाऽनिर्वचनीयम् । वेदान्तमतसिद्धाऽनिर्वचनीया ऽज्ञानस्वरूपमायावत् माध्यमिकाऽभिमतं शून्यतत्त्वमपि नहि निवर्तुं शक्ष्यति कश्चिद् विपश्चिदिति तस्याप्य निर्वचनीयत्वं सुस्पष्टमेवेति मन्तव्यम् । योगाचारमतम् विज्ञानवादिन एव खल्वाचार्यवसुबन्धुप्रभृतयो दार्शनिका योगाचारपदा भिधेयतां व्रजन्तीति मे मतिः, यतोऽत्र योगचर्यायश्चिास्ति महत्त्वम् । एतत् सम्प्रदायाऽनुयायिनामनुसारं खलु 'बोधि'-समवाप्तये योगश्चास्ति नितान्त मावश्यकः स्वस्मिन् सम्बुद्धत्वलाभायेति । अस्य सम्प्रदायस्य चास्त्येको महत्त्व पूर्णो ग्रन्थोऽसङ्गस्य 'योगाचारभूमिशास्त्रम्'। अनेनापि शास्त्ररूपेण ग्रन्थेन आचार्यप्रवरः श्रीअसङ्गो बौद्धविद्वान् योग द्वारा परमार्थज्ञानप्राप्तिरेव योगाचारदर्शनस्य मूलभूतं प्रभूतं निगूढञ्चास्ति रहस्यमिति ब्रूते । बोधिसत्त्वभूमेरनुकूला जायमाना योगिचर्यैव खलु योगाचारपदाभिधेयतां गता, आहोस्वित् योगदर्शनपदजन्यबोधविषयीभूता, एवं योगशास्त्रजन्यबोध विषयीभूता वा भवतीति श्रूयते । अस्यैव चास्त्यपरं नामधेयं विज्ञानवादोऽपि । घटपटादिस्वरूपाः सर्वेऽपि पदार्थाः सन्त्यस्यैव विज्ञानस्याऽऽकारविशेषाः । विज्ञानातिरिक्त किमपि नास्त्येव । अयमपि योगाचारः साक्षादद्वैतवादी सन् विवर्तवादं समभ्युपगच्छति । रज्ज्वां प्रतीयमानविवर्तभूतसर्पवत् । यथा वेदान्तिनां नयेऽपि चराचरात्मकं जगदिदं खल्वस्ति ब्रह्मण एव प्रकारविशेषभूतम्, आकारविशेषस्वरूपञ्च । एवं सर्वेऽपि जागतिकाः पदार्था अपि सन्ति तस्यैव ब्रह्मण आकारभूताः । तेषां पदार्थानां जगतश्च नास्ति कापि स्वतन्त्रसत्ता। ब्रह्मसत्तातिरिक्तसत्ताकत्वाभावेन तेषां ब्रह्मसत्तयैव सत्तावत्त्वं प्रतीयते । अत एव वेदान्तमतवत् योगाचारमतेऽपि विज्ञानातिरिक्ताः सर्वेऽपि घट-पटादयः सर्वेऽपि पदार्थाः सन्ति सर्वथा मिथ्याभूताः सत्ताविहीनाश्चेति मन्तव्यं, शुक्तौ रजतवत् । तच्च विज्ञानम् ( ज्ञानम् ) चास्ति क्षणिकम् । क्षणिकत्वञ्च स्वाऽव्यवहि तोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपम् । तच्च ज्ञानं ( विज्ञानम् ) द्विविधम् प्रवृत्तिविज्ञानम्, आलयविज्ञानञ्चेति । तत्र प्रवृत्तिविज्ञानं चाक्षुषविज्ञान श्रावणविज्ञान-घ्राणजविज्ञानप्रभृतिभेदेन सप्तविधम् । तत्राऽऽलयविज्ञानम्-आसमन्ताल्लीयन्ते विज्ञानानि यत्रेति यौगिकव्युत्पत्त्या सर्वाणि विज्ञानानि खल आलयविज्ञाने एव लीयमानानि भवन्ति । तच्चाऽऽलय विज्ञानं सुषुप्त्यवस्थात्मके कालेऽपि सन्तिष्ठमानं सत् प्रलयकालपर्यन्तं सन्तिष्ठमानं भवति । विज्ञानवादिनां दार्शनिकानामिदमप्यस्ति कथनं यत् 'सहोपलम्भ'-नियमा नुसारतो घट-पटादयो वस्तुभूता विषयास्तद्विषयकञ्च ज्ञानम् ( विज्ञानम् ) सहैवोत्पन्नतां लभन्ते । विज्ञानमेव वस्तु सदिति नहि ततोऽतिरिक्तं किमपि सत्तावदित्युक्तं प्रागेव । तत्र प्रमाणमप्याह- विज्ञप्तिमात्रमेवैतद् सदर्थावभासनात् । यथा तैमिरिकस्याऽसत् केशचन्द्रादिदर्शनम् ॥ -विंशतिका, का० १। इदानीं माध्यमिक-योगाचार-प्रभृतीनां चतुर्णामेव बौद्धानां दार्शनिकानां दर्शनसम्बन्धि तात्त्विकं विज्ञानमत्रकस्मिन्नेव श्लोकात्मके पद्ये निहितं प्रदर्श्यते - मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत् । योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः ।। अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः । प्रत्यक्षं क्षणभङ्गुरञ्च सकलं वैभाषिको भाषते ॥ चार्वाकदर्शनम् अस्य चार्वाकदर्शनस्य प्रवक्ता आचार्यो बृहस्पतिरासीदत एवेदं दर्शनं बाह स्पत्यदर्शनम् इत्यपि गीयते। 'लोकायतदर्शनम्' इति चास्ति तदीयं नामा न्तरम् । लोकेषु आयतम् = विस्तृतमित्यर्थः। चार्वाकमते प्रत्यक्षप्रमाणजन्य ज्ञानविषयीभूता ये सन्ति पदार्थास्त एव पारमार्थितां ( सत्यताम् ) गताः सन्तः समनुभूयन्ते । बार्हस्पत्यदर्शनमिदं चार्वाकदर्शनं खलु चास्ति बृहस्पतिप्रणीतसूत्रेष्वनुब द्धम् । तेषां सूत्राणामधुनातनकालावच्छेदेनाऽनुपलब्धिदर्शनात् नामैव केवलं श्रूयते, तदपि श्रवणं सूत्रत्वमात्रेणैव केवलं जायते न तु विशेषतस्तत्तत्सूत्रत्वेने त्यहं 'कुसुमलताशर्मा' सत्यमेव ब्रवीमि । केचिद् दार्शनिकाश्चेत्थं ब्रुवन्ति यदिदं दर्शनं 'चार्वाक'-नामकेन केनचिद् दैत्येन प्रणीतमस्ति न तु देवगुरुणा श्रीबृहस्पतिनापीति । चार्वाकदर्शने पृथिवी, जलम्, तेजो, वायवश्चेति सन्ति चत्वारि द्रव्याणि प्रत्यक्षविषयतां गतानि । एतेषां जडस्वरूपाणां चतुर्णामेव पृथिव्यादिद्रव्याणां परस्परं सम्मेलनेन सम्पाद्यमाने देहेऽस्मिन् चैतन्यमुपजायते। इत्थञ्च चैतन्यस्य शरीरस्यैव धर्मतया चैतन्याश्रयत्वेन शरीरमेवाऽऽत्मेति वदति चार्वाकः । शरीर विनाश एव च मोक्षः, न ज्ञानान्मुक्तिरिति । यथोक्तम् - 'देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते । अत्र चत्वारि भूतानि भूमिवार्यनिलाऽनलः ॥ आहेतदर्शनम् जैनपदजन्यबोधीयविषयतावन्तः खल्विमे आर्हता 'अर्हत्'-पदसम्बोध्यं देवं देवविशेष वा समुपासते । यथोक्तम् - 'अर्हन्नित्यथ जैनशासनरताः ।' जैनधर्मदर्शनजन्मदाता तथा जैनसम्प्रदायप्रवर्तकश्चास्ति कश्चित् अर्हत्पदा भिधेयतां गतो लोकपूजितो जितरागादिः सर्वज्ञः कर्तुमकर्तुमन्यथाकर्तुमतिशय शक्तिसम्पन्नो देवविशेषः, स चास्ति खल्वार्हतनामा देवविशेषः । उक्तञ्च- सर्वज्ञो जितरागादिः सर्वथा लोकपूजितः । यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। अयञ्च पद्यात्मकः श्लोकः सेश्वरवादितां बोधयति सूचयति चाऽऽर्हता नाम् । एतेनैतेषां निरीश्वरवादिता स्वयमेव निराकृता भवतीति विज्ञेयम् । परन्तु वेदानङ्गीकारमात्रेण जैनसम्प्रदायनिष्ठा नास्तिकता तु तथापि सुस्थिराऽक्षुण्णव चास्तीत्यत्र नास्ति लेशतोऽपि विचिकित्सावसरो विवादो वेति । एवं 'नास्तिको वेदनिन्दकः' इति न्यायेन प्राचीनाचार्यचरणोक्त्या वाऽपि वेदनिन्दकबौद्धचार्वाकवदिमे जैनाऽपरनामधेया आर्हता अपि सन्ति तथा विधा एवेति नूनं निश्चीयताम् । इमे च जैनसम्प्रदायानुयायिनो बौद्धानां क्षणभङ्गवादम्, निरीश्वरवादम्, कदापि कथमपि नाऽङ्गीकुर्वन्ति समादरन्ति च, यतस्तयोर्द्वयोरपि वादयोः सर्वथाऽननुभवान् शास्त्रप्रामाण्याच्चेति नाङ्गीक्रियेते तौ वादौ। एवञ्चार्वाकदर्शनानुसारं जैनसम्प्रदाये तद् दर्शने वा सुखदुःखकारणीभूत योर्धर्माऽधर्मयोस्त्यिनङ्गीकारस्तेषां नये तयोरङ्गीकृतत्वादिति नास्ति तयोः कथमपि विरोधः । अन्यच्च जीवानां शरीरानवच्छिन्नानां खलु धर्माऽधर्मरूपाऽदृष्टवशादेव परमाणनां क्रमशो जायमानेन पारस्परिकसंयोगेन द्वयणुक-त्र्यणुकादिक्रमेण स्थूलपृथिवी-जलादीनाञ्च जनिर्जायते तस्मात् कारणात् सृष्टिप्रयोजकीभूतौ तौ धर्माऽधर्मावश्यमेवाऽङ्गीकायौं, यतस्तावत् प्राणिनामदृष्टमन्तरा सृष्टेरप्यनुपपत्ते र्जायमानत्वेन साऽनुपपन्ना सती धर्माऽधर्मयोरस्तित्वं साधयति बोधयति चेति धर्माऽधर्मयोरङ्गीकारो नितान्तमावश्यक इति जैनशासनरता जैनदार्शनिका वदन्ति । तात्त्विकदृष्ट्या विचार्यमाणे जैनसम्प्रदायदिशा मूलपरमाणुस्वरूपा सर्वथा वैजात्यमापन्नेयं जडत्वेनाऽचेतनात्मिका खलु जैनमतसिद्धा सृष्टिर्नैयायिक वैशेषिकमतवच्चास्ति प्रवाहरूपेणाऽनादिभूतेति विज्ञेयम् । नानाविधानि सुकृतदुष्कृतानि कर्माणि विधानपरस्य जीवस्य स्वीयकर्म सम्बन्धेन चराचरात्मकस्य दृश्याऽदृश्यरूपस्याऽस्य जगतः समुत्पत्तिर्जायते । ततश्च तादृशसम्बन्धसम्पत्त्यनन्तरं देहिनां स्वस्वकर्मवशादेव संस्कारोत्पत्तिर्जायते । पुनश्च संस्कारोत्पत्त्यनन्तरकालावच्छेदेनैव स संस्कारः पौनःपुन्येन प्राणिनां जननं मरणं जननीजठरे शयनञ्च तज्जन्यं सुख-दुःखादिकञ्च प्रापयति भोग्यत्वेन सम्पादयति चेति पुनर्देहिनां जन्मापि खलु तादृशसंस्कारवशादेव जायतेऽतो नहि तत्र किमपि संस्कारातिरिक्तं हेत्वन्तरमपेक्षमाणं भवतीति जैना वदन्ति । जैना द्विविधाः श्वेताम्बर-दिगम्बरभेदेन द्विविधभेदावच्छिन्नेषु खल्वार्हतेषु श्वेताम्बरा जैना इत्थं प्रोट्टङ्कयन्ति यत् दिगम्बरमतस्य शिवभूतिभूषितः प्रादुर्भावः ८२ ईसवीये वर्षे सुसम्पन्नोऽभूदिति कर्णाणिकया परम्परातो यथार्थज्ञानविषयीक्रियते । तथैव दिगम्बरा अपि जैनाः श्वेताम्बरस्य तन्मतस्य च भद्रबाहुकृतं प्रादुर्भावम् ई० ७९ वर्षे वर्णयन्ति प्रस्फोरयन्ति च । भारतेऽपि जैनानां स्थान द्वयमस्ति, दक्षिभारतमेकम्, उत्तरभारतं द्वितीयम् । तत्रोत्तरभारते श्वेताम्बराणा ञ्चास्ति मुख्य स्थानम् । दक्षिणभारते च खल मुख्यतो दिगम्बरा निवसन्तीत्यपि कर्णाकणिकया परम्परातः समनुभूयते इति कृतं विस्तरेण । सांख्यदर्शनम् महामुनि-श्रीकपिलप्रणीतं सांख्यदर्शनमिदं सकलन्याय-मीमांसाप्रभृतिदर्शने भ्यश्चास्त्यतीव प्राचीनमिति च कर्णाकणिकया परम्परातः श्रूयते । त्रिगुणा त्मिकया जगत्कारणीभूतया प्रकृत्या विरचितत्वादस्य जगतोऽपि त्रैगुण्यं सिद्धयतीति व्यावहारिकञ्चास्ति सांख्यदर्शनमिदमिति नूनं विभावनीयमिति ध्येयम् । व्यवहारेऽप्यस्माभिस्त्रैगुण्यमनुभूयते सांख्यदर्शनमपि तथैवाऽनुभावयति, यतस्तत्कारणीभूतायाः प्रकृतेरपि त्रिगुणात्मकत्वात् । प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्थेति च निगद्यते । सैव च पुनः सत्त्व रजस्तमसां वैषम्यावस्थामापन्ना सती चराचरात्मकं जगदिदं समुत्पादयतीति जगत्कारणीभूता भवतीति भावः । न्याय-वैशेषिकमतवदत्रापि सांख्यदर्शने चेतनस्य जीवात्मस्थानीयस्य पुरुष स्य बहुत्वं नानात्वञ्च कल्प्यते, इति सा कल्पना महत्येव समीचीना, तस्याः सत्तर्कयुक्तत्वात् । अन्यथा एकस्मिन् पुरुषे स्वीक्रियमाणे तस्मिन्नेव विचित्ते सर्वे एव विचित्ताः स्युः, यतस्तस्यैव सर्वशरीरेषु विद्यमानत्वात् । एवमेकस्मिन् वैदुष्यमापन्ने विदुषि सञ्जायमाने सर्वे एव खलु विद्वांसः स्युः । एवम्भूतोपर्युक्ताऽऽपत्तिरूपदोषबाहुल्यानुभवादात्मनः पुरुषस्यैकत्वं नैव कदापि स्वीकर्तुं शक्यते, इत्यतः पारिशेष्यात्तस्य बहुत्वमेव कल्प्यताम् । तथोक्तम् - 'पुरुषबहुत्वं सिद्धम्' इदञ्च सांख्यदर्शनं सेश्वरदर्शन-निरीश्वरदर्शनभेदेन भिन्नं सद् द्विविधं परिगण्यते । अस्मिन् महामुनिकपिलप्रणीते सांख्यदर्शने चेश्वरानङ्गीकारात्तस्य सूत्रे कारिकायां वा नामापि न श्रूयते इतीमे कपिलमतानुयायिनः सांख्याः सन्ति निरीश्वरवादिन इति । केवलमेकमात्रं जीवस्थानीयमेकमेव चेतनतत्त्वमभ्युपगम्यते यच्चास्ति पुरुष पदाभिधेयतां गतमिति । तदपि तत्त्वं प्रकृतेश्चैतन्याभिमानान्यथानुपपत्त्या कल्प्यते । न्यायदर्शनम् नीयते=प्राप्यते, अयनम् = मोक्षो, येनासौ न्यायः । अथवा नीयते = अधिगम्यते विवक्षितार्थसिद्धिरनेनाऽसौ न्यायः । तस्य न्यायस्य यद् दर्शनमनु भवस्तदेव न्यायदर्शनम् = न्यायशास्त्रमित्यर्थः, आन्वीक्षिकीति यावत् । न्याय शास्त्रस्य महत्त्वन्तु सर्वशास्त्रोपकारकत्वेन सर्वत्रैव प्रसिद्ध मस्तीति सर्वेऽपि विद्वांसो विदाङकुर्वन्ति समनुभवन्ति च । तथा चोक्तम् - 'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥' अपि च- 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्'। अन्यच्चापि - 'तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव ! मथ्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी पराम् ।' अस्य न्यायशास्त्रस्य जन्मदातृत्वेन श्रीमहर्षि-गोतम एव चास्त्यादिप्रवर्तकः । अयञ्च महर्षिस्त्रेताकालीनः सन् प्रजापतेः श्रीमहर्षेरङ्गिरसः प्रपौत्रो दीर्घतमसः पुत्रो महान् तपस्वी, तेजस्वी चासीदादिन्यायशास्त्रप्रणेता मनस्वी मनीषी । अस्य महर्षि-गोतमस्य धर्मपत्नी चासीत् परमां ख्याति प्राप्ता काञ्चनाभा चन्द्रोज्ज्वला प्रवालोपमकान्तिकान्ता 'अहल्या'-नाम्नी, स्वयं गोतमेनाऽभिशा पिता स्ववृत्तिशिलात्वधर्म समलञ्चकार । तदनन्तरकालावच्छेदेन साक्षात् सच्चिदानन्दस्वरूपलक्षणलक्षितस्याऽऽनन्द कन्दस्याऽयोध्याचन्द्रस्य कौशल्यानन्दवर्धनस्य भगवतो रामचन्द्रस्य चरणारविन्द स्य संस्पर्शमात्रेण विधूतपापा सा सर्वथाऽभिशापनिवृत्ता जाता। दिव्यं भव्यञ्च शरीरं पुनर्दधौ । ततश्च महर्षेोतमस्य सद्भावनाऽभूत् । सद्भावनाभावितान्तः करणे च पूर्वकालतोऽपि विशेषतः सम्मानमजायत । अस्य महर्षे!तमस्य साक्षात् 'शतानन्द'-नामा पुत्रः श्रीमिथिलेश्वरस्य पुरोहितोऽप्यासीदिति श्रूयते । तदत्र युक्ताऽयुक्तत्वे स्वयमेव विचार्यताम् । अयञ्च महर्षि-गोतमोऽष्टादशपुराणानां ब्रह्मसूत्राणाञ्च रचयितुः श्रीव्यासस्य समकालीन आसीत् । श्रीगोतमस्यापरं नाम अक्षपादोऽप्यासीत् । अस्य महर्षे रक्षपादत्वे श्रीव्यास एवाऽऽसीत् कारणम् । अस्य श्रीगोतमस्य 'अक्षपादे'ति नामविधाने चास्तीयं महती किंवदन्ती यत् श्रीगोतमो महर्षिः शास्त्रीयपदार्थचिन्तासन्तानपरो भूत्वा 'पतितः पतितः पुनरुत्पतसि' इति न्यायेन श्रीगोतमस्य पतनजन्यशारीरिकाऽऽघातव्याघातादिना सर्वोऽपि देहः सजीवनं महदेव गम्भीरं प्रतिदिनं समवर्तत । अनन्तरमेकदा महर्षिः पदार्थीयचिन्तासन्तानेन मार्गभ्रष्टो मार्ग विस्मृतो वा सन्नकस्मादेव कूपे पपात । ततश्च कूपान्तः पतितं तं गोतमं विज्ञाय कश्चिद् देवविशेषः स्वयं तं निष्कास्य स्वीयशक्त्यतिशयबलेन महर्षेः पादयोरक्षिप्रदानं कृतवान् येनास्य नयनत्रितयं जातम् । अपरे विद्वांसो महर्षि-गोतमविषये एवं प्रस्फोरयन्ति यद् गोतमो अक्ष पादश्च द्वित्वसंख्यावत्त्वेन पृथक्-पृथगेव समनुभूयेते । तत्र गोतम आन्वीक्षिक्या जन्मदातृत्वेन प्रवर्तक आसीत् । न्यायसूत्राणाञ्च प्रणेता श्रीअक्षपादश्वासीत् । परन्त्विदं सर्वं 'मुखमस्तीति वक्तव्यं दशहस्ता हरीतिकी ति न्यायेन कपोल कल्पितत्वेन मिथ्याभूतम् । यतो न्यायसूत्राऽऽन्वीक्षिक्योश्च परस्परमभिन्नत्वात् । न्यायशास्त्रस्य महत्त्वम् न्यायशास्त्रेतराणि यानि व्याकरण-वेदान्त-प्रभृतीनि शास्त्राणि तानि सर्वाण्येव शास्त्राणि सन्ति न्यायशास्त्रं समपेक्षमाणानीति तानि सर्वथोपकार कत्वेन न्यायशास्त्रमपेक्षन्ते इति । यथोक्तम् - 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्'। -श्रुतमात्रम् । 'मानाधीना मेयसिद्धिः' एवम् 'लक्षणप्रमाणाभ्यां वस्तुविनिर्णयः' इत्यने नापि प्रमाणभूतेन वाक्यद्वयेन न्यायशास्त्रस्य महदेव महत्त्वं समृद्गीयमानं भवति । अत्र वाक्यद्वयघटकीभूतयोश्च मान-प्रमाण-पदयोरैक्येन अर्थात् एकार्थ कत्वेन, समानार्थकत्वेनेत्यर्थः, न्यायशास्त्ररूपत्वम् । अत एव न्यायशास्त्रमेव प्रमाणशास्त्रं मन्यते लोकः । अपि च— 'आषं धर्मोपदेशञ्च वेदशास्त्राऽविरोधिना। यस्तर्केणाऽनुसन्धत्ते स धर्म वेद नेतरः' ॥ -श्रुतमात्रमेव । न्यायस्य विकासक्रमः न्यायशास्त्रविकाससम्बन्धिधाराद्वयमेव प्रधानतः समनुभूयते । यस्मिन् धाराद्वये सर्वप्रथमधाराया जन्मदाताऽस्ति श्रीगोतमः । इदमेव च न्याय शास्त्रं न्यायदर्शनशब्देनाप्यभिधीयते । न्यायश्च प्रमाणैरर्थपरीक्षणरूपः । उक्तञ्च– 'प्रमाणैरर्थपरीक्षणम्-न्यायः' । एतेनेदमेवाऽऽयाति यत्- समस्त प्रमाणव्यापारादर्थाऽधिगतिायः, न्या० वा० १ ( पृ० १४ ) 'प्रमाणप्रमेयसंशयप्रयोजने'त्यारभ्य 'हेत्वाभासाश्च यथोक्ताः' इत्येतत् पर्यन्तं तदिदं पञ्चाऽध्यायात्मकं न्यायशास्त्रम् । तत्र प्रत्यध्यायमान्हिकद्वयमस्ति । नीयते = प्राप्यतेऽयनं = मोक्षो, येनासौ न्यायः । अथवा नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्यायः । न्यायस्य दर्शनं 'न्यायदर्शनम्' न्यायशास्त्र मित्यर्थः । इदमेव न्यायशास्त्रम् आन्वीक्षिकीविद्याशब्देनापि प्रोच्यते । इत्थञ्च वेदार्थाविरोधितौंपयिकवैदिकतत्त्वसंरक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्व रूपमेवास्ति न्यायशास्त्रत्वमिति तु निष्कृष्टार्थः । अस्य महत्त्वम् - 'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥' अपि च- 'आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्त?णानुसन्धत्ते स धर्म वेद नेतरः ।।' एवं तुरीयपुरुषार्थमोक्षप्रकरणेऽपीत्थमुक्तवन्तः - 'तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव ! । मथ्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी पराम्' । अपि च वात्स्यायनो ब्रूते-'प्रत्यक्षागमाश्रितमनुमानमन्वीक्षा, प्रत्यक्षा गमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या, न्यायशास्त्रम् । यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स'। न्यायस्तु प्रारदर्शितव्युत्पत्तिदिशा बन्धननिवृत्तिरूपः सिद्धयति । एवं स्थिते न्यायविषये इदं प्राचीनाचार्यकथनमपि साधु सङ्गच्छते । तथाहि- 'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानन्तु गच्छन्तं सोदरोऽपि विमुञ्चति' । वैशेषिकदर्शनम् श्रीजन्मदातृत्वेन कणादेन पित्रा लालितं पालितं पुत्रवच्च परिवधितं वैशेषिकं दर्शनमिदं सर्वेभ्यो दर्शनेभ्योऽतीव श्रेष्ठं सर्वथा प्रशस्तं प्राचीनतमञ्चेति गीयते । अत एव-'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् । इत्यपि कथनं साधु सङ्गच्छते। अत्र वयं ब्रूमः-शास्त्रं द्विविधम्-१. पदशास्त्रम्, २. पदार्थशास्त्रञ्च । तत्र पदशास्त्रं व्याकरणशास्त्रम्, पदार्थशास्त्रं काणादशास्त्रम् ( वैशेषिकं शास्त्रम्, न्यायशास्त्रम् ) । यद्यपि व्याकरण-वेदान्त-प्रभृतीनामन्येषामपि शास्त्राणां विद्यमानत्वेन शास्त्रत्वकथनं साधु सङ्गच्छते । तथापि-अनयोर्द्वयोः शास्त्रयोः समक्षं नास्ति कस्यापीतरशास्त्रस्य वैशिष्ट्यं महत्त्वं वा प्रभुत्वं वा यन्न्यायशास्त्रातिरिक्त शास्त्राणां मीमांसाप्रभृतीनां समुपकारकत्वेनोपकारं कुर्यात् अस्य वैशेषिक दर्शनस्य पदार्थशास्त्रत्वेन सप्तैव पदार्थाः । तथाहि - 'द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥' -भाषापरिच्छेदः, १ । इदमेव काणाददर्शनम् ( वैशेषिकदर्शनम् ) औलूक्यदर्शनमप्युच्यते । अस्मिन् कणाददर्शनापरपर्यायभूते प्रभूते-औलुक्यदर्शने 'विशेष'-पदार्थस्यैकस्य नूतन पदार्थाऽङ्गीकारेण 'विशेषस्तु विशेषवान्' इति न्यायेन चाऽन्यदर्शनेभ्यो दर्शन मिदं सुतरां भिद्यते वैशिष्ट्यमापद्यते वेति । प्रमाणानां विचारचर्चाऽवसरे तत्र प्रमाणद्वयमेव मान्यं भवति । यतः 'सर्वप्रमाणसिद्धत्वात्' अर्थात् सर्वेषां प्रत्यक्षाऽनुमानप्रमाणातिरिक्तानां प्रमाणा नाम्, अत्रैव द्वयोरेव प्रत्यक्षानुमानप्रमाणयोरेवाऽन्तर्भावात् । तथा चोक्तम् - 'शब्दोपमानयो व पृथक् प्रामाण्य मिष्यते । अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥ -भाषापरिच्छेदः । मीमांसादर्शनम् मीमांसादर्शनमिदं पूर्वमीमांसा-उत्तरमीमांसाभेदेन भिन्नं सद् द्वैविध्य मापन्नमस्ति । तत्र वेदस्य पूर्वभागे योऽस्ति विषयो विचारितस्तादृशविषय विषयको विचार एव 'पूर्वमीमांसा'-शब्देनाऽभिधीयते । स च विचारः 'कर्म' विषयको विचारः । यथोक्तम् - 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। इत्थञ्चैतत्कर्मविषयकं विचारं विचारितवान् मुनि मिनिः पूर्वभागरूपे वेदैकदेशे। अपि चैतत्कर्मविषयकविचारात्मिकां मीमांसामाश्रित्य भगवान् श्रीकृष्णोऽपि साक्षादेव ब्रूते - 'शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्' । अर्थात् सर्वविधकामनाशून्यः सन् यत् चित्तात्मा त्यक्तसर्वपरिग्रहो यति र्योगी वा केवलं भोजनं शयनादिरूपं शारीरं कर्म कुर्वन् जीवननिर्वाहार्थं, किमपि किल्बिषं नैव प्राप्नोति । अपि च - 'कृतस्य कार्यस्य चेह स्फाति समावह' । अर्थात् कृतस्य = शारीरिकस्थित्यथं कृतस्येत्यर्थः । कार्यस्य = नित्य नैमित्तिककर्मणः । इह = अस्मिन् चराचरात्मके जगति । स्फातिम् = वृद्धिम् । समावह = सम्यक प्रकारेण कुरु । अनेनापि = अथर्ववेदपठितेनापि मन्त्रेण शास्त्रोक्तनित्यनैमित्तिककर्मविधानमेव श्रेयस्करमित्युक्तवान् अथर्ववेद इत्येव प्रमीयते। अतः पूर्वमीमांसादर्शनस्य कृते जन्मदातृजैमिनिनये कर्मणा एवाऽभ्युदय निःश्रेयसयोः समवाप्तिजनकत्वेन तस्यैव कर्मणः प्राधान्येन निरूपणीयत्वात् इति । उत्तरमीमांसादर्शनम् उत्तरमीमांसादर्शनं नाम वेदान्तदर्शनम् । वेदस्यान्ते अर्थात् वेदस्योत्तर भागे ज्ञानस्यैव निरूपणीयत्वेन वेदान्तशब्दार्थो ज्ञाने पर्यवस्यतीति भावः । वेदान्तो नाम उपनिषत्प्रमाणम् । उपनिषदश्च ब्रह्मविद्यारूपत्वं विज्ञेयम् । इत्थञ्च 'वेदान्त'-शब्दस्य ब्रह्मविद्यारूपेऽर्थे ब्रह्मरूपेऽर्थे वा पर्यवसानं भवतीति बोध्यम् । अपि च अद्वैतवादस्य चर्चा भारतीयदर्शनस्य चास्ति प्राणः । भारतीय साहित्ये शङ्कराद्वैतवादतः पूर्वमपि खल्वस्याऽद्वैतवादसिद्धान्तस्य वर्णनं निरूपणं वा सर्वथा यत्र-तत्रोपनिषदादिषु सर्वत्रोपलभ्यमानत्वेन प्रामाणिक प्रमारूप ञ्चेति बोध्यम् । उपनिषत्सु तु सैद्धान्तिकरूपेणाऽयमेवाऽद्वैतवादसिद्धान्तः सुस्पष्टतयाऽभि व्यक्तिमापन्नो मिलति । तात्त्विकदृष्ट्या विचार्यमाणे यथा स्वाप्निकसृष्टेश्चर्म चक्षुषः समुन्मीलनानन्तरमविलम्बेनैव ( अव्यवहितोत्तरक्षणावच्छेदेनैव ) बाधो जायते । तथैव ततः किञ्चिदधिककालस्थायिन्या व्यावहारिकसृष्टेर्ज्ञानचक्षुःस्वरूपया ज्ञानदृष्ट्या बाधः । यथोक्तम् - 'कृत्वा ज्ञानमयी दृष्टि पश्येद् ब्रह्ममयं जगत्' । अपि च - 'भेददृष्टिमविद्येयं तां सदा परिवर्जयेत्' । अन्यच्चापि- "अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' । 'शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा'। - तत्रैव । 'इत्याद्युपनिषदोऽपि तदेवाऽद्वैतं ब्रह्म प्रमाणयन्ति । श्रीव्यासकथितस्य श्रीशङ्कराचार्यद्वारा वृद्धि प्रापितस्य चाऽद्वैतवेदान्तस्य सम्यक्त्वेन तज्ज्ञानशीलानाञ्च विदुषां वेदान्तशास्त्रमर्मज्ञानामप्यस्त्ययमेव सिद्धान्तः । यथा-अधिष्ठानाऽज्ञानवशात् रज्जौ सर्पत्वप्रकारकः 'अयं सर्पः' इति भ्रमो जायते । रज्जुस्वरूपाऽधिष्ठानसाक्षात्काराच्च स भ्रमो निवर्तते । तथैव कर्मणा समुन्नति गतमज्ञानमधिष्ठानस्वरूपब्रह्मात्मज्ञानेन ( ब्रह्म साक्षात्कारेण = आत्मसाक्षात्कारेण ) नश्यति तदनन्तरञ्चाऽऽत्मा याथार्थ्येन ज्ञायते । यथा-भगवद्भास्करोदयेऽन्धकारमात्रं सर्वथा नश्यति, एवमेव ब्रह्मात्म स्वरूपज्ञानोदये (प्रकाशोदये ) जायमाने वाऽज्ञानं समूलं नाशं गच्छति । अज्ञाननाशे सति सर्वं जगद् ब्रह्ममयं सदेवाऽनुभवगोचरीभूतं भवति । यथोक्तम्- 'यथा रज्जु परित्यज्य सर्प गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत् पश्यति मूढधीः । रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते' । ननु तथापि पुनरज्ञानकार्याणि सर्वाण्येव शरीरेन्द्रियप्रभृतीनि सन्तिष्ठ मानान्येव समनुभूयन्ते । अत्र दृष्टान्तत्रयं समुपस्थाप्यन्ते, सर्वतः प्राक् कुमारी औषधिरेको दृष्टान्तः–यथा कुमारी स्वकारणभूतमूलकारणनाशानन्तरमपि तिष्ठत्येव, यथा वा धूमोऽपि स्वकारणीभूताग्निनाशानन्तरमपि तिष्ठत्येव, एव मिषुनिष्ठोऽपि वेगाख्यः संस्कारः स्वकारणीभूताऽऽकर्षणसंयुक्तज्या इषुसंयोग नाशानन्तरमपि इषुनिष्ठो वेगाख्यः संस्कारः खलु सन्तिष्ठमान एवाऽनुभूयते । तथैव दाष्टान्तिकेऽपि शरीरेन्द्रियप्रभृतिकारणीभूताऽज्ञाननाशेऽपि शरीरे न्द्रियादीनि पुनरपि सन्तिष्ठमानानि समनुभूयन्ते । तेषां शरीरेन्द्रियादीनां विनाशः कदा भवतीति चेत् ? शरीरेन्द्रियविनाशार्थं नास्ति कश्चन नियमः । अस्ति चेत् नियमस्हि अयमेवाऽस्ति नियमः-यद् यदा प्रारब्धं कर्म नश्यति, तदैव शरीरेन्द्रियादीनां विनाशोऽपि जायते, नान्यः पन्था विद्यते तेषां विनाशस्य । अज्ञानस्वरूपम् 'अज्ञानन्तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति' । प्रश्नः - स्वस्वरूपाऽज्ञानमेव वस्तुतश्चास्त्यज्ञानमिति । तत्रापि नहि केऽपि स्वस्वरूपं जानन्ति, इति चेत् न जानन्तु ते ? परन्तु ये स्वस्वरूपं विदाङकुर्वन्ति विदाङ्कर्तुं वा पारयन्ति ते स्वस्वरूपं कीदृशं जानन्तीत्युच्यताम् । उत्तरम् - अहं ब्राह्मणः, अहं क्षत्रियः, अहं वैश्यः, अहं शूद्रत्वजात्य. वच्छिन्नः, एवम् अहं पुरुषः, अहं स्त्रीत्वजात्यवच्छिन्नः, इत्यादिरूपेणैव स्वस्व रूपं जानन्ति नान्यथा । परन्तु एवंविधं ज्ञानमप्यज्ञानमेव । एवं स्थिते नहि केऽपि स्वस्वरूपं विदाङकुर्वन्तीति स्वस्वरूपाऽज्ञानमेव चास्त्यज्ञानम् । ननु मानवः स्वीयं रूपं मानवत्वेन मनुष्यत्वेन वा जानाति न तु पशुत्वेन जानाति 'अहं पशु'रिति । एवं स्त्री स्त्रीत्वेन जानाति कथं पुनरुच्यते नहि केपिं जानन्ति इति ? तन्न साम्प्रतम्-मनुष्यत्वेन, ब्राह्मणत्वादिरूपेण वा स्वरूपज्ञानस्वीकारो मनुष्यः सर्वदा सर्वथा च त्रिषु कालेषु मनुष्य एव यदि भवेत्तदा प्रागुक्तरूपेणा ऽभिधातुं शक्यते, परन्तु नैवमस्ति-इत्यतः स्वस्वरूपाऽज्ञानमेवाङ्गीकार्यमित्येव समीचीनः पन्था। अत्राशङ्कते यत् शास्त्रज्ञा विद्वांस आत्मस्वरूपमीदृशमिति प्रौढविचारकास्ते कथन्न जानन्तीत्युच्यतामिति चेत्, तन्न युक्तम्-शास्त्रज्ञोऽपि चार्वाकः स्थूल शरीरमनात्मरूपमेव आत्मेति विदाङ्कुर्वन् सन्नपि स चार्वाक आत्मनस्स्वरूपं नैव जानातीति वक्तव्यम् । एवमन्येषां प्राणस्याऽऽत्मत्वेन समुपासकानाम्, इन्द्रियो पासकानाम्, तथा मनस्समुपासकानां शास्त्रज्ञानां विदुषाम्-स्वस्वरूपात्मक स्याऽऽत्मनो ज्ञानं नास्त्येव । यतस्ते चार्वाकाः प्राणत्वादिनाऽनात्मरूपेणाऽऽत्मानं जानन्ति, न तु वास्तविकेनाऽऽत्मत्वेनाऽऽत्मानं जानन्ति । एवमन्ये बौद्धा माध्यमिकप्रभृतयः शून्यतत्त्वमेव आत्मेति वदन्तः शास्त्रज्ञा अपि ते नैवाऽऽत्मनस्स्वरूपं विदाङकुर्वन्ति । यत अहमर्थस्याऽऽत्मन आत्मत्वेन भानात्तस्य कथमनिर्वचनीयत्वं स्यात् । विस्तारः दृश् धातुना भावार्थे करणार्थे वा ल्युट्(अन)-प्रत्ययेन दर्शनशब्दः व्युत्पद्यते । भावार्थे अस्य अर्थः अवलोकनक्रिया भवति, करणार्थे अवलोकनक्रियायाः साधनम् । उभयार्थे अस्य शब्दस्य सार्थकत्वं वर्तते । शास्त्रशब्दस्य अपि शंसनक्रियायाः (छेदनम्, अनुशासनम्, अतिरिक्तव्यावर्तनम्) साधकम् इति व्युत्पन्नः अर्थः । अनयोः शब्दयोः दर्शनमेव शास्त्रमिति अर्थे कर्मधारयः समासः भवति । दर्शनस्य विचारणीयतत्त्व-प्राधान्य-भेदात् सम्प्रदायभेदः भवति । प्रत्येकं दर्शनस्य अध्ययनं त्रिभिः दृष्टिभिः कर्तुं शक्यते - तत्त्वमीमांसा - तत्त्वानां, जगतः, सृष्टेः च उत्पत्तिः स्थितिः व्यवहारः लयश्च विमृश्यते । ज्ञानमीमांसा - ज्ञानस्य स्वरूपं, साधनं, प्रामाण्यं प्रक्रिया च अस्यां विमृश्यते । आचारमीमांसा - ईश्वरमतं, सुखदुःखे, मोक्षस्य स्वरूपं साधनं च, नीतिशिक्षा (क्वचित्) च अनया दृष्ट्या विमृश्यते । भारतीयेषु दर्शनेषु अधोलिखितानां दर्शनानां प्राधान्यम् अस्ति । अन्येऽपि अनेकानि दर्शनानि सन्ति । चार्वाक, बौद्ध, जैन, न्याय, सांख्य, योग, वैशेषिक, पूर्व-मीमांसा, उत्तर-मीमांसा/वेदान्त, व्याकरणदर्शनम् चार्वाकदर्शनम् - एतत् प्रायः सर्वप्राचीनं दर्शनम् अस्ति । अस्य प्रणेता बृहस्पतिः अस्ति । तस्य ग्रन्थः बृहस्पतिसूत्रम् उल्लिख्यते श्रूयते च परं अद्य यावत् अस्य ग्रन्थस्य एका अपि प्रतिकृतिः न प्राप्ता । अस्य कश्चित् अर्थशास्त्रमपि अनुमीयते । यतः कौटिलीये अर्थशास्त्रे बृहस्पतेर्यानि मतानि उद्धृतानि तानि चार्वाकदर्शनस्य मतेन साम्यं धारयन्ति । प्राधान्येन वेदसम्बन्धि मतम् । मतसाम्येनैव उभयः बृहस्पती एकमनुमीयेते । अस्य दर्शनस्य तत्त्वोपप्लवसिन्धु-नामकः एकः अर्वाचीनः ग्रन्थः प्राप्यते । बौद्धदर्शनम् - अस्य दर्शनस्य प्रणेता नागार्जुनः अस्ति । जैनदर्शनम् - न्यायदर्शनम् - अस्य दर्शनस्य प्रणेता गौतमः अस्ति । तस्य न्यायसूत्रम् अस्य प्रवर्तकः ग्रन्थः अस्ति । अस्योपरि वात्स्यायनः न्यायभाष्यम् अलिखत् । भाष्यस्योपरि उद्योतकरः न्यायवार्त्तिकम् अरचयत् । वार्त्तिकस्य मतं पूरयितुं वाचस्पतिमिश्रः अस्योपरि न्यायवार्त्तिकतात्पर्यटीकाम् अरचयत् । तात्पर्यटीकायाः मतेषु कृतानामाक्षेपाणां खण्डनं कर्तुं तस्योपरि उदयनाचार्यः न्यायवार्त्तिकतात्पर्यटीकापरिशुद्धिम् अरचयत् । एतद्दर्शनं प्रमाणशास्त्रमपि कथ्यते । गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिग्रन्थेन न्यायस्य अन्यस्य स्वरूपस्य प्रारम्भः भवति यत् नव्यन्याय इति नाम्ना प्रसिद्धम् । वैशेषिकदर्शनम् - अस्य दर्शनस्य प्रणेता कणादमुनिः अस्ति । तेन वैशेषिकसूत्रं रचितम् । अस्य तत्त्वमीमांसायां विशेष इति पदार्थस्य प्रतिपादनेन अस्य दर्शनस्य नाम वैशेशिकम् अभवत् । अस्य अन्यानि नामानि काणाददर्शनम् औलूक्यदर्शनम् इत्यादीनि सन्ति । साङ्ख्यदर्शनम् - अस्य दर्शनस्य प्रणेता कपिलमुनिः अस्ति । तस्य साङ्ख्यसूत्रम् इति ग्रन्थः प्रसिद्धः । परमस्य दर्शनस्य प्रधानः ग्रन्थः ईश्वरकृष्णविरचिता साङ्ख्यकारिका अस्ति । यत् साङ्ख्यसूत्रं प्राप्यते, तस्य प्रवर्तककपिलप्रणेतृत्वं सन्दिग्धमस्ति । योगदर्शनम् - अस्य दर्शनस्य प्रणेता पतञ्जलिमुनिः अस्ति । तस्य योगसूत्रं चतुर्षु पादेषु विभक्तः । मीमांसादर्शनम् - इदं दर्शनं पूर्वमीमांसा इति नाम्नाऽपि प्रसिद्धम् । अस्य प्रणेता जैमिनिना मीमांसासूत्रं रचयित्वा अस्य प्रवर्तनम् कृतम् । अस्योपरि शबरस्वामिना भाष्यं लिखितम् । भाष्यस्योपरि कुमारिलभट्टस्य प्रभाकरमिश्रस्य च मतभेदेन अस्य द्वौ सम्प्रदायौ जातौ - भाट्टमीमांसा प्राभाकरमीमांसा च । कुमारिलभट्टस्य प्रधानाः ग्रन्थाः सन्ति - श्लोकवार्त्तिकम्, तन्त्रवार्त्तिकम् , टुप्टीका च । प्रभाकरस्य प्रमुखौ ग्रन्थौ स्तः बृहती, लघ्वी च । वेदान्तदर्शनम् - इदं दर्शनम् उत्तरमीमांसा इति नाम्नाऽपि प्रसिद्धम् अस्ति । बादरायणः व्यासः अस्य प्रणेता । तेन ब्रह्मसूत्रम् रचितम् । इदं सूत्रं वेदान्तसूत्रम्, शारीरकसूत्रम् अपि कथ्यते । एतद्दर्शनं उपनिषदं प्रमाणं कृत्वा तस्य मतमनुसरति । वेदान्तदर्शनस्य कालान्तरे अनेके सम्प्रदायाः जाताः तेषां केचित् प्रसिद्धाः सम्प्रदायाः तेषां प्रमुखा आचार्याः च सन्ति - अद्वैतवेदान्तः (शङ्कराचार्यः/शङ्करः), द्वैतवेदान्तः (मध्वाचार्यः), द्वैताद्वैतः, विशिष्टाद्वैतः, शुद्धाद्वैतः आदयः । व्याकरणदर्शनम् - एतद्दर्शनम् पाणिनीयदर्शन नाम्ना माधवाचार्येण सर्वदर्शनसङ्ग्रहनामके ग्रन्थे उल्लिखितम् । अस्य दर्शनस्य प्रारम्भः पतञ्जलिमुनेः महाभाष्यग्रन्थात् स्वीक्रियते । अस्य दार्शनिकं रूपं भर्तृहरिणा वाक्यपदीयग्रन्थे विस्तारितम् । शब्दब्रह्म, स्फोट आदयः अस्य दर्शनस्य प्रमुखाः सिद्धान्ताः सन्ति । तत्वज्ञानम् संचित्रसारमञ्जूषे योजनीये दर्शनशास्त्रम्
4727
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D
सुबन्तम्
सुबन्तं (Noun) नाम नामपदम् । संस्कृतव्याकरणाध्ययने सुबन्तानां बहु प्रमुखं स्थानमस्ति । सुबन्तानां मूलरूपं तु प्रातिपदिकम् इत्युच्यते । सामान्यतः सुबन्तानां लिङ्गत्रये निर्देशः भवति - पुल्लिङ्गं-स्त्रीलिङ्गं- नपुंसकलिङ्गमिति । एक-द्वि-बहुवचनेषु त्रिषु वचनेषु सुबन्ताः रूपाणि प्राप्नुवन्ति । सप्तविभक्तीनां योजनेन आहत्य प्रातिपदिकस्यैकस्य २१ रूपाणि भवन्ति । महर्षिणा पाणिनिना विरचिते 'अष्‍टाध्‍यायी'नामके ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । तत्र स मुनिः स्वौजसमौट् शस्टाभ्यां भिस्ङेभ्यां भ्यस् ङसिभ्यां भ्यस् ङसोसां ङ्योस्सुप् (अष्टाध्यायी 4.1.2 ) इति सुबन्तस्य लक्षणानि सूचयति । अधः परिचयार्थं कानिचन शब्दरूपाणि दत्तानि - पुल्लिङ्गशब्दाः * पुल्लिङ्गः राम शब्दः । * पुंलिङ्गः हरि शब्दः । * पुल्लिङ्गः करिन् शब्दः । * पुल्लिङ्गः भूभृत् शब्दः । * पुल्लिङ्गः भानु शब्दः । * पुल्लिङ्गः कर्ता शब्दः । * पुल्लिङ्गः चन्द्रमस् शब्दः । * पुल्लिङ्गः तस्थिवस् शब्दः । * पुल्लिङ्गः भगवत् शब्दः । * पुल्लिङ्गः आत्मन् शब्दः । * पुल्लिङ्गः राजन् शब्दः । * पुंलिङ्गः सर्व शब्दः । * पुंलिङ्गः विश्व शब्दः । * पुंलिङ्गः नेम शब्दः । * पुंलिङ्गः निर्जर शब्दः । * पुंलिङ्गः हाहा शब्दः । * पुंलिङ्गः सखि शब्दः । * पुंलिङ्गः विश्वपा शब्दः । * पुंलिङ्गः पति शब्दः । * पुंलिङ्गः पपी शब्दः । * पुंलिङ्गः बहुश्रेयसी शब्दः । * पुंलिङ्गः प्रधी शब्दः । * पुंलिङ्गः ग्रामणी शब्दः । * पुंलिङ्गः नी शब्दः । * पुंलिङ्गः सुश्री शब्दः । * पुंलिङ्गः शब्दः । स्त्रीलिङ्गशब्दाः * स्त्रीलिङ्गः रमा शब्दः । * स्त्रील्लिङ्गः रुचि शब्दः । * स्त्रीलिङ्गः नदी शब्दः । * स्त्रीलिङ्गः धेनु शब्दः । * स्त्रीलिङ: वाच् शब्दः । * स्त्रीलिङ्गः धी शब्दः । * स्त्रीलिङ्गः सरित् शब्दः । * स्त्रीलिङ्गः क्षुध् शब्दः । * स्त्रीलिङ्गः प्रावृष् शब्दः । * स्त्रीलिङ्गः शरद शब्दः । * स्त्रीलिङ्गः अम्बा शब्दः । * स्त्रीलिङ्गः जरा शब्दः । * स्त्रीलिङ्गःमति शब्दः । * स्त्रीलिङ्गः भ्रू शब्दः । * स्त्रीलिङ्गः स्वसृ शब्दः । * स्त्रीलिङ्गः द्यो शब्दः । * स्त्रीलिङ्गः नौ शब्दः । * स्त्रीलिङ्गः तद् शब्दः । * स्त्रीलिङ्गः शब्दः । नपुंसकलिङ्गशब्दाः * नपुंसकलिङ्गः ज्ञान शब्दः । * नपुंसकलिङ्गः दधि शब्दः । * नपुंसकलिङ्गः पयस् शब्दः । * नपुंसकलिङ्गः वर्मन् शब्दः । * नपुंसकलिङ्गःश्रीपा शब्दः । * नपुंसकलिङ्गः सुधी शब्दः । * नपुंसकलिङ्गः मधु शब्दः । * नपुंसकलिङ्गः सुनौ शब्दः । * नपुंसकलिङ्गः प्ररै शब्दः । * नपुंसकलिङ्गः वार् शब्दः । * नपुंसकलिङ्गः शब्दः । संस्कृतव्याकरणम् न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे न प्राप्ताः भाषानुबन्धाः संचित्रसारमञ्जूषे योजनीये
4729
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%BE%E0%A4%9F%E0%A4%95%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%AE%E0%A5%8D
कर्णाटकसङ्गीतम्
भारतीयसाम्प्रदायिकसङ्गीतस्य प्रकारद्वयम् -कर्णाटकसङ्गीतं,हिन्दुस्थानीसङ्गीतम् । कर्णाटकशास्त्रीयसङ्गीतं (Carnatic Classical Music) दक्षिणभारते विद्यमान: प्रकार:। उत्तरभारतस्य सङ्गीतप्रकार: हिन्दुस्थानीसङ्गीतं इति प्रसिद्धम् । कर्णाटकसङ्गीतस्य परिचयः संस्कृतवाङ्मये विद्यमानौ ज्ञानराशौ सङ्गीतशास्त्रमपि अन्यतमम् । भारतीयसङ्गीतशास्त्रस्य विषये सामवेदे छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च विवरणानि उपलभ्यन्ते । अतः सङ्गीतशास्त्रस्य विकासः क्रि. पू. द्वितीयशतमानतः पूर्वादेव दृश्यते । अस्याः पुरातनकलायाः विषये उल्लेखः विविधदेवानां कथासु बहुधा दृश्यते । श्वेतकमलासना वीणापाणी धृतपुस्तका धृतजपमाला सरस्वती देवी सङ्गीतकलायाः आराध्यदेवता अस्ति । सङ्गीतशास्त्रस्य मूलऋषिः अस्ति भरतमुनिः । एतां गन्धर्वविद्यां भरतमुनिः अप्सरसाः अपाठयत् । नारदमुनिः मानवान् अपाठयत् इति पुराणेषु उल्लेखः लभ्यते । अधाराः वेदोपनिषत्सु पुराणेषु च सङ्गीतशास्त्रस्य उल्लेखः आसीत् इत्येतस्य प्रमाणम् उपलभ्यते पाणिनेः (क्रि.पू. ३७६) ग्रन्थेषु । अयम् अंशः रामायणे (क्रि.पू. ४००) महाभारते च उल्लिखितः अस्ति । सङ्गीतशास्त्रस्य आकरग्रन्थः वर्तते - शाङ्ञदेवेन विरचितः सङ्गीतरत्नाकरः (१३ शतमानम्) । अयं ग्रन्थः वाग्गेयकाराणां सङ्गीतज्ञानां सङ्गीतजिज्ञासूनाञ्च परमसाहायकः ग्रन्थः वर्तते । कर्णाटकसङ्गीतं प्रमुखतः दक्षिण भारतस्य कर्णाटक-तमिळनाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते । अस्मिन् प्रकारे गायनस्य, अभिगीतसङ्गीतस्य च प्रामुख्यं भवति । यदा वाद्येभ्य: वादितं, तदापि 'गायकी'रीत्या (यथा अभिगीतं तथा) वादितं भवति । हिन्दुस्थानी, कर्णाटकीयप्रकारौ श्रुति-स्वर-ताल-रागाधारितौ । हिन्दुस्थानी सङ्गीतॆ रागस्य विस्तारण गायनस्य प्रामुख्यं भवति । परन्तु कर्णाटक सङ्गीतॆ भक्ति, विद्या, एवं तत्व बोधन साहित्य कृतीनाम् अथवा कीर्तनानां प्रामुख्यं भवति । साहित्यस्य उपयोगेन रागभावविस्तृतगानं 'नेरवल्' इति प्रसिद्धम् । एषा कीर्तनशैली १६ तथा २० तमशतकयो: मध्ये पुरन्दरदास:-त्यागराजस्वामिन:-मुद्दुस्वामिदीक्षितवर्य:-श्यामशास्त्रि: -इत्यादिभि: विकासिता । पुरन्दरदास: सङ्गितपितामह: अस्ति इति मान्यतॆ । त्यागराजस्वामिन: , मुद्दुस्वामिदीक्षितवर्य: , एवं श्यामशास्त्रि: कर्णाटकसङ्गीतत्रयं, एवं त्रिमूर्ती इति नाम्ना बहवा मान्यतॆ । एतॆ समकालिका: अपि - तेषां जननं तमिळनाडु राज्यॆ तञ्जावूर् जिल्लाया: तिरुवारूर् ग्रामॆ आसीत् । साधारणत: गान / वादक कचेरि इति बहु प्रसिद्धम् । एतस्मिन् गान / वादक शृङ्खला एवम् भवति :- रागविस्तारणम् - कीर्तनगानम् - नेरवल् - कल्पनस्वरगानम् - ताळवाद्य विस्तृतावर्तनम् । एका अन्य प्रक्रिया रागं-तानं-पल्लवी इत्यपि प्रसिद्धम् । एषायां प्रक्रियायां रागविस्तारणं - ताळजतिसहितगानं "तानं" - एका पल्लवी स्वीकृत्य रागभाव विस्तृतगानं - ताळवाद्य विस्तृतावर्तनम् इति पद्धति प्रसिद्धम् । सामान्यत: कर्णाटकसङ्गीतं गायक-वादक-वाद्ययो: लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक: / गायिका, वीणा / वेणु / जलतरङ्गं वादक: ), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin' - केवलं गात्रसङ्गीतं कृतॆ एव ), एकं ताळवाद्यं (सामान्यत: मृदङ्गं) तथा एका श्रुतिवाद्यं 'तम्बुरा' च भवन्ति । आधुनिकदिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत् श्रुतिपेटिका उपयुज्यते । बाहुलीना पाश्चात्यदेशवादयमासीत् । एषाया: कर्णाटकसङ्गीतॆ प्रवेश: रामस्वामिदीक्षितवर्येन कृतम् । तस्य द्वितीय पुत्र: बालुस्वामिदीक्षितवर्य: बाहुलीनाया: प्रप्रथम विद्वान् आसीत् । अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि नादस्वरं, क्लारिनेट् , मद्दळ: , घटं, कञ्जीरा, मोहरसिङ्ग् च भवन्ति। इदानीं माण्डोलिन् , साक्सोफोन् ,'गिटार्' (Guitar) तथा संगीतसंज्ञाफलक: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते । नादस्वर, क्लारिनेट् एवं साक्सोफोन् कृतॆ केवलं मद्दळ वाद्यं ( एकं वा द्वयं वा ) भवति । कर्णाटकसङ्गीतकाराणाम् अधिकतमा उपस्थितिः, तत्सङ्गीतस्य उत्कृष्टप्रदर्शनानि च भारतस्य तमिऴ्नाडु राज्ये विद्यमाने चेन्नैमहानगरे भवन्ति । मार्गशीर्षमासे (तमिऴभाषायाम् सौरमानपञ्चाङ्ग प्रकारॆ 'मार्गऴि - Mārgazhi', as per the solar calender from December, 15 to January,14 approximately) चेन्नैमहानगरे भूयमान: षड्सप्ताहात्मकः सङ्गीतोत्सव: (December Music Season ) जगत: महतमः सांस्कृतिकः उत्सव: इति प्रसिद्धः। अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव गानं-भाषणं-नृत्यं-प्रदर्शनानि भवन्ति । तिरुवैय्यार् ग्रामॆ प्रतिवर्षॆ जनवरि मासॆ शुद्ध बहुळ पञ्चम्यां तिथ्याम् बहुजनविद्वत्समूहेन (लक्षाधिकेन ) त्यागराज पञ्चरत्नकीर्तनगानं अञ्जलिप्रदानं इति लोकप्रसिद्धा सन्दर्शनीया संघटना । जाति: इतिहासश्च १३ शतकात् आरभ्य भारतीयशास्त्रीयसङ्गीतं द्विविधं जातम् । उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् । प्रमुखा: वाग्गेयकारा: पुरन्दरदासः त्यागराजः मुत्तुस्वामी दीक्षित: श्यामा शास्त्री अन्या: प्रमुखा: वाग्गेयकारा: गोपालकृष्ण भारती पट्टणं सुब्रह्मण्य अय्यर् रामनाथपुरम् श्रीनिवास अय्यङ्गारः पापनाशं शिवन् ऊत्तुक्काडु वेङ्कटसुब्बय्यरः मैसूर् वासुदेवाचार्य: हरिकेशनल्लूर् मुत्तैय्यभागवत: अन्नमाचार्य: लाल्गुडि जयराम: महाराज: स्वातितिरुनाळ् नारायणतीर्थ: ग्रन्था: स्वरार्णवम् चतुर्दण्डिप्रकाशिका स्वरमेळकलानिधि: दीक्षित कीर्तन प्रकाशिका विशेषावलोकनम् कर्णाटकीय शास्त्रीय सङ्गीतम् कर्णाटकसङ्गीतम् अन्यभाषायां सारमञ्जूषा
4730
https://sa.wikipedia.org/wiki/%E0%A4%A0%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B0%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0
ठाकुर परिवार
पश्य द्वारकानाथ ठाकुर (१७९४-१८४६) देवेन्द्रनाथ ठाकुर (१८०७-१९०५) रवीन्द्रनाथ ठाकुर (१८६१-१९४१) गगनेन्द्रनाथ ठाकुर (१८६७-१९३८) अबनिन्द्रनाथ ठाकुर (१८७१-१९५१) बाह्य वंशावली वङ्गदेशस्य इतिहासः‎ पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4731
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A4%97%E0%A4%A8%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%A5%E0%A4%A0%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B0%E0%A4%83
गगनेन्द्रनाथठाकुरः
गगनेन्द्रनाथठाकुरः (१८६७-१९३८) बङ्गालप्रदेशे जात: । स: महान्‌ चित्रकारः आसीत्‌ । सः रवीन्द्रनाथठाकुरस्य बन्धुः आसीत्। पश्य द्वारकानाथठाकुरः (१७९४-१८४६) देवेन्द्रनाथठाकुरः (१८०७-१९०५) रवीन्द्रनाथठाकुरः (१८६१-१९४१) अबनिन्द्रनाथठाकुरः (१८७१-१९५१) ठाकुरपरिवारः पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् पश्चिमवङ्गस्य लेखकाः‎ सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4732
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AC%E0%A4%A8%E0%A5%80%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%A5%20%E0%A4%A0%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B0
अबनीन्द्रनाथ ठाकुर
अबनिन्द्रनाथठाकुरः (; १८७१-१९५१) बङ्गालप्रदेशे जात:। सः रवीन्द्रनाथठाकुरस्य बन्धुः आसीत्। तेन भारतीय पूर्वी कलायाः समाजः रचितः। सः भारतीय कलायाम् स्वदेशस्य मूल्यस्य प्रथमः प्रमुखः प्रतिपादकः आसीत्। पश्य द्वारकानाथठाकुरः (१७९४-१८४६) देवेन्द्रनाथठाकुरः (१८०७-१९०५) रवीन्द्रनाथठाकुरः (१८६१-१९४१) गगनेन्द्रनाथठाकुरः (१८६७-१९३८) ठाकुरपरिवारः पश्चिमवङ्गस्य लेखकाः‎ पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4733
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%A5%20%E0%A4%A0%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B0
द्वारकानाथ ठाकुर
द्वारकानाथ ठाकुरः (१७९४-१८४६) बङ्गालप्रदेशे जात:। स: चिन्तक: आसीत्‌। तस्य एव वंशजः रवीन्द्रनाथ ठाकुर: आसीत्। पश्य देवेन्द्रनाथठाकुरः (१८०७-१९०५) रवीन्द्रनाथठाकुरः (१८६१-१९४१) गगनेन्द्रनाथठाकुरः (१८६७-१९३८) अबनिन्द्रनाथठाकुरः (१८७१-१९५१) ठाकुरपरिवारः पश्चिमवङ्गस्य लेखकाः पश्चिमवङ्गराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
4735
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87
गोविन्द चन्द्र पाण्डे
गोविन्द चन्द्र पाण्डे इतिहासविद् आसीत् । ग्रन्थः बौद्ध धर्म के विकास का इतिहास अपोहसिद्धि न्यायबिन्दु मूल्य मीमांसा वैदिक संस्कृति Studies in the Origins of Buddhism The Meaning and Process of Culture Life and Thought of Sankaracharya उत्तराखण्डराज्यम् उत्तराखण्डसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4737
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80-%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B2%E0%A4%AF%E0%A4%83
विश्वभारती-विश्वविद्यालयः
विश्वभारती विद्यापीठं रवीन्द्रनाथ ठाकुर: १९०१तमे शान्तिनिकेतने विश्वभारती विद्यापीठं स्थापितं. भारतस्य विश्वविद्यालयाः समाजसम्बद्धाः स्टब्स् बाह्यानुबन्धः योजनीयः सारमञ्जूषा योजनीया चित्रं योजनीयम् सर्वे अपूर्णलेखाः
4739
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%A6
प्रासाद
प्रासाद स्थापकतत्त्वरूपेण प्रासादः मुख्यरूपतः। शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
4741
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D%20%28%E0%A4%B6%E0%A4%BF%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%95%E0%A4%B2%E0%A4%BE%29
विमानम् (शिल्पकला)
विमानम्: प्रासादम् अस्ति। शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4742
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A5%87%E0%A4%96
रेख
प्रासाद: रेखपीढाख्यः द्विविधः। रेखमन्दिरे चतुर्दशं अङ्गं सन्ति। शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4743
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%80%E0%A4%A2
पीढ
प्रासाद: रेखपीढाख्यः द्विविधः। शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4744
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE
शिल्पविद्या
शिल्पविद्या शिल्पं हि परमपूज्यं सर्वदर्शनलक्षणं च सर्वप्रमाणरूपाय साकारतत्त्वमेव। प्रासादः स्थापकः विमानम् रेख पीढ मन्दिरस्य विभागाः पुरुष आयुध राहा पादपीठम् देवमन्दिरम् बन्धना ब्रह्मरन्ध्र आमलकम् कलशम् कर्परम् कण्ठम् बाडान्तम् जाङ्घम् कटि विषम गर्भम् पीठम् शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4745
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%AA%E0%A4%95%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
स्थापकज्ञानम्
स्थापकः विमानस्य (प्रासादस्य) निर्माणं करोति। स्थापकज्ञानम् वास्तुशास्त्रम् इति। वास्तुशास्त्रम् बाह्यानुबन्धः योजनीयः संचित्रसारमञ्जूषे योजनीये श्टब्स् संस्कृतसम्बद्धाः न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः
4746
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
वास्तुशास्त्रम्
वास्तुविज्ञानं सर्वकालोपयोगि सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि चास्मिन् भारते देशे बहोः कालादविनष्टा एव विलसन्तीत्यानुभविकम् । न चैतद् यादृच्छिकं भवतुमर्हति । अत्र वास्तुतत्त्वशास्त्रानुसारेण निबध्दानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टाः वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । वास्तुशास्त्रमवश्याध्येयं, विज्ञेयं च सर्वैरपि । वास्तुशास्त्रग्रन्थाः सन्त्यनेकेऽस्मिन् देशे । अत्र तु प्राधान्येन सनत्कुमारप्रणीतगृहवास्तुग्रन्थमवलम्ब्य विशयवैमर्शः कृतः । गृहनिर्माणप्रशस्ताः मासाः चैत्रमासे गृहनिर्माणे द्रव्यनाशः भयं च । वैशाखे शुभम् । ज्येष्ठे मृतिः । आषाढे पशुनाशः । श्रावणे पुत्रर्ध्दिः । भाद्रपदे पुत्रादीनां रोगभीः । आश्वयुजे कलहः । कार्तिके द्रव्यलाभः । मार्गशीर्षे भयम् । पुष्ये अग्निदाहः । माघे सन्ततिवृध्दिः । फाल्गुने रत्नलाभः । तदुक्तम् – गृहनिर्माणं शुभवासरे कार्यम् न यस्मिन् कस्मिन् वासरे गृहनिर्माणं कर्तव्यम्, अपि तु प्रशस्त एव । तथा हि- भानुवासरे गृहारम्भे अह्निदाहः शुक्लपक्षे सोमवासरे गृहारम्भे वृध्दिः । कृष्णपक्षे सोमवासरे कलहः नाशश्च । कुजवासरे तदंशे, तल्लग्ने स्तम्भप्रतिष्ठादिकरणे गृहदाहः यजमानस्य मृतिश्च । बुधवासरे ऎश्वर्यवृध्दिः । गुरुवासरे सवार्थसिध्दिः । शुक्रे बहुसुखम् । मन्दवासरे चोरभयम् । तस्मात् विहितदिने विहितवासर एव गृहारम्भः कार्यः । तदुक्तम् – योग्यनक्षत्राणि मृगशीर्षक- हस्ता –रेवती-चित्ता अनुराधा –उत्तराषाढा – उत्तराभाद्रा –श्रवण पुनर्वसु –शतभिषा- धनिष्ठा –अश्विनीनक्षत्राणि गृहारम्भाय सुखदानि च । तदुक्तम् वास्तुपुरुषपूजा शैववैष्णवतन्त्रागमग्रन्थेषु वास्तुपुरुषकथा भिन्नैव श्रूयते । वैष्णवतन्त्ररीत्या वास्तुर्वराहरुपिणो हरेः सुतः । देवतैः भूमौ पातितः । चतुरस्राकृतिः स्थितश्च । तदुपरि ब्रह्मादयः देवाः सन्निहिताः । तान् यथाविधि सम्पूज्य गृहादि निर्मेयम् । तदुक्तम् – शैवग्रन्थेष्वन्यैव कथा श्रूयते – अन्धकासुरसंहारे क्रुध्दस्य शूलिनः स्वेदबिन्दुः भूमौ पतितः । स्वेदबिन्दुरेव द्यावापृथिवीमभिव्याप्य वास्तुपुरुषरुपेणोदतिष्ठत् सर्वभयङ्करः । ततश्च देवतैर्भूमौ पातितः । मन्दिरादिनिर्माणकाले तत्पूजनाय वरश्च देवैः प्रदत्तः । तदुक्तम् – गृहनिर्माणक्रमः भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य लोष्टाश्मास्थिविवर्जिते देशे गृहं निर्मेयम् । पूर्वस्यां दिशि स्नानगृहं कार्यम् । आग्नेये पाकशाला विधेया । दक्षिणस्यां दिशि स्वापशाला । नैऋत्यां दिशि आयुधशाला । पश्चिमे भोजनशाला । वायव्ये पशुशाला । उत्तरस्यां दिशि द्रव्यनिक्षेपगृहं कार्यम् । ईशान्ये देवमन्दिरम् । तदुक्तम् – उक्तं चान्यत्र – वापीकूपतटाकनिर्माणम् कूपादिनिर्माणं उत्तरस्यां पूर्वपश्चिमदिशि च प्रशस्तम् । द्वारहीनो जलाशयः कूपशब्देन व्यपदिश्यते । द्वारेणैकेन भूषितः वापिसंज्ञकः । अनेकद्वारविशिष्टा पुष्कलजलाधारा पुष्करिणीत्युच्यते । तदुक्तम् – कूपादिनिर्माणम् आग्नेय नैऋत्य-वायव्यदिशि परित्याज्यम् । उत्तर –पूर्व –पश्चिमदिशि शस्तम् । तदुक्तं वराहमिहिरेण एवं अन्यत्र च – गृहलक्षणम् भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य शुचिप्रदेशे गृहादिकं निर्मेयम् । सनत्कुमारवास्तुशास्त्रोक्तदिशा वक्ष्यमाणक्रमानुरोधेन गृहं निर्मेयं भवति । बाह्यसम्पर्कतन्तुः World Architecture Community Architecture.com, published by Royal Institute of British Architects Architectural centers and museums in the world , list of links from the UIA Architecture Week American Institute of Architects Glossary of Architecture Terms (with dictionary definitions) Cities and Buildings Database - Collection of digitized images of buildings and cities drawn from across time and throughout the world from the University of Washington Library टिप्पणी वास्तुशास्त्रम् संचित्रसारमञ्जूषे योजनीये श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः
4747
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%83%20%28%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%BE%E0%A4%83%29
पुरुषः (वेदाः)
पुरुष: ब्रह्मस्वरूपम्। विमानं (मन्दिरं, प्रासादं) पुरुषाकारम्। शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4748
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A4%AE%E0%A5%8D
मन्दिरम्
मन्दिरम् प्रासादम् अस्ति। शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4749
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%AF%E0%A5%81%E0%A4%A7%E0%A4%AE%E0%A5%8D
आयुधम्
आयुधं प्रतीकम्। ध्वजदण्ढः आयुधान्तः। विभिन्नलेखेभ्यः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4752
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%AA%E0%A5%80%E0%A4%A0%E0%A4%AE%E0%A5%8D
पादपीठम्
पादपीठम् मन्दिरस्य पादभागः अस्ति। शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4755
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
ब्रह्मरन्ध्रम्
ब्रह्मरन्ध्रम् शीर्षोपरि अस्ति। शिल्पविद्या श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
4756
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A0%E0%A4%AE%E0%A5%8D
भित्तिपीठम्
भित्तिपीठम् पूरकरूपेण सौम्यास्तरणशैलतः। सिंहपीठम् महापीठम् चक्रपीठम् शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4757
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%80%E0%A4%A0%E0%A4%AE%E0%A5%8D
पीठम्
पीठं पूरकरूपेण सौम्यास्तरणशैलतः। पादपीठम् मन्दिरस्य पादभागः अस्ति। भित्तिपीठम् सिंहपीठम् महापीठम् चक्रपीठम् मुक्तपद्मपीठम् वलापीठम् कौलभट्टारकपीठम् वज्रमस्तकपीठम् वर्तुलपीठम् शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
4758
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%AE%E0%A4%B2%E0%A4%95%E0%A4%AE%E0%A5%8D
आमलकम्
आमलकम् (आहारपदार्थः) आमलकम् (शिल्पविद्या) स्पष्टीकरणपृष्ठानि सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4759
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B2%E0%A4%B6%E0%A4%83
कलशः
कलशः मन्दिरस्य शीर्षम् । पूजार्थं सफलः साम्रपत्रः कलशः अपि भवति । शिल्पविद्या बाह्यसम्पर्कतन्तुः कलशः शिल्पशास्त्रम् पूजाविधयः सारमञ्जूषा योजनीया हिन्दुधर्मसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
4760
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A5%8D
कर्परम्
कर्परम् मन्दिरस्य कपालम् । शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4761
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A4%AE
विषम
विषम मन्दिरस्य स्कन्धम् । शिल्पविद्या शिल्पशास्त्रम् संस्कृतिसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4762
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%AE%E0%A5%8D
गर्भगृहम्
गर्भम् मन्दिरस्य उदरम् । शिल्पविद्या शिल्पशास्त्रम् श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
4763
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
कण्ठम्
इदं मन्दिरस्य विभागम् । शिल्पविद्या श्टब्स् संस्कृतसम्बद्धाः न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4768
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%A6%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A4%AE%E0%A5%8D%20%E0%A4%B8%E0%A5%81%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
चिदम्बरम् सुब्रह्मण्यम्
चिदम्बरम् सुब्रह्मण्यम् हरितक्रान्तेः जनकः कथ्यते । यदा भारतेन स्वातन्त्र्यं प्राप्तम् आसीत्, तदा खाद्योत्पादनस्य स्थितिः अत्यन्तं चिन्तनीयम् आसीत् । बहुत्र अनावृष्टिः अभवत् । तेन वङ्गबिहारोडिशाक्षेत्रेषु जनाः क्षुधार्ततायां मृतङ्गताः । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः कृषिमन्त्रिपदं प्राप्तवान्, तदा तेन खाद्यान्नसमस्याः निवारयितुं बह्व्यः योजनाः प्रचालिताः । कृषिक्षेत्रे तस्य नीतिः उत्कृष्टा वर्तते स्म । “सी. सुब्रह्मणयम्” इत्यस्य प्रयासैः भारतदेशस्य खाद्यान्नोप्तादने विकासः अभवत् । साम्प्रतं भारतदेशः कृषिक्षेत्रे आत्मनिर्भरः अस्ति । जन्म, परिवारश्च “चिदम्बरम् सुब्रह्मणयम्” इत्याख्यस्य जन्म ई. स. १९१० तमवर्षस्य जनवरी-मासस्य ३० तमे (३० जनवरी १९१०) दिनाङ्के तमिळनाडू-राज्यस्य कोयम्बतूर-मण्डलस्य पोलाची-ग्रामे अभवत् । शिक्षणम् “सी. सुब्रह्मण्यम्” इत्याख्यस्य प्रारम्भिकशिक्षणं स्वस्य ग्रामे एव अभवत् । प्रारम्भिकशिक्षणानन्तरं चेन्नै-नगरे तस्य उच्चशिक्षणम् अभवत् । चेन्नै-नगरस्य प्रेसीडेन्सी-महाविद्यालये सः विज्ञानविषये स्नातकपदवीं प्रापत् । अनन्तरम् ई. स. १९३२ तमे वर्षे मद्रास-विश्वविद्यालयात् विधिशास्त्रे स्नातकपदवीं प्राप्तवान् । किन्तु ई. स. १९३६ तमवर्षपर्यन्तम् अपि सः अधिवक्तुः वृत्तिं न आरब्धवान् । ई. स. १९३६ तमवर्षानन्तरं तेन वृत्तिः आरब्धा । किन्तु तस्मिन् समये सः स्वातन्त्र्यान्दोलने संलग्नः जातः आसीत् । राजनैतिकजीवनम् ई. स. १९३६ तमवर्षात् तेन वृत्त्या सह स्वातन्त्र्यान्दोलनेषु भागः अपि गृहीतः आसीत् । आन्दोलनेषु अपि तस्य अभिरूचिः वर्तते स्म । सः भारतस्य स्थितिः दृष्टवान् आसीत् । अतः सः अपि योगदानं दातुमिच्छति स्म । सः कॉङ्ग्रेस-पक्षस्य नेता आसीत् । अन्यैः राजनेतृभिः सह आन्दोलनेषु “सी. सुब्रह्मणयम्” इत्याख्येन अपि बहूनि कार्याणि कृतानि आसन् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्मिन् आन्दोलने कॉङ्ग्रेस्-पक्षस्य महत्तमाः राजनेतारः कारागारं गतवन्तः आसन् । तेषु “सी. सुब्रह्मण्यम्” इत्याख्यः अपि अन्यतमः आसीत् । अतः तस्मिन्समये कोयम्बतूर-मण्डलस्य प्रमुखेषु नेतृषु तस्य स्थानम् आसीत् । समयान्तरे तेन कॉङ्ग्रेस-समितौ अपि अध्यक्षत्वेन स्थानं प्राप्तम् आसीत् । तमिलनाडू-राज्ये कॉङ्ग्रे-पक्षस्य कार्यसमितौ अपि “सी. सुब्रह्मण्यम्” इत्याख्यः महत्त्वपूर्णं स्थानं प्राप्तवान् आसीत् । ई. स. १९४६ तमे वर्षे सः संविधानसभायाः सदस्यतां प्रापत् । ई. स. १९५२ तमवर्षपर्यन्तं सः संविधानसभायाः सदस्यः आसीत् । ई. स. १९५२ तमे वर्षे सः तमिळनाडू-राज्यस्य विधानसभायाः सदस्यत्वेन चितः । सदस्यतां प्राप्ते सति सः प्रदेशस्य मन्त्रिमण्डले स्थानं प्राप्तवान् । ई. स. १९५२ तः १९६२ तमवर्षपर्यन्तं सः राज्यसर्वकारस्य विभिन्नेषु महत्त्वपूर्णपदेषु कार्यं कृतवान् आसीत् । सः राज्यस्य वित्तमन्त्री, शिक्षणमन्त्री, विधिमन्त्री इत्यादिषु पदेषु अपि कार्यम् अकरोत् । तेन दशवर्षेषु शिक्षणक्षेत्रे शिक्षणस्य विस्ताराय, विकासाय च अपि महत्त्वपूर्णानि कार्याणि कृतानि आसन् । ई. स. १९६२ तमे वर्षे निर्वाचने विजयं प्राप्ते सति अयं केन्द्रियमन्त्रिमण्डलस्य मन्त्रित्वेन चितः । तदा सर्वकारेण तस्मै लोहखानिजमन्त्रालयस्य (Ministry of Steel and Mins) दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६२ तः १९६४ तमवर्षं यावत् अस्य मन्त्रालयस्य एव मन्त्री आसीत् । अनन्तरम् ई. स. १९६४ तः १९६५ तमवर्षं यावत् सर्वकारेण तस्मै खाद्यकृषिमन्त्रालयस्य दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६६ तः १९६७ तमवर्षं यावत् खाद्यकृषिमन्त्रायेन सह विकासविभागस्य दायित्त्वं अपि संयोजितः । अस्मिन् पदे तेन कृषिक्षेत्रे बहूनि सफलानि कार्याणि कृतानि । तेन उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च प्रयोगाय अपि कृषकाः प्रेरिताः । तेन फलस्वरूपं १९६० तमे दशके भारतदेशः खाद्योत्पादने सक्षमः जातः । अनेन प्रकारेण तस्य कार्याणां चर्चा अन्ताराष्ट्रियस्तरे विस्तृता । ई. स. १९९० तमे वर्षे सः महाराष्ट्र-राज्यस्य राज्यपालत्वेन नियुक्तः जातः । वर्षत्रयं यावत् सः अस्मिन् पदे कार्यरतः आसीत् । अनन्तरं “सी. सुब्रह्मण्यम्” इत्याख्यः “भारतीयविद्याभवनम्” इत्यस्याः संस्थायाः अध्यक्षपदं प्रापत् । अस्मिन् पदे कार्यरते सति “सी. सुब्रह्मण्यम्” इत्याख्येन बहूनि महत्त्वपूर्णानि पुस्तकानि रचितानि । हरितक्रान्तेः जनकः “सी. सुब्रह्मण्यम्” भारतस्य स्वान्त्र्यसमये खाद्यान्नविषये देशस्य स्थितिः दयनीया आसीत् । किन्तु साम्प्रतं भारतदेशः कृषिक्षेत्रे सम्पूर्णतया आत्मनिर्भरः अस्ति । भारतदेशस्य स्वतन्त्रतायाः प्राग् बहुषु स्थानेषु जनाः अनावृष्ट्या पीडिताः आसन् । वङ्ग-बिहार-ओडिशाक्षेत्रेषु बहवः जनाः क्षुधया पीडिताः सन्तः मृतङ्गताः । किन्तु स्वातन्त्र्यानन्तरं कदापि तादृशी स्थितिः न सर्जिता । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः केन्द्रसर्वकारस्य कृषिमन्त्रिपदं प्रापत्, तदा तेन खाद्यान्नोत्पादने विकासाय योजनाः प्रचालिताः । ताभिः प्रचालिताभिः योजनाभिः कृषकाः जागृताः अभवन् । तावदेव कृषकाः उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च उपयोगं कुर्वन्तः सन्ति । “सी. सुब्रह्मण्यम्” इत्याख्येन भारतदेशे अधिकमात्रायां खाद्योत्पादनं कर्तुं शक्यते । “सी. सुब्रह्मण्यम्” इत्याख्यस्य कृषिनीतिभ्यः ई. स. १९७२ तमे वर्षे खाद्यान्नोत्पादने नामाङ्कनम् अभवत् । तावदेव इयं घटना “हरितक्रान्तिः” इति नाम्ना संज्ञायते । “डॉ. बोरलाग” इत्याख्यः नोबेल-पुरस्कारभाक् आसीत् । “बोरलाग” इत्याख्येन अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य अस्मै कार्याय प्रशंसा कृता आसीत् । भारतरत्नप्रशस्तिः. पुरस्काराः च ई. स. १९९८ तमे वर्षे सर्वकारेण “सी. सुब्रह्मण्यम्” इत्याख्यः सर्वोच्चनागरिकत्वेन “भारतरत्नपुरस्कारेण” सम्मानितः । ई. स. १९८८ तमे वर्षे सः अनुव्रत-पुरस्कारं प्राप्तवान् आसीत् । ई. स. १९९६ तमे वर्षे तेन “नोर्मन बोरलाग” इत्ययं पुरस्कारः प्राप्तः । तस्मिन्नैव वर्षे सः “ऊ थांट शान्ति” इत्यनेन पुरस्कारेण अपि सम्मानितः । राष्ट्रियैकतायै तस्मै “वाय्. एस्, चौहान” इतीमं पुरस्कारं प्रदत्तम् आसीत् । ई. स. २०१० तमे वर्षे “सी. चिदम्बर” इत्याख्यस्य स्मृतौ भारतसर्वकारेण भारतीयमुद्रासु (Coins) तस्य चित्रं मुद्रितम् आसीत् । तस्मिन्नैव वर्षे सन्देशालयचीटिकासु अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य चित्रं प्रकाशितम् आसीत् । मृत्युः ई. स. २००० तमस्य वर्षस्य नवम्बर-मासस्य ७ दिनाङ्के (७ नवम्बर २०००) “सी. सुब्रह्मण्यम्” इत्याख्यः मृतङ्गतः । बाह्यसम्पर्कतन्तुः About us - National Agro Foundation Genesis - Bharathidasan Institute of Management Chennaionline सन्दर्भः भारतीयराजनेतारः १९१० जननम् २००० मरणम्
4769
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%99%E0%A5%8D%20%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83
लङ् लकारः
' लङ् लकारः'परस्मैपदम् तिङ् प्रत्ययाः । भुतकालस्य क्रियापदनिर्माण http://www.spokensanskrit.org लङ् (आत्मनेपदम्) तिङ् प्रत्ययाः । भूतकालस्य क्रियापदस्य निर्माणार्थम् । व्‍याकरणम् टिप्पणी संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994. अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997. लकाराः न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे न प्राप्ताः भाषानुबन्धाः संचित्रसारमञ्जूषे योजनीये
4771
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83
विधिलिङ्लकारः
संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा... १.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् । एते दश लकाराः द्विधा विभक्ताः सन्ति । सार्वधातुकाः / सविकरणकालार्थाः अर्धधातुकाः / अविकरणकालार्थाः तत्र विधिलिङ् लकारः वर्तमानकालम् च् आज्ञार्थं बोधयति । इमे अपि पश्यन्तु लकाराः व्‍याकरण टिप्पणी संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994. अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997. लकाराः श्टब्स् संस्कृतसम्बद्धाः न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः संचित्रसारमञ्जूषे योजनीये
4773
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%20%E0%A4%AC%E0%A4%B2%E0%A4%A6%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A5%88%E0%A4%A6
कृष्ण बलदेव वैद
हिन्दी लेखकः उपन्यासकारः च। पश्य हिन्दी साहित्य बाह्यसम्पर्कतन्तुः The Curator of Darkness हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया सर्वे अपूर्णलेखाः १९२७ जननम्
4775
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2
रामचन्द्र शुक्ल
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्य हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १८८४ जननम्
4776
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%B5%E0%A5%80%E0%A4%B0%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%80
महावीर प्रसाद द्विवेदी
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्यं अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4777
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%20%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%88
हरिशङ्कर परसाई
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १९२४ जननम्
4778
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%BE%20%E0%A4%B8%E0%A5%8B%E0%A4%AC%E0%A4%A4%E0%A5%80
कृष्णा सोबती
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्यं बाह्यसम्पर्कतन्तुः An Interview with Krishna Sobti हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १९२५ जननम्
4779
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%B5
राजेन्द्र यादव
हिन्दी लेखकः उपन्यासकारः च आसीत्। बाह्यसम्पर्कतन्तुः About Rajendra Yadav, at Hans magazine website Rajendra Yadav, at E-Magazine Shabdankan In search of roots, by Rajendra Yadav Two in the next world, by Rajendra Yadav Roushni Kahan Hai, A Story by Rajendra Yadav Poems by Rajendra Yadav पश्य हिन्दी साहित्यं हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १९२९ जननम् २०१३ मरणम्
4780
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%B0%E0%A4%A6%20%E0%A4%9C%E0%A5%8B%E0%A4%B6%E0%A5%80
शरद जोशी
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्यं हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया बाह्यानुबन्धः योजनीयः सर्वे अपूर्णलेखाः १९३१ जननम्
4781
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%82%20%E0%A4%AD%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%BE%E0%A4%B0%E0%A5%80
मन्नू भण्डारी
हिन्दी लेखकः उपन्यासकारः च आसीत्। पश्य हिन्दी साहित्यं बाह्यसम्पर्कतन्तुः Yahi Sacch Hai by Manu Bhandari हिन्दीलेखकाः चित्रं योजनीयम् अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया सर्वे अपूर्णलेखाः १९३१ जननम्
4782
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83
कमलेश्वरः
हिन्दी लेखकः उपन्यासकारः च आसीत्। बाह्यसम्पर्कतन्तुः A literary review of 'Kitne Pakistan', Partition English newspapers ignore literary giant's death पश्य हिन्दी साहित्यं हिन्दीलेखकाः अन्यभाषासाहित्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः १९३२ जननम् २००७ मरणम्
4786
https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%A6%E0%A4%9C%E0%A4%A8
उदजन
उदजनः एकम् रासायनिकम् तत्वमस्ति, यस्य परमाणुक्रमाङ्कः १ इति। एषः सर्वस्मिन् तत्वेषु लघिष्ठः। तथा सामान्यतः अयम् वायौ द्विपरमाण्विकाणूनाम् कश्चित् वातकः, अर्थात् उदजनवातः इति। रंगहीनः, गंधहीनः, अविषाक्तः तथा अत्यंतः ज्वलनशीलः अयम्। अयम् ब्रह्मांडे पदार्थानाम् ७५% , अतएव सर्वेषु पदार्थेषु प्रचुरतमः च। बहूनाम् तारकानाम्, यथा सूर्यस्य परमघटकः, तथा तस्मिन् प्लाज्मा-अवस्थायाम् अवस्थितः। अधिकतः उदजनः पृथिव्याम् आण्विकरूपे विद्यमानः, यथा जले अथवा अन्येषु क्षामिक-यौगिकेषु। अस्य सर्वाधिकप्राप्तसमस्थानिकस्य (चिन्हं 1H इति) प्रत्येकः परमाणौ १ प्राणुः, १ विद्युदणुः तथा न कोऽपि निर्पेक्षाणुः। गुणधर्माः प्रदहनः उदजनवातः (द्विउदजनम् वा आण्विकः उदजनः) अतिज्वलनशीलः। २H२(वा) + O२(वा) → २ H२O(द्र) + ५७२ kJ (२८६ kJ/mol) रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4787
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A5%80%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D
हीलियम्
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4788
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A5%80%E0%A4%A5%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D
लीथियम्
एकं भौतिकतत्त्वम् अस्ति। भौतिकी बाह्यसम्पर्कतन्तुः International Lithium Alliance USGS: Lithium Statistics and Information Lithium Supply & Markets 2009 IM Conference 2009 Sustainable lithium supplies through 2020 in the face of sustainable market growth University of Southampton, Mountbatten Centre for International Studies, Nuclear History Working Paper No5. रसायनशास्त्रसम्बद्धाः स्टब्स् रसायनशास्त्रम् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4789
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D
बेरिलियम्
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4790
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%A8
बोरान
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4791
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A4%A8
कार्बन
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा अपेक्षते भौतिकविज्ञानम्
4792
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%88%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%9C%E0%A4%A8%E0%A5%8D
नैट्रोजन्
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4793
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A5%8D%E0%A4%B2%E0%A4%9C%E0%A4%A8%E0%A4%83
अम्लजनः
अम्लजनः अथवा प्राणवायुः एकम् रासायनिकम् तत्त्वमस्ति। अयम् पृथिव्याम् अनेकेषु पदार्थरूपेषु प्राप्यः यथा जले, खानिजपदार्थादेश्च । ओषधीनाम्, सर्वेषां प्राणिनाम् च अत्यावश्यकम् तत्वमयम् । वायुमण्डले अपि एषः आयतनानुसारः २०.८ % तथा द्रव्यमानानुसारः २३.१ % (प्रतिशतेन) सह द्वितीयसर्वाधिकमात्रायाम् उपस्थितः । पृथिव्याम् अम्लजनस्य मूलस्त्रोतः प्रभासंयोगः, एवं मुख्यतः अनेनैव वायुमण्डलम् अम्लजनम् प्राप्नोति । इतिहासः व्युत्पत्तिः लाव्वाज्ये, एकः रासायनज्ञः, प्रातर्कयत् यत् 'प्राणवायुः' एव सर्वेषाम् अम्लानाम् उत्पादकः वा जनकः, अतः सः एतस्य अम्लजनः (आङ्गले :oxygen) इति नामकरणः अकरोत्। अन्यरासायनज्ञाः अग्रतः प्रामाणयन् यत् अयम् अम्लजनः न, अपितु उदजनः यः अम्लानाम् कारणः। परंतु तावत् अम्लजनः इति नामैव रासायनजगति सुसंस्थापितम् । गुणधर्माः भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् न प्राप्तः भाषानुबन्धः सर्वे अपूर्णलेखाः सर्वे न प्राप्ताः भाषानुबन्धाः चित्रं योजनीयम् भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
4794
https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%B0%E0%A4%BF%E0%A4%A8
फ्लोरिन
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4795
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A5%8B%E0%A4%A8
नियोन
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4796
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8B%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%AE
सोडियम
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4798
https://sa.wikipedia.org/wiki/%E0%A4%8F%E0%A4%B2%E0%A5%81%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%AE
एलुमिनियम
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4799
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%95%E0%A4%A8
सिलिकन
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4800
https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%AB%E0%A5%8B%E0%A4%B0%E0%A4%B8
फास्फोरस
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4801
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%95%E0%A4%83
गन्धकः
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
4802
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%B0%E0%A4%BF%E0%A4%A8
क्लोरिन
एकं भौतिकतत्त्वम् अस्ति। भौतिकी रसायनशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया