id
stringlengths 3
5
| url
stringlengths 39
730
| title
stringlengths 1
85
| text
stringlengths 26
171k
|
---|---|---|---|
5215 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%88%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BF%E0%A4%AF%E0%A4%AE | मैग्नीसियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5218 | https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%A8%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%AE | वनडियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5219 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%88%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%A8%E0%A5%80%E0%A4%9C%E0%A5%8D | मैङ्गनीज् | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5220 | https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D | गेलियम् | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5222 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B2%E0%A4%BE%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%AE | पलाडियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5226 | https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A4%B2%E0%A4%AE | टाण्टलम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5227 | https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A4%A8%E0%A5%8D | टङ्ग्स्टन् | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5229 | https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%82%E0%A4%B0%E0%A5%87%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%AE | यूरेनियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5230 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%AB%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D | केलिफोर्नियम् | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5231 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%87%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%B2%E0%A5%80%E0%A4%B5%E0%A4%BF%E0%A4%AF%E0%A4%AE | मेण्डेलीवियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5232 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B8%E0%A4%BF%E0%A4%AF%E0%A4%AE | हसियम | एकं भौतिकतत्त्वम् अस्ति।
भौतिकी
रसायनशास्त्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5236 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B0%E0%A4%BE%E0%A4%A0%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | मराठासाम्राज्यम् | मराठासाम्राज्यं भारते १६७४तः १८१८पर्यन्तम् आसीत् । मराठासाम्राज्यस्य सुवर्णकाले तत् साम्राज्यं २५० दसलक्ष-एकरे यावत् विस्तृतम् आसीत् (१ दशलक्ष चकिमी) । तन्नाम दक्षिण-एषियायाः विस्तीर्णस्य त्रिषु एकः भागः आसीत् मराठासाम्राज्यम् ।
एतत् साम्राज्यं छत्रपतिशिवाजिमहाराजेन १६७४ तमे वर्षे संस्थापितम् । शिवाजिः तु बिजापुरस्य आदिलशाहेन सह तथा च मुघल्चक्रवर्तिना औरङ्गजेबेन सह च आजीवनं गेरिल्लायुद्धम् अन्यानि साहसयुक्तानि युद्धानि अकरोत् । तस्य राजधानी आसीत् रायघढनगरम् । १६८२ तः १७०७ पर्यन्तं २५ वर्षाणि यावत् मोघघल्जनाः य्द्यपि दीर्घं युद्धं कृतवन्तः तथापि ते जयं प्राप्तुं न शक्तवन्तः । शिवाजेः पौत्रः शाहुः १७४९ पर्यन्तं शासनम् अकरोत् । स्वस्य अधिकारावधौ शाहुः पेश्वेजनमेव (प्रधानमन्त्रिणमेव) सर्वाकारस्य प्रमुखरूपेण नियुक्तवान् । शाहुसम्राजः मरणानन्तरं १७४९ तः १७६१ पर्यन्तं पेश्वेजनाः एव वस्तुतः साम्राज्यस्य अधिपतयः जाताः । शिवाजेः अनन्तरम् अधिकारं प्रप्तवन्तः सर्वेपि राजानः नाममात्रं राजानः आसन् ।
भारतस्य भूभागे बहुभागं व्याप्तम् एतत् साम्राज्यं १८ शतकपर्यन्तं ब्रिटिषसाम्राज्यस्य वर्धनस्य अवरोधम् अकरोत् । यावत् पेश्वेजनानाम् ऐक्यं न भिन्नं तावत्पर्यन्तं मराठासाम्राज्यम् अत्यन्तं प्रबलं साम्राज्यम् आसीत् । १८ श्तके राज्ञः शाहोः तथा प्रथमस्य बाजिरावस्य काले माराठासाम्राज्यस्य अधःपतनम् आरब्धम् । १७६१ तमे वर्षे प्रवृत्ते तृतीयपाणिपत्युद्धे प्राप्तः पराजयः साम्राज्यविस्तारस्य अवरोधकः जातः । तदा पेश्वेजनानाम् अधिकरः अपि न्यूनः जातः । राज्यस्य उपरि विद्यमानं नियन्त्रणमपि शिथिलं जातम् । तदा शिन्धे, गायक्वाड्, होळ्कर्, नेवळ्कर्, पन्तप्रतिनिधयः स्वप्रदेशानाम् अधिकारं प्राप्तवन्तः । अधिकरः पञ्चषु वंशेषु विभक्तः । पुणेस्थाः पेश्वेजनाः, मालव-ग्वालियर्प्रदेशस्थाः सिन्धियार्जनाः (शिन्धेजनाः), इन्दूरस्थाः होळ्करजनाः, नागपुरस्थाः भोंस्लेजनाः, बरोडस्थाः गायक्वाडजनाः च अधिकारं प्राप्तवन्तः । १९ शतकस्य आरम्भे सिन्धिया-होळ्करजनानां मध्ये जातं वैरत्वं ब्रिटिषजनानां प्राबल्यस्य कारणं जातम् । ब्रिटिषजनानाम् ईष्ट्-इण्डिया-कम्पेनि इत्यनेन सह प्रवृत्तानि त्रीणी आङ्ग्लोमराठायुद्धानि तदानीन्तनानि प्रमुखयुद्धानि । १८१८ तमे वर्षे प्रवृत्ते तृतीये आङ्ग्लोमराठायुद्धे अन्तिमः पेश्वे द्वितीयः बाजीरायः पराजयं प्राप्नोत् । तदनन्तरं मराठासाम्राज्यस्य बहुभागः ब्रिटिषसाम्राज्ये विलीनः जातः । तथापि १९४७ तमे वर्षे स्वातन्त्र्यप्राप्तिपर्यन्तमपि मराठासाम्राज्यस्य कतिपयभागाः अर्धस्वतन्त्राः एव अतिष्ठन् ।
छत्रपतिशिवाजिवंशजाः
छत्रपतिछत्रपतिशिवाजिः (1630-1680)
छत्रपतिसम्भाजिः (1657-1689)
छत्रपतिराजारामः (1670-1700)
छत्रपतिशाहुः
छत्रपतिरामराजः
कोल्हापुरवंशजाः
महाराज्ञी ताराबाई
छत्रपतिसम्भाजिः
छत्रपतिशाहुः ४ (कोल्हापुर)
पेशवाः
बालाजीविश्वनाथः
बाजीरावः
बालाजीबाजीरावः
पेशवामाधवरावः
नारायणराव पेशवा
रघुनाथराव पेशवा
सवाई माधवराव पेशवा
बाजीरावः २
अमृतराव पेशवा
नाना साहिब पेशवा
मराठासाम्राज्यम्
सारमञ्जूषा योजनीया |
5238 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%9C%E0%A5%80 | सम्भाजी | सम्भाजी भोसले इति मराठासाम्राज्यस्य द्वितीयः छत्रपतिः आसीत्। सः १६८१ तः १६८९ पर्यन्तं शासनं कृतवान्। सः मराठासाम्राज्यस्य संस्थापकस्य शिवाजी इत्यस्य ज्येष्ठपुत्रः आसीत् । तस्य मराठासाम्राज्यं मुगलसाम्राज्येन तथा अन्याभिः समीपस्थशक्तिभिः यथा गोवास्थेन पुर्तगालिभिः च सिद्दिभिः च मैसुरुणा अपि। तस्य भ्राता राजाराम १ तस्य मरणानन्तरं छत्रपतिः अभवत्।
प्रारम्भिकं जीवनम्
सम्भाजी इत्यस्य जन्म पुरन्दरदुर्गे मराठाशासकस्य शिवाजी इत्यस्य तथा तस्य प्रथमपत्न्याः सयीबायी इत्यस्याः च निवासे अभवत् यस्याः मृत्युः यदा सम्भाजी द्विवर्षीयः सन् तदैव अभवत्। तस्य पालनं च तस्य पितामही जीजाबायी इत्यनया अभवत्। नववर्षीयः सम्भाजी अम्बरस्य राज्ञा जयसिंह-प्रथमेन सह राजनैतिकबन्धकरूपेण निवासार्थं प्रेषितः। तत्र सः पुरन्दरसन्धेः अनुपालनं सुनिश्चितं करोति स्म। यस्मै शिवाजी मुगलैः सह ११ जून् १६६५ तमे वर्षे हस्ताक्षरं कृतवान् आसीत्। सन्धेः सम्भाजी मुगलानां मनसबदार इति पदं प्राप। सः तस्य पितुः शिवाजी च आग्रानगरे १२ मे १६६६ तमे वर्षे मुगलसम्राजः औरङ्गजेबस्य सभां सम्प्रतस्थतुः। औरङ्गजेबः द्वयोः अपि गृहनिरोधं कृतवान् परन्तु २२ जुलै १६६६ दिनाङ्के पलायितवन्तौ। तथापि द्वयोः पक्षयोः सामञ्जस्यं जातम्,१६६६-१६७० एतस्मिन् समये सौहार्दपूर्णः सम्बन्धः च अभवत्। १६६६तः १६६८ पर्यन्तम् औरङ्गजेबः शिवाजीं राज्ञः पदवीं दत्तवान्। सम्भाजी अपि ५००० अश्वैः सह मुगलानां मानसब्दाररूपेण पुनः स्थापितः। शिवाजी तस्मिन् समये सम्भजीं सेनापतिना प्रतापरावगुजरेण सह औरंगाबादनगरे राजकुमारस्य म्वज्जमस्य सेवां कर्तुं प्रेषितवान्। राजस्वसंग्रहणार्थं बरार्-नगरे अपि सम्भाजी इत्यस्मै भूभागः प्रदत्तः आसीत् । अस्मिन् कालखण्डे शिवाजी, संभाजी च मुगलैः सह बिजापुरस्य सल्तनतस्य विरुद्धं युद्धं कृतवन्तौ ।
पाणिग्रहणम्
सम्भाजी राजनैतिकगठबन्धनाय जीवुबायी इत्यनया सह विवाहम् अकरोत्; मराठाप्रथया सा येसूबायी इति नाम गृहीतवती। जीवुबायी पिलाजिक्षीराव शिर्के इत्यस्य पुत्री आसीत्, यः एकस्य शक्तिशालिनः देशमुखस्य रावराणा सूर्यजिराव सुर्वे इति तस्य पूर्वसंरक्षकः आसीत् इत्यस्य पराजयानन्तरं शिवाजी इत्यस्य सेवायां प्रविष्टः आसीत् । अनेन विवाहेन शिवजी कोङ्कणतटमेखलायां प्रवेशः प्राप्तः । येसूबायी इत्यस्य द्वौ बालकौ आस्ताम्, पुत्री भवानी बायी ततः शाहू नामकः पुत्रः , यः पश्चात् मराठासाम्राज्यस्य छत्रपतिः अभवत् ।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5239 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AE | राजाराम | मराठा साम्राज्यस्य शासकः।
| image = Chhatrapati Rajaram.jpg
[वर्गः:मराठाराजाः]]
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5240 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B9%E0%A5%81 | शाहु | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5241 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%B0%E0%A4%BE%E0%A4%9C | रामराज | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5242 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B9%E0%A5%81%20%E0%A5%AA%20%28%E0%A4%95%E0%A5%8B%E0%A4%B2%E0%A5%8D%E0%A4%B9%E0%A4%BE%E0%A4%AA%E0%A5%81%E0%A4%B0%29 | शाहु ४ (कोल्हापुर) | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5243 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B2%E0%A4%BE%E0%A4%9C%E0%A5%80%20%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5 | बालाजी विश्वनाथ | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5244 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%9C%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%B5 | बाजीराव | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5245 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BF%E0%A4%AC%20%E0%A4%AA%E0%A5%87%E0%A4%B6%E0%A4%B5%E0%A4%BE | नानासाहिब पेशवा | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5246 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%A7%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%B5%20%E0%A4%AA%E0%A5%87%E0%A4%B6%E0%A4%B5%E0%A4%BE | माधवराव पेशवा | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5247 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%B5 | नारायणराव | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
न प्राप्तः भाषानुबन्धः
सर्वे अपूर्णलेखाः
सर्वे न प्राप्ताः भाषानुबन्धाः
चित्रं योजनीयम्
भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया |
5248 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%98%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%A5%E0%A4%B0%E0%A4%BE%E0%A4%B5 | रघुनाथराव | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5249 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B5%E0%A4%BE%E0%A4%88%20%E0%A4%AE%E0%A4%BE%E0%A4%A7%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%B5 | सवाई माधवराव | मराठा साम्राज्यस्य शासकः।
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5250 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%9C%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%B5%20%E0%A5%A8 | बाजीराव २ | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5251 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%B5 | अमृतराव | मराठा साम्राज्यस्य शासकः।
मराठाराजाः
मराठासाम्राज्यम्
महाराष्ट्रराज्यसम्बद्धाः स्टब्स्
न प्राप्तः भाषानुबन्धः
सर्वे अपूर्णलेखाः
सर्वे न प्राप्ताः भाषानुबन्धाः
चित्रं योजनीयम्
भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया |
5253 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%9F%E0%A4%A8%20%E0%A4%B0%E0%A5%82%E0%A4%9C | बेटन रूज | बेटन रूज लुईज़ियाना प्रदेशस्य राजधानी अस्ति।
टिप्पणी
बाह्यसम्पर्कतन्तुः
The Baton Rouge Digital Archive from the East Baton Rouge Parish Library
Selected Economic Data, Baton Rouge Area, 2012
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
5254 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%AF%E0%A5%82%20%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A5%80%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%B8 | न्यू आर्लीन्स | लुईजियाना प्रदेशस्य नगरम् अस्ति।
टिप्पणी
बाह्यसम्पर्कतन्तुः
Official Website of the City of New Orleans
Official Tourism Website of the City of New Orleans
History of New Orleans
New Orleans Collection, 1770–1904 from the New-York Historical Society
New Orleans PodCasting – Listen to the voices that are rebuilding New Orleans
A sampling of New Orleans music including jazz, R&B, rock and roll, funk, and brass band
New Orleans Cemeteries aka "The Cities of the Dead"
Army Corps of Engineers' New Orleans Risk and Reliability Report – Interactive map showing flood risk
Geology and Hurricane-Protection Strategies in the Greater New Orleans Area Louisiana Geological Survey publication on geology of New Orleans
Live Emergency Scanner Feeds Online
Who's Killing New Orleans? – City Journal
New Orleans Jazz And Heritage Festival
Louisiana Hurricane History, David Roth. National Weather Service, Camp Springs, MD. 2010.
स्थलम्
सर्वे अपूर्णलेखाः |
5255 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B5%E0%A4%AA%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%9F | श्रीवपोर्ट | लुईजियाना प्रदेशस्य नगरम् अस्ति।
बाह्यसम्पर्कतन्तुः
City of Shreveport official website
National Weather Service Shreveport office
Shreveport-Bossier Convention & Tourist Bureau
Shreveport/Bossier webpage
The Times newspaper
www.Shreveport.com
स्थलम्
विषयः वर्धनीयः
सर्वे अपूर्णलेखाः |
5258 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%80%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B8%E0%A4%BE%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%AE%E0%A5%8D | मीमांसादर्शनम् | मीमांसादर्शनं ( ()) (, ) भारतीयदर्शनेषु अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं विवदन्ते तथापि वेदानां कर्मपरताव्याख्यां धर्मस्वरूपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरूपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायाम् अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
मन् धातोर्निष्पन्नो मीमांसा शब्दः पूज्यविचार-यथार्थवस्तुरूप-अनुसन्धानादिषु अर्थेषु गृह्यते । वेदस्य कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रूपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकं विश्लेषणं कृतम् । किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्वमीमांसा एव कर्ममीमांसा इत्यपि कथ्यते ।
मीमांसदर्शने वेदविहितं कर्म एव धर्मरूपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतीयते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषद्ग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्त्वरूपाः सन्ति ।
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य चार्वाक-जैन-बौद्धैः वैदिककर्मकाण्डस्य खण्डनं कृतम् । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्यूत्तरमपि आत्मा स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां 'स्वर्ग' नामकस्य स्वतन्त्रतत्त्वस्य व्याख्या कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्गप्राप्तिर्भवति । स्वर्गः कः? अस्मिन् विषये तत्राेक्तम् -
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषाेपनीतं च तत् सुखं स्वःपदास्पदम् ।। इति ।
एतत्कृते 'अपूर्व'स्य सिद्धिरपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गादीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मणि सम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठते तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरूपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । वेदः कर्मविधानं करोति । वेदाः अपाैसरुषेयाः सन्ति । अतस्तत्र काम-क्राेध-लाेभ-माेह-मात्सर्यादयः पुरूषदाेषा न सन्ति । अतः वेदविहितं कर्म एव धर्मः । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् सत्यमेव अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते । मीमांसाशास्त्रस्य सूत्रमारः महर्षिः जैमिनिः । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । अत्र वैदिकयज्ञानामेव मुख्यधर्मत्वं स्वीक्रियते । धर्मानुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानं पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतच् शास्त्रं षाेडशाध्यायात्मकं वर्तते । तत्र द्वादशाध्यायाः प्रसिद्धाः सन्ति । प्रत्येकस्मिन् अध्याये चत्वारः पादाः विलसन्ति । परं तृतीयेध्याये अष्टाै पादाः सन्ति, एवमेव षष्ठे दशमे च ।
मीमांसाशास्त्रपरिचयः
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरूपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरणस्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्त्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मको विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –श्रुतेः क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीये – क्रमविशेषाणाम् एवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि षट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारविषयिकी चर्चा प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य सम्पादनं कर्तव्यम् ? इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गैः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गादिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म बाधितं भवति, एवमेव यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे – तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतिभूतयागे तु यागस्य दक्षिणारूपेण केवलं धेनुर्विहिता । अस्मिन् यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरूपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
मीमांसाशास्त्रस्य प्रयोजनवत्त्वम्
"चोदनालक्षणोऽर्थो धर्मः" इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्” इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् "स्वाध्यायोऽध्येतव्यः” इति ।
ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न काऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्माद् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्टम् अनुमानादिप्रमाणेन कल्प्यते । एवं स्वर्गरूपादृष्टफलं, केवलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफलं, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीयं भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरूपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरूपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधत्ते ।
स्वाध्यायोऽध्येतव्यः इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधाभावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं विध्यर्थे भवति । विध्यर्थः एव भावना इति गीयते । भावना द्विविधा अभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थीभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः "स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति शब्दश्रवणेन तव्य इत्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।
अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थीभावना इति । यतः इयं पुरुषस्य अर्थरूपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरूपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । वेदः अनादिः नित्यः सिद्धश्च । अतः अयं वेदः साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।
यस्मिन् क्रियाफलं तिष्ठति तत् उद्देश्यत्वेन भण्यते । एतदुद्देश्यं चतुर्धा भिद्यते – उत्पत्तिः प्राप्तिः विकारः , संस्कारश्चेति । तत्र उत्पत्तिः –कुलालस्य क्रियानुसारं घटस्योत्पत्तिर्जायते । गमनक्रियया देशान्तरस्य प्राप्तिः । पाकक्रियया तण्डुले अन्नात्मको विकारः । लाक्षारससेचनेन कर्पासबीजे गुणाधानद्वारा एकः संस्कारः उदेति । उद्देश्यत्वेन विहिताः इमे चत्वारः वेदे न सिध्यन्ति । यतः वेदस्य नित्यत्वाभ्युपगमात् अध्ययनप्रवृत्त्या तस्योप्तत्तिर्न भवति । स वेदः विभुः इति हेतोः तस्य प्राप्तिर्नास्ति । वेदे कृताध्ययनेन तस्मिन् न कोऽपि विकारः जायते । अध्ययनेन वेदस्य संस्कारः नोत्पद्यते । तस्मात् एतत् सिद्धं यत् वेदाध्ययनयोः उक्तेषु चतुर्षु कोऽपि आर्थिभावनायाः उद्वेश्यत्वेन भवितुं न शक्यते इति । उद्देश्यं विना भावनायाः व्यर्थत्वमापद्येत्, तदर्थमुद्देश्यत्वेन अर्थावबोधः अवश्यं स्वीकर्तव्यो भवति । यद्येवं नाङ्गीक्रयते, अध्ययनविधेः व्यर्थता स्यात् । अतः अध्ययनविधिसामर्थ्येन तस्य फलम्, अर्थज्ञानं तु केव्लाध्ययनेन न सिध्यति । अर्थज्ञानसम्पादनाय शास्त्रस्य अपेक्षा अस्तिम् । एकस्मिन्नेव कर्मणि कर्तुमकर्तुमन्यथा वा कर्तुं पुरुषस्य सामर्थ्यवत्त्वात्, एतत्कर्म एवमेव सम्पादनीयमिति कर्मानुष्ठाने एकस्य नियमस्य अपेक्षा अस्ति । तादृशीमपेक्षात्मिकामाकांक्षां एतन्मीमांसाशास्त्रं पूरयति । अर्थनिर्धारणे शास्त्रस्यास्य महान् उपयोगः अस्ति । तस्मात् अवश्यमेव एतन्मीमांसाशास्त्रमारम्भणीयमिति ।
यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थः स्वर्गफलं न भवति । यतः स्वर्गफलमदृष्टात्मकं भवति । सभ्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफलं कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरूपमदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषफलं लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्यं दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।
कुमारिलमतानुसारमधिकरणविवेचनम्
पूर्वमीमांसायां "अथातो धर्मजिज्ञासा” इति सूत्रेण प्रथमाधिकरणमारभ्यते । अवान्तरप्रकरणस्य नाम अधिकरणमिति । अधिकरण पञ्चावयवात्मकं भवति । यथा –
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।
सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥ इति ।।
विशयः नाम संशयः । यमुद्दिश्य विचारः क्रियते सः विषयः विषये यज्ज्ञानं प्रकारद्वयेन न स्पष्टीक्रियते सः भवति संशयः । प्रकारद्वये एकः भावरूपः, अन्यः अभावरूपः । कोटिद्वये वादी यस्मिन् पक्षे स्वमतमुपस्थापयति सः पूर्वपक्षः । प्रतिवादिनः पूवपक्षखण्डनात्मकः । सिद्धान्तः नाम उत्तरपक्षः । सङ्गतिः त्रिविधात्मिका भवति – अधिकरणसङगतिः, पादसङ्गतिः, अध्यायसङ्गतिश्चेति । सङ्गतेः स्वरूपमेवं भवति-अयं विचारोऽस्मिन्नधिकरणे, अस्मिन् पादे, अस्मिन्नध्याये कर्तव्यत्वेन यद्विहितं तत्समुचितम् इति एवं प्रकारात्मकः विचार एव सङ्गतिरित्युच्यते ।
भाट्टास्तु –सङ्गतिमधिकरणाङ्गत्वेन मन्यन्ते । ते तु सङ्गतिस्थाने उत्तरमिति अङ्गत्वेन स्वीकरिष्यन्ति । निर्णयोत्तरयोः अयं भेदः यत् उत्तर वादिमतस्य खण्डनमात्रं भवति, न तु सिद्धान्तः । यथा जात्युत्तरं तद्वत् । निर्णयः एव सिद्धान्तो भवतीति । एतेषां मतानुसारमयं श्लोकः –
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥ इति ।
एतेषां न्यायानुसारं –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादिश्रुतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।
गुरुमतपदौचित्यविचारः
एवमेव "गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयनः आसीत् । समये च तस्मिन् एकस्यां फक्किकायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्त्यम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । 'तत्र तु' इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्तं भवति इति सति पौनरुक्त्यं कथमिति प्रभाकरेण पृष्टे विषयेऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्वं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एतच्छ्रुत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एवं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्त्यमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिष्यानपृच्छन्, -केन एवं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानीमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यद् गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
प्रभाकरमतानुसारमधिकरणविवेचनम्
अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्यपदार्थः कः ? आचार्यत्वप्राप्तये यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेन आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमित्तं भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत" इति श्रुत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।
श्रुत्यादीनां प्रामाण्यविचारः
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इति मन्त्रदेवताहविरादिद्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन्ति श्रुत्यादिषट्प्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्था स्यात् । अतः पारदौर्बल्यमर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत्क्रमानुसारं सर्वेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्ठति । अस्याः अपेक्षया अन्ये लिङ्गादयः सर्वे दुर्बलाः भविष्यन्ति ।
श्रुतिः द्विप्रकारात्मिका अस्ति – एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक् तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि प्राप्यते । "श्योनं ते सदनं कृणोति” इति ब्राह्मणवाक्यानुसारं मन्त्रार्थं दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।
अर्थप्रकाशनसामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसारं भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम 'श्योनं ते' इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परस्परान्वितार्थपदानां यः समूहः तत् वाक्यमित्युच्यते । 'देवस्य त्वा' इति वाक्ये 'अग्नये जुष्टम्' इति भागस्यास्य निर्वापरूपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितलिङ्गेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमानं क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।
लिंगास्यानुमापकवाक्यमपि द्विविधम्-साक्षादनुमितभेदेन वाक्यस्य साक्षादुदाहरणं 'देवस्य त्वा' इति । अन्यस्योदाहरणम् –“समिधो यजति” इत्यस्यां श्रुतौ इष्टविशेषनिर्देशाभावात् यागेनानेन कस्याः भावना करणीया ? इत्याकांक्षायाम्, एवमेव 'दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्’ > इत्यस्मिन्नपि वाक्य कथं भावयेत् इत्याकांक्षायाम् इमे द्वे आकांक्षे यत्र प्रतिपादिते स्तः तत्प्रकरणम् भवतीति हेतोः तदेवात्र वाक्यद्वयस्य प्रमाणं भवति । प्रकरणमेतद् द्वयोस्तयोः एकवाक्यतां सम्पादयति । अर्थात् प्रकारणेन अनुमीयते तयोः एकवाक्यतात्मकः अर्थावबोधः , इति कृत्वा "समिधो यजति” इति वाक्यं लिङ्गापेक्षया दुर्बलम् ।
उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य- 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्’ (तै० स० २-२-११) इत्यादिना इष्टविधानं क्रियते । "इन्द्राग्नी रोचना दिवः (तै० सं ४-२-११)इत्यादि मन्त्रानुसार यथासंख्यपाठानुरोधेन यथाक्रमं विनियोगोऽपि उक्तः । एवं तत्तद्वाक्यं तत्तत्स्थानविशेषेण एकवाक्यत्वं भजते इत्यतः स्थानानुमानेन प्रकरणार्थः निश्चीयते । एवं प्रकरणार्थः वाक्ये, वाक्यं लिङ्गे लिंङ्ग श्रुतौ इति परम्परया प्रकरणार्थस्य विनियोगात् वाक्यापेक्षया प्रकरणं दुर्बलं भवति ।
उभयाकांक्षायाः अनुमापकं स्थानप्रमाणमपि द्विविधम्-साक्षादेकम्, अन्यत् समाख्यया अनुमितं चेति । समाख्या नाम योगबलम् अर्थात् अन्वर्थता इत्युच्यते । स्थानस्य साक्षादुदाहरणं प्रकरणे प्रतिपादितम् । अन्यानुमितस्योदाहरणम् –हौत्रम्, औद्गात्रम् इत्यादि । होतुरिदं हौत्रम् इति योगबलेन हौत्रादिसमाख्यया यल्लब्धं कर्म तत् होतुः पुरुषस्य अनुष्ठानयोग्यमिति अनुमीयते । समाख्या सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धस्य सिद्ध्यर्थं सन्निधिपाठरूपक्रमस्य कल्पना क्रियते । अनुमानेन पाठक्रमे सिद्धे सति तेन उभयाकांक्षायाः अनुमानं क्रियते । तेनानुमानेन एकवाक्यतायाः सिद्धिः इति हेतोः षट् प्रमाणेषु अन्तिमत्वेन दुर्बला भवति इयं समाख्या ।
तस्मात् समाख्या स्थाने अन्तर्भवति, स्थानं प्रकरणे अन्तर्भवति, प्रकरणं वाक्येऽन्तर्भावं भजते, वाक्यं लिङ्गे स्वात्मानमर्पयति, लिङ्गं स्वस्वरूपं श्रुत्या स्वीकरोति इत्यतः जैमिनिना उक्तम् – “ श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इति श्रुतिः वेदरूपः इत्युच्यते ।
प्रामाण्यवादविचारः
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः विशेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादिशब्दैः व्यपदिश्यते । भावाभावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारणत्वेन यः वादः अस्ति तस्य "प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारणविषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामाण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः
प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥
प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।
प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥
इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्यं स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्तं भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यम् एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामाण्यमपि उत्पन्नं भवति । प्रामाण्योत्पत्तौ गुणमथवा दोषाभावं विहाय अन्यः हेतुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यवादविचारः ।
सततं प्रामाण्ये मीमांसामतानुसारमनुमाने – विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा – “वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतमालभेत” इति विधेः प्रशंसां करोति । एवमेव "सोऽरोदीत्, यदरोदीत्, तद् रुद्रस्य रुद्रत्वम्" इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्, यदरोदीत्, तद् रुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा – श्येनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्त्रेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामनिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारूपमेतद् मीमांसादर्शनं भवति ।
वेदस्यापौरुषेयत्वविचारः
इमे ग्रन्थात्मकाः वेदाः अग्न्यादिप्राणविधवेदाः इव अपौरुषेयाः भवन्तीति मीमांसकाः । तत्र पौरुषेयत्वं नाम प्रमाणान्तरेण अर्थमुपलभ्य रचितत्वम् तत् वेदे नास्ति । अतः अयं वेदः अपौरुषेयः इति । अनेनैव कारणेन वेदस्य स्वतः प्रामाण्यमपि सिध्यति । पुरुषसम्बन्धसम्भाविताः भ्रम-प्रमाद-विप्रलिप्सादयः अप्रमाण्यहेतवः ये ते वेदे न मिलिष्यन्ति । वेदस्य ब्रह्मस्वरूपत्वात् तस्मिन् वेदे प्रतिपादितः वेदनारायण एव पुरुषः जीवः इति च वक्ष्यमाणत्वात् वेदस्यापौरुषेयत्वं सिद्धमिति एतेषां सिद्धान्तः ।
ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारूपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छ्वासरूपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्मन्त्रः –
तस्माद्यज्ञात्सर्बहुतः ॠचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
- (ऋ० सं० १०-३०३) इति एवमुपनिषदि-
यो ब्राह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि – मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्यः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
अत्रेदमवधार्यम् । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।
ईश्वरस्य निः श्वासरूपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुषवत् जननमरणधर्मौ न स्तः । ईश्वरः अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।
वेदस्य स्रष्टा ब्रह्म
ईश्वरः एव सम्पूर्णस्य जगतः सृष्टेः कारणरूपो भवति । तेनैव निर्मितं भवति इदं जगत् । यथा –लोके कुलालः घटस्य निर्माता भवति, घटनिर्माणात् पूर्वं तद्विषयकचिन्तां मनसि कृत्वा तज्ज्ञानं बुद्धौ सम्यगवधार्य अनन्तरं घटं निर्मास्यति एव परमात्मा प्राणिनां धर्माधर्मपुरस्सरं वेदोक्तरीत्या सृष्टिं करोति । यद्यपि वेदस्यापौरुषेयत्वमेव सिध्यति तथापि साक्षाद्वेदेनैव सृष्टयादयः न जायन्ते । अतः वेदस्य स्वतः अपौरुषेयत्वं ब्रह्मणा श्वासोच्छ्वासमुखेन प्रणीतत्वात् पौरुषेयत्वं च सिध्यतः । वेदस्य पौरुषयत्वमपि ब्रह्मणः नित्यत्वात् अपौषेयत्वं च सिध्यतः वेदस्य पौरुषतत्वमपि ब्रह्मणः नित्यत्वात् अपौरुषेयत्वमेव भजते जन्मनाशराहित्यात् । सत्वप्राणिनां धर्माधर्माः बुध्यादयश्च परमात्मनि वर्तन्ते । अयमीश्वरः तेषां धर्माधर्मानुसारेण चराचरप्राणिनां सृष्टिं करोति । तेषां भरणार्थं वेदानां निर्माणं करोति । यथा लोके पिता पुत्रमुत्पादयति, अनन्तरं तस्मै हिताय ज्ञानं बोधयति, तेन ज्ञानेन अहितानां कर्मणां परिहारं कर्तुं तस्य् शिक्षां ददाति तथा परमेश्वरः जीवानामिष्टप्राप्तेः अनिष्टपरिहारार्थं च वेदानां सृष्टिं करोति । किं च जीवानां सुकृत-दुष्कृतकर्मणां फलमीश्वरः ददाति । पूर्वमीमांसायां तु कर्म स्वतः अपूर्वोत्पादनद्वारा स्वस्य फलं ददाति इत्यभ्युपगम्यते । ईश्वरः इत्येको वर्तते वा न वा इत्यत्र एतेषां मीमांसा नास्ति । वेदान्तदर्शने परब्रह्म इत्येकम् अनन्तमनादि अस्तीत्यभ्युपगम्यते, तद वेदस्य् निर्मातृ भवति इति च पूर्वोत्तरमीमांसयोः अभेदः ।
किञ्च मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादिकर्मजातं चाल्यते इत्युच्यते । कर्मणः मुख्यत्वं प्राबल्यत्वं च दातुं मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुम् एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाक्रष्टुम् आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थं, सृष्टिगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।
वेदस्य नित्यत्वविचारः
भगवता परमर्षिणा जैमिनिना अभिप्रेतं यत् अर्थेन सह शब्दस्य सम्बन्धो भवति, अयं सम्बन्धः औत्पत्तिकरूपेण नित्यो भवति, न तु कृत्रिमः साङ्केतिको वा । तस्य नित्यत्वं स्वाभाविकमित्युच्यते । अतः एव विधिवाक्योत्पन्नज्ञानमबाधितं सत् सत्यं भवति वेदशब्दाः अज्ञातविषयाणां ज्ञानं जनयन्ति, अतः ते स्थायिनः भवन्ति । उच्चारणात् पूर्वं शब्दः अव्यक्तावस्थायां तिष्ठति, उच्चारणेन ते एव अव्यक्तभूताः शब्दाः व्यक्ताः भविष्यन्ति । अतः शब्दो नित्यः । उत्पन्ने शब्दे करणरूपक्रिया न सम्भवति । उच्चारणानन्तरमपि शब्दः तथैव तिष्ठति, किन्तु अव्यक्तावस्थायाम्, तदा तस्य नाशः न हि भवति । तस्माद् वेदो नित्यः इति । वेदशब्दानां नित्यत्वात् शब्दैः प्रतिपाद्यमाना देवता अपि नित्या एव भवति । एतेन देवतानामपि नित्यत्वं स्थापितं भवति ।
देवतानामेकत्वविचारः
ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरूपभूताः भवन्ति । 'एकं सद्विप्राः बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्योः इति । एतेषु पृथिव्याः देवता – अग्निः, अन्तरीक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्योः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापि वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् – “तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति- “नरराष्ट्रमिव" इति । यथा एकस्यैव राज्ञः कृते सर्व राष्ट्रं भवति, तद्वत् एकस्य परमात्मनः कृते सर्वं भवति । सर्वं परमात्मस्वरूपमित्यर्थः ।
चोक्तमुपनिषदि –
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरूपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छुतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते ।
मीमांसादर्शने ज्ञानसमीक्षा
मीमांसादर्शनेऽपि प्रमाजन्यस्य ज्ञानस्य प्रामाण्यं स्वीकृतमस्ति । मीमांसायाः प्रमाणलक्षणमस्ति -`कारणदोषबाधकज्ञानरहितं गृहीतग्राहि ज्ञानं प्रमाणम्’ इति । अर्थात् भ्रमरहितस्य संशयरहितस्य च अज्ञातस्य वस्तुनोऽनुभवः प्रमा कथ्यते । मीमांसादर्शने प्रमाणानां संख्या षट् वर्तते । यद्यपि प्रभाकरः पञ्चैव प्रमाणानि स्वीकरोति तथापि कुमारिलभट्टमते षट् प्रमाणानि स्वीकृतानि-प्रत्यक्षम अनुमानम्, उपमानम्, शब्दः, अर्थापत्तिः, अनुपलब्धिश्चेति । दर्शनेषु प्रत्यक्षानुमानयोः सन्दर्भे प्रायेण विवादो नास्ति । यद्यपि अनुमानप्रमाणविषये मीमांसकाः पञ्चावयववाक्यानि नैव स्वीकुर्वन्ति तथापि प्रतिज्ञाहेतूदाहरणनीति त्रीण्येव वाक्यानि परार्थानुमाने प्रतिपादयन्ति । मीमांसायाम् उपमानमपि भिन्नमस्ति । तथाहि तत्र उपमितिः आप्तवाक्यस्य स्मरणपूर्विका भवति, दृष्टवस्तुनः सादृश्यात् स्मृतवस्तुनः सादृश्यमनुमाय पदार्थज्ञानमत्र विधीयते अतः मीमांसोक्ते उपमानप्रमाणे शब्दानुमानयोः अपि संयोगोऽस्ति ।
मीमांसादर्शने शब्दप्रमाणस्यापि महत्त्वमस्ति । वाक्येन शब्दप्रमाणेन वा प्रायेण वेदवाक्यानि गृहीतानि सन्ति, किन्तु लौकिकवाक्यान्यपि आप्तेन कथितानि चेत् तेषां प्रामाण्यं स्वीक्रियते । मीमांसादर्शने वाक्यं द्वेधा प्रतिपादितम् सिद्धार्थकं विधायकं चेति । वेदेषु उपनिषद्वाक्यानि सिद्धार्थकानि सन्ति यानि च ब्रह्मणः स्वरूपादेः प्रतिपादकानि वर्तन्ते । अपराणि विधायकानि विधिवाक्यानि ब्राह्मणादिषूक्तानि सन्ति । तानि विधिवाक्यानि विनियोगवाक्यरूपेणापि प्राप्यन्ते । तानि सर्वाणि प्रमाणम् ।
मीमांसामतानुसारेण वेदप्रतिपादितं वस्तु कर्मरूपमस्ति न तु ज्ञानरूपम् यतो हि मीमांसादर्शने ज्ञानबोधकानां वाक्यानां तात्पर्यमपि विधिबोधकत्वमेवाभिमतम् । विहि तकर्माणि धर्मरूपाणि सन्ति, धर्मस्य प्रतिपादनं च मीमांसाया मूलभूतम् उद्देश्यं वर्तते । धर्मस्य विशेषता इयमस्ति यत् वेदविहितत्वात् तेषां प्रामाण्यं स्वीक्रियते । एवं चेत् वेदानां स्वतः प्रामाण्यम् अस्ति। वेदानां प्रामाण्यस्य प्रतिपादनमपि मीमांसायाः मुख्यं लक्ष्यमस्ति ।
मीमांसोक्तमतेन वेदाः नित्याः सन्ति । नित्यत्वादेव ते अपौरुषेयाः सन्ति अर्थात् वेदाः कस्यापि पुरुषस्य कृतिर्नास्ति । ऋषिभिः ऋचां दर्शनं कृतं, अतस्ते वेदानां रचयितारो न वर्तन्ते, ते केवलं मन्त्रदृष्टारः सन्ति । मीमांसामते वेदानां कर्त्ता ईश्चरो नास्ति । वेदे लोके च आप्तत्वात् शब्दप्रामाण्यमस्ति । शब्दो नित्यो वर्तते । शब्दोच्चारणं शब्दोत्पत्तिर्नास्ति । यतोहि उच्चारणात् पूर्व शब्दो विद्यमान आसीत् । यदि शब्दोऽनित्यः स्यात् तदा उच्चारणभेदेन तस्यानेकानि रूपाणि स्युः, किन्तु एकस्य शब्दस्य एकमेव कारणं भवति । शब्दस्य अर्थेन सह सम्बन्धोऽपि स्वाभाविक एवास्ति, कृत्रिमो नास्ति । अयमेवापौरुषेयो वेदो धर्मे प्रमाणम् अस्ति ।
मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदार्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकाणि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –
उत्पत्तिविधिः
विनियोगविधिः
अधिकारविधिः
प्रयोगविधिश्च
कर्मणः स्वरूपस्य प्रतिपादयिता विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सः प्रयोगविधिः कथ्यते ।
अर्थापत्तिः
कस्याप्यर्थस्य अन्यार्थं विना सिद्धौ असति तस्य सिद्धये पदार्थान्तरस्य कल्पना अर्थापत्तिर्भवति । यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते, इत्यादौ भोजनाभावे पीनत्वं सिद्धं नास्ति । अत्र दिवाभोजनस्य अभावोऽस्ति, पीनत्वसिद्धये तदतिरिक्तस्य रात्रिभोजनस्य कल्पना क्रियते । इदमेवार्थापत्तिप्रमाणम् । प्रत्यक्षानुमानशब्देस्वस्यान्तर्भावोऽसम्भ्व आसीत् अतः स्वतंत्रप्रमाणरूपेणेदं स्वीकृतम् । अर्थापत्तिर्द्विविधा प्रतिपादिता-श्रुतार्थापत्तिः दृष्टार्थापत्तिश्च ।
अनुपलब्धिः
अभावपदार्थस्य ज्ञापकं प्रमाणम् अनुपलब्धिर्भवति । यथा 'इह भूतले घटो नास्ति’ । मीमांसायां प्रमाणानां स्वतः प्रामाण्यं स्वीकृतमस्ति, अर्थात् ज्ञानस्य प्रामाणिकतां निर्धारयितुं ज्ञातेतरस्य कस्यापि साधनस्य आवश्यकता नास्ति । ज्ञानं प्रमाण्येन सहैव आविर्भूतं भवति । अतः मीमांसायां ज्ञानस्य स्वतः प्रामाण्यमेवाभीष्टम् अस्ति । दृष्टिकोणस्य भेदात् भ्रमज्ञानमुत्पद्यते । यथा 'इदं रजतम्’ इत्यादौ 'इदं’ पदेन प्रत्यक्षदृष्टस्य पदार्थस्य 'रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थास्य 'रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थान्तरस्य भेदकत्वं न प्रतीयते, दृष्टिभेदात् रजतस्य मिथ्याप्रतीतिर्जायते । इयमेव अख्यातिरस्ति ।
प्रमेयतत्त्वसमीक्षा
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्थाः एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रूपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रूपे सत्यमस्ति, यस्मिन् रूपे तद् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः इन्द्रियविषयरूपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरूपेण संसारस्य अवस्थितिर्विद्यते । जगद् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम् अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगद् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु यः परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।
शक्तिसिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकः पदार्थो विद्यते यस्य सद्भावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरूपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दाहकत्वाभावात् स्वरूपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
आत्मविचारः
आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरूपिणं कर्म स्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति, किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति । आत्मनो ज्ञानम् आत्मसंवित्तिद्वारा जायते इति कुमारिलभट्टस्य मतमस्ति । एतदनुसारं आत्मा ज्ञानस्य कर्त्ता कर्म च युगपद भवति । प्रभाकर इदं न स्वीकरोति । प्रभाकरमतेन प्रत्येकं वस्तुज्ञाने तेनैव ज्ञानेन आत्मज्ञानमपि कर्तृत्वेन प्रकाशितं भवति । आत्मैव अहंप्रत्ययस्य विषयो वर्तते ।
कर्ममीमांसा
धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अत एव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलमतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् । अनेन निष्कामेन सकामेन वा कर्मणा 'अपूर्व' पदार्थस्योत्पत्तिर्भवति । वस्तुतो वेदविहितस्य कर्मणः सम्पादनमेव मानवजीवनस्योद्देश्यमस्ति । अस्मादुत्पन्नम् अपूर्वमेव स्वर्गस्य प्रापकमस्ति । अर्थात् निष्कामधर्माचरणेन आत्मज्ञानेन च प्राणिनां सञ्चितकर्माणि नश्यन्ति । येन जननमरणयोः क्रमोऽवरुध्यते, जीवश्च शाश्वतसुखे लीनो भवति ।
मीमांसादर्शने ईश्वरविचारः
यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभीष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरूपेण ईश्वरः स्वीकर्त्तुं शक्यते । अत एव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् । 'सेश्वरमीमांसा’ नामकस्य ग्रन्थस्यापि इदमेवोद्देश्यमस्ति । प्रभाकरविजयेऽपि स्पष्टरूपेण ईश्वरोऽभिमतः । तथापि मीमांसकानाम् ईश्वर्ः श्रुतिसिद्धौ वर्तते, न तु अनुमानसिद्धः । सूत्रकारेण भाष्यकारेण च एतद्विषये चर्चा न कृता ।
मीमांसादर्शने मोक्षविचारः
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अत एव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थाश्च अभिमताः । एभिस्त्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरूपेऽवतिष्ठति । निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणाम् अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिककर्मणां सम्पादनेन सह आत्मज्ञानरूपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति । अात्मविषयकबाेधस्य दृढत्वं तु वेदान्तनिषेवणेन सम्पादनीयमिति वार्त्तककाराणां कुमारिलभट्टपादानां निर्देशाे वर्तते ।
मीमांसादर्शनस्य आचार्यपरम्परा
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । प्रसिद्ध इतिहासविद् युधिष्ठिरमीमांसकः जैमिनेः समयः विक्रमपूर्व ३००० वर्षाणीति प्रमाणयति । मीमांसासूत्राणां रचना षोडशसु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा 'द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः 'सङ्कर्षणकाण्ड’ इति नाम्ना प्रसिद्धाः वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।
जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरूपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरूपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरूपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशो वर्तते । नवमाध्याये ऊहनिरूपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरूपितः ।
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
आत्रेयः
आश्मरथ्यः
कार्ष्णाजिनिः
बादरिः
ऐतिकायनः
कामुकायनः
लाबुकायनः
आलेखनः
मीमांसासूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्द्यां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।
मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य 'तत्त्वशुद्धि’ रित्याख्या वृत्तिरपि मीमांसासूत्रेषु उपलभ्यते । कालान्तरे कुमारिलभट्टेन अस्य आलोचना विहिता ।
शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्याः अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।
कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्यनाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेकाः रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।
उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ताः पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता 'शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।
माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । 'भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।
प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमतापेक्षया भिन्नमतमयं प्रतिपादितवान् । अत एव प्रभाकरमतं गुरुमतनाम्ना पृथक् रूपेण प्रसिद्धमस्ति । गुरूपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । 'बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।
गुरुमतस्यैव आचार्यो महोदधिः वर्तते स्म । 'नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो दशमशताब्दी मन्यते । नयविवेकमधिकृत्य कालान्तरे वरदराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्थाः विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति । प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।
दर्शनप्रतिपादकाः
जैमिनिः
उपवर्षः
शबरस्वामी
कुमारिलभट्टः
प्रभाकरमिश्रः
मण्डनमिश्रः
उम्वेकभट्टः
शालिकनाथः
वाचस्पतिमिश्रः
पार्थसारथिमिश्रः
माधवाचार्यः
अप्पय्यदीक्षितः
अध्ययनकेन्द्राणि
श्री राजराजेश्वरी संस्कृत विद्यालयः स्वरणवल्ली http:www.swarnavalli.in || कर्नाटक ||
सम्बद्धाः लेखाः
योगदर्शनम्
न्यायदर्शनम्
दर्शनशास्त्रम्
वैशेषिकदर्शनम्
सन्दर्भः
बाह्यानुबन्धः
Purva Mimamsa Sutras of Jaimini
Overview of World Religions entry
Complete Lectures on Purva Mimamsa Sutras of Jaimini at ShastraNethralaya
मीमांसादर्शनम्
सारमञ्जूषा योजनीया |
5262 | https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 | भक्तियोगः |
अध्यायस्य सारः
भक्तियोगो गीताज्ञानस्य अमृतफलम् अस्ति । अयमेव 'राजविद्या’ शब्देनापि प्रोक्तः । अपि चायं सर्वेषां रहस्यानां रहस्यम् अस्ति । भक्तिं विना साधकस्य साधनरुपम् आचरणम् अपूर्णमेव तिष्ठति । विराटरुपिणो दर्शनस्यान्ते भगवान् श्रीकृष्णः प्रतिपादयति यद देवदुर्मभस्य विराटरुपिणः साक्षात्कारो न वेदेन, न तपस्यया, न दानेन, च चेज्यया विधातुं शक्यते अपितु अनन्यभक्त्यैव सः सम्भवति । अनयैव जीवः ईश्वरं प्रत्यक्षं द्रष्टुं क्षमते, तत्त्वतो ज्ञातुं शक्नोति, भगवता सह ऐक्यभावमपि लब्धुं क्षमते ! अनन्यभक्तितत्त्वस्य स्वरुपम् श्रीमद्भगदगीतायामेवं प्रकारेण निरुपतिम् –
मत्कर्मकृद् मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डवः ॥
यज्ञ-दान तपः प्रभृतीनि सर्वाणि कर्त्तव्यकर्माणि भगवद्रूपाणि मत्वा साधनारतः भगवन्त मेव परमाश्रयं मत्वा तत्प्राप्त्यर्थं सततं प्रयत्नशीलः भक्तियोगस्य अनुष्ठाता, अनासक्तः, सर्वप्रणिषु शत्रुभावारहितो जनो भक्तोऽस्ति । भक्तस्य साधनायाः स्वरुपमेव भक्तिरस्ति । भगवत्प्राप्तिरेव भक्तेः फलं विद्यते । श्रीमद्भगद्गीता लोकल्याणाय सगुण- सकाम –भक्तिमार्गाय उपदेशं प्रददाति । भक्तिः उपासनापद्धतिम् अवलब्य प्रवर्तिताऽस्ति । गीताया भक्तियोगे इतरसाधनेभ्योऽविरोधोऽस्ति ।
गीताया भक्तियोगे भक्तस्य महत्त्वं सर्वोपरि निर्धारितम् अस्ति । भक्ताश्चतुर्विधाः प्रतिपादिताः सन्ति-आर्तभक्ता, जिज्ञासुभक्ताः अर्थार्थिनो भक्ताः ज्ञानिनो भक्ताः । एषु चतुर्षु ज्ञानिनां श्रेष्ठता प्रतिपादिताऽस्ति । ज्ञानी भक्तो भगवत आत्मसरुपो भवति । यथोक्तम् –“ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते”। एवं श्रीमद्भगवद्गीता विविधमार्गेषु समन्वयं प्रदर्श्य साधनमार्गं सुगमं सुलभं च करोति ।
गीतोक्तम्तानुसारेण कर्म-ज्ञान- ध्यान-भक्तिमार्गः एकस्यैव ईश्वारस्य प्राप्त्युपायाः सन्ति । अध्यात्मसाधकः एषां मार्गाणां यथेच्छम् उपयोगं कर्त्तुं शक्नोति । गीतायाः साधनामार्गस्य प्रारम्भो निष्कामकर्मणा अनन्यशरणागतिभावेन च भवति । निष्कामकर्मणोऽनुष्ठानेन, नियमपूर्वकं ध्यानयोगस्य अभ्यासेन साधको ब्रह्मभावं प्राप्नोति । तस्य चेतसि समत्वभावना जागर्ति । एषैव ब्राह्मी स्थितिः गीतायां प्रतिपादिता ।
यदा ब्राह्मी स्थितिः समुदिता भवति, तदा साधकः उत्कृष्टां भक्तिं लभते । भक्तेरुदयानन्तरमेव परमज्ञानस्य अधिकारी भवति । परमज्ञानेनैव भगवतः स्वभावं स्वरुपं विभूतिगुणानाञ्च यथार्थतो जानाति । परमज्ञानस्यैव फलम् ईश्वरोपलब्धिरस्ति । ईश्वरोपलब्धये प्रतत्तिरावश्यकी अस्ति। प्रपत्तिमार्गोऽन्यमार्गाणां नैसर्गिकं पर्यवसानमस्ति । गीतायाः गुह्यं ज्ञानमिदमेवास्ति । उक्तञ्च –
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्यैवमात्मानं मत्परायणः ॥
वस्तुतो ज्ञानकर्मणोरुभयोः समन्वयः भक्तौ दृश्यते । भक्त एव यथार्थतः ज्ञानी कर्मयोगी च भवितुं शक्यते । स्वयं भगवता श्रीकृष्णेनोक्तम् शास्त्रज्ञानस्य, प्रत्यक्षदर्शनस्य, भगवदैक्यस्य च प्राप्तिरनन्यभक्त्यैव सम्भवति । सात्त्विकीं श्रद्धां दैवीं सम्पत्ति च विना अनन्या भक्तिर्नैव जायते । अतो भगवदभक्त्यै अभय –सत्त्व शुद्धयादि –सद्गुणानाम् उपार्जनं नितान्तम् आवश्यकमस्ति । इमेऽपि सदगुणाः सात्त्विकश्रद्धयैव उदभवन्ति, अतो दैवैसम्पत्तिं लब्ध्वा कर्मज्ञानयोश्च तदुपयोगं विधाय अनन्या भक्तिरेव आचरणीयेति गीतायाः सन्देशोऽस्ति ।
भक्तिज्ञानयोर्मध्ये आन्तरिकविरोधो न मन्तव्यः । यतो हि यावत् ज्ञानं न भविष्यति तावत् भक्तिः कुतः सम्भवा ? ज्ञानेनैव ईश्वरानुरागः समुदेति । भक्तिं विना ज्ञानमपि नीरसं वर्तते, ज्ञानं विना च भक्तिः नेत्रहीनेवास्ति । उभयोः परस्परं सम्बन्धोऽस्ति । अतः ज्ञानसम्पन्न एव जनः यथार्थभक्तो भवति । यश्च भक्तोऽस्ति, सः न कदापि ज्ञानमुपेक्षते । ज्ञानी अपि भक्तेरुपेक्षां कर्त्तुं न क्षमते ।
एवं भगवद्गीतायाः दार्शनिकविचाराणमयमेवाशयोऽस्ति यत् ईश्वरं प्रति समर्पणभावनां कृत्वा कर्म कुर्वाणो जनः अनासक्तभावेन न कदापि कर्मबन्धने निपतति न च सांसारिकतैव तस्मिन् प्रभावं निपातयति, जीवनसंग्रामे स्वच्छन्दो भूत्वाऽसौ कर्मयोगी ज्ञानस्य उपयोगेन सह भक्तिमाचरमाणो मुक्तिं लभते ।
श्लोकानाम् आवलिः
12.1 एवं सततयुक्रा ये….
12.2 मय्यावेश्य मनो….
12.3 ये त्वक्षरमनिर्देश्यं….
12.4 सन्नियम्येन्द्रियग्रामं….
12.5 क्लेशोधिकतरः तेषां….
12.6 ये तु सर्वाणि….
12.7 तेषामहं समुद्धर्ता….
12.8 मय्येव मन आधं….
12.9 अथ चित्तं समाधातुं….
12.10 अभ्यासेऽप्यसमर्थो….
12.11 अथैतदप्यशक्तोऽसि….
12.12 श्रेयो हि ज्ञानम्….
12.13 अद्वेष्टा सर्वभूतानां….
12.14 सन्तुष्टः सततं….
12.15 यस्मान्नोद्विजते….
12.16 अनपेक्षः शुचिः….
12.17 यो न दृश्यति न….
12.18 स्मः शत्रौ च ….
12.19 तुल्यनिन्दास्तुतिः….
12.20 ये तु धर्म्यामृतम्….
बाह्यसम्पर्कतन्तुः
भगवद्गीता (मूलश्लोकाः)
भगवद्गीता
0
भगवद्गीतायाः अध्यायाः
सारमञ्जूषा योजनीया |
5263 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%83%20%E0%A4%85%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%83 | श्रीः अरविन्दः | श्री अरविन्द (अरविन्दो घोष) (१८७२-१९५०) आधुनिक भारतस्य महान् योगीः एवं दार्शनिकः आसीत्।
श्री अरविन्दमहाशयः द्विसप्तत्युत्तराष्टादशशततमे (१८७२) वर्षे अगस्तमासस्य पञ्चदश(१५)दिनाङ्के जननं प्राप्तवान् । सः कोलकातानगरे बारिस्टर् मनमोहनघोषगृहे जन्म लेभे । तस्य पिता कृष्णधनघोषमहारायः कश्चित् प्रभुत्ववैद्याधिकारी । तस्य माता स्वर्णलतादेवी । सा प्रख्यातभारतीयसंस्कृतिपरिरक्षणयोधस्य ऋषिराजनारायणबोस्-महोदयस्य ज्येष्ठापुत्रिका । श्री अरविन्दः कृष्णधनघोषमहोदयस्य तृतीयसन्ततिः । विनयभूषणमनमोहनौ श्री अरविन्दस्य अग्रजौ । रतदेशस्वातन्त्र्यदिनोत्सवः अपि अगस्त-पञ्चदशदिनाङ्के एव खलु । श्री अरविन्दस्य श्वशुरः राजनारयणबोस् महोदयः विशिष्टदेशभक्तः ।
बाल्यं शिक्षा च
एकषष्ठयुत्तराष्टादशशततमे (१८६१)वर्षे बोस् महोदयः बेङ्गाल्-देशीयानां दृष्टिम् आङ्ग्लेयसंस्कृतिप्रभावतः परिवर्तयितुं, स्वकीयां संस्कृतिम्, आचारान् अनुसर्तुमपि महान्तं प्रयत्नं कृतवान् । श्री अरविन्दः क्रमेण आङ्गल्, हिन्दूस्थानी, लाटिन्, फ्रेञ्च्, ग्रीक्, गुजराती, मराठी, बेङ्गाली, संस्कृतभाषासु पण्डितः अभवत् । सप्तवर्षप्रायः श्री अरविन्दः " फाक्सफमिली" पत्रिकायाः कृते आङ्गलभाषायां पद्यानि विरचय्य प्रेषितवान् । सेइन्ट पाल्स, केंब्रिड्ज् आदि विद्यालयेषु तस्य नाम अरविन्द आक्राइडघोष नाम्ना लिखितम् । नवत्युत्तराष्टदशशततमे (१८९०) वर्षे ऐ सि यस् परीक्षायाम् उत्तीर्णः अभवत् । स्वपित्रा लिखितान् लेखान् पत्रिकाप्रकटनानि च दृष्ट्वा, पठित्वा तस्य स्वातन्त्र्यसङ्ग्राम - सङ्कल्पः कार्यरुपम् अलभत । ङ्ग्लण्ड्देशे निवसन् श्री अरविन्दः लण्डन् नगरे भारतीयैः आयोजिते प्रत्येकसमावेशे उपस्थितवान् । श्री अरविन्दः एकविंशति (२१) वर्षप्राये स्वदेशमागतवान् । एकोनविंशतिशततमे (१९००) वर्षे बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
कुटुम्बजीवनम्
श्री अरविन्दः एकाधिकैकोनविंशतितमे (१९०१) वर्षे भूपालचन्द्रबोस्-महोदयस्य पुत्रीं मृणाळिनीं परिणीतवान् ।
चतुरधिकैकोनविंशतिशततमे (१९०४) वत्सरे सः बरोडा कलाशालायाः उपध्यक्षः अभवत् । श्री के यम् मुन्षी
श्री अरविन्द् महोदयस्य शिष्यः । भारतजातीयोद्यम् इत्येतस्याः संस्थायाः लक्ष्यं उध्दोषणञ्च स्वराज् इति आसीत् । श्री अरविन्दः एतत् पदम् आध्यात्मिक-राजकीयप्रामुख्येन चापि उपयुक्तवान् । सः भारतीयसंस्कृतिविषये "दि रिनेसान्स् इन् इण्डिया" इति ग्रन्थं लिखितवान् । साहित्यसम्बद्धं
"कालिदासः"," व्यासः वाल्मीकिश्च्" इति ग्र्न्थद्वयं रचितवान् । जातीयताविष्ये " बङ्किम -तिलक- दयानन्द " इत्येकं ग्रन्थम् अरचयत् । राजकीयक्षेत्रे, साहित्ये, आध्यत्मिकक्षेत्रेष्वपि सः बहुधा भारतमातुः अर्चनं कृतवान् ।
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ।।
सावित्री महाकाव्यम्
सावित्री: आख्यायिका तथा प्रतीकः श्री अरविन्दस्य काव्यात्मकः मुख्यग्रन्थः अस्ति । सः सावित्री-सत्यवान्-कथायाः प्रतीकात्मकं अर्थं दत्तवान् । तयोः मूल-आख्यायिका महाभारते कथ्यते यत्र अस्याः ३०० श्लोकानां दीर्घता अस्ति । एतत् संक्षिप्तं प्रकरणं गृहीत्वा श्री अरविन्दः १२ पुस्तकैः ४९ कान्टोभिः सह प्रायः २४००० पङ्क्तयः महाकाव्यरूपेण रचयति । एवं महत्याः दाम्पत्य-निष्ठायाः मूलकथा दीव्यप्रसादस्य सावित्रीरूपेण पृथिव्याम् अवतरितस्य मुक्तिकथा भवति यत्र मानवाः अजानात्, अचेतनात्, मृत्योः च विमुच्यन्ते। अत्र श्री अरविन्दः स्वस्य आध्यात्मिक-ओडिसीं निवेदयति विकासस्य अतिमानसिक-पदं प्राप्तुम् च स्वस्य प्रयत्नान् वर्णयति ।
अस्मिन् क्रमे सः इतिहास-भूगोल-विज्ञान-काव्य-दर्शन-क्षेत्रेभ्यः बहूनां विषयान् निर्दिशति अथवा ब्रह्माण्डस्य मनुष्याणां च उत्पत्तिविषये उपचारं करोति । अपि च सर्वविधयोगाभ्यासानां विशेषतया पूर्णयोगमार्गस्य च चिकित्सां करोति । प्रथमभागः (पुस्तकानि I-III) मुख्यतया राज्ञस्य अश्वपतेः (सावित्रीपितुः) योगस्य विषये केन्द्रितः अस्ति । द्वितीयतृतीयभागयोः विषयः विशेषतया सावित्री-सत्यवतयोः समागमः, तेषां गहन-आध्यात्मिक-प्रेम, यमदेवेन सह सावित्र्याः युद्धं च, यदा सः सत्यवतः आत्मानं ग्रहीतुं आगत्य तस्याः अदम्यप्रतिरोधं मिलति ।
ग्रन्थाः
सम्पूर्णं संस्करणम्
Complete Works of Sri Aurobindo (CWSA). Pondicherry: Sri Aurobindo Ashram 1995
1. Early Cultural Writings. 2. Collected Poems. 3.-4. Collected Plays and Stories. 5. Translations. 6.-7. Bande Mataram. 8. Karmayogin. 9. Writings in Bengali and Sanskrit. 10.-11. Record of Yoga. 12. Essays Divine and Human. 13. Essays in Philosophy and Yoga. 14. Vedic and Philological Studies. 15. The Secret of the Veda. 16. Hymns to the Mystic Fire. 17. Isha Upanishad. 18. Kena and Other Upanishads. 19. Essays on the Gita. 20. The Renaissance of India with a Defence of Indian Culture. 21.-22. The Life Divine. 23.-24. The Synthesis of Yoga. 25. The Human Cycle – The Ideal of Human Unity – War and Self-Determination. 26. The Future Poetry. 27. Letters on Poetry and Art 28.-31. Letters on Yoga. 32. The Mother with Letters on the Mother. 33-34. Savitri – A Legend and a Symbol. 35. Letters on Himself and the Ashram. 36. Autobiographical Notes and Other Writings of Historical Interest. 37. Reference Volume (unpublished)
संस्कृत-ग्रन्थाः
श्रीअरविन्दोपनिषद्, ISBN: 978-81-7058-488-9
श्रीमाता, ISBN: 978-81-7058-338-7
दुर्गास्तोत्रम्, ISBN: 978-81-7058-564-0
भवानी भारती, ISBN: 978-93-5210-123-8
भर्तृहरिनीतिशतकम् (freely rendered into English verse) ISBN: 978-81-7060-120-3
टिप्पणी
आधुनिकगुरवः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
आधुनिकधार्मिकव्यक्तयः
पश्चिमवङ्गस्य धार्मिकव्यक्तयः
पश्चिमवङ्गस्य क्रान्तिकारिणः
योगगुरवः |
5264 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%83 | रमणमहर्षिः | आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतमः। सः आत्मज्ञानप्राप्त्यर्थम् 'अहं कः?’ इति आत्मविचारविषयकस्य
ज्ञानमेव प्रमुखं साधनम् इति बोधितवान् । अग्रे सः एव विषयः विस्तारितः भूत्वा गुरुं प्रति अथवा इष्टदेवतां प्रति शरणागतिः अपि उत्तमं साधनम् इति उक्तवान् । ये अन्यविधानानि अनुसरन्ति स्म तादृशेभ्यः साधकेभ्यः अपि सूचनां, मार्गदर्शनं च करोति स्म ।
जीवनम्
तस्य पूर्वतनं नाम वेङ्कडरमण-अय्यर् । तमिळ्नाडुराज्यस्य मधुरै समीपस्य तिरुचुरिग्रामे जन्म अभवत् । पिता सुंंदरमय्यर माता अळगम्माळ । तेषां कुटुम्बस्य चतुर्षु पुत्रेषु एषः द्वितीयः । १८९६ तमे वर्षे तन्नाम षोडशे वयसि जातस्य आत्मप्रज्ञानुभवस्य अनन्तरं शास्वतरुपेण अरुणाचलं प्रति (तिरुवण्णामलै) आगतवान् । ततः शेषायुष्यं तत्रैव यापितवान् ।
बोधनम्
श्री रमणमहर्षिः आत्मविचारं तन्नाम , आत्मज्ञानप्रप्त्यर्थम् 'अहं कः?’ इति विचारस्य आत्मान्वेषणविधानम् उत्तमसाधनं भवितुम् अर्हति इति विचारं बोधितवान् । एतत् विधानं 'श्री रमण नुट्रिएट्टु’, प्रबन्धे विस्तरेण विवृतवान् अस्ति । आत्मविचारकं विधानं नाम बुद्ध्यात्मक व्यायामः इति अपार्थः न करणीयः इति उक्तवान् । योग्यरीत्या कृतः आत्मविचारः 'अहम् इति संवेदनाम् अतिरिच्य चिन्तनं विना सुभद्रतया,प्रखरतया च केन्द्रीकृतं भवति इति। स्व- आत्मविचारं सः एवं विवृतवान् अस्ति-
“ मम मातुलस्य गृहे प्रथमे अट्टे एकस्मिन् प्रकोष्ठे उपविष्टवान् आसम्। अहं कदाचित् एव ज्वरपीडितः भवामि स्म । आरोग्ये अन्यः कोऽपि क्लेशः न आसीत् । तथापि हठात् मम मनसि मरणस्य भयम् उत्पन्नम् । एतस्य निमित्तं आरोग्यसम्बद्धः कोऽपि हेतुः न आसीत् । भयस्य कारणम् अन्वेष्टुम् अपि मनः न प्राभवत् । अहं मरणं प्राप्नुवन् अस्मि इति भावना उत्पन्ना । यदि मरणं सन्निहितं तर्हि किं करणीयम् इति चिन्तितवान् । मरणभीत्याः आधाततः अहम् अन्तर्मुखः अभवम् । स्तब्धः अहं मनसि एव विचिन्त्य स्वगतं एवम् उक्तवान् “ इदानीं मरणं सन्निहितं, मरणम् इत्युक्ते किं स्यात्? किं नश्यति, एतत् शरीरं नश्यति’ अनुक्षणं मरणं जातमिव नटनं कृतवान् । शरीरं ह्स्तौ, पादौ साक्षात् प्रसार्य, चलनेन विना शवः इव अनुसरणं कृतवान्। एतस्य विषयस्य वास्तविकतां ज्ञातुं श्वासं अवरुद्ध्य ओष्टौ दृढीकृत्य, (अहम् इति वा अन्यः वा शब्दः कदाचित् बहिः निस्सरेत् इति कारणतः ) यथा शब्दः न भवेत् तथा पिधानं कृतवान् । तदा स्वगतम् उक्तवान् “ सत्यम् एतत् शरीरं नष्टम्, एतस्य दहनं कुर्वन्ति, शरीरस्य दहनमात्रेण अहं मृतः इति अर्थः वा? 'अहम्’ इत्याख्यम् एव शरीरं वा? तत् तु मौनं जडं च। किन्तु अहं मम व्यक्तित्वस्य सम्पूर्णां शक्तिं तथा मयि विद्यमानम् 'अहम्’ इति स्वरः भिन्नौ इत्यस्य अनुभवं प्राप्तवान् । अतः एतस्मात् शरीरात् भिन्नं चैतन्यम् (चेतनं कदापि मरणं न प्राप्नोति)। तन्नाम 'अहं’ इत्यस्य मरणं नास्ति । सर्वदा चैतन्ययुक्तं भवति । एवं चिन्त्यमानाः विचाराः, एतादृशानि चिन्तनानि वा सामान्यानि न । जीवन्ति सत्यानि इति विषयः मनसि स्फुरितः। अहम् इत्येतत् किञ्चन सत्यम्। प्रस्तुतस्थितौ अहम् इत्यनेन एकेनैव सत्यत्वं प्राप्तम् आसीत् । अपि च शरीरेण प्रज्ञापूर्वकं योजिताः अंशाः सर्वे 'अहम् 'इत्यत्र केन्द्रीकृतानि आसन् । अनुक्षणं 'अहम्’ अथवा 'आत्मा’ इत्यंशः प्रबलः सन् सर्वं चिन्तनं तत्र केन्द्रीकृतम् अभवत् । मरणस्य भयं चिरम् अपगतम् । अहं नामकः विषयः आत्मप्रज्ञायाः महापूरे विनष्टः। तदारभ्य आत्मलीनता लुप्ततां विना अनुवर्तिता। इतरे विचाराः सङ्गीतस्य नादाः इव तदा तदा आगत्य गच्छन्ति स्म। किन्तु 'अहम्’ इति विषयःमूलश्रुतिः इव अनुवर्तिता। सा इतरनादानां मूलशिला इव नादानां योजनस्य श्रुतिः अभवत्।
अद्वैतसिद्धान्तं, रमणमहर्षिणः बोधनं च
श्री रमणमहर्षेः बोधने तथा शङ्कराचार्यणां विस्तृतेषु अद्वैतसिद्धान्तेषु च बहुसादृशम् अस्ति तथापि केचन भेदाः भवन्ति ।
• अद्वैतसिद्धान्तं नकारात्मकं 'नेति, नेति (एतत् न , एतत् न ) मार्गं सूचयति। श्रीरमणमहर्षिः सकारात्मकं 'अहं कः ?’ इति विचारं सूचयति ।
• अद्वैतसिद्धान्तम् आत्मानं विहाय आत्मरहिताः इतरकोशाः (अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च) त्यक्तव्याः इति बोधयति । रमणमहर्षिः “ अहं कः ? इति रुपस्य विचारः प्रमुखं साधनम् । मनसः शमनं कर्तुं अन्यः मार्गः नास्ति । यदि अन्यामार्गेण मनसः शमनार्थं प्रयतन्ते चेदपि तात्कालिकं शमनं जातं भवति किन्तु तस्य पुनरुत्थानं भवितुम् अर्हति” इति सूचितवान् ।
"
आधुनिकधार्मिकव्यक्तयः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
सारमञ्जूषा योजनीया
परिशीलनीयानि |
5266 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80 | स्वामी शिवानन्दसरस्वती | आधुनिक भारतस्य ऋषिः आसीत्।
आधुनिकगुरवः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
सारमञ्जूषा योजनीया
आधुनिकधार्मिकव्यक्तयः
हिन्दुधर्मसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
5267 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%83 | स्वामी नारायणः | घनश्याम पाण्डे अथवा स्वामीनारायण अथवा सहजानन्द स्वामी (जीवितकालः क्रि.श. १७८१तमवर्षस्य एप्रिल् द्वितीयदिनतः क्रि.श. १८३०तमवर्षस्य जून् प्रथमदिनपर्यन्तम्) सनातनधर्मस्य स्वामीनारयणसम्प्रदायस्य प्रवर्तकः । सः भगवतःविष्णोः अवतारः । भागवतपुराणम्, स्कन्दपुराणं च भगवतः अवतारस्य सङ्केताः वर्तन्ते । | स्वामीनारायणस्य शिक्षापत्री स्वामिनारायण सम्प्रदायस्य मूलग्रन्थः। शा.श.१८३७तमे वर्षे विक्रमसंवत्सरस्य चैत्रशुद्धनवम्यां श्रीरामजन्मभूमौ अयोध्यायायाः समीपे (क्रि.श. १७८१तमेवर्षे एप्रिल् मासस्य तृतीये दिने) छपिया इति ग्रामे भगवतः जन्म अभवत् । तद्दिनं रामनवमी इति कारणेन सर्वत्र पर्ववातावरणम् आसीत् । पिता हरिप्रसादः पण्डेयः माता भक्तिदेवी च तस्य नाम घनश्यामः इति कृतवन्तौ । बालकस्य हस्ते पद्मरेखा, पादे वज्ररेखा, ऊर्ध्वरेखा, कमलचिह्नं च आसन् । एतद्दृष्ट्वा ज्योतिष्कः "एषः लक्षाधिजनानां जीवनदिशाः परिवर्तयिश्यति " इति अवदन् ।
बाल्यं शिक्षा च
पञ्चमे वयसि बालकस्य अक्षराभ्यसः कारितः । अष्टमे वयसि उपनयनसंस्कारः कृतः । बाल्ये एव एषः अनेकेषां शात्राणाम् अध्ययनं कृतवान् । यदा एषः एकादशे वयसि आसीत् तदा मातापित्रोः अकालमृत्युः अभवत् । कालक्रमेण सहोदरेण सह विवादः अभवत् । अतः गृहं त्याक्त्वा सप्तवर्षणि समग्रदेशस्य पर्यटनं कृतवान् । जनाः तं नीलकण्ठवर्णी इति सम्बोधयन्ति स्म । गोपालयोगिना एषः अष्टाङ्गयोगविद्यां प्राप्तवान् । उत्तरे हिमालयपर्यन्तं दक्षिणे काञ्ची, श्रीरङ्गम्, रामेश्वरम् इति क्षेत्राणां पर्यन्तम् अगच्छत् । एतत्पश्चात् नासिकनगरद्वारा पण्ढरापुरं गत्वा गुजरात् नगरम् आगच्छत् । कदाचित् नीलकण्ठवर्णी मङ्गरोलस्य समीपे लोज् इति ग्रामम् आगतः । तत्र तस्य परिचयः स्वामिनः रामानदस्य शिष्यस्य स्वामिनः मुक्तानन्दस्य परिचयः अभवत् । नीलकण्ठवर्णी स्वामिनः रामानन्दस्य दर्शनाकाङ्क्षी आसीत् । तत्र रामानन्दः श्वशिष्यैः वदति स्म यत् अहं तु केवलं ढक्कावादकः वास्तवे नटः इदानीम् अगच्छति । अस्य सन्दर्शस्य पश्चात् रामानन्दः नीलकण्ठवर्णीं मुक्तानन्देन सह वस्तुम् अवदत् । नीलकण्ठवर्णी अस्य आदेशं शिरसा अवहत् । तेषु दिनेषु मुक्तानन्दः कथां कथयति स्म । कथाः श्रोतुं महिलाः पुरुषाः च आगच्छन्ति स्म । नीलकण्ठवर्णी दृष्टवान् यत् कथाश्रवणावसरे साधूनां लक्ष्यं महिलानां दिशि चलति स्म । अतः सः पुरुषमहिलयोः कथाश्रवणव्यवस्थां पृथक् कृतवान् । क्रमेण प्रयासपूर्वकं महिलाकथावाचिकानां निर्माणम् अपि कृतवान् । सन्न्यासिभिः तेषाकृते कृतनियमानां पालनम् अनिवार्यतया करणीयम् इति अस्य मतमासीत् ।
दीक्षा पर्यटनं च
केषुचित् दिनेषु गच्छात्स्य स्वामी रामानन्दः नीलकण्ठवर्णिनं पिपलाणाग्रामं नीत्वा तत्र तस्मै सन्न्यासदीक्षां दत्त्वा तस्मै सहजानन्दः इति मम अकरोत् । एकसंवत्सरानन्तरं जयपुरे स्वसम्प्रदायस्य आचार्यपदमपि दत्तवान् । कञ्चित्कालपश्चात् रामानन्दस्य देहान्तः अभवत् । क्रमेण सहजानन्दः ग्रामात् ग्रामं गत्वा जनान् स्वामिनारायणमन्त्रं जप्तुम् सूचितवान् । निर्धनानां सेवाम् एव आद्यं कर्तव्यम् इति मत्वा सर्ववर्गजनान् अत्मना सह योजितवान् । अनेन अस्य ख्यातिः इतोप्यतिशयेन वर्धिता । सः पञ्चव्रतं पालयितुं स्वशिष्यान् सूचयति स्म । तन्नाम् मांसस्य मदिरायाः, चौर्यस्य व्यभिचारस्य च त्यागः स्वधर्मपापनम् इति । स्वकृतान् नियमान् प्रथमं स्वयं पालयति स्म । एषः हिंसायज्ञं, बलिप्रथा, कन्याहत्या, सतीप्रथा, भूतबाधा इत्यादीनि अनिष्ठानि निषेधितवान् । अस्य कार्यक्षेत्रं विशेषतः गुजरात्राज्यम् आसीत् । प्राकृतिकविपत्तिषु भेदभावं विना सर्वेषां सहायतां करोति स्म । एतादृशं सेवाभावं दृष्ट्वा जनां तं भगवतः अवरारः इत्येव मन्यन्ते स्म । एष अनेकानि मन्दिराणि निर्मितवान् । निर्माणवसरे स्वयं श्रमदानं करोति स्म । जनेषु धर्मस्य विषये एवमेव श्रद्धाभावं जागरयन् स्वामी क्रि.श. १८३०तमे वर्षे देहत्यागम् अकरोत् । अद्य अस्य अनुयायिनः विश्वे सर्वत्र सन्ति । एते मन्दिराणि सेवाज्ञानकेन्द्राणि कृत्वा कार्याणि कुर्वन्ति । गुजरातस्य देहलीनगरस्य च अक्षरधाम स्थापत्यकलायाः अनुपमः दृष्टान्तः ।
उल्लेखाः
आधुनिकगुरवः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
आधुनिकधार्मिकव्यक्तयः
स्वामिनारायणसम्प्रदायः |
5268 | https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%83 | भक्तिवेदान्तस्वामी प्रभुपादः | वैदिकसाहित्यस्य उक्त्यनुगुणं भागवान् श्रीकृष्णः प्रायः ५००वर्षेभ्यः पूर्वम् श्री चैतन्यमहाप्रभुः भूत्वा पश्विमबङ्गालराज्ये मायापुरे अवतरणं कृतवान् । अयं कश्चन सुवर्णावतारः ।
चैतन्यमहाप्रभुः हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। हरे राम हरे राम राम राम हरे हरे॥ इति भगवतः पवित्रनामस्मरणम् अभ्यासे आनीतवान् । अपि च एतत् सप्तसागरान् तीर्त्वा सर्वदेशेषु गुञ्जति इति भविष्यवाणीम् उक्तवान् । अस्य वाणी अभयचैतन्येन, भक्तिवेदन्तस्वामिप्रभुपादेन,च सत्यीकृतम् ।
बाल्यं वेदान्तप्रवेशः च
श्रीलप्रभुपादः इति विश्वप्रसिद्धः यतिः इस्कान् भक्तिपथस्य संस्थापकस्य बाल्यनाम अभय डे इति । एषः क्रि.श १८९६तम वर्षस्य सप्टम्बर् मासस्य प्रथमे दिने (कृष्णजन्माष्टम्याः अग्रिमे दिने)
कोलकतायाःटालिगुञ्ज् इति उपनगरे अजायत । पिता गौरमोहन डे, माता रजनी । एतयोः दम्पत्योः प्रियसूनुः एव अभय डे । पुत्रस्य जातकं दृष्ट्वा ज्योतिर्विद् उक्तवान् यत् अयं स्वस्य ७०तमे वयसि भारतस्य समुद्रं तीर्त्वा विश्वे सर्वत्र कृष्णभक्तेः प्रसारं कृत्वा १०८ श्रीकृष्णमन्दिराणि स्थापयिष्यति इति भविष्यवाणीम् अवदत् । भगवतः श्रीकृष्णस्य परमभक्तः गौरमोहनः प्रतिदिनं श्रीकृष्णस्य अर्चनम्, कीर्तनं, नैवेद्यं च आचरति स्म । पितुः कृष्णभक्तिं दृष्ट्वा बालकः अभयः अपि भगवतः ज्ञानस्य सेवायाः च इच्छुकः अभवत् । अभयस्य अभ्यर्थनानुसारं तम् उत्तमं वैष्णवं कारयामि इति धिया तस्मै राधाकृष्णस्य कांचित् मूर्तिम् अयच्छत् । तदारभ्यः पितरम् अनुसरन् अभयः राधाकृष्णस्य पूजाम् आरब्धवान् । राधाकृष्णाय अर्पितं नैवेद्यं केवलं एषः खादति स्म ।
जगन्नाथरथयात्रा
ओडिशायाः जगन्नाथपुर्यां सहस्रवर्षेभ्यः आचर्यमाणा रथयात्रा बालकस्य अभयस्य मनसा आकृष्टम् । अहमपि एतादृशीं रथायात्राम् आचरामि इति अस्य मनसि आशा समुत्पन्ना । अस्य उत्कटेच्छां पितरम् उक्तवान् । पिता सर्वविधं साहाय्यम् अकरोत् । बालकः अभयः स्वमित्रैः सह निरन्तरं सप्तदिनानि कोलकतानगरस्य वीथीषु वैभवेन श्रीजगन्नाथरथयात्रम् अकरोत् । गौरमोहनः स्वगृहे यतिवर्यान् आनीय तान् सम्पूज्य पुत्रः श्रीराधाकृष्णस्य अनुपमः भक्तः यथा भवेत् तथा आशीर्वक्तुम् प्रार्थयति स्म । क्रमेण अभयः उन्नताध्ययनार्थं कलकतायाः प्रसिद्धं महाविद्यालयं प्रविष्टवान् ।
भक्तिसिद्धान्तसरस्वतीठाकूरस्य सन्दर्शनम्
अभयः क्रि.श. १९२२तमे वर्षे कस्यचिन्मित्रस्य सूचनानुगुणं तदानीन्तनकालस्य प्रसिद्धवैष्णवविद्वांसस्य गौडीयमठस्य संस्थापनाचार्यं श्रीमत् भक्तिसिद्धान्तसरस्वतीं ठाकूरं इत्येनं सन्दर्शितवान् । प्रथमदर्शने एव श्रीलभक्तिसिद्धान्तसरस्वती ठाकूरः अभयं (श्रीलप्रभुपादम्) आदिष्टवान् यत् भगवद्गीतायाः दिव्यसन्देशम् आङ्ग्लभाषया प्रचारं करोतु इति । ठाकूरस्य तेजसा पाण्डित्येन च महता प्रभावितः श्रीलप्रभुदः तम् अध्यत्मगुरुः इति अङ्गीकृत्य तस्य सेवा एव जीवनस्य महालक्ष्यम् इति भावितवान् । एकादशवर्षानन्तरं क्रि.श १९३२तमवर्षस्य नवेम्बर् मासस्य २१तमे दिने श्रीलप्रभुपादः ठकूरेण दीक्षां प्राप्य तस्य शिष्यः अभवत् । पश्चात् अस्य नाम अभचरणदासः इति अभवत्।
गुरोः देहत्यस्य पश्चात्
श्रीलप्रभुपादः यथासाध्यं गौडीयमठस्य संवर्धने सहायः अभवत् । क्रि.श. १९३७तमवर्षस्य जनवरिमासस्य प्रथमे दिने श्रील भक्तिसिद्धान्दसरस्वती ठाकूरः देहत्यागम् अकरोत् । तस्य पश्चात् कः इति प्रश्नस्य समीचीनमुत्तरं नासीत् । तथापि श्रीलप्रभुपादः अविचलितः स्वस्य गुरोः आदेशं सम्पूरयितुम् बद्धकटिः भक्तिसेवाम् अनुवर्तितवान् ।
आङ्ग्लभाषया अध्यात्मप्रसारः
क्रि.श. १९४४ तमे वर्षे श्रीलप्रभुपादः ब्याक् टु गाड् हेड् (Back to Godhead) इति नाम्नः आङ्ग्ल्पत्रिकाम् आरब्धवान् । अनेन माध्यमेन आध्यात्मिकज्ञानस्य प्रचारम् अकरोत् । भारते आध्यात्मिकसंस्थां स्थापयितुं पूर्वमपि केचन प्रयत्नं कृतवन्तः । क्रि.श. १९५३ तमे वर्षे जान्सीप्रदेशे लीग् आफ् डिवोटीस् (League of Devotees) इति भक्तगणः आरब्धः । श्रीलप्रभुपादस्य पत्रिका अन्यदेशेषु अपि वितीर्णा । गुरुवचनानुगुणं क्रि.शा १९५४ तमे वर्षे संसारं त्यक्त्वा वानप्रस्थाश्रमम् आश्रित्य अग्रे क्रि.श. १९५९ तमवर्षस्य सेप्टम्बर् मासस्य प्रथमदिने संन्यासदीक्षाम् अपि स्वीकृतवान् । पश्चात् त्रिदण्डिभिक्षु आभयचरणारविन्द भक्तिवेदान्तस्वामी अभवत् ।
भागवतपुस्तकानाम् अनुवादः रचनं च
केवलेन पत्रिकामाध्यमेन ब्रह्ममध्वगौडीयवैष्णवसिद्धान्तानां प्रचारं करोति स्म । कस्यचित् सेनाधिकारिणः सूचनानुसारं पुस्तकानि लेखितुम् आरब्धवान् । अस्य प्रथमः ग्रन्थः ईसि जर्नि टु प्लानेट्स् (Easy journey to other planets) क्रि.श. १९६०तमवर्षे प्रकाशितः । तत्पश्चात् प्रभुपादः स्वजीवनस्य अत्युकृष्टं योगदानं भगवद्गीतायाः आङ्ग्लानुवादं कृतवान् । स्वजीवितकालस्य अग्रिम १७वर्षाणि ईशोपनिषत्, चैतन्यचरितामृतम्, भक्तिरसामृतसिन्धुः, उपदेशामृतसिन्धुः इत्यादीनि अशीत्यधिकपुस्तकानि व्यरचयत् ।
इस्कान् संस्थायाः आरम्भाः
सनातनधर्मस्य दिव्यसन्देशः विश्वाद्यन्तं प्रसारणीयः इति श्रीलभक्तिसिद्धान्तस्य आदेशं सम्पूरयितुं श्रील प्रभुपादः क्रि.श. १९६५तमे वर्षे सुमति मोरार्जि इत्यस्य जलदूतः इति नौकायाने अमेरिकादेशम् अगच्छत् । एकवर्षस्यानन्तरं क्रि.श. १९६६ तमेवर्षे न्यूयार्क् नगरे अन्ताराष्ट्रिय कृष्णप्रज्ञा संस्थाम् (इस्कान् इति प्रसिद्धाम्) अस्थापयत् ।
विश्वपर्यटनम्
क्रि.श. १९६६ तः १९७७ तमवर्षपर्यन्तं समग्रं विश्वं द्वादशवारं सञ्चर्य प्रतिष्ठापितानां मन्दिराणां सङ्ख्या १०८. विरचितानि पुस्तकानि ८० अधिकानि । स्वसन्देशान् पालयतां ४ सहस्रशिष्यानां गणं निर्मितवान् ।
दैवाधीनः
श्रीलप्रभुपादः अस्यां जगति प्रकटितस्वलीलां समाप्य क्रि.श. १९७७ तमवर्षस्य नवेम्बर् मासस्य चतुर्दशे दिने वृन्दावने दैवलीनः अभवत् । महान् वैष्णव इति पूज्यमानः श्रीलप्रभुपादस्य दिव्यचरित्रं सर्ववर्गस्य श्रद्धालूनां मार्गदर्शनं करोति । अस्य ग्रन्थानां ज्ञानराशेः अध्ययनम् अस्माकं जीवनं द्योतयित्वा भगवतः सान्निध्यं गन्तुं साहाय्यं करोति ।
अस्य पुस्तकानि
"
आधुनिकधार्मिकव्यक्तयः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
सारमञ्जूषा योजनीया
पश्चिमवङ्गस्य धार्मिकव्यक्तयः
परिशीलनीयानि
इस्कोनसंस्था |
5269 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%20%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%AF%20%E0%A4%B8%E0%A5%81%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%81%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80 | सत्गुरु शिवाय सुब्रमुनियस्वामी | सत्गुरु शिवाय सुब्रमुनियस्वामी अमेरिका देशस्य शैव आचार्यः आसीत्। सः हवाई प्रदेशे आश्रमं स्थापितवान्।
शैवमतप्रचारकाः
संचित्रसारमञ्जूषे योजनीये |
5275 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A4%BE%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80 | शारदा देवी |
जीवनम्
श्रीमाता शारदा देवी भारतदेशस्य बङ्गालराज्यस्य जयरामबाटि इति ग्रामे क्रि.श. १८५३तमवर्षे डिसेम्बर् मासस्य २२तमे दिने अजायत । पिता सम्प्रदाययुतः विप्रः रामचन्द्र मुखोपाध्यायः माता श्यामासुन्दरी च । पञ्चवर्षीयायाः शारदायाः विवाहः २३वर्षस्य यूना रामकृष्णेन सह अभवत् । (तदानीन्तबाल्यविवाहः अद्यतनस्य विवाहनिश्चयेन समः इति स्मार्यताम्) तस्मिन् काले श्रीरामकृष्णः आध्यात्मिकसाधनायां निमग्नः आसीत् । स्वस्य अष्टादशमे वयसि शारदादेवी दक्षिणेश्वरस्य कालिकामन्दिरम् आगच्छत् श्रीरामकृष्णः यत्र अर्चकः असीत् । एतां प्रीत्यादरपूर्वकम् अभ्युद्यतः श्रीरामकृष्णः तस्यै लौकिकम् आध्यात्मिकं च शिक्षां दत्तवान् । श्रीरामकृष्णः शारदादेवीं मातृभावेन पश्यति स्म । किन्तु शारदा देवी तस्य आध्यात्मिकोपलब्धये अवरोधं न कृतवती । तस्य उपलब्धेः साहय्यरूपेण स्वजीवनपथं निरूपितवती । रामकृष्णः फलहारिण्याः कालिकायाः पूजायाः अवसरे पत्नीं शारदादेवीं श्रीदुर्गा इति भावनया अपूजयत् ।
जनसेवा
श्रीरामकृष्णस्य दर्शनार्थम् आगन्तॄणाम् आशनवासादिव्यवस्थां कुर्वती, जपतपादिभिः शारदायाः जीवनं चलति स्म । जीवने अनुभूतदुःखानां महिलानां सान्त्वनं कुर्वती सर्वासां मात एव अभवत् । रामकृष्णपरमहंसस्य कैवल्योत्तरं तेन निर्मितस्य अध्यात्मसाम्राज्यस्य संरक्षणम् सञ्चालनम् , भक्तानां साधकानां च मार्गदर्शनम् इत्यादीनि दायित्वं निरवहत् । सन्न्यासी, गृहस्थः, दीनः, धनिकः, वृद्धः, पतितः, पावनः, इति भेदम् अपरिगणय्य सर्वेषु वात्सल्यम् असिञ्चत् । क्रि.श.१९११तमे वर्षे दक्षिणभारतस्य तीर्थयात्रां कुर्वती बेङ्गळूरुमहानगरम् आगत्य बसवनगुडि श्रीरामकृष्णमठं सन्दृष्टवती । यत्र उपविश्य एषा भक्तानाम् आशीर्वचनं कृतवती । शारदादेव्याः ध्यानस्य शिलासनम् इदानीं भक्तानां पुण्यस्थानम् अस्ति । एषा क्रि.श. १९२०तमे वर्षे जुलैमासस्य २१तमे दिने स्वशरीरम् अत्यजत् ।
जीवनादर्शः
शारदामातुः सामान्यं जीवनं तु कर्मयोगस्य श्रेष्टं व्याख्यानम् इव अस्ति । तदानीन्तनकाले जातिपद्धतिः, अस्पृश्यता, डम्भाचारः इत्यादिनां सामजिकमालिन्यानां मध्ये स्वस्य मातृप्रेम्णा असङ्ख्यभक्तानां सान्त्वनं कृतवती । स्वामी विवेकानन्दः, महर्षिः अरविन्द घोषः, आचार्यः रजनीशः इत्यादयः चिन्तकाः शारदायाः जीवनं तु आधुनिकमहिलाभिः अपि अनुसरणयोग्यम् इति अवदन् । पत्रसञ्छन्नपुष्पम् इव अध्यात्मिकं सौरभं प्रसारितवत्याः नाम्नि श्रीशारदामठः इति सन्न्यासिनीनां कश्चन सङ्घः लोकमुखे उद्भूतः ।
अस्याः विषये ग्रन्थाः
श्री शारदादीवी जीवनगङ्गा - स्वामी पुरुषोत्तमानन्दः
श्रीमाता शारदादेवी -स्वामी नित्यस्थानन्दः
श्री शारदा देवी सन्देशमन्दारः
बेङ्गळूरुनगरे श्रीमाता - स्वामी राघवेशानन्दः
शारदोक्तयः
यदि मनसः शान्तिम् इच्छति कस्मिंश्चिदपि दोषं नान्विषतु । जगति कोऽपि अन्यः नास्ति सर्वे भवदीयाः एव ।
भवान् यं स्निह्यति तस्मात् किमपि न निरीक्षतु । यदि इच्छाति केचन अधिकं यच्छन्ति । केचन अल्पम् । तदा भवतः प्रीतिः अपि तेषां दानानुगुणं भवति । तदा सर्वान् समानदृष्ट्या वीक्षितुं नैव शक्नोति ।
यदि यत्रास्ति तत्रैव शान्ता तर्हि तीर्थयात्रायाः आवश्यक्ता एव नास्ति ।
मनः सर्वपीडानां कारणम् इति चिन्तयति वा मनसः साहाय्यं सर्वदा आवश्यकं भवति । शुद्धं मनः एव सन्मार्गदर्शकं भवति ।
भगवन्तं न दृष्टवान् चेदपि सः अस्मदीयः इति वक्तुं शक्नोति चेत् तदे तस्य कृपा भवति ।
प्रामाणिकप्रीत्या विना भगवतः दर्शनं न शक्यते । भगवन्तं प्रीत्या स्निह्यतु । तत् अन्यदृग्गोचरः भवेदिति नास्ति ।
सत्कार्ये यशः निरीक्षयते चेत् कार्यबद्धता निरन्तरपरिश्रमः च आवश्यकः ।
श्रद्धा निष्ठा चेत्यादयः अद्याः, यदि शुद्धं मनः भवति तर्हि धारणा, तपः ध्यानं कोतो न सिध्यति ?
"
रामकृष्णमठस्य सदस्याः
आधुनिकधार्मिकव्यक्तयः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः |
5276 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%83 | मन्त्रः | मन्त्रः (Mantra) वेदसम्बद्धः शब्दः। आपस्तम्बे प्रोक्तञ्च – ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति, स मननात् मन्त्र इत्युच्यते । मननात् त्रायते इति मन्त्रः। केचन विख्याता: मन्रा: -
गायत्री (मन्त्रः)
भस्मधारणमन्त्रः
अघमर्षणमन्त्रः
महामृत्यञ्जयमन्त्रः
उभयवेदमन्त्राः
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्राः सन्ति । तेषु ७५ मन्त्राः ईदृशाः सन्ति ये ‘ऋग्वेदे' न प्राप्यन्ते, शेषाः सर्वे उभयवेदसाधारणाः । सामवेदागतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः । एतावानेवोभयवेदसाधारणानां सामवेदमन्त्राणाम् ऋग्वेदमन्त्रेभ्यो भेदः।
मन्त्राणां पदकाराः
वेदार्थानुशीलनस्य प्रथमः सोपानः पदपाठ एवाऽस्ति । वैदिकमन्त्राणां पदपाठं विना तेषामर्थज्ञानं कदापि भवितु न शक्नोति। अस्मै पदपाठाय व्याकरणस्य नियमानामाविष्कारः पूर्वमेवाऽभवत् । शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।
विभिन्नेषु पदकर्तृषु नास्ति ऐकमत्यम् । प्राचीनकाले अस्मिन् विषये कोऽपि परम्परा आसीत् इत्यनुमीयते । आदित्यशब्दस्य विषये निरुतस्य भाष्यकारेण स्कन्दस्वामिना उक्तम् —
'शाकल्यात्रेयप्रभूतिभिर्नावगृहीतम्; पूर्वनिर्वचनाभिप्रायेण। गार्ग्यप्रभूतिभिरवगृहीतम् । विचित्राः पदकाराणामभिप्रायाः ॥ क्वचिदुपसर्गविषयेऽपि नावगृह्णन्ति, यथा शाकल्येन 'अधिवासन्' इति नावगृहीतम्, आत्रेयेण तु अधिवासमिति अवगृहीतम्' ( २॥१३ ॥ )
स्कन्दस्वामिनोऽभिप्रायः अयमेवास्ति यत्, दकाराणां तात्पर्यमपि विचित्रमेव भवति । उपसर्गानन्तरं कोऽपि पदकारः ‘अवग्रहं’ न ददाति, कोऽपि यच्छति सामान्यनियमेन एव । ‘अधिवासः' इति पदे शाकल्यस्तु अवग्रहं न मन्यते, आत्रेयस्तु मन्यते एव इति।
उद्धरणम्
मन्त्राः
संचित्रसारमञ्जूषे योजनीये
श्टब्स् संस्कृतसम्बद्धाः
बाह्यानुबन्धः योजनीयः
सर्वे अपूर्णलेखाः
वैदिकसाहित्यम् |
5277 | https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%AF%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83 | आयुर्वेदः | स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथां भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम् । व्याख्यानकारः चक्रपाणिरपि एवं वदति -
’आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।
’आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् -
’आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। ’भावप्रकाश’ - टीकाकारोपि ’आयुर्वेद’ शब्दम् एवं विशदीकरोति -
अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥
इतिहासः
आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।
प्रमुखग्रन्थाः
चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।
महत्त्वम्
आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।
हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥
मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।
आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।
विभागाः
कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।
शल्यतन्त्रम् (Surgery and Midwifery)
तन्त्रमिदं पाश्चात्यचिकित्सायां Surgery and Midwifery पदेन व्यपदिश्यते। मूत्रपुरीषयोः निरोधे चर्मशलाकया लोहशलाकया वा शल्यक्रिया, गण्डमालाभेषज्यप्रसङ्गे, दुष्करप्रसवप्रसङ्गेषु च क्रियमाणाः प्रभूताः शल्यक्रियाः (शस्त्रक्रिया) सुश्रुतसंहितायाम् उल्लिखिताः सन्ति।
शालाक्यतन्त्रम् (Opthamology including ENT and Dentistry)
ग्रीवायाः उपरिभागस्य आन्तरिकचिकित्सा शालाक्यान्तर्भूता। चक्षुर्नासागलश्रोत्रमुखसम्बन्धिरोगोणां निवारणोपायाः भृशं वर्णितः। शिरोरोगकेशरोगाणां निवृत्तौ नानाविधोपचाराः समुपलभ्यन्ते। केशवर्धनं, तेषां कृष्णत्वं सौन्दर्यं च, खल्वाटानां चिकित्सनमपि सौषधनिर्देशनम् उपदिष्टम्।
कायचिकित्सा (General Medicine)
विविधशारीरकरोगाणां लक्षण-निदान-परिहारोपायाः विभागेऽस्मिन् विशदीकृताः। कायचिकित्सान्तर्गताः शरीरोदररोगाः ज्वरयक्ष्मपक्षाघातस्रावजलोदरोदरशूल-वातपित्तकफादयो नैकविधाः। अन्यदपि हृद्रोगपाण्डु-उदरशूल-तृषितत्वादिनां रोगाणां भैषज्यं कायचिकित्साविभागे वर्णितमस्ति।
कायशब्दस्य अर्थ: अग्नि: । अग्निविकृतिजन्यानां रोगाणां चिन्तनम् अस्मिन् अङ्गे भवति । (सन्दर्भ: - सुश्रुतसंहिता, सूत्रस्थान १.७ - डह्लणटीका )
भूतविद्या (Psycho-therapy)
मानसरोगविज्ञानम् अपरं नाम अस्याः चिकित्सायाः। मनसि राजसतामसगुणेषु आवृतेषु सत्सु उन्माद-अपस्मार-अतत्त्वाभिनिवेशः इत्यादिरोगाः भवन्ति। सुप्तसम्मोहनादिविधानेन एषां रोगाणां चिकित्सा भवितुमर्हति। तथैव यक्षपिशाचासुरनागादिदुष्टसमाविष्ट-चित्तानां च व्यक्तीनां चिकित्सा भूतविद्यया भवति। विविधयन्त्रमन्त्रमणीनां प्रयोगः अत्र कार्यः भवति।
अगदतन्त्रम् (Toxicology)
रसायनतन्त्रम् (Rejuvenation and Geriatrics)
वाजीकरणम् (Virilification, Science of Aphrodisiac and Sexology)
त्रिदोषाः
आयुर्वेदे त्रयः दोषाः सन्ति । एते वातः पित्तः कफः इति।
षड्रसाः
आयुर्वेदे षड्रसाः भवन्ति । एते मधुरः कटुः अम्लः तिक्तः कषायः लवणः इति।
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ (अमरकोशः १. ५. ३३४)
आयुर्वेदः
संचित्रसारमञ्जूषे योजनीये
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः |
5283 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%83 | सत्सङ्गः | हिन्दु
सर्वे अपूर्णलेखाः
हिन्दुधर्मः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5284 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | स्तोत्रकाव्यम् | स्तोत्रम् इत्येषः शब्दः स्तुतिः, प्रशंसा श्लाघनम् इत्यर्थे प्रयुज्यते ।
ष्टुञ् (स्तुतौ) ष्ट्र्न् (३-२-१८२)स्तूयते अनेन इति स्तोत्रम्।
अस्ति नः स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तृप्यसि - माघ १४-३
स्तोत्रसाहित्यस्य इतिहासः
मानवः सर्वशक्तस्य परमात्मनः अनुग्रहप्राप्त्यै तं स्तुवन्ति । देवेन सह भक्तस्य व्यवहारमाध्यमम् एव स्तोत्रम् । भगवतः माहात्म्यं श्लाघमानः स्वस्य हृदयस्य असीमां भक्तिम् स्तोत्रद्वारा निवेदयति । मातुः प्रेम्णः प्राप्त्यै शिशुः कदाचित् हसति, रोदिति, नृत्यति, निन्दति, ताडयति च । भक्तः अपि देवेन सह एवमेव व्यवहरति । भावाभिव्यञ्जनाद् एव स्तोत्राणि मनोमोहकानि भवन्ति । सङ्गीतयोजनेन तु तद्भवति चेतोहारि । नृत्यमपि संयोज्यते चेत् तद्भवेत् सर्वजनतोषकम् । चञ्चलमनसः एकाग्रतासम्पादनाय स्तोत्रकाव्यं भवति सर्वसमर्थम् । इदं भारतीयजीवनपद्धतेः अबिभाज्यम् अङ्गम् ।
स्तोत्रसाहित्यस्य आरम्भः तु संहिताकाले एव । ऋक्संहिता स्तोत्ररूपा । प्रभुसम्मिता, मित्रसम्मिता, कान्तासम्मिता - एतेषु त्रिषु अपि प्रकारेषु स्तोत्रसाहित्यम् उपलभ्यते । संस्कृतकाव्यानाम् आदौ अन्ते च स्तोत्राणि दृश्यन्ते । कालिदास-भारवि-माघ-भवभूति-भासादीनां कृतिषु विद्यमानानि स्तोत्राणि सन्ति हृद्यानि । शुद्धभक्तेः उद्गाराः सर्वे काव्ये न अन्तर्भवन्ति । अष्टोत्तरशत-अष्टोत्तरसहस्रनामानि भक्तिव्यञ्जकानि । बाण-मयूर-शङ्कराचार्यादिभिः रचितानि स्तोत्राणि काव्यधर्मयुक्तानि एव ।
स्तोत्रेषु धर्म-मत-भक्ति-साहित्यानि युक्तानि सन्ति । इदं धर्मसाहित्यम्, इदं मतसाहित्यम् इति वर्गीकरणम् अशक्यम् । ब्राह्मण-जैन-बौद्ध-शैव-प्रभृतिभिः निर्मितानि स्तोत्राणि द्वैताद्वैतमतानुगुणं रचितानि स्तोत्राणि च उपलभ्यन्ते । लीलाशुकस्य कृष्णकर्णामृतम्, जयदेवस्य गीतगोविन्दं च प्रेमभरितानि स्तोत्राणि । शतकरूपाणि स्तोत्राणि अपि उपलभ्यन्ते ।
वैदिकस्तोत्राणि
अत्र इन्द्र:, वरुण:, सविता, अग्नि: इति देवता:।क्वचिद् ऐहिकेच्छा दृश्यते यथा- पुत्रा: पशवो धनम्...।क्वचिद् नीतिपूर्णा प्रार्थना दृश्यते यथा- हे अग्ने सुपथा न: वैभवं नय।ऋ. 1.189.1।बहुषु स्तोत्रेषु स्तोत्रं नाम ब्रह्म।
पौराणिकस्तोत्राणि
विष्णु: शिव: देवी इति देवता:। मोक्षेच्छा प्रबला। ऐहिकेच्छा तिरस्कृता ।
प्रमुखाः स्तोत्रकाराः
१ मयूरभट्टः।
एष: काशीवासी, हर्षराजाश्रित:। स्वकुष्ठनिवारणाय सूर्यशतकं रचितम्। स्रग्धरावृत्ते इदं प्रथमम् एव काव्यम्।दीर्घसमासयुक्तम् अनुप्रासप्रचुरं सविस्तरं सूर्यवर्णनम् अत्र विद्यते।
२ बाणभट्टः
चण्डीशतकम्। अनुप्रासयुक्ता रचना।
३आदिशङ्कराचार्यः।
स्तोत्रकाराणाम् अयं मुकुटमणि:। प्रायश: 200 स्तोत्राणि अनेन रचितानि।दार्शनिकजगति अद्वैतमतस्थापना कृता तथा व्यावहारिकजगति सगुणोपासनापराणि स्तोत्राणि विरचितानि। अस्य स्तोत्रेषु कारुण्यं, भक्ति:, वैराग्यम् उत्कण्ठा, उपताप: मार्दवं, नादमाधुर्यं, प्रसाद: इति एते भावा: पदे पदे दृश्यन्ते। सुभाषितानि अपि बहुत्र दृश्यन्ते यथा- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति। क्षुधातृषार्ता जननीं स्मरन्ति।सौन्दर्यलहरीनामकं स्तोत्रं तु साहित्य-मन्त्रशास्त्र-तत्वज्ञानानां सङ्गमरूपम्।शाङ्करस्तोत्राणां सामान्यत: वर्गीकरणम् एवम्
3 उत्पलदेव:। काश्मीरीय: शैवाचार्य:।शिवस्तोत्ररत्नावली रचिता यस्यां 21 स्तोत्राणि सन्ति।
4 जगद्धरभट्ट:। शैवाचार्य:। स्तुतिकुसुमाजली रचिता यस्यां 31 स्तोत्राणि सन्ति। 1425श्लोका: सन्ति।
5 पुष्पदन्त: । शिवमहिम्न: स्तोत्रं रचितम्। लोकप्रियम् इदं स्तोत्रम्।कव्यं तथा तत्वज्ञानम् इति एतयो: मेल: अत्र विद्यते।
6 बुधकौशिक:। अयं ऋषि:। रामरक्षास्तोत्रम् अनेन विरचितम्।तत्र स्तुति: ध्यानं तथा कवचम् अस्ति।
7 कुलशेखर:।- मुकुन्दमालास्तोत्रम्। 34 पद्यानि।
8 यामुनाचार्य:। - आळवन्दारस्तोत्रम् अनेन कृतम्। तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीहते ॥
9 जगन्नाथ:। - करुणालहरी, गङ्गालहरी, अमृतलहरी तथा लक्ष्मीलहरी इति एतानि स्तोत्राणि अनेन कृतानि।विभूषितानङ्गरिपूत्तमाङ्गा, सद्य:कृतानेकजनार्तिभङ्गा।
मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु॥ - गङ्गालहरी
जैनस्तोत्राणि
जैनमुनीनां षट्क्रियासु चतुर्विंशतिस्तव: अन्यतरा क्रिया।ते ईश्वरं न मन्यन्ते।तेषां स्तोत्राणि तीर्थङ्करविषयकाणि सन्ति। द्वे प्रमुखे जैनस्तोत्रे -
1 भक्तामरस्तोत्रम् - मानतुङ्गाचार्य:
2 कल्याणमन्दिरस्तोत्रम् - सिद्धसेनदिवाकर:
बौद्धस्तोत्राणि
1 लोकेश्वरशतकम्-वज्रदत्त:।(बुद्धस्य रूपगुणा: श्रेष्ठत्वं च वर्णितम्।बाण-मयूरकृतयो: स्तोत्रयो: अनुकरणं स्पष्टम्। )
2 आर्यातारास्रग्धरास्तोत्रम्।- सर्वज्ञमिश्र:
3 भक्तिशतकम्- कविभारति:।(हिन्दुधर्मगतभक्तिकल्पनाया: अत्र स्वीकार: दृश्यते।)
हिन्दुस्तोत्राणामनुकरणं बौद्धस्तोत्रेषु दृश्यते।बौद्धमते ईश्वर: कश्चिद् न स्वीकृत:।तथापि महायान-पन्थे स्तोत्राणि विद्यन्ते। बुद्धस्य फलपुष्पै: अर्चनेन अपि निर्वाणप्राप्ति: भवति इति महायानपन्थस्य मतम्।अत: तत्र स्तोत्राणां कृते अवसर: अस्ति।स्तोत्रेषु अवलोकितेश्वर: देव:, तारा देवी। नागार्जुन: वस्तुत: शून्यवादी बौद्ध:। तथापि तस्य स्तोत्रेषु आस्तिक्यवाद: दृश्यते।
काव्यशास्त्रदृष्या स्तोत्राणि त्रिधा -
१ तिरस्कृतकाव्यतत्वानि स्तोत्राणि
२ पुरस्कृतकाव्यतत्वानि स्तोत्राणि
३ चित्रकाव्यानि स्तोत्राणि
१ तिरस्कृतकाव्यतत्वानि स्तोत्राणि- 1 नामावली - विष्णुसहस्रनाम। 2 वैराग्यपराणि- वैराग्यपञ्चकम् 3 तत्वज्ञानपराणि- 4 लीलागुणादिवर्णनपराणि5 उपदेशपराणि- चर्पटपञ्जरी,
चित्रकाव्यानि- वर्णमालास्तोत्रम् ,रामकृष्णविलोमकाव्यम्।
पुरस्कृतकाव्यतत्वानि- 1 अलङ्कारप्रधानानि 2 भक्तिरसप्रधानानि
भक्तिरसप्रधानानि पुन: त्रिधा -
१ दास्यभक्तिरसप्रधानानि- रामरक्षा , शिवमहिम्न:
२ वात्सल्यभक्तिरसप्रधानानि- देव्यपराधक्षमापनम्
३ माधुर्यभक्तिरसप्रधानानि - गीतगोविन्दम्।
नामावलीस्तोत्राणि - कस्य चिद् देवस्य बहूनि प्रसिद्धानि अप्रसिद्धानि च नामानि पद्यबद्धानि सन्ति।एतेभ्य: नामभ्य: तस्य देवस्य गुण-कर्मादिकमपि सूचितं भवति।यथा दशरथात्मज: इत्युक्ते रामस्य पितृप्रेम सूचितं भवति।विश्वामित्रप्रिय: इति रामस्य नाम तस्य आदर्शशिष्यत्वं सूचयति।रावणारि: इति नाम्ना रामस्य रावणेन सह जातम् अभूतपूर्वं युद्धं स्मर्यते।तस्मान्नामावलिरूपाणि स्तोत्राणि परम्परया गुणवर्णनपराणि भवन्ति।
गुणलीलावर्णनपराणि स्तोत्राणि - भगवत: गुणलीलासङ्कीर्तनेन तस्मिन् प्रीति: वर्धते।
2 वैराग्यपराणि तत्वज्ञानपराणि उपदेशपराणि स्तोत्राणि । स्तोत्रे वस्तुत: काचिद् देवता स्तूयते।वैराग्यादिपरेषु स्तोत्रेषु न कापि देवता स्तुता तथापि रूढ्या तेषां स्तोत्रसंज्ञा प्राप्ता।
पुरस्कृतकाव्यतत्वानि स्तोत्राणि
इयम् अपरा परम्परा स्तोत्रवाङ्मयस्य। तिरस्कृतकाव्यतत्वानि स्तोत्राणि प्रायश: अभिधया देवता: स्तुवन्ति। पुरस्कृतकाव्यतत्वानि स्तोत्राणि नानाविधानां काव्यतत्वानाम् आश्रयेण देवता: स्तुवन्ति।अत: एतानि स्तोत्राणि रुचिरतराणि भवन्ति।
अलङ्कारप्रधानानि स्तोत्राणि -अलङ्कारशब्देन अत्र रसभिन्नतत्वानां ग्रहणं कार्यम्।पण्डितराज-जगन्नाथकृता गङ्गालहरी एतस्य निदर्शनम्।
भक्तिरसप्रधानानि स्तोत्राणि -यदा वैष्णवमतस्य प्रभाव: वर्धित:, तदा भक्तिरसप्रधानानि स्तोत्राणि रचितानि।अद्वैतमते अपि भक्ति: स्वीकृता। अत: तत्र अपि स्तोत्ररचना दृश्यते तथापि भक्तिपरस्तोत्राणां परिपोष: तु वैष्णवसम्प्रदायेषु जात:।तदा एव भक्तिरस: रसगणनायां स्थानं लेभे।तस्य एव भक्तिरसस्य सूक्ष्मभेदा: रूपगोस्वामि-जीवगोस्वामि-मधुसूदनसरस्वतीप्रभृतिभि: आचार्यै: विशदीकृता:।भक्तिरसस्य आविष्काराय स्तोत्रसदृशम् अन्यद् माध्यमं किमिव स्यात् ?
दास्यभक्तिरसप्रधानानि स्तोत्राणि -एषु देव: स्वामी भक्त: तस्य दास: इति भावनया स्तोत्रं गीयते।यथा श्रीरामचन्द्रचरणौ मनसा स्मरामि...।
वात्सल्यभक्तिरसप्रधानानि स्तोत्राणि -देव: माता अथवा पिता इति चिन्त्यते। भक्त: आत्मानं तस्य अपत्यं मत्वा स्तोत्रं गायति।यथा पृथिव्यां पुत्रास्ते ...।
माधुर्यभक्तिरसप्रधानानि स्तोत्राणि -देव: पति: , भक्त: तस्य पत्नी प्रेयसी वा इति भावना अत्र क्रियते। एतेषु स्तोत्रेषु बहुधा कृष्ण: एव देव: स्तूयते। क्वचिद् एव शिव:, विष्णु; अथवा बुद्ध: अत्र देवता भवति।माधुर्यस्तोत्राणां मूलाधार: श्रीमद्भागवतम्।तत्र वर्णिता रासक्रीडा भक्तकविभि: वस्तुत्वेन स्वीकृता। तद् वस्तु स्वप्रतिभया सुशोभिता।माधुर्यभक्तिरसस्य सामग्री एवम्-
स्थायिभाव: - ईश्वरविषये रति:
आश्रय: - भगवद्भक्ता:।
आलम्बन-विभाव: - परमेश्वर: तस्य अवतारा: च।
उद्दीपनविभाव: - भगवत्सौन्दर्यम्।दीनरक्षा। विराट्स्वरूपम्। कीर्तनम्। देवालय:।
अनुभाव: - औत्सुक्यम् अश्रुपात:।
सञ्चारिभाव: - मरणवर्जिता: हर्ष-औत्सुक्य-निर्वेदादय: भावा:।
स्तोत्राणां काव्यदृष्ट्या समीक्षणस्य औचित्यम् ।- भक्त-सहृदययो: अयं विवादविषय:।सहृदयाणां मते स्तोत्राणाम् अपि काव्यशास्त्रदृष्ट्या समीक्षा कर्तव्या।अन्यथा गीतगोविन्दसदृशेषु काव्येषु विद्यमानं सौन्दर्यं दुर्लक्षितं स्यात्।भक्ता: भक्तिशास्त्रमनुसृत्य कामम् एतेषां भिन्नरीत्य समीक्षां कुर्यु:। न तत्र अस्माकं कोपि आक्षेप:।काव्यदृष्ट्या समीक्षा अस्माभि:काव्यशास्त्रज्ञै: करणीय एव।
भक्तानां मते स्तोत्रमार्गेण ईश्वरविषयिणी प्रीति: वर्धनीया।तद् एव साध्यम्। तद् यएन स्तोत्रेण भवति तद् उत्तमं स्तोत्रम्।अत: एव यत्र न कश्चिद् गूढार्थ:, यत्र प्रतिपादनं सरलम् अभिधाप्रधानं तदेव स्तोत्रं लोकेषु प्रथते, प्रतिदिनं गृहे गृहे मुखे मुखे च वर्तते। काव्यशास्त्रदृष्ट्या उत्तमम् अपि गीतगोविन्दं न प्रतिदिनं पठ्यते। प्रत्युत काव्यशास्त्रदृष्ट्या नीरसं काव्यतत्वशून्यं विष्णुसहस्रनाम अन्तकाले अपि पठ्यते, मुमूर्षवे श्राव्यते च।
प्रमुखानि स्तोत्रसाहित्यानि
चण्डीशतकम्
सूर्यशतकम्
स्तोत्ररत्नम्
लक्ष्मीसहस्रनामस्तोत्रम्
वरदराजस्तवः
पञ्चलहरी
शिवमहिम्नः स्तोत्रम्
शिवस्तोत्रावली
भजगोविन्दम्
मुकुन्दमाला
चतुस्तवः
लोकेश्वरशतकम्
देवागमस्तोत्रम्
कल्याणमन्दिरस्तोत्रम्
भक्तामरस्तोत्रम्
सर्वमङ्गलाष्टकम्!
श्रीगणेशायः नमः॥ लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः॥ ब्रह्माडं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम्॥१॥ ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ॥ नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥२॥ विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः॥ माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विष्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम्॥३॥ मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः॥ इक्ष्वाकुश्च बिभीषणश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥४॥ श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः॥ सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमान्तकावित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥५॥ गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती॥ कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः कुर्वन्तु वो मङ्गलम्॥६॥ वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र तन्त्रसहितास्तर्कस्मृतीनां गणाः॥ काव्यालंकृतिनीतिनाटकगणाशब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः कुर्वन्तु वो मङ्गलम् ॥७॥ आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणाः॥ मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥८॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्॥ माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः॥९॥ इति श्रीमद्वादिराजविरचितं सवमङ्गलाष्टकं संपुर्णम्॥
स्तोत्रकाव्यानि
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
सारमञ्जूषा योजनीया |
5286 | https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%83 | यज्ञः | यज्ञ एव समस्तेषु कर्मसु श्रेष्ठतमः कर्म। ब्राह्मणग्रन्थेषु यज्ञस्य इयती महिमा इयदादरश्च वर्त्तते यद्विश्वस्य सर्वश्रेष्ठदेवता प्रजापतिरपि यज्ञरूपमेवास्ति। विष्णोरपि प्रतीकः अयमेव यज्ञोऽस्ति। आकाशे दीप्यमानः आदित्योऽपि यज्ञरूपमेवास्ति।
समस्तेषु कर्मसु श्रेष्ठतमत्वेन विश्वेस्मिन् यज्ञ एव परमाराध्यः अस्ति । जगति यावन्तः पदार्थाः सन्ति, एतदन्तं देवानां जनकरूपं प्रजापतिरपि यज्ञस्यैवाध्यात्मिकप्रतीकोऽस्ति । ‘यज्ञादेव सृष्टिः सम्भूता' । अस्य वैदिकतत्त्वस्य परिचयः पुरुषसूक्ते एव प्राप्यते। ब्राह्मणयुगे यज्ञः महनीयत्वे साधनरूपत्वे च अस्ति। अग्निहोत्रस्य अनुष्ठानेन प्राणी सर्वपापात् विमुच्यते - ‘सर्वस्मात् पाप्मनो निर्मुच्यते य एवं विद्वानग्निहोत्र जुहोति'। अश्वमेधयज्ञकर्त्ता यजमानः ब्रह्महत्यादिसमस्तपापकर्मभ्यः मुक्तो भवति। गोपथब्राह्मणे सुष्टु उपमाद्वारेण एक पापनिमोचनतत्त्वं विशदीचकार। येन प्रकारेण सर्पः स्वजीर्णत्वचं निर्मुच्यते, मुञ्जात् ‘इषीका' निर्मुच्यते तथैव शाकलहवनकर्त्ता समस्तपापेभ्यो मुक्तो भवति —
‘तद् यथाहिजीर्णायास्त्वचो निर्मुच्यते इषीका वा मुञ्जात्।
एवं ह वै ते सर्वस्मात् पाप्मनः समुच्यन्ते ये शाकलां जुह्वति।।'
एतावदुपादेयत्वेन एव यज्ञस्य पूर्णानुष्ठनाय ब्राह्मणस्य आग्रहोऽस्ति ।
इज्यन्ते देवता अत्र - यज(देवपूजादौ) नङ् (३-३-९०) ।
यज्ञेन यज्ञमयजन्त देवाः ।
दुदोह गां स यज्ञाय - रघु १-२६
यज्ञो नाम यागः देवपूजा इत्यर्थः ।
अध्वरोऽपि यज्ञनाम वेदेषु दृश्यते, निरुक्ते महर्षियास्केन कथितं यदध्वरिति यज्ञनाम, ध्वरिति हिंसाकर्म, यस्मिन्न हिंसा भवति कदापि स यज्ञः
यज्ञभेदाः
यज्ञस्य सन्ति अष्टादश भेदाः। तत्र नित्य-नैमित्तिक-काम्य-आध्यात्म-आधिदैव-आधिभूतभेदैः कर्मयज्ञः षड्विधः प्रोक्तः । उपासनायज्ञश्च नवविध उक्तः
(१) निर्गुणोपासना, (२) सगुणोपासना, (३) अवतारोपासना, (४) ऋषिपितृदेवतोपासना, (५) भूतप्रेतासुराद्युपासना, (६) मन्त्रयोगः, (७) हठयोगः, ( ८ ) लययोगः, (९) राजयोगश्च।
श्रवण-मनन-निदिध्यासनभेदेन ज्ञानयज्ञस्त्रिप्रकारकः प्रतिपादितः।
नार्याः अनिवार्यता
यज्ञे पत्नी यजमानस्य सहघर्मचारिणी भवति। 'पत्नी'-शब्दस्य व्युत्पत्तिरपि इमामेव विशिष्टतां प्रति सङ्केतं करोति। पत्नीं विना कोऽपि पुरुषः यजनस्य अधिकारी भवितुं न शक्नोति, यतः दम्पत्योः सहाधिकारात्। ‘अयज्ञो वा एषो योऽपत्नीक’ इति। पत्नी अर्धाङ्गिनी भवति। ‘अथा अर्धो वा एष आत्मनो यत् पत्नी'। वेद्याः रचनाप्रसङ्गे शतपथब्राह्मणं स्त्रीसौन्दर्याय एकं महनीयमादर्शं प्रति सङ्केतं करोति । स्थूल-जघनं, स्कन्धयोर्मध्ये उरोभागः, जघनापेक्षया अल्पतरस्थूलः कटिप्रदेशः हस्तग्राह्यः स्त्रियाः शारीरिकसुषमायाः श्लाघनीयः प्रतीकः आसीत्। 'एवमिव हि योषं प्रशंसन्ति पृथु श्रोणिर्विमृष्टान्तरांसा मध्ये सङ्ग्राह्येति'। एवंविधं नारीरूपं सुन्दरकेशपाशैस्तथा अन्यवस्त्राभूषणैः सुसज्जिता भूत्वा अदीव्यत् । एतादृश्या रुचिरया स्त्रिया सह वैदिककालिकपुरुषः विवाहसम्बन्धं विधाय गुणज्ञपुत्रं समुत्पाद्य स्वर्गप्राप्तेः कामनामकरोत् ।
विधाः
यज्ञः त्रिविधः । सात्त्विकः राजसः तामसः इति ।
सात्त्विकयज्ञः
फलापेक्षां विना कर्तव्यदृष्ट्या शास्त्रोक्तरीत्या यागः यः क्रियते सः सात्त्विकयज्ञः ।
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ - गीता १७-११
राजसयज्ञः
फलापेक्षया दम्भार्थं शास्त्रोक्तरीत्या क्रियमाणः यज्ञः राजसः ।
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ - गीता १७-१२
तामसयज्ञः
शास्त्ररीतिं परित्यज्य अश्रद्धया अमन्त्रकतया च क्रियमाणः यज्ञः तामसः ।
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ - गीता १७-१३
द्रव्ययज्ञः तपोयज्ञः ज्ञानयज्ञः स्वाध्याययज्ञः इत्यादयः विविधाः यज्ञाः विद्यन्ते ।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ - गीता ४-२८
पञ्चमहायज्ञाः
गृहस्थैः सर्वैः करणीयेषु कार्येषु पञ्च महायज्ञाः अन्यतमाः । तस्मिन् विषये ज्ञातुम् अत्र दृश्यताम् - पञ्चमहायज्ञाः ।
विष्णुः, नारायणः
यज्ञः इत्यस्य विष्णुः नारायणः इत्यपि अर्थः उपलभ्यते ।
स्वाराधनधर्मसमृद्धिरिक्तानां तदर्थिनां स्वयमेव यज्ञः तादृशो धर्मः - यज नङ् ।
जपयज्ञस्वरूपत्वात् यज्ञ इत्युच्यते बुधैः - इति निरुक्तिः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः - वि स
यज्ञोऽग्न्यात्महरीष्टिषु - वैजयन्तीकोशः
सम्बद्धाः लेखाः
कर्मकाण्डः
नारी
दानम्
ब्राह्मणम्
सन्दर्भः
कर्मकाण्डः
बाह्यानुबन्धः योजनीयः
सारमञ्जूषा योजनीया |
5300 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D%20%28%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%87%29 | तत्त्वम् (दर्शनशास्त्रे) | 'तत्त्वम्' इत्येतस्य शब्दस्य संस्कृते एते अर्थाः दृश्यन्ते -
१ तस्य भावह् - तद् त्वः (५-१-११९)
करौ व्याधुन्वत्याह् पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती । - शाकु १-२०
२ ब्रह्म, परब्रह्म, परमात्मा
वदन्ति तत्तत्त्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । - भाग १०-२-११
३ 'सारांशभूतो जगतो योऽसौ तत्त्वमिति स्मृतः' इति निरुक्तिः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः' वि स
४ संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ गीता १८-१
विभिन्नेषु दर्शनेषु तत्त्वानि
चार्वाकदर्शने
अत्र चत्वारि तत्त्वानि अङ्गीकृतानि
पृथिवी
अप्
तेजः
वायुः
अत्र चत्वारि भूतानि भूमिवायुर्नलानिलाः । चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते । - स द सं
बौद्धदर्शने
शून्यम्
सदसदुभय-अनुभवात्मक-चतुष्कोटिनिर्मुक्तं शून्यम् एव तत्त्वम् इति अत्र अभिप्रेतम् ।
जैनदर्शने
अत्र सप्त तत्त्वानि अङ्गीकृतानि
१ जीव २ अजीव ३ आस्रव ४ बन्ध ५ संवर ६ निर्जर ७ मोक्ष
साङ्ख्यदर्शने
अस्मिन् दर्शने पञ्चविंशतिः तत्त्वानि अङ्गीकृतानि सन्ति ।
१ जीवात्मा २ प्रकृतिः ३ महत् ४ अहङ्कार ५ पञ्च ज्ञानेन्द्रियाणि ६ पञ्च कर्मेन्द्रियाणि ७ पञ्च तन्मात्राणि ८ पञ्च भूतानि ९ मनः
योगदर्शने
पातञ्जलयोगदर्शने एवम् उच्यते - चेतनम् अचेतनम् इति तत्त्वं द्विविधम् । पुरुषः ईश्वरः इति चेतनतत्त्वं द्विविधम् । पुरुष-ईश्वराभ्यां साकं प्रकृत्यादितत्त्वानि संयोज्य २६ तत्त्वानि इति उच्यते ।
द्वैतदर्शने
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावो द्विधेतरत् तत्त्व सं
भावतत्त्वम् - चेतनम् अचेतनम् इति द्विविधम् । चेतनतत्त्वं दुःखास्पृष्टम् दुःखस्पृष्टम् इति द्विविधम् । लक्ष्मीः दुःखास्पृष्टचेतनम् । देवताः, ऋषयः, पितरः, नृपाः, मानवाः - दुःखस्पृष्टचेतनम् ।
अचेतनतत्त्वं त्रिविधम् - नित्यम्, अनित्यम्, नित्यानित्यम् इति । वेदाः - नित्यम् । पुराणानि, कालः, प्रकृतिश्च नित्यानित्यम् ।
असंस्पृष्टं, संस्पृष्टम् इति अनित्यं द्विविधम् । अस्म्पृष्टम् - २४ विधम्- महत्, अहङ्कारः, बुद्धिः, मनः, ५ ज्ञानेन्द्रियाणी, ५ कर्मेन्द्रियाणि, ५ तन्मात्राणि, ५ पृथिव्यादि भूतानि च ।
संस्पृष्टमण्डं तदङ्गं च समस्तं सम्प्रकीर्तितम् - तत्त्व सं
अभावतत्त्म् - त्रिविधम् - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते - तत्त्व सं
अद्वैतदर्शने
चित्स्वरूपः ब्रह्म एक एव परमार्थतत्त्वम्, अवशिष्टं सर्वं मायाकल्पितम् इति अत्रत्यः सिद्धान्तः।
'अशेषविशेषप्रत्य्नीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमिति ब्रह्म ।' 'सर्वं खल्विदं ब्रह्म' ।
विशिष्टाद्वैतदर्शने
समस्तचिदचिद्विशिष्टः श्रीमन्नारायणः एव परमतत्त्वम् इति सिद्धान्तः ।
तत्त्वं जिज्ञासमानानाम् हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः - इति व्यासः ।
प्रत्यक्षादिप्रमाणैः इतरशास्त्रैः च ज्ञायते यत् तत्त्वानि अनेकानि इति । किन्तु सकलानि तत्त्वानि वस्तूनि च ईश्वरं समाश्रयन्ति इत्यतः एकतत्त्वं प्रतिपादितम् ।
अनेकतत्त्ववादम् अनुसृत्य तत्त्वविभागः एवमस्ति - आदौ चित्, अचित्, ईश्वरः इति त्रिविधम् । लोके वस्तूनि चेतनम् अचेतनम् इति द्विविधम् । ज्ञानयुतं चेतनम् - जीवात्मा । तदितरं सर्वम् अचेतनम् । तेषां विभागः एवम् - मूलप्रकृतिः, महत्, अहङ्कारः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, मनः, ५ तन्मात्राणि, ५ भूतानि - २४ तत्त्वनि, जीवात्मा, ईश्वरतत्त्वानि - २६ तत्त्वानि इति सिद्धान्तः ।
शक्तिविशिष्टाद्वैतदर्शने
प्रवृत्तेः क्रियाशक्तिद्वारा, मायाशक्तिद्वारा च पुरुषः प्रकृतिः च उत्पद्येते । पुरुषः चैतन्यरूपः । प्रकृतिः जडरूपा । सत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेः महत्, अहङ्कारः, मनः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, ५ तन्मात्राणि, ५ महाभूतानि - २३ तत्त्वानि उत्पद्यन्ते ।
एतैः २५ तत्त्वैः सह - शिव शक्ति सादाख्य ईश्वर सद्विद्या माया काल नियति कला विद्या राग - ११ तत्त्वानि । आहत्य ३६ तत्त्वानि इति दर्शनकाराः वदन्ति ।
दर्शनानि
श्टब्स् संस्कृतसम्बद्धाः
न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः
सर्वे अपूर्णलेखाः
सर्वे न प्राप्ताः भाषानुबन्धाः
संचित्रसारमञ्जूषे योजनीये |
5305 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%A4%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%97%E0%A4%AE%E0%A5%8D | त्रेतायुगम् | विश्वस्य रचना उत्तरे द्वितीयं युगम्।
बाह्यसम्पर्कतन्तु
युगानि
बाह्यानुबन्धः योजनीयः
संचित्रसारमञ्जूषे योजनीये
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः |
5309 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%88%E0%A4%B5%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%83 | शैवसम्प्रदायः | शैवं नाम शिवसम्बद्धम् इति । शिवोपासकाः इति 'शैवाः'।
हिन्दुधर्मः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
हिन्दुधर्मसम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5310 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80 | शक्तिदेवी | देवी। उदाहरणाः दुर्गा, पार्वती, लक्ष्मी, सरस्वती, काली, कात्यायनी, मीनाक्षी, श्रीविद्या, शारदा, अन्नपूर्णा, अपर्णा, सती, शची, उमा आदि।
शाक्त
सन्दर्भ
बाह्य सूत्र
हिन्दुदेव्यः
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
संचित्रसारमञ्जूषे योजनीये
हिन्दुधर्मसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
5313 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%BE | दुर्गा | दुर्गा देव्याः पार्वत्याः अपरं रूपम् । दुर्गति नाशिनि इति दुर्गा। भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।
बाह्यानुबन्धाः
दुर्गायाः प्रसिद्धमन्दिराणि
हिन्दुदेव्यः
श्टब्स् संस्कृतसम्बद्धाः
संचित्रसारमञ्जूषे योजनीये
सर्वे अपूर्णलेखाः |
5315 | https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%83 | लक्ष्मीः | देवी लक्ष्मीः - सम्पदधिदेवता
लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम् भवति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति।
एषा देवी स्वर्णहस्ता जनेभ्यः सम्पदं वर्षति । लक्ष्मीः यत्र तत्र सम्पद् भवति । सा च सम्पद् बहुविधा भवति - धनसम्पत्तिः, बुद्धिसम्पत्तिः, धर्मसम्पत्तिः इत्यादि । किं बहुना, लोके यद्यदपेक्षणीयं तत्सर्वं लक्ष्म्याः अनुग्रहेण एव सिध्यति । आत्मज्ञानार्थिना सर्वेणापि बुद्धिसम्पत् अवश्यं सम्पादनीया । एतस्मात् कारणाद् एव नवरात्रोत्सवे सरस्वतीपूजायाः पूर्वं लक्ष्मीपूजा प्रवर्तते ।
अद्यत्वे तु लक्ष्मीपूजा केवलम् ऐहिकसम्पदं प्राप्तुं क्रियमाणा दृश्यते । चञ्चलां लक्ष्मीं यः अनुधावति तस्य सा दूरे एव तिष्ठति । न तस्य वशमेति । यस्तु पुरुषः सत्त्वगुणसम्पन्नः तस्य वशे भवति सा । शुद्धेन मनसा यदा पुरुषः अध्यात्मरतिः भवति तदा सः शान्तिम् ऐश्वर्यं सम्पदं च प्राप्नोति । सात्त्विकस्य मनसः द्योतकः क्षीरसागरः । तस्माद् उत्थिता लक्ष्मीः अस्य एव तत्त्वस्य निरूपणम् करोतीव । लक्ष्म्याः प्रसादेन अस्माभिः सर्वविधा सम्पत् प्राप्तुं शक्या । इममेवार्थं विशदयति अयं श्लोकः ।
रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः
सुधसखि! यतोमुखं चिचलिषेत् तव भ्रूलता ।
ततोमुखमथेन्दिरे बहुमुखीमहम्पूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥
श्रीः इति नामान्तरं लक्ष्म्याः । प्रथमं सा भृगुमुनेः ख्यात्यां पुत्रीरूपेण अवातरत् । ततः परं क्षीरसागरे मथ्यमाने सा ततः सञ्जाता । यदा यदा विष्णुः भूलोके अवतरति तदा सापि तेन सह अनुरूपेण रूपेण अवतरति एव ।
राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोः एषा अनपायिनी ॥
यथा अर्थः - वाक् च, ज्ञानं - बुद्धिः च, तद्वत् विष्णुः श्रीश्च अपृथक्सिद्धौ । लोके यद्यत् पुंवाचकं तत्तद् विष्णुरिति यद्यत् स्त्रीवाचकं तत्तत् लक्ष्मीरिति च व्यपदिश्यते । अनयोः परं न विद्यते ।
.... पुंनामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ।
लक्ष्म्याः चत्वारो हस्ताः । तयोर्द्वाभ्यां पद्मे धरति सा । पद्मा कमला इत्यपि तस्याः नाम्नी । बिल्वनिलया इत्यपि एषा कीर्त्यते । अस्याः अर्चामूर्तेः पार्श्वयोः क्वचित् गजौ दृश्येते । एषा हिरण्यवर्णा कथ्यते । देवालयेषु एषा पद्मे आसीना भवति । अस्याः चत्वारो हस्ताः देवी एषा चतुर्वर्गपुरुषार्थप्रदायिनी इति सूचयन्ति ।
लक्ष्मीः अष्टसु रूपेषु पूज्यते । तानि च आदिलक्ष्मीः, गजलक्ष्मीः, धनलक्ष्मीः, धान्यलक्ष्मीः, सन्तानलक्ष्मीः, वीरलक्ष्मीः, विजयलक्ष्मीः, धैर्यलक्ष्मीः, च ।
बहुषु देवालयेषु अष्टौ लक्ष्मीमूर्तयः प्रतिष्ठापिताः पूज्यन्ते । चेन्नैनगरे समुद्रतीरे प्रसिद्धः अष्टलक्ष्मीदेवालयः वर्तते ।
पश्यतु
देवी
श्रियः रूपवैविध्यम्
वीथिका
हिन्दुदेव्यः
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
5317 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A5%80 | काली | अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति ।
व्युत्पत्तिशास्त्रम्
(कृष्णवर्णः). स्त्रीलिङ्गरूपम्कालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली शिवेन शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । संस्कृतस्य प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान् कोबर्न् थामस् शिवस्य शरीरं भस्मलेपितम् । तथैव सः ध्यानं करोति काली अपि तत्र भवति ।
मूलानि
मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं महाभारते सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64) अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । द्रोणस्य पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन सनातनधर्मस्य विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा सनातनधर्मे युद्धभूमौ एव न्यस्ता । अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।
मन्त्रः
ॐ क्रीं काल्यै नमः ॥
बीजमन्त्रः
ॐ ह्रीं श्रीं क्रीं परमेस्वारी कलिकायै स्वाहा ॥
कालीगायत्रीमन्त्रः
ॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि । तन्नो काली प्रचोदयात् ॥
ध्यानम्
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥
सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां ।
अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीं ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां ॥
कर्णावतंसतानीतशव युग्मभयानकां ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्वितां ॥
दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां ।
शवरूप महादेवहृदयोपरिसंस्थितां ॥
शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां ।
महाकालेन च समं विपरीतरतातुरां ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहां ।
एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥
तन्त्रेषु
देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि पार्वती स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती । डि.किन्ल्से १२२पुटानि ब्रह्मा, विष्णुः, शिवः इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, कामाक्यतन्त्रम्, निरुत्तरतन्त्रम्, इत्यादीनि कालिविद्यातन्त्राणि इति प्रसिद्धानि । महानिर्वाणतन्त्रे काली आदिशक्त्याः विशेषणम् एव ।
बङ्गालीसम्प्रदायः
शिवस्य पत्नी पार्वतीम् अतिरिच्य काल्याः रूपं सनातनपुराणेषु प्रतिमाशास्त्रेषु मातृरूपिणीति निरूपितम् । अष्टादशे शतके बङ्गालीभक्तिपथः आरब्धः । तत्र अस्याः स्वरूपं लक्षणानि च परिवर्तितानि ।
सन्दर्भाः
हिन्दुदेव्यः
सारमञ्जूषा योजनीया |
5318 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A5%80 | कात्यायनी | कात्यायनी इति पर्वतीदेव्याः अपरं नाम । कात्यायिन्यै च विद्महे कन्याकुमार्यै च धीमही तन्नो दुर्गी प्रचोदयात् इति मन्त्रः । दुर्गामतुः षष्टरूपस्य नाम कात्यायनी इति । अस्य आराधनायाः दिने साधकस्य मनः आज्ञाचक्रे लग्नं भवति । योगसाधनायाम् अस्य आज्ञाचक्रस्य महत्वपूर्णं स्थानं भवति । अस्मिन् चक्रे स्थितमनः साधकः मातुः कात्ययन्याः चरणे स्वीयं सर्वमपि समर्पितं करोति । एवं परिपूर्णात्मदानिभ्यः भक्तेभ्यः सहजभावेन अम्बा दर्शनम् अनुग्रह्णाति ।
कथा
मातुः कात्यायनीति नामप्रप्तिविषयेऽपि काचित् कथा वर्तते । कतः इति कश्चित् प्रसिद्धः महर्षिः आसीत् । अस्य पुत्रः कात्यः ॠषिः अभवत् । अस्मिन् एव कात्यगोत्रे एव विश्वप्रसिद्धः वाक्यकारः महर्षिः कात्यायनः उत्मन्नः । एषः भगवत्याः पराम्बायाः उपासनां कुर्वाणः गाढं तपः अपि आचरितवान् । माता भगवती अस्य पुत्रीरूपेण उत्पन्ना भवतु इति अस्य आशयः आसीत् । अम्बा तस्य प्रार्थनां स्व्यकरोत् । कतिपयदिवसानां पश्चात् दुष्टस्य महिषासुरस्य अत्याचारः प्रथिव्याम् आरब्धः । तदा ब्रह्माविष्णुमहेश्वराः स्वतेजांसि दत्त्वा महिशासुरविनाशस्य शक्तिदेव्याः उत्पादनं कृतवन्तः। महर्षिः कात्यायनः सर्वप्रथमतया अस्याः पूजाम् अकरोत् । अनेन अस्याः नम कात्यायनी इति अभवत् । एषा देवी कात्यायनस्य गृहे पुत्रीरुपेण सञ्जाता इत्यपि पाठान्तरः लभ्यते । आश्वीजकृष्णचतुर्दश्यां जन्म प्राप्य अग्रे दिनत्रयं कात्यायनेन पूजां गृहीत्वा दशम्यां महिषासुस्य वधमकरोत् ।
स्वरूपं महिमा च
मता कात्यायनी अमोघफलदायिनी भवति । भगवन्तं कृष्णं पतिरूपेण आप्तुं व्रजप्रान्तस्य गोपिकाः यमुनातटे इमां देवीमेव उपास्यत । एषा वृजमण्डलस्य अधिष्ठात्री देवी अस्ति । अस्याः रूपम् अप्रतिमं भास्वरम् अस्ति । चतुर्भुजधारिण्याः मातुः दक्षिणस्य ऊर्ध्वबाहुः अभयहस्तमुद्रायुतः । अधः वरमुद्रायुतः हस्तः । वामे ऊर्ध्वहस्ते खड्गः अधः हस्ते कमलं सुशोभते । अस्याः वाहनं सिंहः भवति । मातुः कात्यायन्याः उपासनेन सरलतया धर्मार्थकाममोक्षानां सिद्धिः भवति । स्वच्छेन शुद्धेन मनसा यः मातरं कात्यायनीं प्रार्थयति तस्य रोगं शोकं सन्तापं सर्वथा विनाशयति । जन्मजन्मान्तरस्य पापं दूरीकरोति ।
उपासनाविधिः
नवरात्रम् उत्सवस्य षष्टे दिने कात्यायन्याः उपासना भवति । अस्याः पूजनेन अद्भुतशक्त्याः सञ्चारः भवति। एषा वैरिणां विनाशाय क्षमताम् अनयति । गोधूलीवेलायाम् अस्याः ध्यानं कुर्यात् । प्रत्येकं साधारणस्यापि जनस्य धानार्थम् अयं श्लोकः ओग्यः भवति । मातुः जगदम्बायाः कृपां प्राप्तुं श्लोकं कण्ठगतं कृत्वा मवरात्रस्य षष्टे दिने जपनं कुर्यात् ।
या देवी सर्वभूतेषु कात्यायनीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥
यस्याः कन्यायाः विवाहे विलम्बः भवति सा प्रतिदिनं जगम्बायाः कात्यायन्याः उपासनं करोति चेत् मनोवञ्छितः वरः प्राप्यते ।
बाह्यसम्पर्कतन्तुः
Katyayani Peeth, Vrindavan
Eulogy to Katyayani, ascribed to Pandava Brothers from Devi Purana
हिन्दुदेव्यः
विषयः वर्धनीयः |
5319 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%80%E0%A4%A8%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%80 | मीनाक्षी | मीनाक्षी सनातनधर्मस्य शक्तिदेवतायाः किञ्चन रूपम् । शिवस्य पत्न्याः पार्वत्याः अन्यत् रूपम् एव मीनाक्षी इति साधकानां विश्वासः । एषा भगवतः विष्णोः सहोदरी अपि इति भावना अस्ति । अस्याः पूजा विशेषतः भारतस्य दक्षिणभागे भवति । तमिळुनाडुराज्यस्य मधुरै इति प्रदेशे अस्याः सुन्दरं मीनाक्षीमन्दिरम् अस्ति ।
मीनाक्षीकथा
कदाचित् इन्द्रः कञ्चित् असुरं मारितवान् ।
हिन्दुदेव्यः
बाह्यानुबन्धः योजनीयः
हिन्दुधर्मसम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5321 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A4%BE | शारदा | देवी शारदा शक्तिमूर्तिः अस्ति। सा च सरस्वती इति । (अयं देवी सरस्वती वीणापाणी नास्ति इति द्रष्टव्यम्)। तस्य मन्दिरं काश्मीरस्य नीलमनद्याः तटे शारदापीठे स्थितम् अस्ति । शक्तिपीठः अस्ति यत्र सतीः दक्षिणबाहुः पतितः। आदिशङ्कराचार्यविरचिते अष्टादशमहाशक्तिपेठस्तोत्रे अस्य उल्लेखः अस्ति । वाराणस्यंग विशालाक्षी कश्मीरेशु सरस्वती। काश्मीरीविद्वांसानां शिक्षणकेन्द्रम् आसीत् ।
मुर्तितत्वम्
ध्यानमन्त्रानुसारं देवी षड्भुजा सिंहसेना । सर्वप्राप्तिप्रदाता यः शारदा। तस्य त्रिनेत्रं, पूर्णिमा इव उज्ज्वलं मुखम्; तस्य षट् उज्ज्वलहस्तेषु शूलं (शक्तिशस्त्रम्), धनुः, बाणः, घण्टाः, अमृतस्य घटः; रत्नयुक्तं च कुम्भम् । शार्दा शिलायां निहितहासदेवी त्रिलोकजननी सूर्याग्निलोचना षड्भुजः सर्वशक्तिमान् रूपम्। नमो भगवत्यै या साधवभक्त्या लभ्यते।। सिंहासनस्थः शारदा शीघ्रमेव इष्टं फलं पूरयतु !
सर्वज्ञपीठः
मुख्यतीर्थेन सह अस्मिन् मन्दिरे ६४ सोपानयुक्तं सिंहासनं वा आसनं वा आसीत् । एतत् सिंहासनं "सर्वज्ञपीठम्" (सर्वज्ञसिंहासनम्) इति । परन्तु चतुषष्ठी कला इति प्रसिद्धेषु ६४ विद्यासु केवलमेक एव विद्यारोहणयोग्यः आसीत् । तथाविधः विद्वान् सर्वज्ञः (सर्वज्ञः) इति निर्दिष्टः। तदतिरिक्तं सिंहासनस्य चतुर्पार्श्वाभिमुखाः ४ प्रवेशद्वाराः आसन् । एतानि द्वाराणि तदा एव उद्घाटितानि यदा कश्चन विशिष्टः विद्वान् तेषां स्वदिशातः समीपं गच्छति स्म । अतः राष्ट्रस्य विभिन्नभागेभ्यः बहवः ऋषयः विद्वांसः च तत्र गच्छन्ति स्म । ते दार्शनिकबौद्धिकविमर्शान् आयोजयन्ति तेन स्वविशेषज्ञतां बहुपक्षीयरूपेण प्रस्तुतयन्ति। अस्मिन् वादविवादे सम्पूर्णे भारते बहवः विद्वांसः भागं गृहीत्वा सर्वजनत्वेन नामाङ्किताः अभवन् । उत्तरपूर्वाभिमुखाः त्रयः अपि द्वाराः उद्घाटिताः आसन् ।
आदि शंकरस्य प्रभावः
अपरपक्षे अद्वैतसिद्धान्तस्य प्रस्तावकः श्रीआदिशङ्कराचार्यः दक्षिणभारते उपलब्धिभिः परिपूर्णः आसीत् । अद्वैतदर्शनस्य प्रचारार्थं सः देशस्य परिभ्रमणं कृतवान् | तस्य उपलब्धिभिः सः अमरः अभवत् । सर्वाणि स्थानानि सः गतः; श्री शंकराचार्य ने आध्यात्मिक चमत्कार किया। एतादृशं एकं स्थानम् आसीत् काश्मीरस्य शारदामन्दिरं यत्र सः वादविवादेषु भागं गृहीतवान् । सर्वेषां आश्चर्यं यत् सः शान्ततया अनेकेषां विद्वान् क्षिप्तानाम् सर्वेषां प्रश्नानाम् उत्तरं दत्तवान् । अन्ते बहुयुगानां अनन्तरं दक्षिणमुखं द्वारं उद्घाटितम् । श्री शंकराचार्यः सर्वज्ञसिंहासनम् आरुह्य। काश्मीरे प्राप्तानां उपलब्धीनां अनन्तरं शंकराचार्यः चतुर्णां पक्षेषु एतादृशानां शारदापीठानां स्थापनां चिन्तितवान् । अतः सः शृङ्गेरी – कर्नाटक (दक्षिणे – चतुर्णां प्रथमः) इत्यत्र पीठं स्थापितवान् । तदनन्तरं पुरी (पूर्व), द्वारका (पश्चिम) इत्यत्र शेषत्रयम्।
इतिहास
षष्ठ - १२ शताब्द्याः मध्ये सारदा पीठ् भारतीय उपमहाद्वीपस्य विश्वविद्यालयेषु अन्यतमम् आसीत् | धार्मिकसंस्थारूपेण काश्मीरीपण्डितानां त्रयाणां प्रसिद्धेषु "तीर्थेषु" अथवा तीर्थस्थानेषु अन्यतमम् अस्ति । अन्ये द्वे मार्तण्डसूर्यमन्दिरं अमरनाथमन्दिरं च ।२००५ तमे वर्षे भूकम्पेन अस्य क्षतिः अभवत् ।
शारदा कुल
यथा पूर्वभारते कालीकुलः, दक्षिणभारते श्रीकुलः, तथैव काश्मीरे शारजाहकुलः अस्ति। अस्य गोत्रस्य मुख्या देवी शारदा अस्ति | अपि च बिमला, सरस्वती, ब्राह्मणी, बागबादिनी, स्वरा, धीदेवी, भद्रबक इत्यादयः अस्य कुलस्य देवीः सन्ति ।
सन्दर्भः |
5322 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%BE | अन्नपूर्णा | देव्याः नाम।
हिन्दुदेव्यः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
सारमञ्जूषा योजनीया
स्टब्स् भारतसम्बद्धाः
सर्वे अपूर्णलेखाः
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
5323 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%BE | अपर्णा | पार्वतीदेव्याः नाम। दक्षप्रजापतेः पुत्री सती=दाक्षायणी पितरि कोपात् यदा यज्ञकुण्डे पतित्वा देहत्यागं च कृत्वा पुनः पर्वतस्य अपत्यं भूत्वा पार्वतीति नाम्ना पुनर्जन्म लेभे, तदा सा सदाशिवमेव वरीतुमियेष । तदर्थं तपस्यामारभत । घोरं तपस्यन्ती क्रमेण फलाहारं शाकाहारं च त्यक्त्वा वाताहतानि वृक्षेभ्यः पतन्ति पर्णानि खादन्ती आसीत् । ततः क्रमेण तमप्याहारं परित्यजन्ती तपोमग्ना आसीदिति हेतोः, यस्याः पर्णमपि नान्नमासीत् सा "अपर्णा" इति प्रथिता । हरिवंशपुराणे मत्स्यपुराणे च इयं कथा वर्णिताऽस्ति । अस्य पर्यायपदानि अमरकोशे द्रष्टुं शक्यन्ते यथा-
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥
पश्य
देवी
हिन्दुदेव्यः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
हिन्दुधर्मसम्बद्धाः स्टब्स्
भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
न प्राप्तः भाषानुबन्धः
सर्वे अपूर्णलेखाः
सर्वे न प्राप्ताः भाषानुबन्धाः |
5325 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%9A%E0%A5%80 | शची | शची ( ) (,) देवराजस्य इन्द्रस्य पत्नी आसीत् । इयम् इन्द्राणी इति नाम्ना अपि ज्ञायते । मत्स्यपुराणानुसारं तस्याः पिता पुलोमा आसीत् । शची स्त्रीजागृतेः, स्त्रीमुक्तेः च प्रथमा प्रणेत्री आसीत् । तया स्त्रीणाम् अधिकाराय बहूनि कार्याणि कृतानि आसन् । अस्याः अंशादेव द्रौपद्याः उत्पत्तिर्जाता । जयन्तः शचेः पुत्रः आसीत् ।
परिचयः
पुलोमा शचेः पिता आसीत् । शचेः बहूनि नामानि सन्ति । यथा – ऐन्द्री, महेन्द्री, पुलोमजा, पौलोमी च । पुलोमा एकः राक्षसः आसीत् । इन्द्रेण एव पुलोमा हतः । षोडशमातृकासु शची अन्यतमा अस्ति । सा सुन्दरी अस्ति । तस्याः अक्षिणी अपि सुन्दरे स्तः । सा सिंहैः, गजैः च सह सम्बद्धा अस्ति ।
जयन्तः, जयन्ती, मिधुशा, निलाम्बरा, चित्रगुप्तः च शचेः पुत्राः आसन् । महाकाव्येषु शचेः बहूषु स्थानेषु वर्णनं दृश्यते । “अन्तहीना सुन्दरी” इति उपाधिना तस्याः वर्णनं शास्त्रेषु प्राप्यते ।
पुराणेषु उच्यते यत् – इन्द्रस्य वाहनं श्वेतगजः अस्ति । तथैव शच्याः वाहनमपि श्वेतगजः एव अस्ति । आषाढमासस्य नवरात्रिमहोत्सवे अपि शच्याः पूजा क्रियते । जीवने ईर्ष्यां नाशयितुं शचेः पूजा करणीया ।
अधिकतमाः देव्यः स्वपत्युः नाम्ना ज्ञायन्ते यत् – रुद्रस्य पत्नी रुद्राणी, वरुणस्य पत्नी वारुणी । किन्तु केवल इन्द्रः एकः एव स्वस्य पत्न्याः नाम्ना ज्ञायते । इन्द्रस्य अपरं नाम शचीपतिः अस्ति । शची अर्थात् शक्तिः । अतः शक्तेः स्वामी शचीपतिः इति कथ्यते । शक्, शच् वा धातोः शची शब्दस्य उत्पत्तिर्भवति ।
वैदिकसाहित्यानुसारं शची इन्द्रस्य महिलाच्छायारूपेण एव वर्णिता अस्ति । सा दानवस्य पुत्री अस्ति । अतः कदाचित् सा कोपदेवीत्वेन स्वरूपेण अपि ज्ञायते । साम्प्रतं दक्षिणभारते सा एका महत्त्वपूर्णा देवी मन्यते ।
ऋग्वेदानुसारं शची एका भाग्यशालिनी महिला अस्ति । यतः इन्द्रेण तस्यै अमरत्वं प्रदत्तम् आसीत् । शची स्वस्याः आकर्षणेन एव अन्यासु देवीषु विशिष्टा वर्तते । तथापि तस्याः पूजा कदाचित् एव क्रियते । केवलं षोडशमातृकासु एव तस्याः पूजा क्रियते ।
ऋग्वेदस्य दशममण्डलस्य षडाशीतितमे सूक्ते शचीवर्णनम् अस्ति । पुत्ररत्नप्राप्त्यर्थं सा गौरीव्रतं कृतवती आसीत् । तेन व्रतेन सा जयन्त-नामकं पुत्ररत्नं प्रापत्। शाक्तमते शची विश्वजननी अस्ति । सा दैवी अस्ति । शच्याः स्वरूपे तस्याः मानवीकरणं जातम् । शक्तेः अष्टस्वरूपेषु सा अन्यतमा वर्तते। अमरकोशे सप्तमातृकासु अपि तस्याः उल्लेखः प्राप्यते । शची इन्द्राय शक्तिं प्रददाति । सा स्वयमेव अनेकासाम् ऋचां दृष्ट्रीत्वेन अस्ति ।
स्वस्याः कार्यक्षेत्रे सा विजयिनी, सर्वस्वामिनी च अस्ति । स्वस्याः शक्तेः विषये तया ऋग्वेदस्य दशममण्डलस्य १५९ तमस्य अध्यायस्य २ मन्त्रे कथितं यत् - “अहं केतुरहं मूर्धा अहमुग्राविवाचिनी” । अर्थात् अहम् एव विजयिनीध्वजा अस्मि, अहमेव् औन्नत्यम् अस्मि, अहम् अनुल्लङ्घनीया शासिका अस्मि ।
ऋग्वेदस्य दशममण्डलस्य १५९ तमे अध्यायः शक्तिसूक्तम् अस्ति । तस्मिन् सूक्ते सा कथयति यत् – अहं असपत्नी अस्मि, सपत्नीनां नाशकर्त्री अस्मि । तस्मिन् सूक्ते एव सा कथयति यत् – “मम पुत्राः शत्रुहणोऽथो मम दुहिता विराट्” अर्थात् मम पुत्राः शत्रुहन्तारः, पुत्री च विशाला वर्तते ।
विविधस्वरूपाणि
शाक्तमते सर्वप्रथमः मातृकाणां पूजा क्रियते । ताः मातरः विश्वजनन्यः सन्ति । तासां देवस्त्रीणां स्वरूपे मानवीकरणमभवत् । अतः शक्तीनां विविधस्वरूपाणि सन्ति इत्यस्याभिप्रायः वर्तते । ताः अष्टमातरः सन्ति । तासां विभिन्नदेवैः सह सम्बन्धः अस्ति । “वैष्णवी” अर्थात् लक्ष्म्याः विष्णुना सह, “ब्राह्मी” अर्थात् ब्रह्माण्याः ब्रह्मणा सह, कार्तिकेय्याः कार्तिकेयेन सह, इन्द्राण्याः इन्द्रेण सह, यम्याः यमेन सह, वाराह्याः वराहेण सह, रुद्राण्याः रुद्रेण सह च सम्बन्धः वर्तते ।
अनेन प्रकारेण इन्द्राणी अपि अष्टमातृकासु अन्यतमा वर्तते । अमरकोशे सप्तमातृकाणाम् उल्लेखः प्राप्यते यत् –
पौराणिकी कथा
एकदा इन्द्रः ब्रह्महत्यायाः भयात् जलगर्भे निवसन् आसीत् । तदा इन्द्रस्याभावे देवताभिः नहुषाय इन्द्रपदं प्रदत्तम् आसीत् । नहुषः शचीं कुदृष्ट्या पश्यति स्म । तदा बृहस्पतेः आज्ञया शच्या भुवनेश्वरीदेव्याः आराधना कृता । तस्या आराधनायाः कारणेन सा अभयं प्रापत् । तदनन्तरं मानससरोवरे यत्र इन्द्रः आच्छादितः आसीत्, तत्र गत्वा शच्या इन्द्राय स्वस्याः सम्पूर्णा व्यथा कथिता ।
इन्द्रं मिलित्वा शची प्रसन्ना जाता । इन्द्रेण शच्यै एकः उपायः प्रदत्तः । शची पुनः नहुषं प्रति गत्वा उक्तवती यत् – “यदि भवान् सप्तर्षीणां स्कन्धयोः उपविश्य आगच्छेत्, तर्हि अहं भवता सह गच्छामि । अतः नहुषेण तादृशम् एव कृतम् ।
ऋषयः शनैः शनैः प्रचलन्तः आसन् । अतः नहुषेण उक्तं यत् – “शीघ्रं प्रचलन्तु” । तेन कारणेन अन्ते ऋषिभिः नहुषाय शापः प्रदत्तः आसीत् ।
विवाहपूर्वं शची शङ्करस्य प्रार्थनां चकार । सा बृहस्पतेः सुन्दरपतिं, रूपं, सुखं च अयाचत् । ऋग्वेदे शचीरचितानि कानिचित् सूक्तानि अपि सन्ति ।
शच्याः अभिमानस्य नाशः
एकदा श्रीकृष्णः सत्यभामा च इन्द्रं मेलितुं स्वर्गं गतवन्तौ आस्ताम् । यदा तौ इन्द्रस्य स्वर्णभवनं प्राप्तवन्तौ आस्ताम्, तदा तयोः स्वागतार्थं सशचीन्द्रः उपस्थितः आसीत् । शच्या उत्तमः शृङ्गारः कृतः आसीत् । तदा शचीं दृष्ट्वा सत्याभामा ईर्ष्यां चकार । यतः शचेः केशराशिः पारिजातपुष्पैः शोभायमानः आसीत् । पारिजातपुष्पाणि दृष्ट्वा सत्यभामायाः मनसि आघातः जातः ।
सत्यभामा व्यचारयत् – “किमर्थं शची एव पारिजातस्य स्वामिनी” इति । किन्तु तस्मिन् समये सत्यभामा किमपि न उवाच ।
तदनन्तरं इन्द्रेण श्रीकृष्णस्य उत्तमः सत्कारः कृतः । पुनः यदा द्वारकागमनसमयः अभवत्, तदा इन्द्रेण सत्यभामाकृष्णाभ्याम् बहवः पुरस्काराः प्रदत्ताः । किन्तु शची गर्वयुक्ता आसीत् । पारिजातानि देवतानां पुष्पाणि सन्ति इति विचार्य शच्या सत्यभामायै पारिजातपुष्पाणि न प्रदत्तानि । यतः सत्यभामा मानुषी आसीत् । तेन कारणेन सत्यभामा क्रुद्धा अभवत् ।
शची गर्वस्य कारणेन “कृष्णः, सत्यभामा च विष्णोः लक्ष्म्याः च स्वरूपे स्तः” इति विस्मृतवती आसीत् । अतः सत्यभामा शचेः अभिमानं नाशयितुम् ऐच्छत् ।
यदा द्वारकां प्रति गमनस्य समयः जातः, तदा सत्यभामा श्रीकृष्णं प्रति उवाच – “अयं पारिजातवृक्षः आवाभ्यां सह नयतु” इति । तदा श्रीकृष्णेन उक्तं यत् – “इन्द्रः मम मित्रम् अस्ति । पारिजातवृक्षः शचेः नेजीसम्पत्तिः अस्ति । अतः कथमहं इमं वृक्षं नेतुं शक्नोमि” ?
तदा सत्यभामा श्रीकृष्णं स्वस्य भगवत्स्वरूपं स्मारम्य शचीन्द्रयोः अभिमानं नाशयितुम् अकथयत् । पारिजातवृक्षः समुद्रमन्थनेन प्राप्तः । अतः अयं वृक्षः सार्वजनिकः वर्तते । कथमयं शचेः वैयक्तिकः वृक्षः ? सत्यभामायाः विचाराणि श्रुत्वा गमनसमये श्रीकृष्णेन सः वृक्षः नन्दनवनात् स्वीकृतः । वृक्षं नीत्वा तौ द्वारकानगरीं गतवन्तौ ।
पारिजातवृक्षस्य सन्देशं प्राप्य शची कुपिता जाता । अतः सा कोपभवनं प्राप्तवती आसीत् । तया अन्नजलयोः अपि त्यागः कृतः । “यावत् पारिजातवृक्षः नन्दनवने पुनः नागच्छेत्, तावत् पर्यन्तम् अहं किमपि न खादिष्यामि” इति शचेः सङ्कल्पः आसीत् ।
प्रियतमायाः तादृशीं स्थितिं दृष्ट्वा इन्द्रः त्वरितमेव स्ववाहनेन ऐरावतेन हस्तिना पारिजातवृक्षम् आनेतुं प्रस्थितवान् । इन्द्रं दृष्ट्वा श्रीकृष्णेन शराणां वर्षा कृता । सम्पूर्णं गगनं शरमयमभवत् । इन्द्रेण अपि वज्रम् प्रक्षेपितम् । किन्तु श्रीकृष्णः हस्तेन एव वज्रम् अवरोधितवान् ।
यदा इन्द्रः भीतः सन् इन्द्रलोकं प्रति गच्छन् आसीत्, तदा सत्यभामया सः आवाहितः । सत्यभामया इन्द्रः उक्तः यत् – “इत्थं प्रकारेण युद्धं त्यक्त्वा भवान् यदि पलायनं करिष्यति, तर्हि इन्द्रलोके भवतः शासनस्य महत्त्वं न्यूनं भविष्यति । अतः भवान् इमं पारिजातवृक्षं नीत्वा गच्छतु । पारिजातवृक्षं दृष्ट्वा शची अपि प्रसन्ना भविष्यति ।
तथापि इन्द्रेण पारिजातवृक्षः न स्वीकृतः । अनन्तरं सः स्वर्गलोकं गतः । यदा इन्द्रः स्वर्गलोकं प्रापत्, तदा नन्दनवने पारिजातवृक्षं प्राप्तवान् । अन्ते शचीन्द्रयोः सौन्दर्यस्य, पारिजातवृक्षस्य च अभिमानः नष्टः जातः आसीत् ।
सूत्रवेष्टनस्य कथा
भविष्यपुराणानुसारम् एका कथा अस्ति यत् – “एकदा देवतानाम् असुराणां च मध्ये युद्धम् अभवत् । तद्युद्धं द्वादशवर्षं यावत् प्राचलत् । तस्मिन् युद्धे देवताः भयभीताः अभवन् । इन्द्रः अपि भयभीतः सन् देवगुरोः बृहस्पतेः समीपं गतः ।
यतः तस्मिन् युद्धे असुराः बलवन्तः आसन् । तेन कारणेन इन्द्रः पराजयस्य भयेन चिन्तितः आसीत् । बृहस्पतिना एका युक्तिः प्रदत्ता । अतः शच्या श्रावणमासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ विधिपूर्वकं उपवासः कृतः । तदनन्तरं ब्राह्मणानाम् उपस्थितौ स्वस्तिवाचनेन शच्या इन्द्रस्य दक्षिणहस्तस्य मणिबन्धे रक्षासूत्रं वेष्टितम् । तेन देवताः विजयिनः अभवन् ।
रक्षासूत्रस्य वेष्टनसमये निम्नलिखितश्लोकस्य उच्चारणं कृतम् आसीत् । तद्यथा –
अस्य भावार्थः अस्ति यत् – “दानवानां महाबली राजा बली येन रक्षासूत्रेण निबद्धः आसीत् । तेन रक्षासूत्रेण अहं त्वां बध्नामि । हे रक्षे ! चलायमाना मा भव ।
अतः साम्प्रतमपि श्रावणमासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ रक्षाबन्धनं पर्व आचर्यते ।
स्त्रीणां संरक्षणम्
पुरुषाणाम् अपेक्षया स्त्रीणां मानसिकबलं, बुद्धिचातुर्यं च अधिकं विद्यते । केवलं शारीरिकबलं न्यूनं भवति । साम्प्रते काले स्त्रियः अबलाः इति मन्यन्ते । अतः स्त्रीणां जागृतेः आवश्यकता वर्तते । किन्तु वैदिककाले शची (इन्द्राणी) स्त्रीजागृतेः प्रथमा प्रणेत्री जाता ।
विवाहस्य समये अपि ब्राह्मणानां समक्षं पुरुषः स्त्रियै कथयति यत् – “गृह्णामि सौभगत्वाय ते हस्तम्” अर्थात् मह्यं सौभाग्यस्य प्राप्तिर्भवेत् अतः भवत्याः हस्तं गृह्णामि । अतः अस्य सूत्रस्य अनुसारं पतिः एव सौभाग्यवान् स्यात्, न तु पत्नी । तथापि स्त्रियः एव सौभाग्यवत्यः कथ्यन्ते । अतः पत्न्याः मृत्योः अनन्तरं पतिः एव विधवा वक्तव्यः । स्त्रीणां वैधव्यं धर्मोक्तं नास्ति । किन्तु पत्न्यः पत्युः भीताः भवन्ति । अतः समाजे किमपि वक्तुम् असमर्थाः भवन्ति ।
वैदिककाले शची भयेन विना कार्याणि कृतवती आसीत् । तया स्त्रीणां हृदयात् पत्युः अनुचितभयं निष्कासितम् । स्त्रीणां दुःखं, असाहाय्यं, लज्जास्पदं जीवनं च चिन्तायाः विषयः अस्ति । स्त्रीभ्यः पुरुषैः सह समानतायाः अधिकारः दातव्यः ।
ऋग्वेदे शच्या एकः प्रश्नः कृतः यत् – “सहोत्रं स्म पुरा नारी समनं वावगच्छति” (ऋग्वेद १०-८६-१०) । तथापि साम्प्रतं स्त्रीभिः सह समानतायाः व्यवहारः न क्रियते ।
शची कथयति स्म यत् – “उदसौ सूर्यो अगादुदयं मामको भगः” अर्थात् सूर्योदयः जातः । हे स्त्रियः ! स्वाधिकारान् स्मरन्तु । यथा भवतीनां पितामह्यः, प्रपितामह्यश्च स्वाधिकारान् स्वपराक्रमेण रक्षन्ति स्म, तथैव भवतीभिः कर्त्तव्यम् ।
शच्या उक्तं यत् – “हे स्त्रियः ! वदन्तु यत् "अहं तद्विद्वला पतिम् अभ्यसाक्षि विषासहिः” (ऋग्वेद १०-१५९-१) अर्थात् अहं तेजस्विनी, प्रखरा, पराक्रमिणी अस्मि ।
अनेन प्रकारेण शच्या स्त्रिभ्यः स्फूर्तिः प्रेरणा च प्रदता । शच्या चालितस्याभियानस्य श्रेष्ठपरिणामाः प्राप्ताः । वैदिककालीनाः स्त्रियः शच्याः शिक्षां, प्रेरणां च प्राप्य स्वाधिकारान् प्राप्तवत्यः ।
शच्या एतानि कार्याणि कृतानि आसन् । तैः कार्यैः शच्याः प्रतिष्ठा वर्धिता । सम्पूर्णे जगति तस्याः कीर्तिः विस्तृता ।
सम्बद्धाः लेखाः
वेदः
उपनिषद्
इन्द्रः
रक्षाबन्धनम्
श्रीकृष्णः
पुराणानि
बाह्यसम्पर्कतन्तुः
http://www.bharatdarshan.co.nz/magazine/articles/534/bhavishya-purana-rakhikatha.html
भारत डिस्कवरी – इन्द्राणी
अधिकवाचनाय
वेदकालीनाः स्त्रियः
सन्दर्भाः
महिला-लेखाभियानम् २०१५
पौराणिकधार्मिकमहिलाः
हिन्दुदेव्यः
सारमञ्जूषा योजनीया |
5326 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80 | पार्वती | लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।
केनोपनिषदि (३.१२) सा उमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत ।
प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्च पुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्त इति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतया पार्वतीदेवी एव व्यपदिश्यते ।
देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदा तस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषिता दृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्य देवस्य वामभागम् अलङ्करोति ।
काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु सा बहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।
बाह्यसम्पर्कतन्तुः
Devotional hymns and eulogies on Parvati
हिन्दुदेव्यः
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः |
5327 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%95%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B8 | पुरुकुत्स | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5328 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%83 | त्रसदस्युः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5329 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%83 | सम्भूतः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5330 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A8%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%83 | अनरण्यः | सः अयोध्याकुलस्य राजा आसीत् । इक्ष्वाकुवंशस्य पुरुकुत्सः नाम्नः राज्ञः यवीयसः पुत्रस्य त्रसदस्योः द्वितीयपुत्र एषः । एतस्य हर्यश्वः बृहदश्वः इति द्वौ पुत्रौ आस्ताम् । लङ्काधिपतिः रावणः यदा दिग्विजयाय प्रस्थितः तदा अनेके राजानः एनं शरणं गताः । एषः रावणेन सह अयुध्यत । तस्मिन् युद्धे रावणः अस्य शिरोऽच्छिनत् । तदाऽनरण्यस्य मुण्डः अवदत् यथा-"नैष ते महिमा, सर्वस्यापि कारणीभूतोऽन्य एवास्ते, अन्ते मम वंशोत्पन्नः पुरुष एव त्वां हनिष्यति" । इति रावणाय शापं दत्तवान् । एषा कथा रामायणे उत्तरकाण्डे, महाभारते च अनुशासनपर्वणि वर्णिता ।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5331 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%A6%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%83 | त्रसदश्वः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5332 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%AF%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%B5%20%E0%A5%A8 | हरयाश्व २ | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5333 | https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A4 | वसुमत | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5334 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A7%E0%A4%A8%E0%A4%B5%E0%A4%BE | त्रिधनवा | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5335 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A5%81%E0%A4%A3%E0%A4%83 | त्रय्यारुणः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5336 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4 | सत्यव्रत | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5337 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%83 | हरिश्चन्द्रः | हरिश्चन्द्रः सूर्यान्वयस्य राजा । त्रिशङ्कुः अस्य पिता सत्यव्रता माता । अस्य पत्नी चन्दमतिः पुत्रः रोहितः । त्रिशङ्कुः पितुः कारणेण राज्याधिकारं नष्टवान् । किन्तु हरिश्चन्द्रः त्रिशङ्कोः जीवितकाले एव राज्यं पुनः प्राप्तवन् । हरिश्चन्द्रः नारदस्य उपदेशानुसारं पुत्रः जायते चेत् तं पुत्रमेव यज्ञपशुत्वेन उपयुज्य यज्ञं करिष्यामि इति वरुणं सम्प्रार्थ्य रोहितः इति पुत्रं प्राप्नोत् । वरुणः आगत्यं पूर्ववचनं स्मारितवान् किन्तु हरिश्चन्द्रः पुत्रस्य दन्ताः आगच्छन्तु पश्चात् पश्यामः श्वः परश्वः अग्रे इति वदन् कालं यापितवान् ।
वरुणशापः
हरिश्चन्द्रपुत्रः रोहितः भीतः धनुः गृहीत्वा अरण्यं गत्वा इन्द्रस्य सूचनानुगुणं वर्षचतुष्टयं वने अभ्रमत् । पश्चात् ऋतीकमुनेः पुत्रं शुनश्शेपं स्वपत्तनम् आनीय स्वपर्यानेन शुनश्शेपं यज्ञे उपयोजयतु इति पितरम् अवदत् । एतन्मध्ये एव वरुणस्य शपात् हरिश्चन्द्रः जलोदररोगेण पीडितः । शुनशेपं गृहीत्वा नरमेधयागं कृत्वा वरुणं तर्पयित्वा जलोदररोगेण मुक्तः अभवत् ।
विश्वामित्रविवादः
हरिश्चन्द्रः विश्वामित्रस्य कारणेण राज्यभ्रष्टः सपुत्रकलत्रं काशीपुरं गत्वा दारिद्र्यवशात् पत्नीं कालकौशिकः इति विप्राय विक्रीय स्वयं वीरबाहुः इति चाण्डालाय विक्रीय असह्यकष्टानि बहुकालम् अनुभूतवान् । धनिकस्य कर्मकररूपेण वसन् पुत्रः रोहितः सर्पदशनेन मृतः । किन्तु सत्यपरिपालनेन कालक्रमेण परमेश्वरस्य कृपया पुत्रकलत्रं राज्यं च प्राप्य सुखेन न्यवसत् ।
अयोध्याकुलस्य राजानः
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
सारमञ्जूषा योजनीया |
5338 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A5%8B%E0%A4%B9%E0%A4%BF%E0%A4%A4 | रोहित | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5340 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%95 | रुरुक | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5341 | https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%83%E0%A4%95%E0%A4%83 | वृकः | वृकः श्वरूपः वन्यः पशुः । सम्प्रति तेषां ३८ उपजातयः ज्ञायन्ते ।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5342 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%81 | बाहु | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5343 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%97%E0%A4%B0%E0%A4%83 | सगरः | इक्ष्वाकुवंशस्य असितः अथवा बाहुकः इति महाराजस्य पुत्रः । अस्य द्वे भार्ये आस्ताम् । एका विदर्भराजकन्या अपरा शिबिमहारजस्य पुत्री । वैदर्भी ६०सहस्रपुत्रान् शैभ्या असमञ्जेति पुत्रमेकं च असूवाताम् । उत्तरगोग्रहणस्य काले इन्द्रस्य विमाने उपविश्य युद्धं दृष्टुम् आगतः ।
अयोध्याकुलस्य राजानः
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5344 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B8%E0%A4%AE%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%B8%E0%A4%83 | असमञ्जसः | सः अयोध्याकुलस्य राजा आसीत्। एषः दुष्टराजः । इक्ष्वाकुवंशे सगरचक्रवर्तिनः पत्न्यां सुमत्यां जातः । सुमती तु अरिष्टनेमेः पुत्री आसीत् , अस्याः केशिनीति नामान्तरमप्यासीत् । एषः अयोध्यायाः रथ्यां क्रीडतः बालान् सरय्वां नद्यां क्षिपन्नानन्दमनुभवति स्म । अस्य दुश्चेष्टितं पीडां च असहमानाः प्रजाः राज्ञि निवेदयामासुः । तदा कुपितः सगरः एनं राज्यात् निष्कासयामास । असमञ्जसः पुत्र एव अंशुमान् ।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5345 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%82%E0%A4%B6%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D | अंशुमान् | सः अयोध्यायाः राजा आसीत्। पुरा त्रेतायुगे अयोध्यायां बाहुकापरनामा असितो नाम राजाऽऽसीत् । असितस्य पुत्रः "सगरः" । सगरस्य द्वे भार्ये आस्ताम् । प्रथमा विदर्भराजपुत्री वैदर्भी । अस्याः षष्ष्टिपुत्राः पितुः सगरस्य यज्ञाश्वसंरक्षणार्थम् अश्वमनुगत्य, तस्मिन् तुरङ्गमे शक्रेणापहृते तमन्विषन्तः पाताले विद्यमानं कपिलमुनेः आश्रमम् अप्राप्नुवन् । तत्र कपिलस्य कोपाग्निना भस्मीभूताश्च । सगरस्य द्वितीया शिबिराजस्य अरिष्टनेमेः कुमारी केशिन्यपरनाम्नी "सुमतिः" । सुमत्याः पुत्रः "असमञ्जाः" । असमञ्जसः पुत्र एव अंशुमान् । एषः पितामहस्य सगरस्यानुज्ञया कपिलाश्रममासाद्य कपिलमुनिं सम्प्रार्थ्य शान्तेन मुनिना यज्ञाश्वं च प्राप्य, अश्वं पित्रे प्रादात् । तेन तुष्टः सगरः अश्वमेधयागं समपादयत् । अंशुमान् च स्वपितृव्यानां सद्गतिं प्रापयितुं चिन्तयन् गरुडेन ज्ञातवान् यत्, व्योमगङ्गाप्रवाहः यदा तेषां भस्मराश्युपरि वहति तदा तेषां सद्गतिः भविष्यति इति । ततः आंशुमान् सगरात् राज्यं प्राप्य किञ्चित्कालं राज्यभारं निरवहत् । ततः स्वपुत्रे दिलीपे प्राप्तवयसि, तस्मिन् राज्यधुरं निक्षिप्य स्वयं स्वर्गात् व्योमगङ्गां भुवमानेतुकामः तपसे वनं जगाम । किन्तु गङ्गावतरणं कर्तुं न शशाक । बहुकालाऽनन्तरम् अंशुमतः पौत्रः भगीरथः भागीरथीं नभस्तः भूमिमानाययामास । इति रामायणे बालकाण्डे, महाभारते च वनपर्वणि पठ्यते ।
प्राचीन-वंशावली
अयोध्याकुलम्
बाह्यसम्पर्कतन्तुः
विष्णुपुराणे अंशुमान्
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
भारतेतिहाससम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5346 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BF%E0%A4%B2%E0%A5%80%E0%A4%AA%20%E0%A5%A7 | दिलीप १ | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5347 | https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%97%E0%A5%80%E0%A4%B0%E0%A4%A5%E0%A4%83 | भगीरथः | भगीरथः रामायणस्य किञ्चन पात्रमस्ति । एषः अयोध्याकुलस्य राजा आसीत्। इक्ष्वाकुवंशस्य दिलीपस्य पुत्रः । जितेन्द्रियः महासाहसी प्रपितामहानां सगरपुत्राणां सद्गतिप्राप्तये सुरगङ्गाम् देवलोकतः आनीतवान् । अस्य पुत्री हंसी कौत्समुनेः पत्नी ।
भगीरथस्य पूर्वजाः
सूर्यवंशे प्रख्यातः महाराजः सगरः । एतस्य सुमतिः केशिनी च इति द्वे पत्न्यौ । केशिन्याम् असमञ्जः इति पुत्रः जातः । सुमत्याः षष्ठिसहस्रपुत्राः जाताः। ते षष्ठिसहस्रपुत्राः एव सागराः । असमञ्जसः पुत्रः अंशुमान् । एतस्य पुत्रः दिलीपः । दिलीपस्य पुत्र एव भगीरथः ।
षष्ठिसहस्रपुत्राः दुष्टकार्याणि कुर्वन्तः आसन् । तैः यज्ञादिशिष्टकर्माणि नाशितानि । भीताः देवताः दैवांशसम्भूतं कपिलमुनिं शरणं गताः । तदा कपिलः - "चिन्तामास्तु । स्वल्पकाले एव ते नश्यन्ति" इति उक्तवान् । एकदा सगरः अश्र्वमेधयागम् आरब्धवान् । अश्र्वमेधयागः इत्युक्ते जयपत्रम् आश्र्वस्य ललाटे बध्वा तमश्र्वम् अटनार्थं त्यजन्ति । यः अश्वं बध्नाति तेन सह युद्धं करणीयं भवति । षष्ठिसहस्रसगरपुत्राः अश्र्वरक्षणाय प्रस्थितवन्तः । इन्द्रः अश्वं चोरयित्वा एकं बिलं प्रविष्टवान् । भूलोके अश्र्वम् अप्राप्य पाताळलोकं सागराः प्रविष्टवन्तः तत्र कपिलमुनिः तपति स्म । एषः एव अश्वं चोरितवान् इति चिन्तयित्वा कपिलं ताडयितुम् आयुधानि गृहीतवन्तः । तदा कपिलमुनिः नेत्रमुन्मील्य तान् दृष्टवान् । ते सर्वे दग्धाः अभवन् । एतेषाम् अन्त्यसंस्कारः न जातः । अतः सद्गतिः न प्राप्ता । एतेषामेव वंशस्थः दिलीपः स्वपितामहानामपेक्षया शीघ्रं सद्गतिं प्राप्तवान् । पित्रा गृहीतं कार्यं पूर्णं कर्तुं भगीरथः प्रयत्नमारब्धवान् ।
गङ्गावतरणम्
भगीरथः सुरगङ्गां भूमिमानेतुं संकल्पं कृत्वा हिमालयं गतवान् । बहुकठिनतपः आरब्धवान् । तपसा तुष्टा गङ्गा भूमिमागन्तुमङ्गीकृतवती । पुनश्र्च स्ववेगं न्यूनीकर्तुं महादेवं प्रार्थयितुं सूचितवती । पुनः भगीरथः तपः आरब्धवान् । शिवं ध्यानेन आकृष्य अनुग्रहं प्राप्तवान् । गङ्गया यथा सूचितं तथा तस्याः वेगं न्यूनीकर्तुं प्रार्थितवान् । गङ्गा शिवस्य जटाजूटतः भूमिमागतवती । भगीरथः गिरिपर्वतानां मध्ये आयुधैः मार्गं कल्पितवान् । गङ्गा हिन्दुस्थानस्य उत्तरभागस्य समप्रदेशं प्राप्तवती ।
इदानीमपि गङ्गायै मार्गं कल्पयितुं कृतकः मार्गः रचितः स्यात् इति गङ्गाप्रवाहमार्गं दृष्टवन्तः केचन वदन्ति । अग्रे जह्नुमहर्षिः जलं सर्वं पीतवान् । पुनः भगीरथः तपसा तां प्रत्यानीतवान् । अतः जाह्नवी इति ख्याता । अग्रे गङ्गामाता सागरेभ्यः सद्गतिं दत्तवती । गङ्गावतरणस्य कथा एषा । भगीरथस्य यत्नतः गङ्गा अत्र आगता इति भागीरथी इत्यपि नाम गङ्गायाः ।
गङ्गायां स्नानं करोति चेत् , पितृभ्यः पिण्डं ददाति चेत् सायुज्यं लभ्यते इति विश्वासः । एवं लक्ष्यप्राप्तये सततप्रयत्नः आवश्यकः । भगीरथस्य कारणतः स्वर्गंगा भुवमागता । प्रयत्नस्य अपरं नाम भगीरथः ॥
भगीरथस्य वैदिकी दृष्टिः
वैदिक वाङ्मये भगीरथः शब्दं न विद्यते। जैमिनीयउपनिषदब्राह्मणे ४.६.१ राज्ञः भगेरथस्य बकदाल्भ्य ऋषिणा सह संवादं विद्यते। अस्मिन् संवादे सामवेदस्य हिंकारः, आदिः, प्रस्तावः, उद्गीथः, प्रतिहारः, उपद्रवः एवं निधनस्य विवेचनं अस्ति। साधारणतया जीवरथस्य गतिः भाग्यानुसारे भवति। भगेरथस्य जीवनमपि भाग्यानुसारे गतिं करोति। बकः दाल्भ्यः अर्थात् यस्य वाक् दर्भिता, ग्रथिता अस्ति। यस्य वाक् वरप्रदातृ अथवा शापप्रदातृ भवितुं शक्यते, सः बकः दाल्भ्यः। भाग्यानुसारेण जीवननिर्वाहकस्य वाक् कथं वरप्रदातृ भवितुं शक्यते, अस्मिन् विवेचने सामवेदस्य सप्तानां भक्तीनां विवेचनं उपलब्धमस्ति। सामवेदस्य एषां भक्तीनां रहस्यं किमस्ति, अयं शाण्डिल्यभक्तिसूत्रादि ग्रन्थेषु, तस्योपरि रजनीश महोदयस्य व्याख्यानेषु, छान्दोग्योपनिषदादिषु उपलब्धमस्ति।
संदर्भाः
अयोध्याकुलस्य राजानः
रामायणस्य पात्राणि
बाह्यानुबन्धः योजनीयः
विषयः वर्धनीयः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
5348 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%97 | नाभाग | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5349 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A5%80%E0%A4%B7%E0%A4%83 | अम्बरीषः | सः अयोध्याकुलस्य राजा आसीत्। अम्बरीषः इत्यपि अस्य नाम श्रूयते । इक्ष्वाकुवंशस्य मान्धातृचक्रवर्तिनः राज्ञ्यां बिन्दुमत्यां जनिमलभत । अस्य पुत्रः यवनाश्वनामा । अंबरीषः एकदा यागदीक्षितोऽभवत् । तदा तस्य याज्ञाश्वः नष्टः । अतः एषः शुनश्शेफः इति नामानं ऋषिकुमारं शतेन गवां क्रीतवान् । यागं च समाप्तिमनयत् । ( रामा. बाल. ६१.)
श्रीमद्भागवते उक्तरीत्या एषः नभगस्य पौत्रः, नाभागस्य पुत्रः विष्णोः परमभक्तः । एकदा एकादशीव्रतपरायणस्य एतस्य नियमभङ्गं चिकीर्षुः दुर्वासाः मुनिः द्वादश्यां तिथौ प्रातरेव समागत्य भोजनम् अयाचत, स्नानादिकमनुष्ठितुं नदीं गतो नायातः तिथ्यवसाने समासन्नेऽपि । पारणाकालातिक्रमदोषभीरू राजा तदितरै ऋषिभिरनुज्ञां प्राप्य पारणाप्रतिनिधि जलं प्राश्नात् । तदा तत्रागतः दुर्वासाः अम्बरीषं शशाप । तदैव भक्तपराधीनः महाविष्णुः दुर्वाससं प्रति चक्रायुधं प्रायुङ्त । सुदर्शनचक्रात् आत्मानं रक्षितुं उपायान्तरमनवाप्य अम्बरीषमेव शरणं गतः । एतस्य श्रीमती नाम्नी लोकोत्तरसुन्दरी पुत्री आसीत् । कदाचित् पर्वतः नारदः च श्रीमतीं दृष्ट्वा मोहपरवशौ तां प्राप्तुमुद्युक्तावभवताम् । अम्बरीषः तयोरुपायं न्यवारयत् । तदा निराशावेतौ अम्बरीषं शप्तुमुदयुञ्जाताम् । तावता समागतात् जाज्वल्यमानात् विष्णुचक्राद्भीतौ पलायितौ च । ततोऽम्बरीषः तां स्वक्न्यां विष्णवे प्रादात् ।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5350 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%83 | सिन्धुद्वीपः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
ध्याकुलम्]]
[[वर्गः:अयोचित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
अयोध्याकुलस्य राजानः
सर्वे अपूर्णलेखाः
चित्रं योजनीयम् |
5351 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%B8%E0%A5%8D | अयुतायुस् | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5352 | https://sa.wikipedia.org/wiki/%E0%A4%8B%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%83 | ऋतुपर्णः | सः सूर्यवंशीयः अयोध्याकुलस्य राजा आसीत् । सिन्धुद्वीपः नाम राजा एतस्य पिता । कदाचित् निषधदेशस्य राजा नलः द्यूते पराजितः सन् राज्यभ्रष्टः अस्य आश्रये "बाहुकः" इति नाम्ना किञ्चित्कालम् सारथिः भूत्वा न्यवसत् । दमयन्त्याः पुनः स्वयंवरार्थं नलेन सह कुण्डिनपुरगमनसमये मार्गे नलात् "अश्वहृदयम्" अशिक्षत । । अस्य सारथेः नाम जीवल इति ।
प्राचीन-वंशावली
अयोध्याकुल
बाह्यसम्पर्कतन्तुः
ऋतुपर्णः
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
भारतेतिहाससम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5353 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%83 | सर्वकामः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5354 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%B8%E0%A4%83 | सुदासः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
5355 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%B9 | मित्रसह | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5356 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B6%E0%A5%8D%E0%A4%AE%E0%A4%95%E0%A4%83%20%28%E0%A4%85%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B2%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%BE%29 | अश्मकः (अयोध्याकुलस्य राजा) | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5357 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%82%E0%A4%B2%E0%A4%95 | मूलक | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5358 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%B0%E0%A4%A5%E0%A4%83 | शतरथः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5359 | https://sa.wikipedia.org/wiki/%E0%A4%90%E0%A4%A1%E0%A4%B5%E0%A4%BF%E0%A4%A1%E0%A4%83 | ऐडविडः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5360 | https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B8%E0%A4%B9%20%E0%A5%A7 | विश्वसह १ | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5361 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BF%E0%A4%B2%E0%A5%80%E0%A4%AA%20%E0%A5%A8 | दिलीप २ | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5362 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%98%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%81 | दीर्घबाहु | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5363 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%98%E0%A5%81%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%83 | रघुमहाराजः | सूर्यवंशस्य राजा रघुः खट्वाङ्गः इति राज्ञः पुत्रः । अस्य पुत्रः अजः । रघुः स्वपराक्रमेण समग्रभूमण्डलं जित्वा सङ्गृहीतसम्पदा विश्वजिद्यज्ञं समाचर्य सकलां सम्पत् दानेन विनियोजितवान् । पश्चात् वरतन्तोः शिष्यः कौत्सः स्वगुरुदक्षीनार्थं १४कोटीः सुवर्णनिष्कान् सङ्ग्रहीतुं रघोः निकटम् आगत्य अयाचत । रघुमहाराजः ससन्तोषं स्वागतीकृत्य अर्घ्यपूजाद्रव्यानि मृत्पात्रे संस्थाप्य अतिथिपूजाम् अकरोत् । रघोः स्थितिं दृष्ट्वा आश्चर्यचकितः कौत्सः ते मङ्गलं भवतु अहं गुर्वर्थम् अन्यतः सम्पादयिष्याम् इति उक्तवा प्रस्थितः ।
सुवर्णवृष्टिः
अन्यतः गच्छन्तं कौत्सम् अवरुद्ध्य गघुः मा गच्छतु । दिनसेकस्य अवाशम् अनुगृह्णातु भवतः गुरुदक्षिणाकनकं सम्पाद्य दास्यामि इति आश्वासनं दत्तवान् । अन्येद्युः प्रातः एव कुबेरस्य राजसदने जैत्रयात्रामुदघोषयत् । वार्तां श्रुत्वा भीतः कुबेरः अयोध्यायाः रघोः राजकोशे सुवर्णवृष्टिम् अकरोत् । रघुः कौत्सं तत्रैव नीत्वा सर्वां सम्प्तत् स्वीकर्तुम् उक्तवान् । किन्तु कौत्सः १४कोटिनाणकानि सङ्गृह्य अवशिष्टानि तत्रेव गच्छान् आसीत् । तदा तमाहूय एषा सकला सम्पत् त्वदीया एव अवदत् । किन्तु कौत्सः सद्गुणभूषितं वंशोद्धारकं पुत्रं प्राप्नोतु । अयं प्रदेशः सुवर्णखनिः इति प्रसिद्धिमाप्नोतु । अस्मिन् पुण्यदिने वैशाखशुद्धद्वादश्याम् अत्र यः स्नानं करिष्यति सः पापविमुक्तो भूत्वा विष्णुलोकं गमिष्यति । इति आसिषम् उक्त्वा निर्गतः । पश्चात् रघुः अवशिष्टां सकला सम्पत् कोशे न विनिवेश्य ग्रामस्य विप्रेभ्यः वितीर्णवान् ।
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
न प्राप्तः भाषानुबन्धः
सर्वे अपूर्णलेखाः
सर्वे न प्राप्ताः भाषानुबन्धाः
चित्रं योजनीयम्
भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
5364 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%9C%E0%A4%83 | अजः | अजः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
अयोध्याकुलस्य राजानः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5365 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%83 | रामः | श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः | श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रः ज्येष्ठपुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः (मूर्तरुपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।
जननम्
अयोध्यायाः चक्रवर्ती सम्राट् दशरथः आसीत् । तस्य तिस्रः पत्न्यः आसन् । परं सः दशरथः निपुत्रिकॊ आसीत् ।अतः पुत्रप्राप्त्यर्थं दशरथः पुत्रकामेष्टि यजनं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् । सुमित्रायाः द्वौ पुत्रौ लक्ष्मणः शत्रुघ्नः च तथैव कैकेय्याः भरतः जन्म लब्धवन्तः। चत्वारः बालकाः अतीव बुद्धिमन्तः आसन् । रामः बाल्यादेव शान्तः वीरश्चासीत् । सः सदैव जीवनॆ मर्यादायाः कृतॆ सर्वोच्चस्थानं दत्तवान् अत एव स मर्यादा पुरुषोत्तमः श्रीरामः नाम्ना प्रसिद्धः। तस्य राज्यं न्यायपूर्णं प्रजायाः सदैव हितचिन्तकः आसीत्। अतः सर्वे अद्यापि भारते सुराज्यस्य परिकल्पनां ये कुर्वन्ति तदा रामराज्यस्य विषये वदन्ति । सदैव धर्ममनुचारिणः त्रयः भ्रातरः अपि वसिष्ठ ऋषेः समीपे अधीताः।
अयोध्यां प्रति विश्वामित्रस्यागमनम्
श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये सुबाहु-ताटकादीनां पीडां सोढुम् अशक्तः विश्वामित्रः एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं रामलक्ष्मणयोः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु वसिष्ठस्य सूचनानुसारं दशरथः वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः विश्वामित्रेण सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा ऋषिणां यागरक्षणस्य अभूतपूर्वं कार्यमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान् । बहू दीव्यशक्तीनां संग्रहः तैः स्वतपोबलेन कृतः। एतादृशः अभूतपूर्वः साहसः बाल्यादेव तेन कृतः।
सीतास्वयंवरः
राक्षसानां वधानन्तरं महर्षिः विश्वमित्रः रामलक्ष्मणाभ्यां सह जनकमहाराजस्य आस्थाने सीतायाः स्वयंवरः आयोजितः आसीत् तस्मिन् आयोजने संप्राप्तः । यत्र शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । रावणादयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । सर्वैः स्वशक्त्या प्रयत्नः कृतः । परं सर्वे पराजिताः । तदा विश्वामित्रस्य आदेशेन श्रीरामः यावत् शिवधनुषं उत्थाय तिष्ठति तावत् शिवधनुषं भयंकरध्वनिना द्विधा विभक्तः भवति। सर्वत्र प्रसन्नतायाः वातावरणं परिदृश्यते,सीता हर्षमुपगता । श्रीरामः विजयं प्राप्तवान् । रामः सीतां परिणीतवान् । तत्रैव लक्ष्मणः भरतः शत्रुघ्नश्च ऊर्मिला आदिभिः कन्याभिः सह परिणीताः। चत्वारो भ्रातरः प्रसन्नतया स्वगृहं अयोध्यां प्रत्यावर्तत । अयोध्यायां रामः सीता च सुखेन वसतः स्म । तस्य मृदुलता,जनसेवायुक्ता भावना,न्यायप्रियतायाः कारणेन सः अयोध्याजनेषु लोकप्रियः संजातः। राजा दशरथः वानप्रस्थं प्रति गम्यमानः आसीत् । अतः सः सर्वं राज्यं रामाय दातुमिच्छति स्म। जनाः अपि प्रसन्नाः अभवन् यतः तेषां प्रियः रामः राजा भविष्यति । तदा रामस्य अन्यौ द्वौ भ्रातरौ स्वमातुः गृहं गतौ आस्ताम् । तदा दुष्टभावनायुक्ता दासी मन्थरा कैकेय्याः मनसि दुष्टविचारान् निक्षिप्तवती । भरतः राजा भवेदिति तथैव रामः चतुर्दशवर्षपर्यन्तं वनं गच्छेत् यतः त्वं दशरथस्य प्रिया अतः त्वं वरान् याच । येन रामस्य कृते वनवासस्य आदेशः प्राप्तः । रामः पितुरादेशं मत्वा चतुर्दशवर्ष पर्यन्तं वनम् अगच्छत्।
भार्गवरामेण सह मेलनम्
सीतास्वयंवरानन्तरं श्रीरामः अयोध्यां प्रतिनिवर्तमानः आसीत् । मार्गे भार्गवरामस्य मेलनमभूत् । भार्गवरामः कोपेन श्रीरामेण सह योद्धुम् उद्युक्तः । श्रीरामः तेन सह युद्धं कृत्वा तं जितवान् । सन्तुष्टः भार्गवरामः श्रीरामाय वैष्णवधनुः दत्तवान् ।
पितृवाक्यपरिपालनम्
मन्थरायाः दुष्प्रेरणया कैकेयी पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय भरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । दशरथः तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । सीता लक्ष्मणश्च तम् अनुसृतवन्तौ । जगति एतादृशमुदाहरणं नैव दृश्यते यत् भ्राता भ्रातुः कृते वनं गतः। एषा वार्ता भरतेन गृहं प्रत्यागते सति श्रुता, तदा सः रामं प्रत्यानेतुमुद्यतः बभूव । भरतेन बहू आग्रहः रामाय कृतः, परं वचनपरिपालकः आज्ञाधारकश्च श्रीरामः भरतस्य वचनं न स्वीकरोति । तदा भरतः रामस्य पादुकां गृहीत्वा एव प्रत्यागच्छति । रामः परिवारजनानां प्रत्यागमनकारणात् ततः दूरं गतः ।
सीताहरणम्
वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणेन सीतायाः अपहरणं कृतम् । रावणः दैत्यराजः लंकायाः अधिपतिरासीत् । रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता । सः मायावी मृगः रावणस्य मातुलः आसीत् ।
तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति । रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति । सीता लक्ष्मणः च यदा कुटीरे आस्ताम् । तदा मारीचः रामं बहुदूरं नीतवान् । समये प्राप्ते रामेण शरसंधानं कृतम् । मारीचः उच्चैः - हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्ताग्रस्ता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति । लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति । अन्ततः लक्ष्मणः राममानेतुं गच्छति । गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति । सा तथैवाचरति । येन रावणः सीतामपहरति ।
हनूमत्सुग्रीवयोः मेलनम्
रामः स्वभ्राता लक्ष्मणेन सह सीता शोधाय इतस्ततः परिभ्रमन् आसीत्, तदा मार्गे जटायोः रावणेन सह युद्धः तथैव मरणं , ततः अग्रे किष्किन्धागमनानन्तरं तत्र हनुमतः परिचयः सुग्रीवेण सह मैत्री जाता । सुग्रीवस्य भ्रात्रा बालिना सह युद्धं कृत्वा बालेः मृत्युः सुग्रीवस्य राज्यं प्रत्यर्पितः। हनुमान् रामस्य अन्योन्यः भक्तः संजातः । यः स्वकीयं जीवनं रामाय प्रत्यर्पितवान् । अनन्तरं हनुमता समुद्रतरणं कृत्वा सीतायाः परिशोधः , लंकादाहनम् ,रामाय सूचना प्रदानम्, युद्धस्य सज्जता , सेतुनिर्माणम् , लंकागमनम् इत्यादि वर्णनं रामायणे विशदतया वर्णितम् ।
रावणवधः
सीतापहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन सीतान्वेषणकार्यमारब्धवान् । हनूमता श्रीलङ्कायां सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् । दुष्टात्मा रावणस्य विनाशः जातः । सीतायाः मुक्तिः अयोध्यायां रामस्य राज्याभिषेकः अभवत् ।
संक्षिप्तं रामायणम्-
आदौ रामतपोवनादिगमनं,हत्वा मृगं कांचनम्,
वैदेहिहरणं जटायुमरणं,सुग्रीवसम्भाषणम्।
बालिनिग्रहणं समुद्रतरणं,लंकापुरी दाहनम्,
पश्चाद्रावणकुम्भकर्णमरणं,एतद्धि रामायणम्॥
रामस्तुतिः
रामो राजमणिः सदा विजयते,रामं रमेशं भजे,
रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं,रामस्य दासोस्म्यहम्,
रामे चित्तलयो सदा भवतु मे,भोःराम मामुद्धर॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
प्राचीनवंशावली
अयोध्याकुलम्
वीथिका
बाह्यानुबन्धः
श्री राम हैं ‘मैनेजमेंट गुरु’
प्रोफ़ेसर महावीर सरन जैन का आलेख : राम साध्य हैं, साधन नहीं
रामायणस्य पात्राणि
सारमञ्जूषा योजनीया
अयोध्याकुलस्य राजानः |
5366 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%81%E0%A4%B6%E0%A4%83 | कुशः | श्रीरामचन्द्रेण सीतायां जातयमलयोः ज्येष्ठः कुशः । कनीयः लवः । वाल्मीकिमुनेः आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । कुशः इति पदस्य अर्थः दर्भा इति किञ्चिन पवित्रतृणविशेषः । वाल्मीकिः तपसः शक्त्या दर्भां सुमन्त्र्य शिशुं सृष्टवान् । अतः अस्य कुशः इति नाम इति प्रतीतिः अस्ति ।
जन्मकथा
श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण सीता तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नाम कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।
शिक्षा पराक्रमः च
वाल्मीकिः कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् वाल्मीकिः स्वरचितं २४सहस्रश्लोकयुक्तं रामायणम् एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । शत्रुघ्नः तं रथे संस्थाप्य अश्वं मोचयित्वा अयोध्यभिमुखं प्रस्थितः । सहसा एतम् उदन्तं श्रुत्वा कुशः सधनुर्बाणः शत्रुघ्नं विरुद्ध्य युद्धमकरोत् । युद्धे शत्रुघ्नः लवेन पराजितः मूर्छितः च । कुशः लवं विमोचयित्वा अश्वमपि स्वीकृत्य निर्गतः । वार्तामिमां श्रुत्वा अयोध्यावासी श्रीरामः सेनासहितं लक्ष्मणं तत्र प्रेषितवान् । बालयोः पाराक्रमस्य पुरतः सोऽपि मूर्छितः, पश्चादागतः भरतः अपि तामेव दशाम् अवाप्नोत् । अन्ते बालाभ्यां सह योद्धुम् आगतः श्रीरामः तौ दृष्ट्वा अन्तरङ्गस्नेहात् शस्त्रप्रयोगं कर्तुं न शक्तवान् । किन्तु बालौ तम् आक्रम्य प्रयुध्य रामं मूर्छितम् अकुर्वन् । अत्रान्तरे यज्ञार्थं वरुणलोकं गतः वाल्मीकिः आगत्य वार्तां श्रुत्वा सहसा रणरङ्गम् आगतवान् । लवकुशयोः समरकौशलं दृष्टवा सन्तुष्टः तौ प्राशंसत् । स्वामृतदृष्ट्या रामादीन् सर्वान् सचेष्टितान् अकरोत् । पश्चात् सीतां कुशलवौ च रामाय समर्पितवान् । श्रीरामः मुनिं वाल्मीकिं नमस्कृत्य बहुप्रशंस्य सपुत्रकलत्रं परिवारेण सह आयोध्यमागत्य अश्वमेधयज्ञं समापयत् ।
बाह्यसम्पर्कतन्तुः
लवकुशौ
अयोध्याकुलस्य राजानः
रामायणस्य पात्राणि
विषयः वर्धनीयः
सारमञ्जूषा योजनीया |
5367 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A4%E0%A4%BF%E0%A4%A5%E0%A4%BF%E0%A4%83%20%28%E0%A4%85%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%B2%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%BE%29 | अतिथिः (अयोध्याकुलस्य राजा) | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
5368 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A7 | निषध | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5369 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%AD%E0%A4%BE%E0%A4%83 | नभाः | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
प्राचीनराजाः
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
5370 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B0%E0%A5%80%E0%A4%95 | पुण्डरीक | सः अयोध्याकुलस्य राजा आसीत्।
प्राचीन-वंशावली
अयोध्याकुल
भारतेतिहाससम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |